अष्टाङ्गसंग्रहः शरीरस्थानम् द्वितीयोऽध्यायः

श्लोक 1

अथातो गर्भावक्रान्तिं शारीरं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

गते पुराणे रजसि नवेऽवस्थिते शुद्धे गर्भस्याशये मार्गे च बीजात्मना शुक्रमविकृतमविकृतेन वायुना प्रेरितमन्यैश्च महाभूतैरनुगतमार्तवेनाभिमूर्च्छितमन्वक्षमेव रागादिक्लेशवशानुवर्तिना स्वकर्मचोदितेन मनोजवेन जीवेनाभिसंसृष्टं गर्भाशयमुपयाति॥

श्लोक 3

कार्याणा च कारणानुविधायित्वात्तत्सभागतां प्रतिपद्यते।
तत एव च शुक्रस्य बाहुल्यात् पुमानार्तवस्य बाहुल्यात् स्त्री तयोः साम्येन नपुंसकम्।
शुक्रार्तवेऽनिलेन खण्डशो भिन्ने यथाविभागमपत्यानामुत्पत्तिः।
विकृते वियोन्याकृतीनां च॥

श्लोक 4

अथ नार्याः सद्योगृहीतगर्भायाश्च लिङ्गं योन्या बीजग्रहणं तृप्तिर्गरिमा स्फुरणं शुक्रार्तवयोरनुबन्धश्च।
तथा प्रहर्षो हृल्लासस्तन्द्राङ्गसादः प्रसेको हृदयव्यथा ग्लानिः पिपासा च।
क्रमेण तु व्यक्तगर्भायाः कुक्षिमात्रगौरवं क्षामनेत्रस्वरता योनिरोमसंलुलनं निद्रा जृम्भणं मूर्च्छा छर्दिररुचिः पादशोफोऽम्लेऽभिलाषस्तेषु तेषु चोच्चावचेषु भावेष्विति॥

श्लोक 5

तस्याश्च रजोवाहिनां स्रोतसां वर्त्मान्युपरुध्यन्ते गर्भेण।
तस्मात्ततः परमार्तवं न दृश्यते।
ततस्तदधः प्रतिहतमपरमपरं चोपचीयमानमपरेत्याहुः।
जरायुरित्यन्ये। स्थिते रक्ते रोमराजिः प्रादुर्भवति॥

श्लोक 6

जरायुशेषं चोर्ध्वमसृक् प्रतिपद्यते।
तस्मात् पीनकपोलपयोधरता कृष्णौष्ठचूचुकत्वं च।
स्तनाश्रयमेव च कफोपरञ्जितं स्तन्यतामुपगतं प्रसूतायाः पूनराहाररसेनाप्यायते॥

श्लोक 7

तत्र प्रथमे मासे कललं जायते।
द्वितीये घनः पेश्यर्बुदं वा तेभ्यः क्रमात् पुंस्त्रीनपुंसकानि।
तृतीये पञ्चधा प्ररोहति।
तद्यथा सक्थिनी बाहू शिरश्च।
सक्थ्यादिप्ररोहैककालमेव च सर्वमङ्गावयवेन्द्रियाणि युगपत्सम्भवन्त्यन्यत्र जन्मोत्तरकालजेभ्यो दन्तादिभ्यः।
क्रमेण तु स्फुटीभवन्ति।
एषा प्रकृतिः।
विकृतिरतोऽन्यथा॥

श्लोक 8

यथास्वं च गर्भस्य पुंस्त्रीनपुंसकान्यतमलिङ्गानुरूपा भावा मनसि शरीरे च सन्तिष्ठन्ते।
वैशेषिकलिङ्गसङ्करे तु यतो भूयस्त्वं ततोऽन्तरा भावाः॥

श्लोक 9

यथास्वं च गर्भस्य पुंस्त्रीनपुंसकान्यतमलिङ्गानुरूपा भावा मनसि शरीरे च सन्तिष्ठन्ते।
वैशेषिकलिङ्गसङ्करे तु यतो भूयस्त्वं ततोऽन्तरा भावाः॥

श्लोक 10

तदा चास्य वेदना प्रव्यक्ता भवति।
ततश्च तत्प्रभृति स्पन्दतेऽभिलाषं पञ्चेन्द्रियार्थेषु करोति॥

श्लोक 11

मातृजं ह्यस्य हृदयं तद्रसहारिणीभिर्धर्मनीभिर्मातृहृदयेनाभिसम्बद्धं भवति।
तस्मात्तयोस्ताभिः श्रद्धा सम्पद्यते।
तथा च द्विहृदयां नारीं दौहृदिनीत्याचक्षते।
अन्ये तु पक्षत्रयात् प्रभृत्यापञ्चमान्मासाद्दौहृदकालमाहुः॥

श्लोक 12

प्रार्थनायां च तीव्रायां काममहितमप्यस्यै हितोपसंहितं दद्यात्।
दौहृदविमाननाद्धि वायुः प्रकुपितोऽन्तश्शरीरमनुचरन् गर्भस्य विनाशं वैरूप्यं वा कुर्यात्।
लब्धदौहृदा तु वीर्यवन्तं चिरायुषं च पुत्रं प्रसूते॥

श्लोक 13

चतुर्थेऽङ्गप्रत्यङ्गविभागः प्रव्यक्तो गर्भश्च स्थिरो भवति।
पञ्चमे मनः प्रतिबुद्धतरं भवति मांसशोणितोपचयश्च। षष्ठे केशरोमनखास्थिस्नाय्वादीन्यभिव्यक्तानि बलवर्णोपचयश्च।
सप्तमे सर्वाङ्गसम्पूर्णता॥

श्लोक 14

अष्टमे गर्भश्च मातृतो गर्भतश्च माता रसहारिणीभिर्वाहिनीभिर्मुहर्मुहुरोजः परस्परमाददाते। तस्मात्तदा गर्भिणी मुहुर्मुदिता भवति मुहुर्ग्लाना तथा गर्भः।
एवं गर्भस्य जन्म व्यापत्तिमत्तदा भवति। ओजसोऽनवस्थितत्वात्।
तथा ह्यस्य निष्क्रमणोन्मुखस्य परिवर्तनादीन्यनुभवत एवौजसा वियोगः।
यद्यपि च किञ्चित्कालमस्योच्छ्वसनं स्यात्तच्छिन्नस्येवाङ्गस्यौजस्संस्कारानुवृत्तिकृतम्।
जनन्यास्तु स्थिरौजस्कतयैकदेशेन रसे सङ्क्रान्ते ग्लानिरेवेति॥

श्लोक 15

अन्ये पुनराहुः।
नैरृतभागत्वात्तत्र गर्भस्य मरणम्।
तस्मात् प्रसवप्रतिषेधार्थं स्त्री स्नाता शुचिर्ब्रह्मचारिणी देवताराधनपरा स्यात्।
मांसौदनबालिं चात्र निर्वपेत्।
तस्मिन्नेकदिवसातिक्रान्तेऽपि प्रसवकालमाहुरासंवत्सरात्।
अतः परं विकारी भवति॥

श्लोक 16

गर्भस्तु मातुः पृष्ठाभिमुखो ललाटे कृताञ्जलिः सङ्कुचिताङ्गो गर्भष्ठे दक्षिणपार्श्वमाश्रित्यावतिष्ठते पुमान्।
वामं स्त्री मध्यं नपुंसकम्।
तत्र स्थितश्च गर्भो मातरि स्वपन्त्यां प्रबुद्धायां प्रबुध्यते।
परतन्त्रवृत्तेश्च गर्भस्य।
निषेकात् प्रभृति गर्भाशयोपस्नेहोपस्वेदौ वर्तनम्॥

श्लोक 17

ततो व्यक्तीभवदङ्गप्रत्यङ्गस्यास्य नाभ्यां प्रतिबद्धानाडी नाड्यामपरा तस्यां मातृहृदयम्।
ततो मातृहृदयादाहाररसो धमनीभिः स्यन्दमानोऽपरामुपैति।
ततः क्रमान्नाभिम्।
ततश्च स पुनर्गर्भस्य पक्वाशये स्वकायाग्निना पच्यमानः प्रसादबाहुल्याद्धात्वादिपुष्टिकरः सम्पद्यते। तथारोमकूपैरुपस्नेहो रस एव च पयोभूतः॥

श्लोक 18

अजातस्य साक्षादन्नपानाननुप्रवेशादमलत्वाच्च रसस्य गर्भस्य स्थूलमलासम्भवः। एवं जठरस्थो गर्भो जन्मकाले तु प्रसूतिमारुतयोगात् परिवृत्यावाक्शिरा निष्क्रामत्यनु चापरा च्युता मातृहृदयात्।
एषा प्रकृतिः।
विकृतिरतोऽन्यथा॥

श्लोक 19

तत्र या दक्षिणं पादं पूर्वमभिसरति दक्षिणश्च बाहुर्बलवांस्तेन चेष्टते तत्स्तने च प्राक् पयो दृश्यते अभ्युन्नतदक्षिणकुक्षिः परिमण्डलगर्भा पुन्नामदर्शनस्पर्शनप्रश्नदौहृदाभिरता पुन्नामधेयांश्च स्वप्नान् पश्यति प्रसन्नमुखवर्णा तीक्ष्णक्षुदूर्ध्वरोमराजिः पुरुषानभिलाषिणी च सा पुत्रं प्रसूते तद्विपर्यये कन्यां सङ्करे च नपुंसकम्।
प्रश्नकाले नारी यल्लिङ्गमङ्गं बाह्यद्रव्यं वा परामृशति तल्लिङ्गमस्या गर्भमादिशेत्॥

श्लोक 20

यदा तून्मार्गगो वातो गर्भस्य रसवाहीनि स्रोतांसि शोषयति तदा वातरोगी हीनाङ्गो वा जायते।
बहूनि वा वर्षाण्युदरे तिष्ठति॥

श्लोक 21

यदा स्त्रीपुंसयोः सममेवार्थो निष्पद्यते।
बीजं वा तयोः समांशं संमुखं च।
यदा च बीजं भागे दुष्यति तदा द्विप्रकृतिर्द्विरेता नपुंसकं भवति॥

श्लोक 22

यदा स्त्री प्रथमं कृतार्था भवति ततः पुरुषेण पश्चाच्छुक्रमुत्सृष्टं हर्षानवस्थितचेतसः स्त्रिया वातो विगुणीकरोति पुंस्त्ववाहीनि स्रोतांसि चोपहन्ति तदा वातेन्द्रियं भवति।
तन्मैथुने वातमेवोत्सृजति॥

श्लोक 23

यदा तु कार्त्स्न्येन नोपहन्ति अनुपघ्नन्नेव वा स्रोतोमुखं पिधत्ते तदा संस्कारवाह्यं भवति।
तत्र संस्कारो वाजीकरा बस्तयोऽभ्यवहारश्चेतोहर्षणानि च।
तानि हि शुक्रे बलमादधानानि स्रोतांस्यस्याप्याययन्तीति॥

श्लोक 24

यदाल्पबीजोऽल्पबलः पुमानुद्वेगः स्त्रीद्वेषयुक्तोऽन्यकामो वा नार्या व्यवायप्रतिघातं करोति तद्विधा वा नारी पुंसः।
तदा आसेक्यं नाम भवति।
तच्शुक्रास्वादाद्ध्वजोच्छ्रायं लभते॥

श्लोक 25

यदा पुनरुभावपि भवतः स्त्रीपुंसौ तद्विधौ तदा वक्रध्वजो भवति।
तस्य नैव ध्वजः स्तभ्यते॥

श्लोक 26

यदा पूतियोन्याः स्त्रिया गर्भो भवति सौगन्धिकाख्यः स योनिध्वजगन्धेन बलं लभते॥

श्लोक 27

यदा त्वीर्ष्याभिभूतौ मन्दहर्षौ संसृज्येते तदेर्ष्यारतिसंज्ञम्।
तस्य परं मिथुनीभूतं दृष्ट्वा मैथुनप्रवृत्तिर्भवति॥

श्लोक 28

यदा पुरुषस्य गर्भस्य वाय्वग्निदोषाद् वृषणनाशस्तदा वातषण्डकाख्यं भवति।
एताः कर्मवैचित्र्यादष्टौ षण्डयोनयोऽसङ्कीर्णाः कथिताः॥

श्लोक 29

यदा तु स्त्रियाः शोणितगर्भाशयौ दोषाः किञ्चित् प्रदूषयन्ति तदा यो गर्भो भवति तस्य गर्भस्य यस्य यस्य मातृजस्यावयवस्य बीजे बीजांशे वा दोषः प्रकोपमापद्यते तं तमवयवं विकृतिराविशति॥

श्लोक 30

यदा ह्यस्याः शोणिताख्ये बीजे गर्भाशयस्थे निर्वर्तकं बीजं प्रदुष्यति तदा वन्ध्यां जनयति।
यदा तस्यावयवस्तदा पूतिप्रजाम्।
तस्या जातं जातं म्रियते॥

श्लोक 31

यदा पुनः सोऽवयवः स्त्रीकराणां च शरीरसंश्रयाणामधोगुरुत्वादीनां निर्वर्तका ये बीजांशास्तेषामेकदेशः।
तदा स्त्र्याकृतिप्रायामस्त्रियं वार्तां नाम जनयति।
तां स्त्रीव्यापदमाचक्षते॥

श्लोक 32

एवमेव पुंसो यदा शुक्राख्ये बीजे बीजं प्रदुष्यतीत्यादि योजयेद्वन्ध्यं पूतिप्रजं तथा पुरुषाकृतिप्रायमपुरुषं तृणमुखिनं नाम जनयतीत्येतेन मातृजानां पितृजानां चावयवानां विकृतिर्व्याख्याता॥

श्लोक 33

अनेन सात्म्यजानां रसजानां सत्त्वजानां चावयवानां विकृतिर्व्याख्याता भवति।
यस्य यस्याङ्गावयवस्य बीजे बीजांशे वा उपतप्तिर्भवति तस्य तस्याङ्गावयवस्य विकृतिरुपजायते।
नोपजायतेऽनुतापात्॥

श्लोक 34

यदा च लब्धगर्भाऽन्वक्षमेव वातलान्यासेवते तदास्या वायुः प्रकुपितः शरीरमनुसर्पन् गर्भाशयेऽवतिष्ठमानो गर्भस्य जडबधिरमूकमिन्मिणगद्गदखञ्जकुब्जवामनहीनाङ्गाधिकाङ्गत्वान्यन्यं वा वातविकारं करोति।
तथा वायुवत् पित्तमपि खलतिपलितश्मश्रुहीनतात्वङ्नखकेशपैङ्गल्यादीनि।
श्लेष्मा तु कुष्ठकिलाससदन्तत्त्वादीनि।
त्रिवर्गो मिश्रान्विकारान्॥

श्लोक 35

अपि च। दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धत्वम्।
तदेव वातानुगतं विकृतरूक्षारुणाक्षम्।
पित्तानुगतं पिङ्गाक्षम्।
श्लेष्मानुगतं शुक्लाक्षम्।
रक्तानुगतं रक्ताक्षमिति॥

श्लोक 36

गर्भसमानयोगक्षेमा हि गर्भिणी भवति।
तस्माद्विशेषतस्तां प्रियहिताभ्यां गर्भोपधातकरेभ्यो रक्षेत् यथा यथा च गर्भो वृद्धिमाप्नोति तथा तथा भाराहारानादानादाहाररसापहाराच्च स्त्रिया बलक्षयः।
तत्रेमे गर्भोपघातकराः।
तद्यथा व्यवायव्यायामकर्शनाभिघातातिमात्रसङ्क्षोभियानयानरात्रिजागरणदि-वास्वप्नवेगविधारणाजीर्णातपाग्निकोधशोकभयोत्त्रासोपवासोत्कटक-विषमकठिनासनश्वभ्रकूपप्रपाताप्रियावलोकनश्रवणादयः।
समासतः सर्वमतिगुरूष्णतीक्ष्णरूक्षमन्नपानं दारुणाश्च चेष्टाः॥

श्लोक 37

तथा देवतारक्षोऽनुपचयपरिरक्षणार्थं न रक्तानि वासासि धारयेन्न यानमधिरोहेन्न मद्यमांसमश्नीयात्।
यच्चान्यदपि वृद्धस्त्रियो ब्रूयुः।
प्रततोत्तानशायिन्याः पुनर्गर्भस्य नाभ्याश्रया नाडी कण्ठमनुवेष्ट्य व्यापत्तिं करोति।
विवृतशया नक्तचारिणी चोन्मत्तं जनयति।
कलहशीलापस्मारिणम्।
व्यवायशीला दुर्वपुषमह्रीकं स्त्रैणं वा।
शोकनित्या भीरुमपचितमल्पायुषं वा।
अभिध्यायिनी परोपतापिनमीर्ष्यालुं स्त्रैणं वा।
स्तेना त्वायासबहुलमभिद्रोहिणमकर्मशीलं वा।
अमर्षणा चण्डमौपधिकं वा।
स्वप्नशीला निद्रालुमबुधमल्पाग्निं वा।
मद्यनित्या तृष्णालुमल्पस्मृतिमनवस्थितं वा।
गोधामांसनित्याश्मरिणं शनैर्मेहिनं वा।
बराहमांसनित्या रक्ताक्षं क्रथनमतिपरुषरोमाणं वा।
मत्स्यमांसनित्या चिरनिमेषं स्तब्धाक्षं वा।
मधुरनित्या प्रमेहिणं मूकमतिस्थूलं वा।
अम्लनित्या रक्तपित्तिनं त्वगक्षिरोगिणं वा।
लवणनित्या शीघ्रवलीपलितं खलतिकं वा।
तिक्तनित्या शोषिणमबलमपचितं वा।
कटुकनित्या दुर्बलमल्पशुक्रमनपत्यं वा।
कषायनित्या श्याममानाहिनमुदावर्तिनं वा।
यच्च यच्च यस्य व्याधेर्निदानं तत्तदासेवमानान्तर्वत्नी स्त्री तत्तद्विकारबहुलमपत्यं जनयति।
एतेन पितृजा अपि शुक्रदोषा व्याख्याताः॥

श्लोक 38

तस्मात् प्रजासम्पदमिच्छन्तौ साध्वात्मान्नसुपाचरेताम्।
विशेषेण नारी।
व्याधींश्चास्या मृदुमधुरशिशिरसुखैरौषधाहारविहारैरुपाचरेत्।
न चास्या वमनादीनि प्रयोजयेत्।
न रक्तावसेचनम्।
केवलं त्वष्टममासमुपादायास्थापामनुवासनं वा।
वमनादिसाध्येषु पुनर्विकारेषु मृदुभिस्तदर्थकारिभिर्वोपक्रमेत् पूर्णमिव तैलपात्रमसंक्षोभयद्गर्भिणीमुपाचरेदिति।
भवन्ति चात्र॥

श्लोक 39

इत्यनात्ययिके व्याधौ विधिरात्यीयके पुनः।
तीक्ष्णैरपि क्रियायोगैः स्त्रियं यत्नेन पालयेत्॥

श्लोक 40

स्त्री हि मूलमपत्यानां स्त्री हि रक्षति रक्षिता।
सर्वाश्रमाणां प्रथमं गृहस्थत्वमनिन्दितम्॥

श्लोक 41

जरायुणा मुखे छन्ने कण्ठे च कफवेष्टिते।
वायोर्मार्गनिरोधाच्च न गर्भस्थः प्ररोदिति॥