श्लोक 1
ऊर्ध्व-गं बलिनो ऽ-वेगम् एक-दोषानुगं नवम् ।
रक्त-पित्तं सुखे काले साधयेन् निर्-उपद्रवम् ॥ १ ॥
श्लोक 2
अधो-गं यापयेद् रक्तं यच् च दोष-द्वयानुगम् ।
शान्तं शान्तं पुनः कुप्यन् मार्गान् मार्गान्तरं च यत् ॥ २ ॥
श्लोक 3
अति-प्रवृत्तं मन्दाग्नेस् त्रि-दोषं द्वि-पथं त्यजेत् ।
ज्ञात्वा निदानम् अयनं मलाव् अनु-बलौ बलम् ॥ ३ ॥
श्लोक 4
देश-कालाद्य्-अवस्थां च रक्त-पित्ते प्रयोजयेत् ।
लङ्घनं बृंहणं वादौ शोधनं शमनं तथा ॥ ४ ॥
श्लोक 5
लङ्घनं बृंहणं चादौ संतर्पणोत्थं बलिनो बहु-दोषस्य साधयेत् ।
ऊर्ध्व-भागं विरेकेण वमनेन त्व् अधो-गतम् ॥ ५ ॥
श्लोक 6
वमनेन त्व् अधो-गमम् शमनैर् बृंहणैश् चान्यल् लङ्घ्य-बृंह्यान् अवेक्ष्य च ।
ऊर्ध्वं प्रवृत्ते शमनौ रसौ तिक्त-कषायकौ ॥ ६ ॥
श्लोक 7
लङ्घ्य-बृंह्यान् अपेक्ष्य च उपवासश् च निः-शुण्ठी-षड्-अङ्गोदक-पायिनः ।
अधो-गे रक्त-पित्ते तु बृंहणो मधुरो रसः ॥ ७ ॥
श्लोक 8
ऊर्ध्व-गे तर्पणं योज्यं प्राक् च पेया त्व् अधो-गते ।
अश्नतो बलिनो ऽ-शुद्धं न धार्यं तद् धि रोग-कृत् ॥ ८ ॥
श्लोक 9
पेया पूर्वम् अधो-गते प्राक् च पेया त्व् अधो-गमे वा प्राक् पेया त्व् अधो-गमे धारयेद् अन्य-था शीघ्रम् अग्नि-वच् छीघ्र-कारि तत् ।
त्रिवृच्-छ्यामा-कषायेण कल्केन च स-शर्करम् ॥ ९ ॥
श्लोक
गल-ग्रहं पूति-नस्यं मूर्छायम् अ-रुचिं ज्वरम् ।
गुल्मं प्लीहानम् आनाहं किलासं मूत्र-कृच्छ्र-ताम् ॥ ९.१+१ ॥
श्लोक
कुष्ठान्य् अर्शांसि वीसर्पं वर्ण-नाशं भगन्दरम् ।
बुद्धीन्द्रियोपरोधं च कुर्यात् स्तम्भितम् आदितः ॥ ९.१+२ ॥
श्लोक 10
साधयेद् विधि-वल् लेहं लिह्यात् पाणि-तलं ततः ।
त्रिवृता त्रि-फला श्यामा पिप्पली शर्करा मधु ॥ १० ॥
श्लोक 11
मोदकः संनिपातोर्ध्व-रक्त-शोफ-ज्वरापहः ।
त्रिवृत् सम-सिता तद्-वत् पिप्पली-पाद-संयुता ॥ ११ ॥
श्लोक 12
रक्त-पित्त-ज्वरापहः वमनं फल-संयुक्तं तर्पणं स-सिता-मधु ।
स-सितं वा जलं क्षौद्र-युक्तं वा मधुकोदकम् ॥ १२ ॥
श्लोक 13
क्षीरं वा रसम् इक्षोर् वा शुद्धस्यान्-अन्तरो विधिः ।
यथा-स्वं मन्थ-पेयादिः प्रयोज्यो रक्षता बलम् ॥ १३ ॥
श्लोक 14
मन्थो ज्वरोक्तो द्राक्षादिः पित्त-घ्नैर् वा फलैः कृतः ।
मधु-खर्जूर-मृद्वीका-परूषक-सिताम्भसा ॥ १४ ॥
श्लोक 15
मन्थो वा पञ्च-सारेण स-घृतैर् लाज-सक्तुभिः ।
दाडिमामलकाम्लो वा मन्दाग्न्य्-अम्लाभिलाषिणाम् ॥ १५ ॥
श्लोक 16
मन्दाग्न्य्-अम्लाभिलाषिणः कमलोत्पल-किञ्जल्क-पृश्निपर्णी-प्रियङ्गुकाः ।
उशीरं शबरं लोध्रं शृङ्गवेरं कु-चन्दनम् ॥ १६ ॥
श्लोक 17
ह्रीवेरं धातकी-पुष्पं बिल्व-मध्यं दुरालभा ।
अर्धार्धैर् विहिताः पेया वक्ष्यन्ते पाद-यौगिकाः ॥ १७ ॥
श्लोक 18
अर्धर्चैर् विहिताः पेया अर्धार्ध-विहिताः पेया भूनिम्ब-सेव्य-जलदा मसूराः पृश्निपर्ण्य् अपि ।
विदारिगन्धा मुद्गाश् च बला सर्पिर् हरेणुकाः ॥ १८ ॥
श्लोक 19
बला सर्पिः प्रियङ्गुकाः जाङ्गलानि च मांसानि शीत-वीर्याणि साधयेत् ।
पृथक् पृथग् जले तेषां यवागूः कल्पयेद् रसे ॥ १९ ॥
श्लोक 20
शीताः स-शर्करा-क्षौद्रास् तद्-वन् मांस-रसान् अपि ।
ईषद्-अम्लान् अन्-अम्लान् वा घृत-भृष्टान् स-शर्करान् ॥ २० ॥
श्लोक 21
शूक-शिम्बी-भवं धान्यं रक्ते शाकं च शस्यते ।
अन्न-स्व-रूप-विज्ञाने यद् उक्तं लघु-शीतलम् ॥ २१ ॥
श्लोक 22
पूर्वोक्तम् अम्बु पानीयं पञ्च-मूलेन वा शृतम् ।
लघुना शृत-शीतं वा मध्व्-अम्भो वा फलाम्बु वा ॥ २२ ॥
श्लोक 23
शशः स-वास्तुकः शस्तो विबन्धे तित्तिरिः पुनः ।
उदुम्बरस्य निर्यूहे साधितो मारुते ऽधिके ॥ २३ ॥
श्लोक 24
प्लक्षस्य बर्हिणस् तद्-वन् न्यग्रोधस्य च कुक्कुटः ।
यत् किञ्-चिद् रक्त-पित्तस्य निदानं तच् च वर्जयेत् ॥ २४ ॥
श्लोक 25
वासा-रसेन फलिनी-मृल्-लोध्राञ्जन-माक्षिकम् ।
पित्तासृक् शमयेत् पीतं निर्यासो वाटरूषकात् ॥ २५ ॥
श्लोक 26
शर्करा-मधु-संयुक्तः केवलो वा शृतो ऽपि वा ।
वृषः सद्यो जयत्य् अस्रं स ह्य् अस्य परम् औषधम् ॥ २६ ॥
श्लोक 27
पटोल-मालती-निम्ब-चन्दन-द्वय-पद्मकम् ।
लोध्रो वृषस् तण्डुलीयः कृष्णा मृन् मदयन्तिका ॥ २७ ॥
श्लोक 28
पटोलामलकी-निम्ब- शतावरी गोपकन्या काकोल्यौ मधुयष्टिका ।
रक्त-पित्त-हराः क्वाथास् त्रयः स-मधु-शर्कराः ॥ २८ ॥
श्लोक 29
पलाश-वल्क-क्वाथो वा सु-शीतः शर्करान्वितः ।
लिह्याद् वा मधु-सर्पिर्भ्यां गवाश्व-शकृतो रसम् ॥ २९ ॥
श्लोक 30
पिबेद् वा मधु-सर्पिर्भ्यां स-क्षौद्रं ग्रथिते रक्ते लिह्यात् पारावताच् छकृत् ।
अति-निःस्रुत-रक्तश् च क्षौद्रेण रुधिरं पिबेत् ॥ ३० ॥
श्लोक 31
लिह्यात् पारावतं शकृत् अति-निःसृत-रक्तश् च अति-निःसृत-रक्तो वा अति-निःस्रुत-रक्तो वा जाङ्गलं भक्षयेद् वाजम् आमं पित्त-युतं यकृत् ।
चन्दनोशीर-जलद-लाज-मुद्ग-कणा-यवैः ॥ ३१ ॥
श्लोक 32
बला-जले पर्युषितैः कषायो रक्त-पित्त-हा ।
प्रसादश् चन्दनाम्भो-ज-सेव्य-मृद्-भृष्ट-लोष्ट-जः ॥ ३२ ॥
श्लोक 33
सु-शीतः स-सिता-क्षौद्रः शोणिताति-प्रवृत्ति-जित् ।
आपोथ्य वा नवे कुम्भे प्लावयेद् इक्षु-गण्डिकाः ॥ ३३ ॥
श्लोक 34
स्थितं तद् गुप्तम् आकाशे रात्रिं प्रातः स्रुतं जलम् ।
मधु-मद् विकचाम्भो-ज-कृतोत्तंसं च तद्-गुणम् ॥ ३४ ॥
श्लोक 35
ये च पित्त-ज्वरे चोक्ताः कषायास् तांश् च योजयेत् ।
कषायैर् विविधैर् एभिर् दीप्ते ऽग्नौ विजिते कफे ॥ ३५ ॥
श्लोक 36
रक्त-पित्तं न चेच् छाम्येत् तत्र वातोल्बणे पयः ।
युञ्ज्याच् छागं शृतं तद्-वद् गव्यं पञ्च-गुणे ऽम्भसि ॥ ३६ ॥
श्लोक 37
पञ्च-मूलेन लघुना शृतं वा स-सिता-मधु ।
जीवकर्षभक-द्राक्षा-बला-गोक्षुर-नागरैः ॥ ३७ ॥
श्लोक 38
पृथक् पृथक् शृतं क्षीरं स-घृतं सितयाथ-वा ।
गोकण्टकाभीरु-शृतं पर्णिनीभिस् तथा पयः ॥ ३८ ॥
श्लोक 39
हन्त्य् आशु रक्तं स-रुजं विशेषान् मूत्र-मार्ग-गम् ।
विण्-मार्ग-गे विशेषेण हितं मोच-रसेन तु ॥ ३९ ॥
श्लोक 40
वट-प्ररोहैर् शुङ्गैर् वा शुण्ठ्य्-उदीच्योत्पलैर् अपि ।
रक्तातीसार-दुर्-नाम-चिकित्सां चात्र कल्पयेत् ॥ ४० ॥
श्लोक 41
वट-प्ररोहैर् शृङ्गैर् वा पीत्वा कषायान् पयसा भुञ्जीत पयसैव च ।
कषाय-योगैर् एभिर् वा विपक्वं पाययेद् घृतम् ॥ ४१ ॥
श्लोक 42
स-मूल-मस्तकं क्षुण्णं वृषम् अष्ट-गुणे ऽम्भसि ।
पक्त्वाष्टांशावशेषेण घृतं तेन विपाचयेत् ॥ ४२ ॥
श्लोक 43
तत्-पुष्प-गर्भं तच् छीतं स-क्षौद्रं पित्त-शोणितम् ।
पित्त-गुल्म-ज्वर-श्वास-कास-हृद्-रोग-कामलाः ॥ ४३ ॥
श्लोक 44
तिमिर-भ्रम-वीसर्प-स्वर-सादांश् च नाशयेत् ।
पलाश-वृन्त-स्व-रसे तद्-गर्भं च घृतं पचेत् ॥ ४४ ॥
श्लोक 45
स-क्षौद्रं तच् च रक्त-घ्नं तथैव त्रायमाणया ।
रक्ते स-पिच्छे स-कफे ग्रथिते कण्ठ-मार्ग-गे ॥ ४५ ॥
श्लोक 46
लिह्यान् माक्षिक-सर्पिर्भ्यां क्षारम् उत्पल-नाल-जम् ।
पृथक् पृथक् तथाम्भो-ज-रेणु-श्यामा-मधूक-जम् ॥ ४६ ॥
श्लोक 47
गुदागमे विशेषेण शोणिते वस्तिर् इष्यते ।
घ्राण-गे रुधिरे शुद्धे नावनं चानुषेचयेत् ॥ ४७ ॥
श्लोक 48
कषाय-योगान् पूर्वोक्तान् क्षीरेक्ष्व्-आदि-रसाप्लुतान् ।
क्षीरादीन् स-सितांस् तोयं केवलं वा जलं हितं ॥ ४८ ॥
श्लोक 49
क्षीरेक्ष्व्-आदि-रस-प्लुतान् रसो दाडिम-पुष्पाणाम् आम्रास्थ्नः शाद्वलस्य वा ।
कल्पयेच् छीत-वर्गं च प्रदेहाभ्यञ्जनादिषु ॥ ४९ ॥
श्लोक
आम्रास्थ्नः शाद्वलस्य च सु-सूक्ष्मा माष-पिष्टी च घृत-भृष्टा शिवस्य च ।
रुणद्धि मूर्ध-लेपेन नासा-रक्तं न संशयः ॥ ४९.१+१ ॥
श्लोक 50
यच् च पित्त-ज्वरे प्रोक्तं बहिर् अन्तश् च भेषजम् ।
रक्त-पित्ते हितं तच् च क्षत-क्षीणे हितं च यत् ॥ ५० ॥