अष्टाङ्गहृदयम्/चिकित्सास्थानम् Adhyaay 20

श्लोक 1

कुष्ठाद् अपि बीभत्सं यच् छीघ्र-तरं च यात्य् अ-साध्य-त्वम् ।
श्वित्रम् अतस् तच्-छान्त्यै यतेत दीप्ते यथा भवने ॥ १ ॥

श्लोक 2

संशोधनं विशेषात् प्रयोजयेत् पूर्वम् एव देहस्य ।
श्वित्रे स्रंसनम् अग्र्यं मलयू-रस इष्यते स-गुडः ॥ २ ॥

श्लोक 3

तं पीत्वाभ्यक्त-तनुर् यथा-बलं सूर्य-पाद-संतापम् ।
सेवेत विरिक्त-तनुर् त्र्य्-अहं पिपासुः पिबेत् पेयाम् ॥ ३ ॥

श्लोक 4

श्वित्रे ऽङ्गे ये स्फोटा जायन्ते कण्टकेन तान् भिन्द्यात् ।
स्फोटेषु निःस्रुतेषु प्रातः प्रातः पिबेत् त्रि-दिनम् ॥ ४ ॥

श्लोक 5

प्रातः प्रातः पिबेत् पक्षम् मलयूम् असनं प्रियङ्गुं शतपुष्पां चाम्भसा समुत्क्वाथ्य ।
पालाशं वा क्षारं यथा-बलं फाणितोपेतम् ॥ ५ ॥

श्लोक 6

फल्ग्व्-अक्ष-वृक्ष-वल्कल-निर्यूहेणेन्दुराजिका-कल्कम् ।
पीत्वोष्ण-स्थितस्य जाते स्फोटे तक्रेण भोजनं निर्-लवणम् ॥ ६ ॥

श्लोक 7

गव्यं मूत्रं चित्रक-व्योष-युक्तं सर्पिः-कुम्भे स्थापितं क्षौद्र-मिश्रम् ।
पक्षाद् ऊर्ध्वं श्वित्रिणा पेयम् एतत् कार्यं चास्मै कुष्ठ-दिष्टं विधानम् ॥ ७ ॥

श्लोक 8

पक्षाद् ऊर्ध्वं श्वित्रिभिः पेयम् एतत् मार्कवम् अथ-वा स्वादेद् भृष्टं तैलेन लोह-पात्र-स्थम् ।
बीजक-शृतं च दुग्धं तद् अनु पिबेच् छ्वित्र-नाशाय ॥ ८ ॥

श्लोक 9

पूतीकार्क-व्याधिघात-स्नुहीनां मूत्रे पिष्टाः पल्लवा जाति-जाश् च ।
घ्नन्त्य् आलेपाच् छ्वित्र-दुर्-नाम-दद्रू-पामा-कोठान् दुष्ट-नाडी-व्रणांश् च ॥ ९ ॥

श्लोक 10

द्वैपं दग्धं चर्म मातङ्ग-जं वा श्वित्रे लेपस् तैल-युक्तो वरिष्ठः ।
पूतिः कीटो राजवृक्षोद्भवेन क्षारेणाक्तः श्वित्रम् एको ऽपि हन्ति ॥ १० ॥

श्लोक 11

क्षारेणाक्तः श्वित्रम् एको निहन्ति रात्रौ गो-मूत्रे वासितान् जर्जराङ्गान् अह्नि च्छायायां शोषयेत् स्फोट-हेतून् ।
एवं वारांस् त्रींस् तैस् ततः श्लक्ष्ण-पिष्टैः स्नुह्याः क्षीरेण श्वित्र-नाशाय लेपः ॥ ११ ॥

श्लोक 12

अक्ष-तैल-द्रुता लेपः कृष्ण-सर्पोद्भवा मषी ।
शिखि-पित्तं तथा दग्धं ह्रीवेरं वा तद्-आप्लुतम् ॥ १२ ॥

श्लोक 13

अक्ष-तैल-कृतो लेपः अक्ष-तैल-द्रुतो लेपः कुडवो ऽवल्गुज-बीजाद् धरिताल-चतुर्-भाग-संमिश्रः ।
मूत्रेण गवां पिष्टः स-वर्ण-करणं परं श्वित्रे ॥ १३ ॥

श्लोक 14

क्षारे सु-दग्धे गज-लिण्ड-जे च गजस्य मूत्रेण परिस्रुते च ।
द्रोण-प्रमाणे दश-भाग-युक्तं दत्त्वा पचेद् बीजम् अवल्गुजानाम् ॥ १४ ॥

श्लोक 15

क्षारे सु-दग्धे गज-लिण्ड-जे वा गजस्य मूत्रे च परिस्रुते च श्वित्रं जयेच् चिक्कण-तां गतेन तेन प्रलिम्पन् बहु-शः प्रघृष्टं ।
कुष्ठं मषं वा तिल-कालकं वा यद् वा व्रणे स्याद् अधि-मांस-जातम् ॥ १५ ॥

श्लोक 16

भल्लातकं द्वीपि-सुधार्क-मूलं गुञ्जा-फलं त्र्य्-ऊषण-शङ्ख-चूर्णम् ।
तुत्थं स-कुष्ठं लवणानि पञ्च क्षार-द्वयं लाङ्गलिकां च पक्त्वा ॥ १६ ॥

श्लोक 17

भल्लातक-द्वीपि-सुधार्क-मूल -गुञ्जा-फल-त्र्य्-ऊषण-शङ्ख-चूर्णम् स्नुग्-अर्क-दुग्धे घनम् आयस-स्थं शलाकया तद् विदधीत लेपम् ।
कुष्ठे किलासे तिल-कालकेषु मषेषु दुर्-नामसु चर्म-कीले ॥ १७ ॥

श्लोक 18

शुद्ध्या शोणित-मोक्षैर् विरूक्षणैर् भक्षणैश् च सक्तूनाम् ।
श्वित्रं कस्य-चिद् एव प्रशाम्यति क्षीण-पापस्य ॥ १८ ॥

श्लोक 19

स्निग्ध-स्विन्ने गुड-क्षीर-मत्स्याद्यैः कृमिणोदरे ।
उत्क्लेशित-कृमि-कफे शर्वरीं तां सुखोषिते ॥ १९ ॥

श्लोक 20

सुरसादि-गणं मूत्रे क्वाथयित्वार्ध-वारिणि ।
तं कषायं कणा-गाल-कृमिजित्-कल्क-योजितम् ॥ २० ॥

श्लोक 21

स-तैल-स्वर्जिका-क्षारं युञ्ज्याद् वस्तिं ततो ऽहनि ।
तस्मिन्न् एव निरूढं तं पाययेत विरेचनम् ॥ २१ ॥

श्लोक 22

त्रिवृत्-कल्कं फल-कणा-कषायालोडितं ततः ।
ऊर्ध्वाधः-शोधिते कुर्यात् पञ्च-कोल-युतं क्रमम् ॥ २२ ॥

श्लोक 23

कटु-तिक्त-कषायाणां कषायैः परिषेचनम् ।
काले विडङ्ग-तैलेन ततस् तम् अनुवासयेत् ॥ २३ ॥

श्लोक 24

कषायैः परिषेचयेत् शिरो-रोग-निषेधोक्तम् आचरेन् मूर्ध-गेष्व् अनु ।
उद्रिक्त-तिक्त-कटुकम् अल्प-स्नेहं च भोजनम् ॥ २४ ॥

श्लोक 25

अल्प-स्नेहं च भोजयेत् विडङ्ग-कृष्णा-मरिच-पिप्पली-मूल-शिग्रुभिः ।
पिबेत् स-स्वर्जिका-क्षारैर् यवागूं तक्र-साधिताम् ॥ २५ ॥

श्लोक 26

विडङ्ग-कृष्णा-मधुक पिबेत् स-स्वर्जिका-क्षारां रसं शिरीष-किणिही-पारिभद्रक-केम्बुकात् ।
पलाश-बीज-पत्तूर-पूतिकाद् वा पृथक् पिबेत् ॥ २६ ॥

श्लोक 27

स-क्षौद्रं सुरसादीन् वा लिह्यात् क्षौद्र-युतान् पृथक् ।
शत-कृत्वो ऽश्व-विट्-चूर्णं विडङ्ग-क्वाथ-भावितम् ॥ २७ ॥

श्लोक 28

कृमि-मान् मधुना लिह्याद् भावितं वा वरा-रसैः ।
शिरो-गतेषु कृमिषु चूर्णं प्रधमनं च तत् ॥ २८ ॥

श्लोक 29

आखुकर्णी-किसलयैः सु-पिष्टैः पिष्ट-मिश्रितैः ।
पक्त्वा पूपलिकां खादेद् धान्याम्लं च पिबेद् अनु ॥ २९ ॥

श्लोक 30

आखुपर्णी-किसलयैः स-पञ्च-कोल-लवणम् अ-सान्द्रं तक्रम् एव वा ।
नीप-मार्कव-निर्गुण्डी-पल्लवेष्व् अप्य् अयं विधिः ॥ ३० ॥

श्लोक 31

निम्बापामार्ग-निर्गुण्डी- विडङ्ग-चूर्ण-मिश्रैर् वा पिष्टैर् भक्ष्यान् प्रकल्पयेत् ।
विडङ्ग-तण्डुलैर् युक्तम् अर्धांशैर् आतपे स्थितम् ॥ ३१ ॥

श्लोक 32

अर्धांशैर् आतप-स्थितम् दिनम् आरुष्करं तैलं पाने वस्तौ च योजयेत् ।
सुराह्व-सरल-स्नेहं पृथग् एवं च कल्पयेत् ॥ ३२ ॥

श्लोक 33

पुरीष-जेषु सु-तरां दद्याद् वस्ति-विरेचने ।
शिरो-विरेकं वमनं शमनं कफ-जन्मसु ॥ ३३ ॥

श्लोक 34

रक्त-जानां प्रतीकारं कुर्यात् कुष्ठ-चिकित्सितात् ।
इन्द्र-लुप्त-विधिश् चात्र विधेयो रोम-भोजिषु ॥ ३४ ॥

श्लोक 35

क्षीराणि मांसानि घृतं गुडं च दधीनि शाकानि च पर्ण-वन्ति ।
समासतो ऽम्लान् मधुरान् रसांश् च कृमीञ् जिहासुः परिवर्जयेत ॥ ३५ ॥