अष्टाङ्गसंग्रहः निदानस्थानम् 2 contd.

श्लोक 54

बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्रवः।
सर्वथा विकृतिज्ञाने प्रागसाध्य उदाहृतः॥

श्लोक 55

ज्वरोपद्रवतीक्ष्णत्वमग्लानिर्बहुमूत्रता।
न प्रवृत्तिर्न विड्जीर्णा न क्षुत्सामज्वराकृतिः॥

श्लोक 56

ज्वरेगोऽधिकं तृष्णा प्रलापः श्वसनं भ्रमः।
मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम्॥

श्लोक 57

जीर्णतामविपर्यासात् सप्तरात्रं च लङ्घनात्॥

श्लोक 58

ज्वरः पञ्चविधः प्रोक्तो मलकालबलाबलात्।
प्रायः स सन्निपातेन भूयसा त्वपदिश्यते॥

श्लोक 59

सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ॥

श्लोक 60

धातुमूत्रशकृद्वाहिस्रोतसां व्यापिनो मलाः।
तापयन्तस्तनुं सर्वां तुल्यदूष्यादिवर्धिताः॥

श्लोक 61

बलिनो गुरवः स्तब्धा विशेषेण रसाश्रिताः।
सन्ततं निष्प्रतिद्वन्दा ज्वरं कुर्युः सुदुस्सहम्॥

श्लोक 62

मलाञ्ज्वरोष्मा धातून् वा स शीघ्रं क्षपयस्ततः।
सर्वाकारं रसादीनां शुध्याशुध्यापि वा क्रमात्॥

श्लोक 63

वातपित्तकफेः सप्त दश द्वादशवासरान्।
प्रायोऽनुयाति मर्यादां मोक्षाय च वधाय च॥

श्लोक 64

इत्यग्निवेशस्य मतं हारीतस्य पुनः स्मृतिः॥

श्लोक 65

द्विगुणा सप्तमी यावन्नवम्येकादशी तथा।
एषा त्रिदोषमर्यादा मोक्षाय च वधाय च॥

श्लोक 66

शुध्यशुद्धौ ज्वरः कालं दीर्घमप्यनुवर्तते॥

श्लोक 67

कृशानां व्याधिमुक्तानां मिथ्याहारादिसेविनाम्।
अल्पोऽपि दोषो दूष्यादेर्लब्ध्वान्यतमतो बलम्॥

श्लोक 68

सप्रत्यनीको विषमं कुर्याद्वृद्धिक्षयान्वितः॥

श्लोक 69

सूक्ष्मसूक्ष्मतरास्येषु दूरदूरतरेषु च।
दोषो रक्तादिमार्गेषु शनैरल्पश्चिरेण यत्॥

श्लोक 70

याति देहं च नाशेषं भूयिष्ठं भेषजेऽपि च।
क्रमोऽयं तेन विच्छिन्नसन्तापो लक्ष्यते ज्वरः॥

श्लोक 71

विषमो विषमारम्भक्रियाकालोऽनुषङ्गवान्॥

श्लोक 72

यथोत्तरं मन्दगतिर्मन्दशक्तिर्यथा यथा।
कालेनाप्नोति सदृशान् स रसादींस्तथा तथा॥

श्लोक 73

दोषो ज्वरयति क्रुद्धश्चिराच्चिरतरेण च॥

श्लोक 74

भूमौ स्थितं जलैः सिक्तं कालमेव प्रतीक्षते।
अङ्कुराय यथा बीजं दोषबीजं रुजे तथा॥

श्लोक 75

वेगं कृत्वा विषं यद्वदाशये लीयतेऽबलम्।
कुप्यत्याप्तबलं भूयः काले दोषविषं तथा॥

श्लोक 76

एवं ज्वराः प्रवर्तन्ते विषमाः सततादयः॥

श्लोक 77

दोषः प्रवर्तते तेषां स्वे काले ज्वरयन् बली।
निवर्तते पुनश्चैष प्रत्यनीकबलाबलः॥

श्लोक 78

क्षीणे दोषे ज्वरः सूक्ष्मो रसादिष्वेव लीयते।
लीनत्वात् कार्श्यवैवर्ण्यजाड्यादीनादधाति सः॥

श्लोक 79

अतिलीनोऽतिमन्दत्वात् भवत्यह्नि न पञ्चमे॥

श्लोक 80

दोषो रक्ताश्रयः प्रायः करोति सततं ज्वरम्॥

श्लोक 81

अहोरात्रस्य स द्विः स्यात्सकृदन्येद्युराश्रितः॥

श्लोक 82

तस्मिन्मांसवहा नाडीर्मेदोनाडीस्तृतीयके।
ग्राही पित्तानिलान्मूर्ध्नस्त्रिकस्य कफपित्ततः॥

श्लोक 83

स पृष्ठस्यानिलकफात् स चैकाहान्तरः स्मृतः॥

श्लोक 84

चतुर्थको मले मेदोमज्जास्थ्यन्यतमस्थिते।
मज्जस्थ एवेत्यपरे प्रभावं स तु दर्शयेत्॥

श्लोक 85

द्विधा कफेन जङ्घाभ्यां प्रथमं शिरसोऽनिलात्।
गम्भीरधातुचारित्वात् सनिपातेन सम्भवात्॥

श्लोक 86

तुल्योच्छ्रायाच्च दोषाणां दुश्चिकित्स्यश्चतुर्थकः॥

श्लोक 87

अस्थिमज्जोमयगते चतुर्थकविपर्ययः।
त्रिधा द्व्यहं ज्वरयति दिनमेकं तु मुञ्चति॥

श्लोक 88

बलाबलेन दोषाणामन्नचेष्टादिजन्मना।
ज्वरः स्यान्मनसस्तद्वत्कर्मणश्च तदा तदा॥

श्लोक 89

उत्क्लेशो गौरवं दैन्यं भङ्गोऽङ्गानां विजृम्भणम्।
अरोचको वमिः सादः सर्वस्मिन् रसगे ज्वरे॥

श्लोक 90

रक्तनिष्ठीवनं तृष्णा रक्तोष्णपिटकोद्गमः।
दाहरागभ्रममदप्रलापा रक्तसंश्रिते॥

श्लोक 91

तृड् ग्लानिः सृष्टवर्चस्त्वमन्तर्दाहो भ्रमस्तमः।
दौर्गन्ध्यं गात्रविक्षेपो मांसस्थे मेदसि स्थिते॥

श्लोक 92

स्वेदोऽतितृष्णा वमनं स्वगन्धस्यासहिष्णुता।
प्रलापो ग्लानिररुचिरस्थिस्थे त्वस्थिभेदनम्॥

श्लोक 93

दोषप्रवृत्तिरूर्ध्वाधः श्वासाङ्गक्षेपकूजनम्।
अन्तर्दाहो बहिःशैत्यं श्वासो हिध्मा च मज्जगे॥

श्लोक 94

तमसो दर्शनं मर्मच्छेदनं स्तब्धमेढ्रता।
शुक्रप्रवृत्तिर्मृत्युश्च जायते शुक्रसंश्रये॥

श्लोक 95

उत्तरोत्तरदुस्साध्याः पञ्चात्रान्त्यौ तु वर्जयेत्।
प्रलिम्पन्निव गात्राणि श्लेष्मणा गौरवेण च॥

श्लोक 96

मन्दज्वरः प्रलेपस्तु सशीतः स्यात्प्रलेपकः।
नित्यं मन्दज्वरो रूक्षः शीतः कृच्छ्रेण सिध्यति॥

श्लोक 97

स्तब्धाङ्गः श्लेष्मभूयिष्ठो भवेद्वातबलासकः।
हरिद्राभेकवर्णाभस्तद्वर्णं यः प्रमेहति॥

श्लोक 98

स वै हारिद्रको नाम ज्वरभेदोऽन्तकः स्मृतः।
कफवातौ समौ यस्य हीनपित्तस्य देहिनः॥

श्लोक 99

तीक्ष्णो वा यदि वा मन्दो जायते रात्रिकोज्वरः।
दिवाकरापीतबले व्यायामाच्च विशोषिते॥

श्लोक 100

शरीरे नियतं वाताज्ज्वरः स्यात् पूर्वरात्रिकः।
आमाशये यदा दुष्टे श्लेष्मपित्ते व्यवस्थिते॥

श्लोक 101

तदार्धं शीतलं देहे स्वर्धज्चोष्णं प्रजायते।
काये पित्तं यदा दुष्टं श्लेष्मा चान्ते व्यवस्थितः॥

श्लोक 102

उष्णत्वं तेन देहस्य शीतत्वं करपादयोः॥

श्लोक 103

धातून् प्रक्षोभयन् दोषो मोक्षकाले विलीयते।
ततो नरः श्वसन् स्विद्यन् कूजन् वमति चेष्टते॥

श्लोक 104

वेपते प्रलपत्युष्णैः शीतैश्चाङ्गैर्हतप्रभः।
विसंज्ञो ज्वरवेगार्तः सक्रोध इव वीक्षते॥

श्लोक 105

सदोषशब्दञ्च शकृद् द्रवं सृजति वेगवत्॥

श्लोक 106

देहो लघुर्व्यपगतक्लमममोहतापः पाको मुखे करणसौष्ठवमव्यथत्वम्।
स्वेदः क्षवः प्रकृतियोगि मनोऽन्नलिप्सा कण्डूश्च मूर्ध्नि विगतज्वरलक्षणानि॥
इति द्वितीयोऽध्यायः॥