श्लोक 1
अथातो विसर्पचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
पूर्वरूपेष्वेव सर्वविसर्पाणां लङ्घनं रूक्षणं सिरामोक्षणमुल्लेखनं विरेचनं च कुर्यात्।
न तु कदाचिदपि स्नेहनम्॥
श्लोक 3
निरामेषु क्षीणकफेषु च शीतवीर्याणि सर्पींषि तिक्तकत्रायमाणाघृतादीनि पाने दद्यात्।
तत्र मदनेन्द्रयवपटोलपिचुमन्दमधुकेक्षुरसान् वमनेऽवचारयेत्।
द्राक्षात्रिवृत्त्रिफलात्रायमाणा विरेचने॥
श्लोक 4
मुस्तदेवदारुकुष्ठशताह्वावाराहीधान्याककृष्णगन्धावंशार्तगलान् लेपसेकेष्वनिलजे ह्रस्ववढ्रवल्लीकण्टकपञ्चमूलानि च॥
श्लोक 5
पित्ते तु कमलोत्पलशैवालपङ्कदूर्वामृणालशृङ्गाटककशेरुकशर्कराद्रीबेरकुचन्दनमुक्तामणिगैरिकपयस्याप्रपौण्डरीकमधुकपद्मकघृतक्षीराणि न्यग्रोधादिं च॥
श्लोक 6
श्लेष्मण्यजगन्धाश्वगन्धासरलकालकैषिकागरुवोचरास्नावचाशीतशिवेन्द्रवल्लीगोमूत्राणि वरणादिं च संसर्गे यथादोषबलं विकल्पयेत्॥
श्लोक 7
तत्र कफस्थानाश्रिते सामे पित्तस्थानगते च रूक्षा विशीताः प्रलेपपरिषेकाः॥
श्लोक 8
पित्ते तनवः सुशीताः सघृता वस्त्रान्तरिताः क्षणे क्षणे चापनीयान्ये प्रयोज्याः॥
श्लोक 9
द्वन्द्वजेषु यथायथं दोषांश्चिकित्सेत्।
विशेषेणाग्निविसर्पे महातिक्तकं पिबेत्।
ग्रन्थिविसर्पे रक्तपित्तसंसर्गमवेक्ष्य प्राग्लङ्घनादीनि विरेचनान्तानि शमनानि च योजयेत्।
ततो वातश्लेष्महरं कर्म॥
श्लोक 10
शूले च तदा स्निग्धाम्लोष्णाभिरुत्कारिकाभिर्ग्रन्थीनामुपनाहनम्।
वातकफविसर्पोक्तैश्च लेपस्तैरेव वा सिद्धेन तैलेन तोयेन वा परिषेकः।
लिम्पेद्वा शुष्कमूलकस्य कल्केन नक्तमालत्वचो वा।
बिभीतकेन वा विजयाक्षनागबलाग्निमन्थभूर्जग्रन्थिवंशपत्राणां वा॥
श्लोक 11
दन्तीचित्रकमूलत्वक्कासीसार्कस्नुहीक्षीरभल्लातकास्थिभिरुष्णैर्लेपः शिलामपि भिनत्ति।
दीर्घकालप्रसक्ते तु ग्रन्थौ त्रिफलां प्रयुञ्जीत।
मधुपिप्पलीर्वा।
मुस्तासक्तुभल्लातकानि वा।
सीघुमधुशर्करान् वा।
मातुलुङ्गरसानुविद्धां मदिरां वा।
गिरिजतुं वा गुल्मभेदनं वा।
तप्तलोहोपलादिपीडनं वा।
जत्रूर्ध्वगते तीक्ष्णधूमवमनानि च॥
श्लोक 12
तथाप्यभेदे क्षारेणाग्निना वा दहेत्।
पाटयित्वा वा शस्त्रेण परिशोधयेत्।
विदग्धं वा रक्तमपनीयापनीय पुनःपुनः स्वेदयेत्।
एवं पर्यायेण रक्तपित्ते वातश्लेष्मणि चोत्तिष्ठेत॥
श्लोक 13
सर्वस्मिन् विसर्पे पर्यागते विदारिते च व्रणवत्।
तैलं च दार्वीविडङ्गकम्पिल्लकैः ग्रन्थिव्रणसाधनं साधयेत्॥
श्लोक 14
कर्दमके शीघ्रतरं सुतरां च वमनादीनि कृत्वा पुनर्जलौकोभिरसृगवसेचयेत्।
असृक्प्रक्लेदाद्धि त्वङ्मांससिरास्नावसङ्क्लेदो भवति।
पिबेच्च कषायं घनपटोलपिचुमन्दानाम्।
मुस्तोशीरामलकसारिवाणाम्।
चन्दनोत्पलयोः।
पटोलादिवर्गस्य वा।
घृतमिश्रं वा दार्वीत्वक्तिक्तापटोलयष्ट्याह्वारिष्टमसूरत्रिफलात्रायमाणानाम्॥
श्लोक 15
विरेकार्थं च त्रिवृच्चूर्णं सर्पिषा पयसा द्राक्षारसेन घर्माम्भसा वा पाययेत्।
त्रायमाणाशृतं पित्तोद्वृत्तो क्षीरमिति।
भवति चात्र॥
श्लोक 16
श्रेष्ठास्रस्रुतिरेवात्र विसर्पो ह्यसृगाश्रयः।
यच्च नासावसंसृष्टो रक्तपित्तेन जायते॥
श्लोक 17
न घृतं बहुदोषाय देयं यन्न विरेचनम्।
तेन दोषो ह्युपस्तब्धस्त्वग्रक्तपिशितं पचेत्॥