श्लोक 77
वल्लकीमधुरं गीतं चन्द्रिका हर्म्यमस्तकम्।
हरन्ति दाहं हाराश्च हरिचन्दनशीतलाः॥
श्लोक 78
दाहं मन्दानिलोद्धूताः कुल्याः सलिलमालिनः।
चलत्प्रवालाङ्गुलिभिस्तर्जयन्ति महाद्रुमाः॥
श्लोक 79
वाचः शिशूनामव्यक्ता योषितो मदनातुराः।
दाहं निर्भत्सयन्त्याशु सज्जनानां च सूनृताः॥
श्लोक 80
रुचिभेदानुरोधेन नानाशक्तिसमन्वितः।
दाहशीतज्वरहरः कान्ताकान्ताङ्गसङ्गमः।
दाहशीतव्युपशमे तास्ततोऽपनयेत् पुनः॥
श्लोक 81
वीर्योष्णैरुष्णसंस्पर्शैस्तगरागरुकुङ्कुमैः।
कुष्ठस्थौणेयशैलेयसरलामरदारुभिः॥
श्लोक 82
नखरास्नापुरवचाचण्डलौद्वयचोरकैः।
पृथ्वीकाशिग्रुसुरसहिंस्राध्यामकसर्षपैः॥
श्लोक 83
दशमूलमृतैरण्डद्वयपत्तूररोहिषैः।
तमालपत्रपूतीकसल्लकीधान्यदीप्यकैः॥
श्लोक 84
मिसिमाषकुलत्थाग्निप्रकीर्यानाकुलीद्वयैः।
अन्यैश्च तद्विधैर्द्रव्यैः शीते तैलं ज्वरे पचेत्॥
श्लोक 85
क्वथितैः कल्फितैर्युक्तैः सुरासौवीरकादिभिः।
तेनाभ्यज्यात् सुखोष्णेन तैः सुपिष्टैश्च लेपयेत्॥
श्लोक 86
कवोष्णैस्तैः परीषेकमवगाहं च योजयेत्।
केवलैरपि तद्वच्च शुक्तगोमूत्रमस्तुभिः॥
श्लोक 87
कुङ्कुमागरुकस्तूरीनखैलासुरदारुभिः।
शैलेयचण्डात्वङ्मुस्तरास्नाकपिवचामयैः॥
श्लोक 88
पृथक् प्रदेहाः सर्वैर्वा शीतघ्ना दृढकल्किताः।
यवचूर्णं घृताभ्यक्तं पचेत् क्षीरे चतुर्गुणे॥
श्लोक 89
दर्वीप्रलेपनं लेपं ज्वरार्तस्य प्रयोजयेत्।
आरग्वधादिवर्गं च पानाभ्यञ्जनलेपने॥
श्लोक 90
धूपानगरुजान्ये च वक्ष्यन्ते विषमज्वरे।
अग्न्यनग्निकृतान् स्वेदान् स्वेदि भेषजभोजनम्॥
श्लोक 91
संसर्गबलयोगे च वातश्लेष्मनिबर्हणम्।
गर्भभूवेश्मशयनं कुथकम्बलरल्लकान्॥
श्लोक 92
निर्धूमदीप्तैरङ्गारैर्हसन्तीश्च हसन्तिकाः।
मद्यं सत्र्यूषणं तक्रं कुलत्थव्रीहिकोद्रवान्॥
श्लोक 93
संशीलयेद्वेपथुमान् यच्चान्यदपि पित्तलम्।
अजाज्याः सगुडं कल्कं सगुडं वामृतारसम्॥
श्लोक 94
रसं वार्ताकफलजं पिबेद्वा मधुसंयुतम्।
मधुकागरुकौन्तीनां कल्को व्याघ्रनखस्य च॥
श्लोक 95
मद्येन पीतः सक्षौद्रस्तीव्रशीतज्वरापहः।
दयिताः स्तनशालिन्यः पीना विभ्रमभूषणाः॥
श्लोक 96
यौवनासवमत्ताश्च तमालिङ्गेयुरङ्गनाः।
वीतशीतं च विज्ञाय तास्ततोऽपनयेत् पुनः॥
श्लोक 97
आनाहे कालवित् कुर्यात् क्रियामलसकोदिताम्।
पिप्पलीपिप्पलीमूलयवानीचित्रसाधिताम्॥
श्लोक 98
यवागूं पाययेच्चैनमनिलस्यानुलोमनीम्।
सोपद्रवोऽपि चेदेवं ज्वरः शीतो न शाम्यति॥
श्लोक 99
अत्युदीर्णेऽनिलकफे स्वस्थाने पित्तधाम्नि वा।
तक्रानुपानं त्रपुसं भक्षयित्वानलं भजेत्॥
श्लोक 100
आ स्स्वेदसम्भवात्तिष्ठेत् प्रावृतस्तद्वदातपे।
ततो विमृदितस्नातो युक्ताशी स्याद्गते ज्वरो॥
श्लोक 101
शमं तौ पित्तवृध्यैव प्रपद्येते स्वधाम च।
निवर्तते ततः शीघ्रं वातश्लेष्मोद्भवो ज्वरः॥
श्लोक 102
स्वर्ज्जिकाकुष्ठमञ्जिष्ठालाक्षामूर्वानिशौषधैः।
सतक्रं साधितं तैलमभ्यङ्गाद्दाहशीतजित्॥
श्लोक 103
वमनैश्च विरेकैश्च बस्तिभिश्च यथाक्रमम्।
ज्वरानुपचरेद्धीमान् कफपित्तानिलोद्भवान्॥
श्लोक 104
संसृष्टैः सन्निपतितैरेकानेकोल्बणैः समैः।
ज्वरान् दोषक्रमापेक्षी यथोक्तैरौषधैर्जयेत्॥
श्लोक 105
वर्धनेनैकदोसस्य क्षपणेनोच्छ्रितस्य वा।
कफस्थानानुपूर्व्या वा सन्निपातज्वरं जयेत्॥
श्लोक 106
निद्रानिवारणोपायः सन्यासाभिहितो हितः।
सन्निपाते विशेषेण दारुणोऽयमुपद्रवः॥
श्लोक 107
सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः।
शोफः सञ्जायते तेन कश्चिदेव विमुच्यते॥
श्लोक 108
रक्तावसेचनैः शीघ्रं सर्पिष्पानैश्च तं जयेत्।
प्रदेहैः कफपित्तघ्नैर्नावनैः कवलग्रहैः॥
श्लोक 109
शीतोष्णस्निग्धरूक्षाद्यैर्ज्वरो यस्य न शाम्यति।
शाखानुसारी तस्याशु मुञ्चेद्बाह्वाःक्रमात्सिराम्॥
श्लोक 110
अयमेव विधिः कार्यो विषमेऽपि यथायथम्।
ज्वरे विभज्य वातादीन्यश्चानन्तरमुच्यते॥
श्लोक 111
पटोलकटुकामुस्ताप्राणदामधुकैः कृताः।
त्रिचतुष्पञ्चशः क्वाथा विषमज्वरनाशनाः॥
श्लोक 112
योजयेत्त्रिफलां पथ्या गुडूचीं पिप्पलीं पृथक्।
तैस्तैर्विधानैः सगुडं भल्लातकमथापि वा॥
श्लोक 113
लङ्घनं बृंहणं वापि ज्वरागमनवासरे।
प्रातः सतैलं लशुनं प्राग्भक्तं वा तथा घृतम्॥
श्लोक 114
जीर्णं तद्वद्दधि पयस्तक्रं सर्पिश्च षट्पलम्।
कल्याणकं पञ्चगव्यं तिक्ताख्यं वृषसाधितम्॥
श्लोक 115
पञ्चगव्यस्य महतो विधिना पञ्चमाहिषम्।
पञ्चाजं चतुरौष्ट्रं च सिद्धं सिद्धं घृतं तथा॥
श्लोक 116
कटुरोहिणिमञ्जिष्ठावृषग्रन्थिकचित्रकैः।
पाठास्वगुप्ताद्विनिशैः पञ्चगव्यस्य पञ्चसु॥
श्लोक 117
प्रस्थेषु संयुतैः सेव्यं विषमज्वरजित् परम्।
वाक्स्वरस्मृतिमेधाग्निबलारोग्यवृषत्वकृत्॥
श्लोक 118
कोलाग्निमन्थत्रिफलाक्वाथे दध्ना घृतं पचेत्।
तिल्वकावापमेतच्च विषमज्वरनाशनम्॥
श्लोक 119
शृतक्षीरघृतक्षौद्रसिताकृष्णाः स्वजाहताः।
विषमज्वरहृद्रोगक्षतकासक्षयापहाः॥
श्लोक 120
सुरां तीक्ष्णं च यन्मद्यंअ शिखितित्तिरिदक्षजम्।
मांसं मेध्योष्णवीर्यं च सहान्नेन प्रकामतः॥
श्लोक 121
सेवित्वा तदहः स्वप्यादथवा पुनरुल्लिखेत्।
सर्पिषो महतीं मात्रां पीत्वा वा छर्दयेत् पुनः॥
श्लोक 122
नीलिनीमजगन्धां च त्रिवृतां कटुरोहिणीम्।
पिबेज्ज्वरस्यागमने स्नेहस्वेदोपपादितः॥
श्लोक 123
आस्थापनं वा तदहर्दद्यात्स्विन्नस्य यापनम्।
पयसा वृपदंशस्य शकृद्वा तदहः पिबेत्॥
श्लोक 124
मस्तुना वा वृषशकृत् सुरया वाथ सैन्धवम्।
मनोह्वा सैन्धवं कृष्णा तैलेन नयनाञ्जनम्॥
श्लोक 125
योज्या हिङ्गुसमा व्याघ्रीवसा नस्ये ससैन्धवा।
पुराणसर्पिः संहस्य वसा तद्वत् ससैन्धवा॥
श्लोक 126
पलङ्कषा निम्बपत्रं वचा कुष्ठं हरीतकी।
सर्षपाः सयवाः सर्पिर्धूपो विड्वा बिडालजा॥
श्लोक 127
पुरध्यामवचासर्जनिम्बार्कागरुदारुभिः।
धूपो ज्वरेषु सर्वेषु कार्योऽयमपराजितः॥
श्लोक 128
सहदेवावचाभद्रानाकुलीभिःप्रयोजयेत्।
धूपनोद्वर्तनालेपान् सर्वज्वरनिबर्हणान्॥
श्लोक 129
धूमनस्याञ्जनोत्तासा ये चोक्ताश्चित्तवैकृते।
दवाश्रयं च भैषज्यं ज्वरान् सर्वानपोहति।
विशेषाद्विषमान् प्रायस्ते ह्यागन्त्वनुबन्धजाः॥
श्लोक 130
यथास्वं च सिरां विध्येदशान्तौ विषमज्वरे॥
श्लोक 131
रससंस्थे तु सर्वस्मिन् कुर्याद्वमनलङ्घने।
सेकसंशमनालेपरक्तमोक्षानसृक्स्थिते॥
श्लोक 132
तीक्ष्णान् विरेकान् मांसस्थे मेदोघ्नं मेदसि स्थिते।
अस्थिस्थे वातशमनमभ्यङ्गस्वेदमर्दनम्।
ज्वरे वातार्तिशमनं विशेषाद्बस्तिकर्म च॥
श्लोक 133
केवलानिलवीसर्पविस्फोटाभिहतज्वरे।
सर्पिष्पानहिमालेपसेकमांसरसाशनम्॥
श्लोक 134
कुर्याद्यथास्वमुक्तं च रक्तमोक्षादिसाधनम्।
ग्रहोत्थे भूतविद्योक्तं मणिमन्त्रादिसाधनम्।
औषधीगन्धजे पित्तशमनं विषजिद्रिषे॥
श्लोक 135
इष्टैरर्थैर्मनोज्ञैश्च यथादोसशमेन च।
हिताहितविवेकैश्च ज्वरं क्रोधादिजं जयेत्॥
श्लोक 136
क्रोधजो याति कामेन शान्तिं क्रोधेन कामजः।
भयशोकोद्भवौ ताभ्यां भीशोकाभ्यां तथेतरौ।
शापाथर्वणमन्त्रोत्थे विधिर्दैवव्यपाश्रयः॥
श्लोक 137
ते ज्वराः केवलाःपूर्व व्याप्यन्तेऽनन्तरं मलैः।
तस्माद्दोषानुसारेण तेष्वाहारादि कल्पयेत्।
न हि ज्वरोऽनुबध्नाति मारुताद्यैर्विनाकृतः॥
श्लोक 138
कथास्त्रिवर्गसंयुक्ता रुङ्निद्रादिविनोदिनीः।
शस्ता विचित्राः शृणुयान्न प्रेतव्याधिताश्रयाः॥
श्लोक 139
ज्वरकालस्मृतिं चास्य हारिभिर्विषयैर्हरेत्।
त्यजेदाबललाभाच्च व्यायामस्नानमैथुनम्॥
श्लोक 140
गुर्वसात्म्यं विदाह्यन्नं यच्चान्यज्ज्वरकारणम्।
न विज्वरोऽपि सहसा सर्वान्नीनो भवेत् तथा॥
श्लोक 141
सद्यः प्राणहरो यस्मात्तस्मात्तस्य विशेषतः।
तस्यां तस्यामवस्थायां कुर्यात्तत्तधिषग्जितम्॥
श्लोक 142
मनोभिरामा विषया वचनं ह्लादि दक्षिणम्।
करुणार्द्रं मनः शुद्धं सर्वज्वरनिषूदनम्॥
श्लोक 143
मातरं पितरं देवान् वैद्यान् विप्रान् हरं हरिम्।
पूजयेच्छीलयेद्दानदमसत्यदयार्जवान्।
धारयेच्च सदा मन्त्रमणिरत्नमहौषधीः॥
श्लोक 144
आर्यावलोकितं पर्णशबरीमपराजिताम्।
प्रणमेदार्यतारां च सर्वज्वरनिवृत्तये॥
श्लोक 145
जपंस्तथा गतोष्णीषं सर्वव्याधिचिकित्सितम्।
आगन्तुदोषसहजैः सर्वरोगैर्विमुच्यते॥
इति द्वितीयोऽध्यायः॥