श्लोक 1
अथातः अक्षिपाकपिल्लप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
शुष्काक्षिपाके वाताभिष्यन्दविहितं सर्पिः पिबेत्।
कुलीररसक्षीरसिद्धं वा॥
श्लोक 3
दार्वीप्रपौण्डरीकयोः क्वाथ आश्च्योतनमक्षिपाकघ्नम्।
मञ्जिष्ठामधुककालानुसारीसारिवालोध्रलाक्षाप्रपौण्डरीकाणामक्षिपाकरक्तराजीघ्नम्।
मृद्वीकाचन्दनकल्कस्तण्डुलाम्बुपरिस्रुतो मधुमानश्रुदाहहरः।
लोध्रकोरण्डकपुष्पक्वाथो वेदनाहरः॥
श्लोक 4
अणुतैलं नस्यम्।
सारिवाविदारीबलामधुकोत्पलद्राक्षाटरूषकजीवकचन्दनैर्जाङ्गलरसक्षीरोपेतं तैलं साधितं नावनात् सर्वोर्ध्वजत्रुजान् गदान् वातपित्तोत्तरान् निहन्ति॥
श्लोक 5
स्न्गिधाश्चात्र तर्पणपुटपाकाः।
वातपित्तान्यतरोद्रेकतश्च यथास्वमभिष्यन्दविधिः॥
श्लोक 6
आदर्शमण्डले घृताक्तकेशान् घृष्ट्वान्तर्धूमं दहेत् सा मषी घृतपिष्टायसभाजनस्थिताक्षिपाकमञ्जना दपहरति॥
श्लोक 7
मञ्जिष्ठाफलत्रिककटङ्कटेरीनिष्क्वाथे लोहस्रोतोञ्जनचूर्णमापिण्डीभावात् पचेत्।
एतच्चूर्णाञ्जनमभयं दाहोषारागाश्रुहरम्॥
श्लोक 8
ताम्ररजस्सैर्यकपुष्पपुण्ड्राह्वमधुककालानुसारीसारिवाः छागेन पयसा पिष्टाः पिण्डाञ्जनम्॥
श्लोक 9
आनूषवसा शुण्ठीसैन्धवचूर्णान्विता स्नेहाञ्जनम्।
एवमप्यशान्तौ मधुकसिद्धः शताह्वाचूर्णयुक्तो घृतमण्डस्तथा पयो वा बस्तिः॥
श्लोक 10
सशोफाल्पशोफयोस्तु स्निग्धस्विन्नस्यानु सिराविध्येत्॥
श्लोक 11
द्राक्षाभयाक्वाथस्त्रिवृत्कल्कवान् सघृतो विरेकः।
विरिक्तस्य यथादोषोदयमास्थापनम्॥
श्लोक 12
ततः पिण्डस्विन्नशिरसः सर्षपतैलेन सैन्धवयुतेन वा सर्पिषा फणिज्जकयुक्तेन वा अणुतैलेन शिंरोविरेकः।
विरिक्तशिरसोऽनुवासनं क्षीरसर्पिषा धूमपानं च॥
श्लोक 13
शिरोनेत्रं चास्य सुनिषण्णकपत्तूरैरण्डपत्रैः क्षीराम्बुस्विन्नैः संस्वेदयेत्॥
श्लोक 14
घृतभृष्टं लोध्रचूर्णं सूक्ष्मवासस्थमुष्णोदकविमृदितमाश्च्योतनम्।
शुष्काक्षिपाकोक्तं च वेदनाघ्नम्॥
श्लोक 15
एवमशान्तवेदनं सन्धावैरुपक्रमेत्॥
श्लोक 16
शशशिरःकपालं सैन्धवं कांस्ये स्तन्यघृष्टं सन्धावो वेदनाघ्नः।
तद्वत्ताम्रं च लोहे गोमूत्रघृष्टं घृतधूपितम्॥
श्लोक 17
शिग्रुपल्लवरसश्च ताम्रघृष्टो घृतधूपितः।
शङ्खं ताम्रे स्तन्येन घृष्टं घृताभ्यक्तयवशमीपत्रधूपितं घर्षवेदनाघ्नम्॥
श्लोक 18
उदुम्बरफलं लोहे स्तन्यघृष्टं घृताभ्यक्तशमीपत्रधूपितं शूलरागाश्रुघर्षघ्नम्।
दधिसरः पिप्पलीसैन्धवयुक्तस्ताम्रे घृष्टश्शोफघर्षाश्रुवेदनाघ्नः॥
श्लोक 19
मृत्कपालं कांस्ये तिलोदकघृष्टं घृताक्तनिम्बपत्रधूपितं शोफकण्डूघर्षाश्रुशूलरागघ्नम्॥
श्लोक 20
सन्धावाञ्जितं चाक्षि स्तन्येनानुसिञ्चेत्।
त्रिःपरं च तैर्न्नाञ्जयेत्।
अथाञ्जनानि॥
श्लोक 21
मधुकबृहतीत्वक्ताम्ररजांस्यजाक्षीरपिष्टानि शम्यामलकपत्रैर्घृताप्लुतैरनेकशो धूपितानि पिण्डाञ्जनं शोफवेदनाघ्नम्॥
श्लोक 22
तालीसपत्रपिप्पलीलोहर्रजोञ्जनकासीसतगरजातीमुकुलसैन्धवैर्गोमूत्रपिष्टैस्ताम्रमालिप्तं सप्तरात्रं स्थापयित्वा पुनस्तद्वदेवपिष्टैर्गुटिकाः कार्यास्ताः स्तन्यघृष्टाः स्तम्भश्वयथुहर्षघर्षाश्रुकण्डूघ्न्यः॥
श्लोक 23
अबद्धास्थिसहकारमांसं विगतत्वचं समताम्रचूर्णमीषत् सैन्धवोपेतं गव्येन दध्ना पिष्ट्वा ताम्रमालेपयेत्।
शुष्कं शुष्कं तथैव च पिष्ट्वा पुनर्लेपयेत्।
एतत् सप्तभिः सप्ताहैः पिण्डाञ्जनं कृतं सर्वाक्षिपाकाश्रुघर्षशोफरागवर्त्मोपचयघ्नम्।
अश्मन्तकाम्लवेतसपरूषककोलदाडिमैः कृता रसक्रिया सशोफाल्पशोफपूयालसान् नाशयति।
इत्थमपि शोफानुवृत्तौ पुनरस्रावसेकः शिरोविरेकश्च॥
श्लोक 24
अम्लोषितं पित्ताभिष्यन्दवदुपाचरेत्।
पिल्लसाधनं चेक्षेत॥
श्लोक 25
पित्तकफरक्तनिचयोत्क्लिष्टवर्त्मपोथकीबिसाख्यकुकूणकपक्ष्मोपरोधपूयालसशुष्काक्षिपाकाल्पशोफाम्लोषिता वातवर्ज्याश्चस्यन्दाधिमन्था इत्यष्टादशदीर्घकालानुबन्धिनो रोगाः पिल्लसंज्ञाः॥
श्लोक 26
एषां क्रिया यथास्वमुपदिष्टैव।
पुनश्च पिल्लीभूतानां सामान्येनोपदिश्यते॥
श्लोक 27
अथ पिल्लाक्षिरोगिणं स्नेहयित्वा वामयेत्।
कृतक्रमस्य सिराव्यधस्ततो विरेकः।
कृतविरेकस्य वर्त्मनी लिखेत्।
सकृल्लेखनादशुद्धौ पुनर्लेखयेत् जलौकोभिश्च ग्राहयेत्॥
श्लोक 28
प्रियङ्गुलोध्रपद्मकेसरचन्दनमधुककल्केन समाक्षिकेण बिडालकः।
तुवरिकाफलत्रिकरोचनाक्वाथेन मधुमता सायं प्रातः सदा प्रक्षालनमञ्जनान्ते च कषायवृक्षपल्लवकषायेण॥
श्लोक 29
तैरेव च पत्रैरुष्णाप्रियतायामन्तरान्तरा स्वेदः॥
श्लोक 30
तुत्थकपलं विंशतिश्च श्वेतमरिचानि धान्याम्ल पिष्टानि तत्पलैस्त्रिंशता ताम्रपात्रे समालोडितानि बहुवर्णामपि पिल्लानां परममाश्च्योतनम्॥
श्लोक 31
अञ्जनं चास्याम्रधातकीपुष्पतिलपर्णीकल्केन च वर्त्तिः हरीतक्याढकीश्चाष्टगुणेम्भास्यष्टभागावशेषं क्वाथयेत् पुनश्च परिस्राव्यादर्वीप्रलेपाद्रसक्रियेयं पिल्लाक्षिरोपणी।
पलाशशाखास्वरसे क्वाथ्यमाने बृहत्युशीररजोदद्यात् तत्घनीभूतं शीतमञ्जनम्।
सुरसारसपिष्टैर्वा वचलदेवदारुभिः।
गोपित्तपिष्टाभ्यां वा व्योषरसाञ्जनाभ्याम्॥
श्लोक 32
हरितालसौवीरकाञ्जनसमांशं वा ताम्रचूर्णमञ्जनम्।
परिपेलवकासीसहरिद्राद्वयसर्षपप्रियङ्गुतगरपिप्पलीकल्केन ताम्रभाजनमन्तर्लेपयित्वा सौवीरककुम्भेधोमुखं सप्ताहं वासयेत् ततो गुटिकाश्चूर्णं वा कुर्यात्॥
श्लोक 33
तुत्थगैरिकचूर्णं छगलीपयःपिष्टं गुटिका प्रत्यञ्जनम्।
चूर्ण एव वा दिव्योदकभावितः।
स एव वा तदाप्लुतो नेत्राश्च्योतनमिति।
भवति चात्र॥
श्लोक 34
वर्त्मावलेखं बहुशस्तद्वच्छोणितमोक्षणम्।
पुनः पुनर्विरेकं च पिल्लरोगातुरो भजेत्॥
श्लोक 35
पूयालसेत्वशान्तेन्ते दाहः सूक्ष्मशलाकया॥
श्लोक 36
चतुर्नवतिरित्यक्ष्णोर्हेतुलक्षणसाधनैः।
परस्परमसङ्कीर्णाःकार्त्स्न्येन गदिता गदाः॥
श्लोक 37
सर्वदा च निषेवेत स्वस्थोपि नयनप्रियः।
पुराणयवगोधूमशालिषष्टिककोद्रवान्॥
श्लोक 38
मुद्गादीन्कफपित्तघ्नान् भूरिसर्पिःपरिप्लुतान्।
शाकं चैवंविधं मांसं जाङ्गलं दाडिमं सिताम्॥
श्लोक 39
सैन्धवं त्रिफलां द्राक्षां वारि पाने च नाभसम्।
आतपत्रं पदत्राणं विधिवद्दोषशोधनम्॥
श्लोक 40
वर्जयेद्वेगसंरोधमजीर्णाध्यशनानि च।
क्रोधशोकदिवास्वप्नरात्रिजागरणातपान्।
विदाहविष्टम्भकरं यच्चेहाहारभेषजम्॥
श्लोक 41
द्वे पादमध्ये पृथुसन्निवेशे सिरे गते ते बहुधा च नेत्रे।
ताम्रङ्क्षणोद्वर्तनलेपनादीन् पादप्रयुक्तान् नयनं नयन्ति॥
श्लोक 42
मलोष्णसङ्घट्टनपीडनाद्यैस्ता दूष्यन्ते नयनानि दुष्टाः।
भजेत् सदा दृष्टिहितानि तस्मादुपानदभ्यञ्जनधावनानि॥