श्लोक 1
त्रि-विधः कथितो बालः क्षीरान्नोभय-वर्तनः ।
स्वास्थ्यं ताभ्याम् अ-दुष्टाभ्यां दुष्टाभ्यां रोग-संभवः ॥ १ ॥
श्लोक 2
यद् अद्भिर् एक-तां याति न च दोषैर् अधिष्ठितम् ।
तद् विशुद्धं पयो वाताद् दुष्टं तु प्लवते ऽम्भसि ॥ २ ॥
श्लोक 3
दुष्टं तु प्लवते जले कषायं फेनिलं रूक्षं वर्चो-मूत्र-विबन्ध-कृत् ।
पित्ताद् उष्णाम्ल-कटुकं पीत-राज्य् अप्सु दाह-कृत् ॥ ३ ॥
श्लोक 4
कफात् स-लवणं सान्द्रं जले मज्जति पिच्छिलम् ।
संसृष्ट-लिङ्गं संसर्गात् त्रि-लिङ्गं सांनिपातिकम् ॥ ४ ॥
श्लोक 5
ङ्गांस् तद् व्याधीन् जनयत्य् उपयोजितम् ।
शिशोस् तीक्ष्णम् अभीक्ष्णं च रोदनाल् लक्षयेद् रुजम् ॥ ५ ॥
श्लोक 6
शिशोस् तीक्ष्णम् अ-तीक्ष्णं च स यं स्पृशेद् भृशं देशं यत्र च स्पर्शना-क्षमः ।
तत्र विद्याद् रुजं मूर्ध्नि रुजं चाक्षि-निमीलनात् ॥ ६ ॥
श्लोक 7
स्वयं स्पृशेद् भृशं देशं यत्र च स्पर्शना-क्षमम् हृदि जिह्वौष्ठ-दशन-श्वास-मुष्टि-निपीडनैः ।
कोष्ठे विबन्ध-वमथु-स्तन-दंशान्त्र-कूजनैः ॥ ७ ॥
श्लोक 8
श्वास-मुष्टि-निपीडितैः -स्तन्य-द्वेषान्त्र-कूजनैः आध्मान-पृष्ठ-नमन-जठरोन्नमनैर् अपि ।
वस्तौ गुह्ये च विण्-मूत्र-सङ्गोत्त्रास-दिग्-ईक्षणैः ॥ ८ ॥
श्लोक 9
अथ धात्र्याः क्रियां कुर्याद् यथा-दोषं यथामयम् ।
तत्र वातात्मके स्तन्ये दश-मूलं त्र्य्-अहं पिबेत् ॥ ९ ॥
श्लोक 10
अथ-वाग्नि-वचा-पाठा-कटुका-कुष्ठ-दीप्यकम् ।
स-भार्गी-दारु-सरल-वृश्चिकाली-कणोषणम् ॥ १० ॥
श्लोक 11
ततः पिबेद् अन्य-तमं वात-व्याधि-हरं घृतम् ।
अनु चाच्छ-सुराम् एवं स्निग्धां मृदु विरेचयेत् ॥ ११ ॥
श्लोक 12
वात-व्याधि-हितं घृतम् वस्ति-कर्म ततः कुर्यात् स्वेदादींश् चानिलापहान् ।
रास्नाजमोदा-सरल-देवदारु-रजो-ऽन्वितम् ॥ १२ ॥
श्लोक 13
बालो लिह्याद् घृतं तैर् वा विपक्वं स-सितोपलम् ।
पित्त-दुष्टे ऽमृताभीरु-पटोली-निम्ब-चन्दनम् ॥ १३ ॥
श्लोक 14
धात्री कुमारश् च पिबेत् क्वाथयित्वा स-शारिवम् ।
अथ-वा त्रि-फला-मुस्त-भूनिम्ब-कटु-रोहिणीः ॥ १४ ॥
श्लोक 15
शारिवादिं पटोलादिं पद्मकादिं तथा गणम् ।
घृतान्य् एभिश् च सिद्धानि पित्त-घ्नं च विरेचनम् ॥ १५ ॥
श्लोक 16
शीतांश् चाभ्यङ्ग-लेपादीन् युञ्ज्याच् छ्लेष्मात्मके पुनः ।
यष्ट्य्-आह्व-सैन्धव-युतं कुमारं पाययेद् घृतम् ॥ १६ ॥
श्लोक 17
सिन्धूत्थ-पिप्पली-मद् वा पिष्टैः क्षौद्र-युतैर् अथ ।
राठ-पुष्पैः स्तनौ लिम्पेच् छिशोश् च दशन-च्छदौ ॥ १७ ॥
श्लोक 18
सिन्धूत्थ-पिप्पली-मद्य- सिन्धूत्थ-पिप्पली-मुस्ता- सिन्धूत्थ-पिप्पली-मूर्वा-पिष्टैः क्षौद्र-युतैर् अथ सुखम् एवं वमेद् बालः तीक्ष्णैर् धात्रीं तु वामयेत् ।
अथाचरित-संसर्गी मुस्तादिं क्वथितं पिबेत् ॥ १८ ॥
श्लोक 19
तद्-वत् तगर-पृथ्वीका-सुरदारु-कलिङ्गकान् ।
अथ-वातिविषा-मुस्त-षड्ग्रन्था-पञ्च-कोलकम् ॥ १९ ॥
श्लोक 20
सुरदारु-कलिङ्गकम् -षड्ग्रन्था-पञ्च-कोलकान् स्तन्ये त्रि-दोष-मलिने दुर्-गन्ध्य् आमं जलोपमम् ।
विबद्धम् अच्छं विच्छिन्नं फेनिलं चोपवेश्यते ॥ २० ॥
श्लोक 21
शकृन् नाना-व्यथा-वर्णं मूत्रं पीतं सितं घनम् ।
ज्वरा-रोचक-तृट्-छर्दि-शुष्कोद्गार-विजृम्भिकाः ॥ २१ ॥
श्लोक 22
अङ्ग-भङ्गो ऽङ्ग-विक्षेपः कूजनं वेपथुर् भ्रमः ।
घ्राणाक्षि-मुख-पाकाद्या जायन्ते ऽन्ये ऽपि तं गदम् ॥ २२ ॥
श्लोक 23
क्वणनं वेपथुर् भ्रमः क्षीरालसकम् इत्य् आहुर् अत्ययं चाति-दारुणम् ।
तत्राशु धात्रीं बालं च वमनेनोपपादयेत् ॥ २३ ॥
श्लोक 24
विहितायां च संसर्ग्यां वचादिं योजयेद् गणम् ।
निशादिं वाथ-वा माद्री-पाठा-तिक्ता-घनामयान् ॥ २४ ॥
श्लोक 25
पाठा-शुण्ठ्य्-अमृता-तिक्त-तिक्ता-देवाह्व-शारिवाः ।
स-मुस्त-मूर्वेन्द्रयवाः स्तन्य-दोष-हराः परम् ॥ २५ ॥
श्लोक 26
अनुबन्धे यथा-व्याधि प्रतिकुर्वीत काल-वित् ।
दन्तोद्भेदश् च रोगाणां सर्वेषाम् अपि कारणम् ॥ २६ ॥
श्लोक 27
विशेषाज् ज्वर-विड्-भेद-कास-च्छर्दि-शिरो-रुजाम् ।
अभिष्यन्दस्य पोथक्या विसर्पस्य च जायते ॥ २७ ॥
श्लोक 28
पृष्ठ-भङ्गे बिडालानां बर्हिणां च शिखोद्भवे ।
दन्तोद्भेदे च बालानां न हि किञ्-चिन् न दूयते ॥ २८ ॥
श्लोक 29
दन्तोद्भवे च बालानां यथा-दोषं यथा-रोगं यथोद्रेकं यथा-भयम् ।
विभज्य देश-कालादींस् तत्र योज्यं भिषग्-जितम् ॥ २९ ॥
श्लोक 30
यथोद्रेकं यथा-बलम् यथोद्रेकं यथा-वयः यथोद्रेकं यथाशयम् त एव दोषा दूष्याश् च ज्वराद्या व्याधयश् च यत् ।
अतस् तद् एव भैषज्यं मात्रा त्व् अस्य कनीयसी ॥ ३० ॥
श्लोक 31
ज्वराद्या व्याधयश् च ते सौकुमार्याल्प-काय-त्वात् सर्वान्नान्-उपसेवनात् ।
स्निग्धा एव सदा बाला घृत-क्षीर-निषेवणात् ॥ ३१ ॥
श्लोक 32
सर्वान्नान्-उपसेवनैः सद्यस् तान् वमनं तस्मात् पाययेन् मति-मान् मृदु ।
स्तन्यस्य तृप्तं वमयेत् क्षीर-क्षीरान्न-सेविनम् ॥ ३२ ॥
श्लोक 33
पीत-वन्तं तनुं पेयाम् अन्नादं घृत-संयुताम् ।
वस्तिं साध्ये विरेकेण मर्शेन प्रतिमर्शनम् ॥ ३३ ॥
श्लोक 34
युञ्ज्याद् विरेचनादींस् तु धात्र्या एव यथोदितान् ।
मूर्वा-व्योष-वरा-कोल-जम्बू-त्वग्-दारु-सर्षपाः ॥ ३४ ॥
श्लोक 35
युञ्ज्याद् विरेचनादींश् च मूर्वा-व्योष-वचा-कोल- मूर्वा-व्योष-वराङ्कोल्ल- स-पाठा मधुना लीढाः स्तन्य-दोष-हराः परम् ।
दन्त-पालीं स-मधुना चूर्णेन प्रतिसारयेत् ॥ ३५ ॥
श्लोक 36
स्तन्य-दोष-निबर्हणाः पिप्पल्या धातकी-पुष्प-धात्री-फल-कृतेन वा ।
लाव-तित्तिरि-वल्लूर-रजः पुष्प-रस-द्रुतम् ॥ ३६ ॥
श्लोक 37
धात्री-फल-रसेन वा -रजः पुष्प-रस-प्लुतम् -रजः पुष्प-रसाप्लुतम् द्रुतं करोति बालानां दन्त-केसर-वन् मुखम् ।
वचा-द्वि-बृहती-पाठा-कटुकातिविषा-घनैः ॥ ३७ ॥
श्लोक 38
मधुरैश् च घृतं सिद्धं सिद्धं दशन-जन्मनि ।
रजनी-दारु-सरल-श्रेयसी-बृहती-द्वयम् ॥ ३८ ॥
श्लोक 39
रजनी-दारु-सरलाः श्रेयसी-बृहती-द्वयम् पृश्निपर्णी शताह्वा च लीढं माक्षिक-सर्पिषा ।
ग्रहणी-दीपनं श्रेष्ठं मारुतस्यानुलोमनम् ॥ ३९ ॥
श्लोक 40
अतीसार-ज्वर-श्वास-कामला-पाण्डु-कास-नुत् ।
बालस्य सर्व-रोगेषु पूजितं बल-वर्ण-दम् ॥ ४० ॥
श्लोक 41
कामला-पाण्डु-रोग-नुत् समङ्गा-धातकी-लोध्र-कुटन्नट-बला-द्वयैः ।
महा-सहा-क्षुद्र-सहा-मुद्ग-बिल्व-शलाटुभिः ॥ ४१ ॥
श्लोक 42
कुटन्नट-बलाह्वयैः -कुटन्नट-वटाह्वयैः स-कार्पासी-फलैस् तोये साधितैः साधितं घृतम् ।
क्षीर-मस्तु-युतं हन्ति शीघ्रं दन्तोद्भवोद्भवान् ॥ ४२ ॥
श्लोक 43
विविधान् आमयान् एतद् वृद्ध-काश्यप-निर्मितम् ।
दन्तोद्भवेषु रोगेषु न बालम् अतियन्त्रयेत् ॥ ४३ ॥
श्लोक 44
दन्तोद्भेदोत्थ-रोगेषु स्वयम् अप्य् उपशाम्यन्ति जात-दन्तस्य यद्-गदाः ।
अत्य्-अहः-स्वप्न-शीताम्बु-श्लैष्मिक-स्तन्य-सेविनः ॥ ४४ ॥
श्लोक 45
श्लैष्मिक-स्तन्य-पायिनः शिशोः कफेन रुद्धेषु स्रोतःसु रस-वाहिषु ।
अ-रोचकः प्रतिश्यायो ज्वरः कासश् च जायते ॥ ४५ ॥
श्लोक 46
कुमारः शुष्यति ततः स्निग्ध-शुक्ल-मुखेक्षणः ।
सैन्धव-व्योष-शार्ङ्गष्टा-पाठा-गिरि-कदम्बकान् ॥ ४६ ॥
श्लोक 47
पाठा-गिरि-कदम्बकम् शुष्यतो मधु-सर्पिर्भ्याम् अ-रुच्य्-आदिषु योजयेत् ।
अशोक-रोहिणी-युक्तं पञ्च-कोलं च चूर्णितम् ॥ ४७ ॥
श्लोक 48
बदरी-धातकी-धात्री-चूर्णं वा सर्पिषा द्रुतम् ।
स्थिरा-वचा-द्वि-बृहती-काकोली-पिप्पली-नतैः ॥ ४८ ॥
श्लोक 49
चूर्णं वा सर्पिषाप्लुतम् निचुलोत्पल-वर्षाभू-भार्गी-मुस्तैश् च कार्षिकैः ।
सिद्धं प्रस्थार्धम् आज्यस्य स्रोतसां शोधनं परम् ॥ ४९ ॥
श्लोक 50
सिंह्य्-अश्वगन्धा-सुरसा-कणा-गर्भं च तद्-गुणम् ।
यष्ट्य्-आह्व-पिप्पली-लोध्र-पद्मकोत्पल-चन्दनैः ॥ ५० ॥
श्लोक 51
तालीश-शारिवाभ्यां च साधितं शोष-जिद् घृतम् ।
शृङ्गी-मधूलिका-भार्गी-पिप्पली-देवदारुभिः ॥ ५१ ॥
श्लोक 52
अश्वगन्धा-द्वि-काकोली-रास्नर्षभक-जीवकैः ।
शूर्पपर्णी-विडङ्गैश् च कल्कितैः साधितं घृतम् ॥ ५२ ॥
श्लोक 53
शशोत्तमाङ्ग-निर्यूहे शुष्यतः पुष्टि-कृत् परम् ।
वचा-वयःस्था-तगर-कायस्था-चोरकैः शृतम् ॥ ५३ ॥
श्लोक 54
बस्त-मूत्र-सुराभ्यां च तैलम् अभ्यञ्जने हितम् ।
लाक्षा-रस-समं तैल-प्रस्थं मस्तु चतुर्-गुणम् ॥ ५४ ॥
श्लोक 55
तैलान् मस्तु चतुर्-गुणम् लाक्षा-रस-समं तैलं प्रस्थं मस्तु चतुर्-गुणम् अश्वगन्धा-निशा-दारु-कौन्ती-कुष्ठाब्द-चन्दनैः ।
स-मूर्वा-रोहिणी-रास्ना-शताह्वा-मधुकैः समैः ॥ ५५ ॥
श्लोक 56
सिद्धं लाक्षादिकं नाम तैलम् अभ्यञ्जनाद् इदम् ।
बल्यं ज्वर-क्षयोन्माद-श्वासापस्मार-वात-नुत् ॥ ५६ ॥
श्लोक 57
यक्ष-राक्षस-भूत-घ्नं गर्भिणीनां च शस्यते ।
मधुनातिविषा-शृङ्गी-पिप्पलीर् लेहयेच् छिशुम् ॥ ५७ ॥
श्लोक 58
एकां वातिविषां कास-ज्वर-च्छर्दिर्-उपद्रुतम् ।
पीतं पीतं वमति यः स्तन्यं तं मधु-सर्पिषा ॥ ५८ ॥
श्लोक 59
ज्वर-च्छर्दिभिर् अर्दितम् पीतं पीतं च वमति यः स्तन्यं मधु-सर्पिषा द्वि-वार्ताकी-फल-रसं पञ्च-कोलं च लेहयेत् ।
पिप्पली-पञ्च-लवणं कृमिजित्-पारिभद्रकम् ॥ ५९ ॥
श्लोक 60
पिप्पली-पञ्च-लवण-कृमिजित्-पारिभद्रकम् विडङ्गं पारिभद्रकम् तद्-वल् लिह्यात् तथा व्योषं मषीं वा रोम-चर्मणाम् ।
लाभतः शल्यक-श्वाविद्-गोधर्क्ष-शिखि-जन्मनाम् ॥ ६० ॥
श्लोक 61
खदिरार्जुन-तालीश-कुष्ठ-चन्दन-जे रसे ।
स-क्षीरं साधितं सर्पिर् वमथुं विनियच्छति ॥ ६१ ॥
श्लोक
हनु-मूल-गतो वायुर् दन्त-देशास्थि-गो-चरः ।
यदा शिशोः प्रकुपितो नोत्तिष्ठन्ति तदा द्वि-जाः ॥ ६१+(१) ॥
श्लोक
अव् हनु-मूलाश्रितो वायुर् ब्व् दन्त-देशान् विशोषयेत् ब्व् दन्त-देशान् विशोधयेत् रूक्षाशिनो वातिकस्य चालयत्य् अनिलः सिराः ।
हन्व्-आश्रयाः प्रसुप्तस्य दन्तैः शब्दं करोत्य् अतः ॥ ६१+(२) ॥
श्लोक 62
स-दन्तो जायते यस् तु दन्ताः प्राग् यस्य चोत्तराः ।
कुर्वीत तस्मिन्न् उत्पाते शान्तिं तं च द्वि-जातये ॥ ६२ ॥
श्लोक 63
शान्तिकं च द्वि-जातये दद्यात् स-दक्षिणं बालं नैगमेषं च पूजयेत् ।
तालु-मांसे कफः क्रुद्धः कुरुते तालु-कण्टकम् ॥ ६३ ॥
श्लोक 64
सैनिकेशं च पूजयेत् तेन तालु-प्रदेशस्य निम्न-ता मूर्ध्नि जायते ।
तालु-पातः स्तन-द्वेषः कृच्छ्रात् पानं शकृद्-द्रवम् ॥ ६४ ॥
श्लोक 65
तृड्-आस्य-कण्ड्व्-अक्षि-रुजा ग्रीवा-दुर्-धर-ता वमिः ।
तत्रोत्क्षिप्य यव-क्षार-क्षौद्राभ्यां प्रतिसारयेत् ॥ ६५ ॥
श्लोक 66
तालु तद्-वत् कणा-शुण्ठी-गो-शकृद्-रस-सैन्धवैः ।
शृङ्गवेर-निशा-भृङ्गं कल्कितं वट-पल्लवैः ॥ ६६ ॥
श्लोक 67
बद्ध्वा गो-शकृता लिप्तम् कुकूले स्वेदयेत् ततः ।
रसेन लिम्पेत् ताल्व्-आस्यं नेत्रे च परिषेचयेत् ॥ ६७ ॥
श्लोक 68
हरीतकी-वचा-कुष्ठ-कल्कं माक्षिक-संयुतम् ।
पीत्वा कुमारः स्तन्येन मुच्यते तालु-कण्टकात् ॥ ६८ ॥
श्लोक 69
मलोपलेपात् स्वेदाद् वा गुदे रक्त-कफोद्भवः ।
ताम्रो व्रणो ऽन्तः कण्डू-मान् जायते भूर्य्-उपद्रवः ॥ ६९ ॥
श्लोक 70
के-चित् तं मातृका-दोषं वदन्त्य् अन्ये ऽहि-पूतनम् ।
पृष्ठारुर् गुद-कुट्टं च के-चिच् च तम् अ-नामिकम् ॥ ७० ॥
श्लोक 71
के-चिच् च तम् अ-नामकम् वदन्त्य् अन्ये ऽपि पूतनम् वदन्त्य् अन्ये तु पूतनम् वदन्त्य् अन्ये हि पूतनम् पृष्ठारुर् गुद-कण्डूं च पृष्ठारुर् गुद-किट्टं च पृष्ठारुर् गुद-कुष्ठं च तत्र धात्र्याः पयः शोध्यं पित्त-श्लेष्म-हरौषधैः ।
शृत-शीतं च शीताम्बु-युक्तम् अन्तर-पानकम् ॥ ७१ ॥
श्लोक 72
सित-शीतं च शीताम्बु- स-क्षौद्र-तार्क्ष्य-शैलेन व्रणं तेन च लेपयेत् ।
त्रि-फला-बदरी-प्लक्ष-त्वक्-क्वाथ-परिषेचितम् ॥ ७२ ॥
श्लोक 73
कासीस-रोचना-तुत्थ-मनोह्वाल-रसाञ्जनैः ।
लेपयेद् अम्ल-पिष्टैर् वा चूर्णितैर् वावचूर्णयेत् ॥ ७३ ॥
श्लोक 74
सु-श्लक्ष्णैर् अथ-वा यष्टी-शङ्ख-सौवीरकाञ्जनैः ।
शारिवा-शङ्खनाभिभ्याम् असनस्य त्वचाथ-वा ॥ ७४ ॥
श्लोक 75
राग-कण्डूत्कटे कुर्याद् रक्त-स्रावं जलौकसा ।
सर्वं च पित्त-व्रण-जिच् छस्यते गुद-कुट्टके ॥ ७५ ॥
श्लोक 76
छस्यते गुद-किट्टके पाठा-वेल्ल-द्वि-रजनी-मुस्त-भार्गी-पुनर्नवैः ।
स-बिल्व-त्र्य्-ऊषणैः सर्पिः वृश्चिकाली-युतैः शृतम् ॥ ७६ ॥
श्लोक 77
लिहानो मात्रया रोगैर् मुच्यते मृत्तिकोद्भवैः ॥ ७७अब् ॥
व्याधेर् यद्य् अस्य भैषज्यं स्तनस् तेन प्रलेपितः ॥ ७७च्द् ॥
स्थितो मुहूर्तं धौतो ऽनु पीतस् तं तं जयेद् गदम् ॥ ७७एf ॥
पीतस् तत् तं जयेद् गदम्