श्लोक 1
सर्वेषु पीनसेष्व् आदौ निवातागार-गो भजेत् ।
स्नेहन-स्वेद-वमन-धूम-गण्डूष-धारणम् ॥ १ ॥
श्लोक 2
निवातागार-गो भवेत् वासो गुरूष्णं शिरसः सु-घनं परिवेष्टनम् ।
लघ्व्-अम्ल-लवणं स्निग्धम् उष्णं भोजनम् अ-द्रवम् ॥ २ ॥
श्लोक 3
लघ्व्-अम्ल-लवण-स्निग्धम् लघ्व् अम्लं लवणं स्निग्धम् धन्व-मांस-गुड-क्षीर-चणक-त्रि-कटूत्कटम् ।
यव-गोधूम-भूयिष्ठं दधि-दाडिम-सारिकम् ॥ ३ ॥
श्लोक 4
दधि-दाडिम-साधितम् बाल-मूलक-जो यूषः कुलत्थोत्थश् च पूजितः ।
कवोष्णं दश-मूलाम्बु जीर्णां वा वारुणीं पिबेत् ॥ ४ ॥
श्लोक 5
जिघ्रेच् चोरक-तर्कारी-वचाजाज्य्-उपकुञ्चिकाः ।
व्योष-तालीश-चविका-तिन्तिडीकाम्ल-वेतसम् ॥ ५ ॥
श्लोक
मनःशिला-विडङ्गाल-वचा-त्रि-कटु-हिङ्गुभिः ।
चूर्णी-कृत्य समाघ्रातः प्रतिश्यायो विनश्यति ॥ ५.१+१ ॥
श्लोक
तद्-वद् दोरक-वल्ल्य्-एला-लवा-तार्क्ष्य-द्वि-जीरकैः ॥ ५.१+२अब् ॥
श्लोक 6
साग्न्य्-अजाजि द्वि-पलिकं त्वग्-एला-पत्त्र-पादिकम् ।
जीर्णाद् गुडात् तुलार्धेन पक्वेन वटकी-कृतम् ॥ ६ ॥
श्लोक 7
पीनस-श्वास-कास-घ्नं रुचि-स्वर-करं परम् ।
शताह्वा-त्वग्-बला मूलं श्योणाकैरण्ड-बिल्व-जम् ॥ ७ ॥
श्लोक 8
सारग्वधं पिबेद् धूमं वसाज्य-मदनान्वितम् ।
अथ-वा स-घृतान् सक्तून् कृत्वा मल्लक-संपुटे ॥ ८ ॥
श्लोक 9
त्यजेत् स्नानं शुचं क्रोधं भृशं शय्यां हिमं जलम् ।
पिबेद् वात-प्रतिश्याये सर्पिर् वात-घ्न-साधितम् ॥ ९ ॥
श्लोक 10
पटु-पञ्चक-सिद्धं वा विदार्य्-आदि-गणेन वा ।
स्वेद-नस्यादिकां कुर्यात् चिकित्साम् अर्दितोदिताम् ॥ १० ॥
श्लोक 11
पित्त-रक्तोत्थयोः पेयं सर्पिर् मधुरकैः शृतम् ।
परिषेकान् प्रदेहांश् च शीतैः कुर्वीत शीतलान् ॥ ११ ॥
श्लोक 12
धव-त्वक्-त्रि-फला-श्यामा-श्रीपर्णी-यष्टि-तिल्वकैः ।
क्षीरे दश-गुणे तैलं नावनं स-निशैः पचेत् ॥ १२ ॥
श्लोक 13
श्रीपर्णी-यष्टि-बिल्वकैः कफ-जे लङ्घनं लेपः शिरसो गौर-सर्षपैः ।
स-क्षारं वा घृतम् पीत्वा वमेत् पिष्टैस् तु नावनम् ॥ १३ ॥
श्लोक 14
स-क्षारं च घृतं पीत्वा स-क्षारं तु घृतं पीत्वा बस्ताम्बुना पटु-व्योष-वेल्ल-वत्सक-जीरकैः ।
कटु-तीक्ष्णैर् घृतैर् नस्यैः कवडैः सर्व-जं जयेत् ॥ १४ ॥
श्लोक 15
यक्ष्म-कृमि-क्रमं कुर्वन् यापयेद् दुष्ट-पीनसम् ।
व्योषोरुबूक-कृमिजिद्-दारु-माद्री-गदेङ्गुदम् ॥ १५ ॥
श्लोक 16
यक्ष्म-कृमि-क्रमं कुर्यात् -दारु-माद्र्य्-अम्बुदेङ्गुदम् वार्ताक-बीजं त्रिवृता सिद्धार्थः पूति-मत्स्यकः ।
अग्निमन्थस्य पुष्पाणि पीलु-शिग्रु-फलानि च ॥ १६ ॥
श्लोक 17
अश्व-विड्-रस-मूत्राभ्यां हस्ति-मूत्रेण चैकतः ।
क्षौम-गर्भां कृतां वर्तिं धूमं घ्राणास्यतः पिबेत् ॥ १७ ॥
श्लोक 18
क्षवथौ पुटकाख्ये च तीक्ष्णैः प्रधमनं हितम् ।
शुण्ठी-कुष्ठ-कणा-वेल्ल-द्राक्षा-कल्क-कषाय-वत् ॥ १८ ॥
श्लोक 19
साधितं तैलम् आज्यं वा नस्यं क्षव-पुट-प्रणुत् ।
नासा-शोषे बला-तैलं पानादौ भोजनं रसैः ॥ १९ ॥
श्लोक 20
स्निग्धो धूमस् तथा स्वेदो नासानाहे ऽप्य् अयं विधिः ।
पाके दीप्तौ च पित्त-घ्नं तीक्ष्णं नस्यादि संस्रुतौ ॥ २० ॥
श्लोक 21
तीक्ष्णं नस्यादि शस्यते कफ-पीनस-वत् पूति-नासा-पीनसयोः क्रिया ।
लाक्षा-करञ्ज-मरिच-वेल्ल-हिङ्गु-कणा-गुडैः ॥ २१ ॥
श्लोक 22
अवि-मूत्र-द्रुतैर् नस्यं कारयेद् वमने कृते ।
शिग्रु-सिंही-निकुम्भानां बीजैः स-व्योष-सैन्धवैः ॥ २२ ॥
श्लोक 23
स-वेल्ल-सुरसैस् तैलं नावनं परमं हितम् ।
पूय-रक्ते नवे कुर्याद् रक्त-पीनस-वत् क्रमम् ॥ २३ ॥
श्लोक 24
रक्त-पीनस-वत् क्रियाम् अति-प्रवृद्धे नाडी-वद् दग्धेष्व् अर्शो-ऽर्बुदेषु च ।
निकुम्भ-कुम्भ-सिन्धूत्थ-मनोह्वाल-कणाग्निकैः ॥ २४ ॥
श्लोक 25
दग्धेष्व् अर्शो-ऽर्बुदेषु तु कल्कितैर् घृत-मध्व्-अक्तां घ्राणे वर्तिं प्रवेशयेत् ।
शिग्र्व्-आदि-नावनं चात्र पूति-नासोदितं भजेत् ॥ २५ ॥
कल्कितैर् घृत-मध्व्-आक्तां