श्लोक 1
मात्स्य-माहिष-वाराह-पिशितामक-मूलकम् ।
माष-सूप-दधि-क्षीर-शुक्तेक्षु-रस-फाणितम् ॥ १ ॥
श्लोक 2
मत्स्य-माहिष-वाराह- अवाक्-शय्यां च भजतो द्विषतो दन्त-धावनम् ।
धूम-च्छर्दन-गण्डूषान् उचितं च सिरा-व्यधम् ॥ २ ॥
श्लोक 3
क्रुद्धाः श्लेष्मोल्बणा दोषाः कुर्वन्त्य् अन्तर् मुखं गदान् ।
तत्र खण्डौष्ठ इत्य् उक्तो वातेनौष्ठो द्वि-धा कृतः ॥ ३ ॥
श्लोक 4
कुर्वन्त्य् अन्तर्-मुखे गदान् ओष्ठ-कोपे तु पवनात् स्तब्धाव् ओष्ठौ महा-रुजौ ।
दाल्येते परिपाट्येते परुषासित-कर्कशौ ॥ ४ ॥
श्लोक 5
पित्तात् तीक्ष्ण-सहौ पीतौ सर्षपाकृतिभिश् चितौ ।
पिटिकाभिर् बहु-क्लेदाव् आशु-पाकौ कफात् पुनः ॥ ५ ॥
श्लोक 6
पिटिकाभिर् महा-क्लेदाव् शीता-सहौ गुरू शूनौ स-वर्ण-पिटिकाचितौ ।
संनिपाताद् अनेकाभौ दुर्-गन्धास्राव-पिच्छिलौ ॥ ६ ॥
श्लोक 7
दुर्-गन्ध-स्राव-पिच्छिलौ दुर्-गन्धाव् अति-पिच्छिलौ अ-कस्मान् म्लान-संशून-रुजौ विषम-पाकिनौ ।
रक्तोपसृष्टौ रुधिरं स्रवतः शोणित-प्रभौ ॥ ७ ॥
श्लोक 8
खर्जूर-सदृशं चात्र क्षीणे रक्ते ऽर्बुदं भवेत् ।
मांस-पिण्डोपमौ मांसात् स्यातां मूर्छत्-कृमी क्रमात् ॥ ८ ॥
श्लोक 9
तैलाभ-श्वयथु-क्लेदौ स-कण्ड्वौ मेदसा मृदू ।
क्षत-जाव् अवदीर्येते पाट्येते चा-सकृत् पुनः ॥ ९ ॥
श्लोक 10
स-कण्डू मेदसा मृदू पाट्येते वा-सकृत् पुनः ग्रथितौ च पुनः स्यातां कण्डूलौ दशन-च्छदौ ।
जल-बुद्बुद-वद् वात-कफाद् ओष्ठे जलार्बुदम् ॥ १० ॥
श्लोक 11
गण्डालजी स्थिरः शोफो गण्डे दाह-ज्वरान्वितः ।
वाताद् उष्ण-सहा दन्ताः शीत-स्पर्शे ऽधिक-व्यथाः ॥ ११ ॥
श्लोक 12
दाल्यन्त इव शूलेन शीताख्यो दालनश् च सः ।
दन्त-हर्षे प्रवाताम्ल-शीत-भक्षा-क्षमा द्वि-जाः ॥ १२ ॥
श्लोक 13
शीत-भक्ष्या-सहा द्वि-जाः भवन्त्य् अम्लाशनेनेव स-रुजाश् चलिता इव ।
दन्त-भेदे द्वि-जास् तोद-भेद-रुक्-स्फुटनान्विताः ॥ १३ ॥
श्लोक 14
स-रुजश् चलिता इव भेद-रुक्-वेदनान्विताः चालश् चलद्भिर् दशनैर् भक्षणाद् अधिक-व्यथैः ।
करालस् तु करालानां दशनानां समुद्गमः ॥ १४ ॥
श्लोक 15
दशनानां समुद्भवः दशनानां समुद्भवे दन्तो ऽधिको ऽधि-दन्ताख्यः स चोक्तः खलु वर्धनः ।
जायमाने ऽति-रुग् दन्ते जाते तत्र तु शाम्यति ॥ १५ ॥
श्लोक 16
जायते जायमाने ऽति रुग् जाते तत्र शाम्यति अ-धावनान् मलो दन्ते कफो वा वात-शोषितः ।
पूति-गन्धिः स्थिरी-भूतः शर्करा साप्य् उपेक्षिता ॥ १६ ॥
श्लोक 17
पूति-गन्धः स्थिरी-भूतः शर्करा सो ऽप्य् उपेक्षितः शातयत्य् अणु-शो दन्तात् कपालानि कपालिका ।
श्यावः श्याव-त्वम् आयातो रक्त-पित्तानिलैर् द्वि-जः ॥ १७ ॥
श्लोक 18
शातयत्य् अणु-शो दन्त- कपालानि कपालिका श्यावः श्याव-त्वम् आयाता रक्त-पित्तानिलैर् द्वि-जाः स-मूलं दन्तम् आश्रित्य दोषैर् उल्बण-मारुतैः ।
शोषिते मज्ज्ञि सुषिरे दन्ते ऽन्न-मल-पूरिते ॥ १८ ॥
श्लोक 19
पूति-त्वात् कृमयः सूक्ष्मा जायन्ते जायते ततः ।
अ-हेतु-तीव्रार्ति-शमः स-संरम्भो ऽसितश् चलः ॥ १९ ॥
श्लोक 20
प्रलूनः पूय-रक्त-स्रुत् स चोक्तः कृमि-दन्तकः ।
श्लेष्म-रक्तेन पूतीनि वहन्त्य् अस्रम् अ-हेतुकम् ॥ २० ॥
श्लोक 21
प्रभूत-पूय-रक्त-स्रुत् शीर्यन्ते दन्त-मांसानि मृदु-क्लिन्नासितानि च ।
शीतादो ऽसाव् उप-कुशः पाकः पित्तासृग्-उद्भवः ॥ २१ ॥
श्लोक 22
दन्त-मांसानि दह्यन्ते रक्तान्य् उत्सेध-वन्त्य् अतः ।
कण्डू-मन्ति स्रवन्त्य् अस्रम् आध्मायन्ते ऽसृजि स्थिते ॥ २२ ॥
श्लोक 23
चला मन्द-रुजो दन्ताः पूति वक्त्रं च जायते ।
दन्तयोस् त्रिषु वा शोफो बदरास्थि-निभो घनः ॥ २३ ॥
श्लोक 24
कफास्रात् तीव्र-रुक् शीघ्रं पच्यते दन्त-पुप्पुटः ।
दन्त-मांसे मलैः सास्रैर् बाह्यान्तः श्वयथुर् गुरुः ॥ २४ ॥
श्लोक 25
स-रुग्-दाहः स्रवेद् भिन्नः पूयास्रं दन्त-विद्रधिः ।
श्वयथुर् दन्त-मूलेषु रुजा-वान् पित्त-रक्त-जः ॥ २५ ॥
श्लोक 26
पूयास्रे दन्त-विद्रधिः लाला-स्रावी स सुषिरो दन्त-मांस-प्रशातनः ।
स संनिपाताज् ज्वर-वान् स-पूय-रुधिर-स्रुतिः ॥ २६ ॥
श्लोक 27
स संनिपात-ज्वर-वान् महा-सुषिर इत्य् उक्तो विशीर्ण-द्वि-ज-बन्धनः ।
दन्तान्ते कील-वच् छोफो हनु-कर्ण-रुजा-करः ॥ २७ ॥
श्लोक 28
विशीर्ण-रद-बन्धनः प्रतिहन्त्य् अभ्यवहृतिम् श्लेष्मणा सो ऽधि-मांसकः ।
घृष्टेषु दन्त-मांसेषु संरम्भो जायते महान् ॥ २८ ॥
श्लोक 29
यस्मिंश् चलन्ति दन्ताश् च स विदर्भो ऽभिघात-जः ।
दन्त-मांसाश्रितान् रोगान् यः साध्यान् अप्य् उपेक्षते ॥ २९ ॥
श्लोक 30
स वैदर्भो ऽभिघात-जः अन्तस् तस्यास्रवन् दोषः सूक्ष्मां संजनयेद् गतिम् ।
पूयं मुहुः सा स्रवति त्वङ्-मांसास्थि-प्रभेदिनी ॥ ३० ॥
श्लोक 31
ताः पुनः पञ्च विज्ञेया लक्षणैः स्वैर् यथोदितैः ।
शाक-पत्त्र-खरा सुप्ता स्फुटिता वात-दूषिता ॥ ३१ ॥
श्लोक 32
जिह्वा पित्तात् स-दाहोषा रक्तैर् मांसाङ्कुरैश् चिता ।
शाल्मली-कण्टकाभैस् तु कफेन बहला गुरुः ॥ ३२ ॥
श्लोक 33
कफेन बहुला गुरुः कफ-पित्ताद् अधः शोफो जिह्वा-स्तम्भ-कृद् उन्नतः ।
मत्स्य-गन्धिर् भवेत् पक्वः सो ऽलसो मांस-शातनः ॥ ३३ ॥
श्लोक 34
प्रबन्धने ऽधो जिह्वायाः शोफो जिह्वाग्र-संनिभः ।
साङ्कुरः कफ-पित्तास्रैर् लालोषा-स्तम्भ-वान् खरः ॥ ३४ ॥
श्लोक 35
प्रलम्बनो ऽधो जिह्वायाः अधि-जिह्वः स-रुक्-कण्डुर् वाक्याहार-विघात-कृत् ।
तादृग् एवोप-जिह्वस् तु जिह्वाया उपरि स्थितः ॥ ३५ ॥
श्लोक 36
तालु-मांसे ऽनिलाद् दुष्टे पिटिकाः स-रुजः खराः ।
बह्व्यो घनाः स्राव-युतास् तास् तालु-पिटिकाः स्मृताः ॥ ३६ ॥
श्लोक 37
पिटिकाः स-रुजाः खराः बह्व्यो घनाः स्राव-युक्तास् तालु-मूले कफात् सास्रान् मत्स्य-वस्ति-निभो मृदुः ।
प्रलम्बः पिच्छिलः शोफो नासयाहारम् ईरयन् ॥ ३७ ॥
श्लोक 38
कण्ठोपरोध-तृट्-कास-वमि-कृत् गल-शुण्डिका ।
तालु-मध्ये नि-रुङ् मांसं संहतं तालु-संहतिः ॥ ३८ ॥
श्लोक 39
पद्माकृतिस् तालु-मध्ये रक्ताच् छ्वयथुर् अर्बुदम् ।
कच्छपः कच्छपाकारश् चिर-वृद्धिः कफाद् अ-रुक् ॥ ३९ ॥
श्लोक 40
कोलाभः श्लेष्म-मेदोभ्यां पुप्पुटो नी-रुजः स्थिरः ।
पित्तेन पाकः पाकाख्यः पूयास्रावी महा-रुजः ॥ ४० ॥
श्लोक 41
वात-पित्त-ज्वरायासैस् तालु-शोषस् तद्-आह्वयः ।
जिह्वा-प्रबन्ध-जाः कण्ठे दारुणा मार्ग-रोधिनः ॥ ४१ ॥
श्लोक 42
मांसाङ्कुराः शीघ्र-चया रोहिणी शीघ्र-कारिणी ।
कण्ठास्य-शोष-कृद् वातात् सा हनु-श्रोत्र-रुक्-करी ॥ ४२ ॥
श्लोक 43
रोहिणी साशु-कारिणी पित्ताज् ज्वरोषा-तृण्-मोह-कण्ठ-धूमायनान्विता ।
क्षिप्र-जा क्षिप्र-पाकाति-रागिणी स्पर्शना-सहा ॥ ४३ ॥
श्लोक 44
कफेन पिच्छिला पाण्डुर् असृजा स्फोटकाचिता ।
तप्ताङ्गार-निभा कर्ण-रुक्-करी पित्त-जाकृतिः ॥ ४४ ॥
श्लोक 45
गम्भीर-पाका निचयात् सर्व-लिङ्ग-समन्विता ।
दोषैः कफोल्बणैः शोफः कोल-वद् ग्रथितोन्नतः ॥ ४५ ॥
श्लोक 46
शूक-कण्टक-वत् कण्ठे शालूको मार्ग-रोधनः ।
वृन्दो वृत्तोन्नतो दाह-ज्वर-कृद् गल-पार्श्व-गः ॥ ४६ ॥
श्लोक 47
हनु-संध्य्-आश्रितः कण्ठे कार्पासी-फल-संनिभः ।
पिच्छिलो मन्द-रुक् शोफः कठिनस् तुण्डिकेरिका ॥ ४७ ॥
श्लोक 48
कर्पासी-फल-संनिभः बाह्यान्तः श्वयथुर् घोरो गल-मार्गार्गलोपमः ।
गलौघो मूर्ध-गुरु-ता-तन्द्रा-लाला-ज्वर-प्रदः ॥ ४८ ॥
श्लोक 49
वलयं नाति-रुक् शोफस् तद्-वद् एवायतोन्नतः ।
मांस-कीलो गले दोषैर् एको ऽनेको ऽथ-वा ऽल्प-रुक् ॥ ४९ ॥
श्लोक 50
कृच्छ्रोच्छ्वासाभ्यवहृतिः पृथु-मूलो गिलायुकः ।
भूरि-मांसाङ्कुर-वृता तीव्र-तृड्-ज्वर-मूर्ध-रुक् ॥ ५० ॥
श्लोक 51
पृथु-मूलो गलायुकः शत-घ्नी निचिता वर्तिः शत-घ्नीवाति-रुक्-करी ।
व्याप्त-सर्व-गलः शीघ्र-जन्म-पाको महा-रुजः ॥ ५१ ॥
श्लोक 52
शत-घ्नी-निचितेवान्तः शत-घ्नी चाति-रुक्-करी पूति-पूय-निभ-स्रावी श्वयथुर् गल-विद्रधिः ।
जिह्वावसाने कण्ठादाव् अ-पाकं श्वयथुं मलाः ॥ ५२ ॥
श्लोक 53
जनयन्ति स्थिरं रक्तं नी-रुजं तद् गलार्बुदम् ॥ ५३अब् ॥
नी-रुजं तं गलार्बुदम् पवन-श्लेष्म-मेदोभिर् गल-गण्डो भवेद् बहिः ॥ ५३च्द् ॥
वर्धमानः स कालेन मुष्क-वल् लम्बते ऽति-रुक् ॥ ५३एf ॥
श्लोक 54
मुष्क-वल् लम्बते नि-रुक् कृष्णो ऽरुणो वा तोदाढ्यः स वातात् कृष्ण-राजि-मान् ।
वृद्धस् तालु-गले शोषं कुर्याच् च वि-रसास्य-ताम् ॥ ५४ ॥
श्लोक 55
स्थिरः स-वर्णः कण्डू-मान् शीत-स्पर्शो गुरुः कफात् ।
वृद्धस् तालु-गले लेपं कुर्याच् च मधुरास्य-ताम् ॥ ५५ ॥
श्लोक 56
वृद्धस् तालु-गले शोफं मेदसः श्लेष्म-वद् धानि-वृद्ध्योः सो ऽनुविधीयते ।
देहं वृद्धश् च कुरुते गले शब्दं स्वरे ऽल्प-ताम् ॥ ५६ ॥
श्लोक 57
श्लेष्म-रुद्धानिल-गतिः शुष्क-कण्ठो हत-स्वरः ।
ताम्यन् प्रसक्तं श्वसिति येन स स्वर-हानिलात् ॥ ५७ ॥
श्लोक 58
करोति वदनस्यान्तर् व्रणान् सर्व-सरो ऽनिलः ।
संचारिणो ऽरुणान् रूक्षान् ओष्ठौ ताम्रौ चल-त्वचौ ॥ ५८ ॥
श्लोक 59
जिह्वा शीता-सहा गुर्वी स्फुटिता कण्टकाचिता ।
विवृणोति च कृच्छ्रेण मुखं पाको मुखस्य सः ॥ ५९ ॥
श्लोक 60
मुखं पाको मुखस्य च अधः प्रतिहतो वायुर् अर्शो-गुल्म-कफादिभिः ।
यात्य् ऊर्ध्वं वक्त्र-दौर्गन्ध्यं कुर्वन्न् ऊर्ध्व-गुदस् तु सः ॥ ६० ॥
श्लोक 61
कुर्वन्न् ऊर्ध्व-गदस् तु सः मुखस्य पित्त-जे पाके दाहोषे तिक्त-वक्त्र-ता ।
क्षारोक्षित-क्षत-समा व्रणास् तद्-वच् च रक्त-जे ॥ ६१ ॥
श्लोक 62
कफ-जे मधुरास्य-त्वं कण्डू-मत्-पिच्छिला व्रणाः ।
अन्तः-कपोलम् आश्रित्य श्याव-पाण्डु कफो ऽर्बुदम् ॥ ६२ ॥
श्लोक 63
श्यावं पाण्डु कफो ऽर्बुदम् कुर्यात् तद् घट्टितं छिन्नं मृदितं च विवर्धते ।
मुख-पाको भवेत् सास्रैः सर्वैः सर्वाकृतिर् मलैः ॥ ६३ ॥
श्लोक 64
कुर्यात् तत् पाटितं छिन्नं कुर्यात् तद् व्यधितं छिन्नं पूत्य्-आस्य-ता च तैर् एव दन्त-काष्ठादि-विद्विषः ।
ओष्ठे गण्डे द्वि-जे मूले जिह्वायां तालुके गले ॥ ६४ ॥
श्लोक 65
वक्त्रे सर्व-त्र चेत्य् उक्ताः पञ्च-सप्ततिर् आमयाः ।
एका-दशैको दश च त्रयो-दश तथा च षट् ॥ ६५ ॥
श्लोक 66
अष्टाव् अष्टा-दशाष्टौ च क्रमात् तेष्व् अन्-उपक्रमाः ।
करालो मांस-रक्तौष्ठाव् अर्बुदानि जलाद् विना ॥ ६६ ॥
श्लोक 67
क्रमाद् एष्व् अन्-उपक्रमाः कच्छपस् तालु-पिटिका गलौघः सुषिरो महान् ।
स्वर-घ्नोर्ध्व-गुद-श्याव-शत-घ्नी-वलयालसाः ॥ ६७ ॥
श्लोक 68
स्वर-घ्नोर्ध्व-गद-श्याव- नाड्य्-ओष्ठ-कोपौ निचयाद् रक्तात् सर्वैश् च रोहिणी ।
दशने स्फुटिते दन्त-भेदः पक्वोप-जिह्विका ॥ ६८ ॥
श्लोक 69
गल-गण्डः स्वर-भ्रंशी कृच्छ्रोच्छ्वासो ऽति-वत्सरः ।
याप्यस् तु हर्षो भेदश् च शेषाञ् छस्त्रौषधैर् जयेत् ॥ ६९ ॥
गल-गण्डः स्वर-भ्रंशः