अष्टाङ्गहृदयम्/कल्पस्थानम् Adhyaay 2

श्लोक 1

कषाय-मधुरा रूक्षा विपाके कटुका त्रिवृत् ।
कफ-पित्त-प्रशमनी रौक्ष्याच् चानिल-कोपनी ॥ १ ॥

श्लोक 2

कषाया मधुरा रूक्षा रौक्ष्यात् सानिल-कोपनी रौक्ष्याद् अनिल-कोपनी सेदानीम् औषधैर् युक्ता वात-पित्त-कफापहैः ।
कल्प-वैशेष्यम् आसाद्य जायते सर्व-रोग-जित् ॥ २ ॥

श्लोक 3

द्वि-धा ख्यातं च तन्-मूलं श्यामं श्यामारुणं त्रिवृत् ।
त्रिवृद्-आख्यं वर-तरं निर्-अपायं सुखं तयोः ॥ ३ ॥

श्लोक 4

सु-कुमारे शिशौ वृद्धे मृदु-कोष्ठे च तद् धितम् ।
मूर्छा-संमोह-हृत्-कण्ठ-कषण-क्षणन-प्रदम् ॥ ४ ॥

श्लोक 5

कर्षण-क्षणन-प्रदम् श्यामं तीक्ष्णाशु-कारि-त्वाद् अतस् तद् अपि शस्यते ।
क्रूरे कोष्ठे बहौ दोषे क्लेश-क्षमिणि चातुरे ॥ ५ ॥

श्लोक 6

क्रूरे कोष्ठे बहु-दोषे क्रूरे कोष्ठे महा-दोषे गम्भीरानुगतं श्लक्ष्णम् अ-तिर्यग्-विसृतं च यत् ।
गृहीत्वा विसृजेत् काष्ठं त्वचं शुष्कां निधापयेत् ॥ ६ ॥

श्लोक 7

अ-तिर्यग्-विस्तृतं च यत् अथ काले ततश् चूर्णं किञ्-चिन् नागर-सैन्धवम् ।
वातामये पिबेद् अम्लैः पैत्ते साज्य-सिता-मधु ॥ ७ ॥

श्लोक 8

अथ काले च तच्-चूर्णं अथ काले तु तच्-चूर्णं अथ काले त्रिवृच्-चूर्णं अथ कालेन तच्- वातामयी पिबेद् अम्लैः पित्ते साज्य-सिता-मधु क्षीर-द्राक्षेक्षु-काश्मर्य-स्वादु-स्कन्ध-वरा-रसैः ।
कफामये पीलु-रस-मूत्र-मद्याम्ल-काञ्जिकैः ॥ ८ ॥

श्लोक 9

पञ्च-कोलादि-चूर्णैश् च युक्त्या युक्तं कफापहैः ।
त्रिवृत्-कल्क-कषायाभ्यां साधितः स-सितो हिमः ॥ ९ ॥

श्लोक 10

त्रिवृत्-कल्क-कषायेण युक्तं युञ्ज्यात् कफापहैः मधु-त्रि-जात-संयुक्तो लेहो हृद्यं विरेचनम् ।
अजगन्धा तवक्षीरी विदारी शर्करा त्रिवृत् ॥ १० ॥

श्लोक 11

अजगन्धा तुकाक्षीरी चूर्णितं मधु-सर्पिर्भ्यां लीढ्वा साधु विरिच्यते ।
संनिपात-ज्वर-स्तम्भ-पिपासा-दाह-पीडितः ॥ ११ ॥

श्लोक 12

तच्-चूर्णं मधु-सर्पिर्भ्यां लिम्पेद् अन्तस् त्रिवृतया द्वि-धा कृत्वेक्षु-गण्डिकाम् ।
एकी-कृत्य च तत् स्विन्नं पुट-पाकेन भक्षयेत् ॥ १२ ॥

श्लोक 13

द्वि-धा कृत्वेक्षु-गण्डिकाः द्वि-धा कृत्वेक्षु-कण्डिकाम् द्वि-धा कृत्वेक्षु-काण्डिकाम् एकी-कृतं च तत् स्विन्नं एकी-कृत्य च सु-स्विन्नं एकी-कृत्य तु तत् स्विन्नं भृङ्गैलाभ्यां समा नीली तैस् त्रिवृतैश् च शर्करा ।
चूर्णं फल-रस-क्षौद्र-सक्तुभिस् तर्पणं पिबेत् ॥ १३ ॥

श्लोक 14

त्वग्-एलाभ्यां समा नीली वात-पित्त-कफोत्थेषु रोगेष्व् अल्पानलेषु च ।
नरेषु सु-कुमारेषु निर्-अपायं विरेचनम् ॥ १४ ॥

श्लोक 15

विडङ्ग-तण्डुल-वरा-याव-शूक-कणास् त्रिवृत् ।
सर्वतो ऽर्धेन तल् लीढं मध्व्-आज्येन गुडेन वा ॥ १५ ॥

श्लोक 16

गुल्मं प्लीहोदरं कासं हलीमकम् अ-रोचकम् ।
कफ-वात-कृतांश् चान्यान् परिमार्ष्टि गदान् बहून् ॥ १६ ॥

श्लोक 17

विडङ्ग-पिप्पली-मूल-त्रि-फला-धान्य-चित्रकान् ।
मरीचेन्द्रयवाजाजी-पिप्पली-हस्ति-पिप्पलीः ॥ १७ ॥

श्लोक 18

त्रि-फला-धान्य-चित्रकम् -पिप्पली-हस्ति-पिप्पलि दीप्यकं पञ्च-लवणं चूर्णितं कार्षिकं पृथक् ।
तिल-तैल-त्रिवृच्-चूर्ण-भागौ चाष्ट-पलोन्मितौ ॥ १८ ॥

श्लोक 19

भागाव् अष्ट-पलोन्मितौ धात्री-फल-रस-प्रस्थांस् त्रीन् गुडार्ध-तुलान्वितान् ।
पक्त्वा मृद्व्-अग्निना खादेत् ततो मात्राम् अ-यन्त्रणः ॥ १९ ॥

श्लोक 

त्रीन् गुडार्ध-तुलोन्मितान् ततो मात्राम् अ-यन्त्रितः मन्दाग्नि-त्वं ज्वरं मूर्छां मूत्र-कृच्छ्रम् अ-रोचकम् ॥ १९+१अब् ॥

श्लोक 20

कुष्ठार्शः-कामला-गुल्म-मेहोदर-भगन्दरान् ।
ग्रहणी-पाण्डु-रोगांश् च हन्ति पुं-सवनश् च सः ॥ २० ॥

श्लोक 21

गुडः कल्याणको नाम सर्वेष्व् ऋतुषु यौगिकः ।
व्योष-त्रि-जातकाम्भोद-कृमिघ्नामलकैस् त्रिवृत् ॥ २१ ॥

श्लोक 22

सर्वैः समा सम-सिता क्षौद्रेण गुटिकाः कृताः ।
मूत्र-कृच्छ्र-ज्वर-च्छर्दि-कास-शोष-भ्रम-क्षये ॥ २२ ॥

श्लोक 

सर्वैः समाना स-सिता क्षौद्रेण गुटिकी-कृता भक्षयेत् प्रातर् उत्थाय शीतं चानु पिबेज् जलम् ॥ २२.१+१अब् ॥

श्लोक 23

तापे पाण्ड्व्-आमये ऽल्पे ऽग्नौ शस्ताः सर्व-विषेषु च ।
अ-विपत्तिर् अयं योगः प्रशस्तः पित्त-रोगिणाम् ॥ २३ ॥

श्लोक 24

त्रिवृता कौटजं बीजं पिप्पली विश्व-भेषजम् ।
क्षौद्र-द्राक्षा-रसोपेतं वर्षा-काले विरेचनम् ॥ २४ ॥

श्लोक 25

त्रिवृद्-दुरालभा-मुस्त-शर्करोदीच्य-चन्दनम् ।
द्राक्षाम्बुना स-यष्ट्य्-आह्व-सातलं जल-दात्यये ॥ २५ ॥

श्लोक 26

द्राक्षाम्बुना स-यष्ट्य्-आह्वं  -शीतलं जल-दात्यये शीतलं जल-दात्यये त्रिवृतां चित्रकं पाठाम् अजाजीं सरलं वचाम् ।
स्वर्णक्षीरीं च हेमन्ते चूर्णम् उष्णाम्बुना पिबेत् ॥ २६ ॥

श्लोक 27

त्रिवृता शर्करा-तुल्या ग्रीष्म-काले विरेचनम् ।
त्रिवृत्-त्रायन्ति-हपुषा-सातला-कटु-रोहिणीः ॥ २७ ॥

श्लोक 28

स्वर्णक्षीरीं च संचूर्ण्य गो-मूत्रे भावयेत् त्र्य्-अहम् ।
एष सर्वर्तुको योगः स्निग्धानां मल-दोष-हृत् ॥ २८ ॥

श्लोक 29

श्यामा-त्रिवृद्-दुरालभा-हस्ति-पिप्पली-वत्सकम् ।
नीलिनी-कटुका-मुस्ता-श्रेष्ठा-युक्तं सु-चूर्णितम् ॥ २९ ॥

श्लोक 30

रसाज्योष्णाम्बुभिः शस्तं रूक्षाणाम् अपि सर्व-दा ।
ज्वर-हृद्-रोग-वातासृग्-उदावर्तादि-रोगिषु ॥ ३० ॥

श्लोक 

सैन्धवं पिप्पली-मूलम् अभया द्वि-गुणोत्तरम् ।
चूर्णम् उष्णाम्बुना पेयं स्वस्थे सुख-विरेचनम् ॥ ३०.१+१ ॥

श्लोक 31

चूर्णम् उष्णाम्बुना पीतं राजवृक्षो ऽधिकं पथ्यो मृदुर् मधुर-शीतलः ।
बाले वृद्धे क्षते क्षीणे सु-कुमारे च मानवे ॥ ३१ ॥

श्लोक 32

योज्यो मृद्व्-अन्-अपायि-त्वाद् विशेषाच् चतुरङ्गुलः ।
फल-काले परिणतं फलं तस्य समाहरेत् ॥ ३२ ॥

श्लोक 33

तेषां गुण-वतां भारं सिकतासु विनिक्षिपेत् ।
सप्त-रात्रात् समुद्धृत्य शोषयेद् आतपे ततः ॥ ३३ ॥

श्लोक 34

शोषयेच् चातपे ततः शोषयेद् आतपे पुनः ततो मज्जानम् उद्धृत्य शुचौ पात्रे निधापयेत् ।
द्राक्षा-रसेन तं दद्याद् दाहोदावर्त-पीडिते ॥ ३४ ॥

श्लोक 35

चतुर्-वर्षे सुखं बाले यावद् द्वा-दश-वार्षिके ।
चतुरङ्गुल-मज्ज्ञो वा कषायं पाययेद् धिमम् ॥ ३५ ॥

श्लोक 36

दधि-मण्ड-सुरा-मण्ड-धात्री-फल-रसैः पृथक् ।
सौवीरकेण वा युक्तं कल्केन त्रैवृतेन वा ॥ ३६ ॥

श्लोक 37

दन्ती-कषाये तन्-मज्ज्ञो गुडं जीर्णं च निक्षिपेत् ।
तम् अरिष्टं स्थितं मासं पाययेत् पक्षम् एव वा ॥ ३७ ॥

श्लोक 38

त्वचं तिल्वक-मूलस्य त्यक्त्वाभ्यन्तर-वल्कलम् ।
विशोष्य चूर्णयित्वा च द्वौ भागौ गालयेत् ततः ॥ ३८ ॥

श्लोक 39

लोध्रस्यैव कषायेण तृतीयं तेन भावयेत् ।
कषाये दश-मूलस्य तं भागं भावितं पुनः ॥ ३९ ॥

श्लोक 40

लोध्रस्य तु कषायेण शुष्कं चूर्णं पुनः कृत्वा ततः पाणि-तलं पिबेत् ।
मस्तु-मूत्र-सुरा-मण्ड-कोल-धात्री-फलाम्बुभिः ॥ ४० ॥

श्लोक 41

शुष्क-चूर्णं ततः कुर्यात् शुष्क-चूर्णं पुनः कृत्वा शुष्कं चूर्णं ततः कृत्वा तिल्वकस्य कषायेण कल्केन च स-शर्करः ।
स-घृतः साधितो लेहः स च श्रेष्ठं विरेचनम् ॥ ४१ ॥

श्लोक 42

स च श्रेष्ठो विरेचनम् सुधा भिनत्ति दोषाणां महान्तम् अपि संचयम् ।
आश्व् एव कष्ट-विभ्रंशान् नैव तां कल्पयेद् अतः ॥ ४२ ॥

श्लोक 43

आश्व् एव कष्ट-विभ्रंशां आश्व् एव कोष्ठ-विभ्रंशान् नैव तां कल्पयेत् ततः मृदौ कोष्ठे ऽ-बले बाले स्थविरे दीर्घ-रोगिणि ।
कल्प्या गुल्मोदर-गर-त्वग्-रोग-मधु-मेहिषु ॥ ४३ ॥

श्लोक 44

पाण्डौ दूषी-विषे शोफे दोष-विभ्रान्त-चेतसि ।
सा श्रेष्ठा कण्टकैस् तीक्ष्णैर् बहुभिश् च समाचिता ॥ ४४ ॥

श्लोक 45

द्वि-वर्षां वा त्रि-वर्षां वा शिशिरान्ते विशेषतः ।
तां पाटयित्वा शस्त्रेण क्षीरम् उद्धारयेत् ततः ॥ ४५ ॥

श्लोक 46

बिल्वादीनां बृहत्योर् वा क्वाथेन समम् एक-शः ।
मिश्रयित्वा सुधा-क्षीरं ततो ऽङ्गारेषु शोषयेत् ॥ ४६ ॥

श्लोक 47

पिबेत् कृत्वा तु गुटिकां मस्तु-मूत्र-सुरादिभिः ।
त्रिवृतादीन् नव वरां स्वर्णक्षीरीं स-सातलाम् ॥ ४७ ॥

श्लोक 48

सप्ताहं स्नुक्-पयः-पीतान् रसेनाज्येन वा पिबेत् ।
तद्-वद् व्योषोत्तमा-कुम्भ-निकुम्भाग्नीन् गुडाम्बुना ॥ ४८ ॥

श्लोक 49

निकुम्भादीन् गुडाम्बुना नाति-शुष्कं फलं ग्राह्यं शङ्खिन्या निस्-तुषी-कृतम् ।
सप्तलायास् तथा मूलं ते तु तीक्ष्ण-विकाषिणी ॥ ४९ ॥

श्लोक 50

श्लेष्मामयोदर-गर-श्वयथ्व्-आदिषु कल्पयेत् ।
अक्ष-मात्रं तयोः पिण्डं मदिरा-लवणान्वितम् ॥ ५० ॥

श्लोक 51

हृद्-रोगे वात-कफ-जे तद्-वद् गुल्मे ऽपि योजयेत् ।
दन्ति-दन्त-स्थिरं स्थूलं मूलं दन्ती-द्रवन्ति-जम् ॥ ५१ ॥

श्लोक 52

तद्-वद् गुल्मे प्रयोजय् एत् आ-ताम्र-श्याव-तीक्ष्णोष्णम् आशु-कारि विकाशि च ।
गुरु प्रकोपि वातस्य पित्त-श्लेष्म-विलायनम् ॥ ५२ ॥

श्लोक 53

आशु-कारि विकाषि च तत् क्षौद्र-पिप्पली-लिप्तं स्वेद्यं मृद्-दर्भ-वेष्टितम् ।
शोष्यं मन्दातपे ऽग्न्य्-अर्कौ हतो ह्य् अस्य विकाशि-ताम् ॥ ५३ ॥

श्लोक 54

तत् क्षौद्र-पिप्पली-मिश्रं तत् क्षौद्र-पिप्पली-युक्तं हतो ह्य् अस्य विकाषि-ताम् तत् पिबेन् मस्तु-मदिरा-तक्र-पीलु-रसासवैः ।
अभिष्यण्ण-तनुर् गुल्मी प्रमेही जठरी गरी ॥ ५४ ॥

श्लोक 55

अभिष्यन्द-तनुर् गुल्मी अभिष्यन्दि-तनुर् गुल्मी गो-मृगाज-रसैः पाण्डुः कृमि-कोष्ठी भगन्दरी ।
सिद्धं तत् क्वाथ-कल्काभ्यां दश-मूल-रसेन च ॥ ५५ ॥

श्लोक 56

विसर्प-विद्रध्य्-अलजी-कक्षा-दाहान् जयेद् घृतम् ।
तैलं तु गुल्म-मेहार्शो-विबन्ध-कफ-मारुतान् ॥ ५६ ॥

श्लोक 57

महा-स्नेहः शकृच्-छुक्र-वात-सङ्गानिल-व्यथाः ।
विरेचने मुख्य-तमा नवैते त्रिवृतादयः ॥ ५७ ॥

श्लोक 58

महा-स्नेहश् च विट्-शुक्र- हरीतकीम् अपि त्रिवृद्-विधानेनोपकल्पयेत् ।
गुडस्याष्ट-पले पथ्या विंशतिः स्यात् पलं पलम् ॥ ५८ ॥

श्लोक 59

दन्ती-चित्रकयोः कर्षौ पिप्पली-त्रिवृतोर् दश ।
प्रकल्प्य मोदकान् एकं दशमे दशमे ऽहनि ॥ ५९ ॥

श्लोक 60

उष्णाम्भो ऽनुपिबेत् खादेत् तान् सर्वान् विधिनामुना ।
एते निष्-परिहाराः स्युः सर्व-व्याधि-निबर्हणाः ॥ ६० ॥

श्लोक 61

उष्णाम्भो ऽनुपिबन् खादेत् विशेषाद् ग्रहणी-पाण्डु-कण्डू-कोठार्शसां हिताः ।
अल्पस्यापि महार्थ-त्वं प्रभूतस्याल्प-कर्म-ताम् ॥ ६१ ॥

श्लोक 

कण्डू-कोष्ठाऋशसां हिताः -कण्डू-कुष्ठाऋशसां हिताः कुर्यात् संश्लेष-विश्लेष-काल-संस्कार-युक्तिभिः ॥ ६१ऊ̆अब् ॥

श्लोक 62

ब्व् -काल-संस्कार-युक्तितः त्वक्-केसराम्रातक-दाडिमैला-सितोपला-माक्षिक-मातुलुङ्गैः ।
मद्येन तैस् तैश् च मनो-ऽनुकूलैर् युक्तानि देयानि विरेचनानि ॥ ६२ ॥
मद्यैश् च तैस् तैश् च मनो-ऽनुकूलैर्