अष्टाङ्गहृदयम्/निदानस्थानम् Adhyaay 2

श्लोक 1

ज्वरो रोग-पतिः पाप्मा मृत्युर् ओजो-ऽशनो ऽन्तकः ।
क्रोधो दक्षाध्वर-ध्वंसी रुद्रोर्ध्व-नयनोद्भवः ॥ १ ॥

श्लोक 2

मृत्युस् तेजो-ऽशनो ऽन्तकः जन्मान्तयोर् मोह-मयः संतापात्मापचार-जः ।
विविधैर् नामभिः क्रूरो नाना-योनिषु वर्तते ॥ २ ॥

श्लोक 3

स जायते ऽष्ट-धा दोषैः पृथङ् मिश्रैः समागतैः ।
आगन्तुश् च मलास् तत्र स्वैः स्वैर् दुष्टाः प्रदूषणैः ॥ ३ ॥

श्लोक 4

आमाशयं प्रविश्यामम् अनुगम्य पिधाय च ।
स्रोतांसि पक्ति-स्थानाच् च निरस्य ज्वलनं बहिः ॥ ४ ॥

श्लोक 5

सह तेनाभिसर्पन्तस् तपन्तः सकलं वपुः ।
कुर्वन्तो गात्रम् अत्य्-उष्णं ज्वरं निर्वर्तयन्ति ते ॥ ५ ॥

श्लोक 6

कुर्वन्तो गात्रम् आ-शुष्कं स्रोतो-विबन्धात् प्रायेण ततः स्वेदो न जायते ।
तस्य प्राग्-रूपम् आलस्यम् अ-रतिर् गात्र-गौरवम् ॥ ६ ॥

श्लोक 7

आस्य-वैरस्यम् अ-रुचि-जृम्भा सास्राकुलाक्षि-ता ।
अङ्ग-मर्दो ऽ-विपाको ऽल्प-प्राण-ता बहु-निद्र-ता ॥ ७ ॥

श्लोक 8

जृम्भा सास्राकुलाक्ष-ता रोम-हर्षो विनमनं पिण्डिकोद्वेष्टनं क्लमः ।
हितोपदेशेष्व् अ-क्षान्तिः प्रीतिर् अम्ल-पटूषणे ॥ ८ ॥

श्लोक 9

द्वेषः स्वादुषु भक्ष्येषु तथा बालेषु तृड् भृशम् ।
शब्दाग्नि-शीत-वाताम्बु-च्छायोष्णेष्व् अ-निमित्ततः ॥ ९ ॥

श्लोक 10

इच्छा द्वेषश् च तद् अनु ज्वरस्य व्यक्त-ता भवेत् ।
आगमापगम-क्षोभ-मृदु-ता-वेदनोष्मणाम् ॥ १० ॥

श्लोक 11

वैषम्यं तत्र तत्राङ्गे तास् ताः स्युर् वेदनाश् चलाः ।
पादयोः सुप्त-ता स्तम्भः पिण्डिकोद्वेष्टनं शमः ॥ ११ ॥

श्लोक 12

पिण्डिकोद्वेष्टनं क्लमः विश्लेष इव संधीनां साद ऊर्वोः कटी-ग्रहः ।
पृष्ठं क्षोदम् इवाप्नोति निष्पीड्यत इवोदरम् ॥ १२ ॥

श्लोक 13

छिद्यन्त इव चास्थीनि पार्श्व-गानि विशेषतः ।
हृदयस्य ग्रहस् तोदः प्राजनेनेव वक्षसः ॥ १३ ॥

श्लोक 14

स्कन्धयोर् मथनं बाह्वोर् भेदः पीडनम् अंसयोः ।
अ-शक्तिर् भक्षणे हन्वोर् जृम्भणं कर्णयोः स्वनः ॥ १४ ॥

श्लोक 15

निस्तोदः शङ्खयोर् मूर्ध्नि वेदना वि-रसास्य-ता ।
कषायास्य-त्वम् अथ-वा मलानाम् अ-प्रवर्तनम् ॥ १५ ॥

श्लोक 16

रूक्षारुण-त्वग्-आस्याक्षि-नख-मूत्र-पुरीष-ता ।
प्रसेका-रोचका-श्रद्धा-विपाका-स्वेद-जागराः ॥ १६ ॥

श्लोक 17

कण्ठौष्ठ-शोषस् तृट् शुष्कौ छर्दि-कासौ विषादि-ता ।
हर्षो रोमाङ्ग-दन्तेषु वेपथुः क्षवथोर् ग्रहः ॥ १७ ॥

श्लोक 18

श्वयथुः क्षवथोर् ग्रहः भ्रमः प्रलापो घर्मेच्छा विनामश् चानिल-ज्वरे ।
युग-पद् व्याप्तिर् अङ्गानां प्रलापः कटु-वक्त्र-ता ॥ १८ ॥

श्लोक 19

नासास्य-पाकः शीतेच्छा भ्रमो मूर्छा मदो ऽ-रतिः ।
विट्-स्रंसः पित्त-वमनं रक्त-ष्ठीवनम् अम्लकः ॥ १९ ॥

श्लोक 20

रक्त-कोठोद्गमः पीत-हरित-त्वं त्वग्-आदिषु ।
स्वेदो निःश्वास-वैगन्ध्यम् अति-तृष्णा च पित्त-जे ॥ २० ॥

श्लोक 21

विशेषाद् अ-रुचिर् जाड्यं स्रोतो-रोधो ऽल्प-वेग-ता ।
प्रसेको मुख-माधुर्यं हृल्-लेप-श्वास-पीनसाः ॥ २१ ॥

श्लोक 22

हृल्-लासश् छर्दनं कासः स्तम्भः श्वैत्यं त्वग्-आदिषु ।
अङ्गेषु शीत-पिटिकास् तन्द्रोदर्दः कफोद्भवे ॥ २२ ॥

श्लोक 23

काले यथा-स्वं सर्वेषां प्रवृत्तिर् वृद्धिर् एव वा ॥ २३अब् ॥
निदानोक्तान्-उपशयो विपरीतोपशायि-ता ॥ २३च्द् ॥
यथा-स्वं लिङ्ग-संसर्गे ज्वरः संसर्ग-जो ऽपि च ॥ २३एf ॥

श्लोक 24

शिरो-ऽर्ति-मूर्छा-वमि-दाह-मोह-कण्ठास्य-शोषा-रति-पर्व-भेदाः ।
उन्निद्र-ता-तृड्-भ्रम-रोम-हर्षा जृम्भाति-वाक्-त्वं च चलात् स-पित्तात् ॥ २४ ॥

श्लोक 25

ताप-हान्य्-अ-रुचि-पर्व-शिरो-रुक्-पीनस-श्वसन-कास-विबन्धाः ।
शीत-जाड्य-तिमिर-भ्रम-तन्द्राः श्लेष्म-वात-जनित-ज्वर-लिङ्गम् ॥ २५ ॥

श्लोक 26

शीत-स्तम्भ-स्वेद-दाहा-व्यवस्था तृष्णा-कास-श्लेष्म-पित्त-प्रवृत्तिः ।
मोहस् तन्द्रा लिप्त-तिक्तास्य-ता च ज्ञेयं रूपं श्लेष्म-पित्त-ज्वरस्य ॥ २६ ॥

श्लोक 27

तृष्णा कासः श्लेष्म-पित्त-प्रवृत्तिः सर्व-जो लक्षणैः सर्वैर् दाहो ऽत्र च मुहुर् मुहुः ।
तद्-वच् छीतं महा-निद्रा दिवा जागरणं निशि ॥ २७ ॥

श्लोक 28

सदा वा नैव वा निद्रा महा-स्वेदो ऽति नैव वा ।
गीत-नर्तन-हास्यादि-विकृतेहा-प्रवर्तनम् ॥ २८ ॥

श्लोक 29

महान् स्वेदो ऽति नैव वा साश्रुणी कलुषे रक्ते भुग्ने लुलित-पक्ष्मणी ।
अक्षिणी पिण्डिका-पार्श्व-मूर्ध-पर्वास्थि-रुग्-भ्रमः ॥ २९ ॥

श्लोक 30

स-स्वनौ स-रुजौ कर्णौ कण्ठः शूकैर् इवाचितः ।
परिदग्धा खरा जिह्वा गुरु-स्रस्ताङ्ग-संधि-ता ॥ ३० ॥

श्लोक 31

गुरुः स्रस्ताङ्ग-संधि-ता रक्त-पित्त-कफ-ष्ठीवो लोलनं शिरसो ऽति-रुक् ।
कोठानां श्याव-रक्तानां मण्डलानां च दर्शनम् ॥ ३१ ॥

श्लोक 32

लोलनं शिरसो ऽति-तृट् हृद्-व्यथा मल-संसङ्गः प्रवृत्तिर् वाल्प-शो ऽति वा ।
स्निग्धास्य-ता बल-भ्रंशः स्वर-सादः प्रलापि-ता ॥ ३२ ॥

श्लोक 33

हृद्-व्यथा मल-संसर्गः दोष-पाकश् चिरात् तन्द्रा प्रततं कण्ठ-कूजनम् ।
संनिपातम् अभिन्यासं तं ब्रूयाच् च हृतौजसम् ॥ ३३ ॥

श्लोक 

तं ब्रूयाच् च हतौजसम् वायुना कफ-रुद्धेन पित्तम् अन्तः प्रपीडितम् ।
व्यवायि-त्वाच् च सूक्ष्म-त्वाद् बहिर्-मार्गं प्रवर्तते ॥ ३३+१ ॥

श्लोक 

तेन हारिद्र-नेत्र-त्वं संनिपातोद्भवे ज्वरे ॥ ३३+२अब् ॥

श्लोक 34

दोषे विबद्धे नष्टे ऽग्नौ सर्व-संपूर्ण-लक्षणः ।
अ-साध्यः सो ऽन्य-था कृच्छ्रो भवेद् वैकल्य-दो ऽपि वा ॥ ३४ ॥

श्लोक 35

अन्यच् च संनिपातोत्थो यत्र पित्तं पृथक् स्थितम् ।
त्वचि कोष्ठे ऽथ-वा दाहं विदधाति पुरो ऽनु वा ॥ ३५ ॥

श्लोक 36

अन्यश् च संनिपातोत्थो तद्-वद् वात-कफौ शीतं दाहादिर् दुस्-तरस् तयोः ।
शीतादौ तत्र पित्तेन कफे स्यन्दित-शोषिते ॥ ३६ ॥

श्लोक 37

शीते शान्ते ऽम्लको मूर्छा मदस् तृष्णा च जायते ।
दाहादौ पुनर् अन्ते स्युस् तन्द्रा-ष्ठीव-वमि-क्लमाः ॥ ३७ ॥

श्लोक 38

आगन्तुर् अभिघाताभिषङ्ग-शापाभिचारतः ।
चतुर्-धात्र क्षत-च्छेद-दाहाद्यैर् अभिघात-जः ॥ ३८ ॥

श्लोक 39

श्रमाच् च तस्मिन् पवनः प्रायो रक्तं प्रदूषयन् ।
स-व्यथा-शोफ-वैवर्ण्यं स-रुजं कुरुते ज्वरम् ॥ ३९ ॥

श्लोक 40

ग्रहावेशौषधि-विष-क्रोध-भी-शोक-काम-जः ।
अभिषङ्गाद् ग्रहेणास्मिन्न् अ-कस्माद् धास-रोदने ॥ ४० ॥

श्लोक 41

ओषधि-गन्ध-जे मूर्छा शिरो-रुग् वमथुः क्षवः ।
विषान् मूर्छातिसारास्य-श्याव-ता-दाह-हृद्-गदाः ॥ ४१ ॥

श्लोक 42

शिरो-रुक् श्वयथुः क्षवः शिरो-रुग् वेपथुः क्षवः -श्याव-ता-दाह-हृद्-ग्रहाः क्रोधात् कम्पः शिरो-रुक् च प्रलापो भय-शोक-जे ।
कामाद् भ्रमो ऽ-रुचिर् दाहो ह्री-निद्रा-धी-धृति-क्षयः ॥ ४२ ॥

श्लोक 43

भी-निद्रा-धी-धृति-क्षयः ग्रहादौ संनिपातस्य भयादौ मरुतस् त्रये ।
कोपः कोपे ऽपि पित्तस्य यौ तु शापाभिचार-जौ ॥ ४३ ॥

श्लोक 44

कोपः कोपे तु पित्तस्य कोपः क्रोधे तु पित्तस्य संनिपात-ज्वरौ घोरौ ताव् अ-सह्य-तमौ मतौ ।
तत्राभिचारिकैर् मन्त्रैर् हूयमानस्य तप्यते ॥ ४४ ॥

श्लोक 45

ताव् अ-साध्य-तमौ मतौ पूर्वं चेतस् ततो देहस् ततो विस्फोट-तृड्-भ्रमैः ।
स-दाह-मूर्छैर् ग्रस्तस्य प्रत्य्-अहं वर्धते ज्वरः ॥ ४५ ॥

श्लोक 46

इति ज्वरो ऽष्ट-धा दृष्टः समासाद् विविधस् तु सः ।
शारीरो मानसः सौम्यस् तीक्ष्णो ऽन्तर्-बहिर्-आश्रयः ॥ ४६ ॥

श्लोक 47

प्राकृतो वैकृतः साध्यो ऽ-साध्यः सामो निर्-आमकः ।
पूर्वं शरीरे शारीरे तापो मनसि मानसे ॥ ४७ ॥

श्लोक 48

पवने योग-वाहि-त्वाच् छीतं श्लेष्म-युते भवेत् ।
दाहः पित्त-युते मिश्रं मिश्रे ऽन्तः-संश्रये पुनः ॥ ४८ ॥

श्लोक 49

ज्वरे ऽधिकं विकाराः स्युर् अन्तः क्षोभो मल-ग्रहः ।
बहिर् एव बहिर्-वेगे तापो ऽपि च सु-साध्य-ता ॥ ४९ ॥

श्लोक 50

वर्षा-शरद्-वसन्तेषु वाताद्यैः प्राकृतः क्रमात् ।
वैकृतो ऽन्यः स दुः-साध्यः प्रायश् च प्राकृतो ऽनिलात् ॥ ५० ॥

श्लोक 51

वर्षासु मारुतो दुष्टः पित्त-श्लेष्मान्वितो ज्वरम् ।
कुर्यात् पित्तं च शरदि तस्य चानु-बलं कफः ॥ ५१ ॥

श्लोक 52

तस्य चानु-बलः कफः तत्-प्रकृत्या विसर्गाच् च तत्र नान्-अशनाद् भयम् ।
कफो वसन्ते तम् अपि वात-पित्तं भवेद् अनु ॥ ५२ ॥

श्लोक 53

तत्-प्रकृत्या विसर्गस्य बल-वत्स्व् अल्प-दोषेषु ज्वरः साध्यो ऽन्-उपद्रवः ।
सर्व-था विकृति-ज्ञाने प्राग् अ-साध्य उदाहृतः ॥ ५३ ॥

श्लोक 54

ज्वरोपद्रव-तीक्ष्ण-त्वम् अ-ग्लानिर् बहु-मूत्र-ता ।
न प्रवृत्तिर् न विड् जीर्णा न क्षुत् साम-ज्वराकृतिः ॥ ५४ ॥

श्लोक 55

ज्वर-वेगो ऽधिकं तृष्णा प्रलापः श्वसनं भ्रमः ।
मल-प्रवृत्तिर् उत्क्लेशः पच्यमानस्य लक्षणम् ॥ ५५ ॥

श्लोक 56

ज्वर-वेगो ऽधिकस् तृष्णा जीर्ण-ताम-विपर्यासात् सप्त-रात्रं च लङ्घनात् ।
ज्वरः पञ्च-विधः प्रोक्तो मल-काल-बला-बलात् ॥ ५६ ॥

श्लोक 57

प्राय-शः संनिपातेन भूयसा तूपदिश्यते ।
संततः सततो ऽन्ये-द्युस् तृतीयक-चतुर्थकौ ॥ ५७ ॥

श्लोक 58

प्रायः स संनिपातेन धातु-मूत्र-शकृद्-वाहि-स्रोतसां व्यापिनो मलाः ।
तापयन्तस् तनुं सर्वां तुल्य-दूष्यादि-वर्धिताः ॥ ५८ ॥

श्लोक 59

बलिनो गुरवः स्तब्धा विशेषेण रसाश्रिताः ।
संततं निष्-प्रति-द्वन्द्वा ज्वरं कुर्युः सु-दुः-सहम् ॥ ५९ ॥

श्लोक 60

मलं ज्वरोष्मा धातून् वा स शीघ्रं क्षपयेत् ततः ।
सर्वाकारं रसादीनां शुद्ध्या-शुद्ध्यापि वा क्रमात् ॥ ६० ॥

श्लोक 61

मलाञ् ज्वरोष्मा धातून् वा वात-पित्त-कफैः सप्त दश द्वा-दश वासरान् ।
प्रायो ऽनुयाति मर्यादां मोक्षाय च वधाय च ॥ ६१ ॥

श्लोक 62

विमोक्षाय वधाय वा इत्य् अग्निवेशस्य मतं हारीतस्य पुनः स्मृतिः ।
द्वि-गुणा सप्तमी यावन् नवम्य् एका-दशी तथा ॥ ६२ ॥

श्लोक 63

एषा त्रि-दोष-मर्यादा मोक्षाय च वधाय च ।
शुद्ध्य्-अ-शुद्धौ ज्वरः कालं दीर्घम् अप्य् अनुवर्तते ॥ ६३ ॥

श्लोक 64

शुद्ध्य्-अ-शुद्ध्योर् ज्वरः कालं कृशानां व्याधि-मुक्तानां मिथ्याहारादि-सेविनाम् ।
अल्पो ऽपि दोषो दूष्यादेर् लब्ध्वान्य-तमतो बलम् ॥ ६४ ॥

श्लोक 65

स-विपक्षो ज्वरं कुर्याद् विषमं क्षय-वृद्धि-भाक् ।
दोषः प्रवर्तते तेषां स्वे काले ज्वरयन् बली ॥ ६५ ॥

श्लोक 66

स्व-काले ज्वरयन् बली निवर्तते पुनश् चैष प्रत्य्-अनीक-बला-बलः ।
क्षीणे दोषे ज्वरः सूक्ष्मो रसादिष्व् एव लीयते ॥ ६६ ॥

श्लोक 67

लीन-त्वात् कार्श्य-वैवर्ण्य-जाड्यादीन् आदधाति सः ।
आसन्न-विवृतास्य-त्वात् स्रोतसां रस-वाहिनाम् ॥ ६७ ॥

श्लोक 68

आशु सर्वस्य वपुषो व्याप्तिर् दोषेण जायते ।
संततः सततस् तेन विपरीतो विपर्ययात् ॥ ६८ ॥

श्लोक 69

विषमो विषमारम्भ-क्रिया-कालो ऽनुषङ्ग-वान् ।
दोषो रक्ताश्रयः प्रायः करोति सततं ज्वरम् ॥ ६९ ॥

श्लोक 70

अहो-रात्रस्य स द्विः स्यात् सकृद् अन्ये-द्युर् आश्रितः ।
तस्मिन् मांस-वहा नाडीर् मेदो-नाडीस् तृतीयके ॥ ७० ॥

श्लोक 71

अस्मिन् मांस-वहा नाडीर् ग्राही पित्तानिलान् मूर्ध्नस् त्रिकस्य कफ-पित्ततः ।
स-पृष्ठस्यानिल-कफात् स चैकाहान्तरः स्मृतः ॥ ७१ ॥

श्लोक 72

स वैकाहान्तरः स्मृतः चतुर्थको मले मेदो-मज्जास्थ्य्-अन्य-तम-स्थिते ।
मज्ज-स्थ एवेत्य् अपरे प्रभावं स तु दर्शयेत् ॥ ७२ ॥

श्लोक 73

द्वि-धा कफेन जङ्घाभ्यां स पूर्वं शिरसो ऽनिलात् ।
अस्थि-मज्जोभय-गते चतुर्थक-विपर्ययः ॥ ७३ ॥

श्लोक 74

चातुर्थिक-विपर्ययः त्रि-धा द्व्य्-अहं ज्वरयति दिनम् एकं तु मुञ्चति ।
बला-बलेन दोषाणाम् अन्न-चेष्टादि-जन्मना ॥ ७४ ॥

श्लोक 75

त्र्य्-अहाद् द्व्य्-अहं ज्वरयति दिनम् एकं विमुञ्चति ज्वरः स्यान् मनसस् तद्-वत् कर्मणश् च तदा तदा ।
दोष-दूष्यर्त्व्-अहो-रात्र-प्रभृतीनां बलाज् ज्वरः ॥ ७५ ॥

श्लोक 76

मनसो विषयाणां च कालं तं तं प्रपद्यते ।
धातून् प्रक्षोभयन् दोषो मोक्ष-काले विलीयते ॥ ७६ ॥

श्लोक 77

ततो नरः श्वसन् स्विद्यन् कूजन् वमति चेष्टते ।
वेपते प्रलपत्य् उष्णैः शीतैश् चाङ्गैर् हत-प्रभः ॥ ७७ ॥

श्लोक 78

वि-संज्ञो ज्वर-वेगार्तः स-क्रोध इव वीक्षते ।
स-दोष-शब्दं च शकृद् द्रवं सृजति वेग-वत् ॥ ७८ ॥

श्लोक 79

देहो लघुर् व्यपगत-क्लम-मोह-तापः पाको मुखे करण-सौष्ठवम् अ-व्यथ-त्वम् । स्वेदः क्षवः प्रकृति-योगि मनो ऽन्न-लिप्सा कण्डूश् च मूर्ध्नि विगत-ज्वर-लक्षणानि ॥
७९ ॥