श्लोक 1
कुष्ठिनं स्नेह-पानेन पूर्वं सर्वम् उपाचरेत् ।
तत्र वातोत्तरे तैलं घृतं वा साधितं हितम् ॥ १ ॥
श्लोक 2
दश-मूलामृतैरण्ड-शार्ङ्गष्टा-मेषशृङ्गिभिः ।
पटोल-निम्ब-कटुका-दार्वी-पाठा-दुरालभाः ॥ २ ॥
श्लोक 3
पर्पटं त्रायमाणां च पलांशं पाचयेद् अपाम् ।
द्व्य्-आढके ऽष्टांश-शेषेण तेन कर्षोन्मितैस् तथा ॥ ३ ॥
श्लोक 4
त्रायन्ती-मुस्त-भूनिम्ब-कलिङ्ग-कण-चन्दनैः ।
सर्पिषो द्वा-दश-पलं पचेत् तत् तिक्तकं जयेत् ॥ ४ ॥
श्लोक 5
पित्त-कुष्ठ-परीसर्प-पिटिका-दाह-तृड्-भ्रमान् ।
कण्डू-पाण्ड्व्-आमयान् गण्डान् दुष्ट-नाडी-व्रणापचीः ॥ ५ ॥
श्लोक 6
विस्फोट-विद्रधी-गुल्म-शोफोन्माद-मदान् अपि ।
हृद्-रोग-तिमिर-व्यङ्ग-ग्रहणी-श्वित्र-कामलाः ॥ ६ ॥
श्लोक 7
भगन्दरम् अपस्मारम् उदरं प्रदरं गरम् ।
अर्शो-ऽस्र-पित्तम् अन्यांश् च सु-कृच्छ्रान् पित्त-जान् गदान् ॥ ७ ॥
श्लोक 8
स-प्रच्छदः पर्पटकः शम्याकः कटुका वचा ।
त्रि-फला पद्मकं पाठा रजन्यौ शारिवे कणे ॥ ८ ॥
श्लोक 9
निम्ब-चन्दन-यष्ट्य्-आह्व-विशालेन्द्रयवामृताः ।
किराततिक्तकं सेव्यं वृषो मूर्वा शतावरी ॥ ९ ॥
श्लोक 10
पटोलातिविषा-मुस्ता-त्रायन्ती-धन्वयासकम् ।
तैर् जले ऽष्ट-गुणे सर्पिर् द्वि-गुणामलकी-रसे ॥ १० ॥
श्लोक 11
सिद्धं तिक्तान् महा-तिक्तं गुणैर् अभ्यधिकं मतम् ।
कफोत्तरे घृतं सिद्धं निम्ब-सप्ताह्व-चित्रकैः ॥ ११ ॥
श्लोक 12
कुष्ठोषण-वचा-शाल-प्रियाल-चतुरङ्गुलैः ।
सर्वेषु चारुष्कर-जं तौबरं सार्षपं पिबेत् ॥ १२ ॥
श्लोक 13
स्नेहं घृतं वा कृमिजित्-पथ्या-भल्लातकैः शृतम् ।
आरग्वधस्य मूलेन शत-कृत्वः शृतं घृतम् ॥ १३ ॥
श्लोक 14
पथ्या-भल्लातक-शृतम् सप्त-कृत्वः शृतं घृतम् पिबन् कुष्ठं जयत्य् आशु भजन् स-खदिरं जलम् ।
एभिर् एव यथा-स्वं च स्नेहैर् अभ्यञ्जनं हितम् ॥ १४ ॥
श्लोक 15
पिबेत् कुष्ठं जयत्य् आशु स्निग्धस्य शोधनं योज्यं विसर्पे यद् उदाहृतम् ।
ललाट-हस्त-पादेषु सिराश् चास्य विमोक्षयेत् ॥ १५ ॥
श्लोक 16
प्रच्छानम् अल्पके कुष्ठे शृङ्गाद्याश् च यथा-यथम् ।
स्नेहैर् आप्याययेच् चैनं कुष्ठ-घ्नैर् अन्तरान्तरा ॥ १६ ॥
श्लोक 17
मुक्त-रक्त-विरिक्तस्य रिक्त-कोष्ठस्य कुष्ठिनः ।
प्रभञ्जनस् तथा ह्य् अस्य न स्याद् देह-प्रभञ्जनः ॥ १७ ॥
श्लोक 18
वासामृता-निम्ब-वरा-पटोल-व्याघ्री-करञ्जोदक-कल्क-पक्वम् ।
सर्पिर् विसर्प-ज्वर-कामलास्र-कुष्ठापहं वज्रकम् आमनन्ति ॥ १८ ॥
श्लोक 19
त्रि-फला-त्रि-कटु-द्वि-कण्टकारी-कटुका-कुम्भ-निकुम्भ-राजवृक्षैः ।
स-वचातिविषाग्निकैः स-पाठैः पिचु-भागैर् नव-वज्र-दुग्ध-मुष्ट्या ॥ १९ ॥
श्लोक 20
पिष्टैः सिद्धं सर्पिषः प्रस्थम् एभिः क्रूरे कोष्ठे स्नेहनं रेचनं च ।
कुष्ठ-श्वित्र-प्लीह-वर्ध्माश्म-गुल्मान् हन्यात् कृच्छ्रांस् तन् महा-वज्रकाख्यम् ॥ २० ॥
श्लोक 21
दन्त्य्-आढकम् अपां द्रोणे पक्त्वा तेन घृतं पचेत् ।
धामार्गव-पले पीतं तद् ऊर्ध्वाधो विशुद्धि-कृत् ॥ २१ ॥
श्लोक 22
आवर्तकी-तुलां द्रोणे पचेद् अष्टांश-शेषितम् ।
तन्-मूलैस् तत्र निर्यूहे घृत-प्रस्थं विपाचयेत् ॥ २२ ॥
श्लोक 23
पीत्वा तद् एक-दिवसान्तरितं सु-जीर्णे भुञ्जीत कोद्रवम् अ-संस्कृत-काञ्जिकेन ।
कुष्ठं किलासम् अपचीं च विजेतुम् इच्छन् इच्छन् प्रजां च विपुलां ग्रहणं स्मृतिं च ॥२३ ॥
श्लोक 24
भुञ्जीत कोद्रव-सु-संस्कृत-काञ्जिकेन यतेर् लेलीतक-वसा क्षौद्र-जाती-रसान्विता ।
कुष्ठ-घ्नी सम-सर्पिर् वा स-गायत्र्य्-असनोदका ॥ २४ ॥
श्लोक 25
शालयो यव-गोधूमाः कोरदूषाः प्रियङ्गवः ।
मुद्गा मसूरास् तुबरी तिक्त-शाकानि जाङ्गलम् ॥ २५ ॥
श्लोक 26
वरा-पटोल-खदिर-निम्बारुष्कर-योजितम् ।
मद्यान्य् औषध-गर्भाणि मथितं चेन्दुराजि-मत् ॥ २६ ॥
श्लोक 27
अन्न-पानं हितं कुष्ठे न त्व् अम्ल-लवणोषणम् ।
दधि-दुग्ध-गुडानूप-तिल-माषांस् त्यजेत्-तराम् ॥ २७ ॥
श्लोक 28
पटोल-मूल-त्रि-फला-विशालाः पृथक्-त्रि-भागापचित-त्रि-शाणाः ।
स्युस् त्रायमाणा कटु-रोहिणी च भागार्धिके नागर-पाद-युक्ते ॥ २८ ॥
श्लोक 29
एतत् पलं जर्जरितं विपक्वं जले पिबेद् दोष-विशोधनाय ।
जीर्णे रसैर् धन्व-मृग-द्वि-जानां पुराण-शाल्य्-ओदनम् आददीत ॥ २९ ॥
श्लोक 30
कुष्ठं किलासं ग्रहणी-प्रदोषम् अर्शांसि कृच्छ्राणि हलीमकं च ।
षड्-रात्र-योगेन निहन्ति चैतद् हृद्-वस्ति-शूलं विषम-ज्वरं च ॥ ३० ॥
श्लोक 31
षड्-रात्र-योगेन निहन्ति चैष विडङ्ग-सारामलकाभयानां पल-त्रयं त्रीणि पलानि कुम्भात् ।
गुडस्य च द्वा-दश मासम् एष जितात्मनां हन्त्य् उपयुज्य्मानः ॥ ३१ ॥
श्लोक 32
कुष्ठ-श्वित्र-श्वास-कासोदरार्शो-मेह-प्लीह-ग्रन्थि-रुग्-जन्तु-गुल्मान् ।
सिद्धं योगं प्राह यक्षो मुमुक्षोर् भिक्षोः प्राणान् माणिभद्रः किलेमम् ॥ ३२ ॥
श्लोक 33
भूनिम्ब-निम्ब-त्रि-फला-पद्मकातिविषा-कणाः ।
मूर्वा-पटोली-द्वि-निशा-पाठा-तिक्तेन्द्रवारुणीः ॥ ३३ ॥
श्लोक 34
स-कलिङ्ग-वचास् तुल्या द्वि-गुणाश् च यथोत्तरम् ।
लिह्याद् दन्ती-त्रिवृद्-ब्राह्मीस् चूर्णिता मधु-सर्पिषा ॥ ३४ ॥
श्लोक 35
कुष्ठ-मेह-प्रसुप्तीनां परमं स्यात् तद् औषधम् ।
वरा-विडङ्ग-कृष्णा वा लिह्यात् तैलाज्य-माक्षिकैः ॥ ३५ ॥
श्लोक 36
कुष्ठ-मेह-प्रतप्तानां काकोदुम्बरिका-वेल्ल-निम्बाब्द-व्योष-कल्क-वान् ।
हन्ति वृक्षक-निर्यूहः पानात् सर्वांस् त्वग्-आमयान् ॥ ३६ ॥
श्लोक 37
पानात् सर्व-त्वग्-आमयान् कुटजाग्नि-निम्ब-नृपतरु-खदिरासन-सप्तपर्ण-निर्यूहे ।
सिद्धा मधु-घृत-युक्ताः कुष्ठ-घ्नीर् भक्षयेद् अभयाः ॥ ३७ ॥
श्लोक
दार्वी-खदिर-निम्बानां त्वक्-क्वाथः कुष्ठ-सूदनः ॥ ३७ऊ̆अब् ॥
श्लोक 38
निशोत्तमा-निम्ब-पटोल-मूल-तिक्ता-वचा-लोहितयष्टिकाभिः ।
कृतः कषायः कफ-पित्त-कुष्ठं सु-सेवितो धर्म इवोच्छिनत्ति ॥ ३८ ॥
श्लोक 39
एभिर् एव च शृतं घृतम् उख्यं भेषजैर् जयति मारुत-कुष्ठम् ।
कल्पयेत् खदिर-निम्ब-गुडूची-देवदारु-रजनीः पृथग् एवम् ॥ ३९ ॥
श्लोक 40
पाठा-दार्वी-वह्नि-घुणेष्टा-कटुकाभिर् ॥ ४०अ ॥
मूत्रं युक्तं शक्रयवैश् चोष्ण-जलं वा ॥ ४०ब् ॥
कुष्ठी पीत्वा मासम् अ-रुक् स्याद् गुद-कीली ॥ ४०च् ॥
मेही शोफी पाण्डुर-जीर्णी कृमि-मांश् च ॥ ४०द् ॥
श्लोक 41
लाक्षा-दन्ती-मधुरस-वरा-द्वीपि-पाठा-विडङ्ग- ॥ ४१अ ॥
लाक्षा-दन्ती-मधुरस-वरा-द्वीपि-पाठा-विडङ्गं -प्रत्यक्पुष्पी-त्रि-कटु-रजनी-सप्तपर्णाटरूषम् ॥ ४१ब् ॥
प्रत्यक्पुष्पी-त्रि-कटु-रजनी-सप्तपर्णाटरूषम् रक्ता निम्बं सुरतरु कृतं पञ्च-मूल्यौ च चूर्णं ॥ ४१च् ॥
पीत्वा मासं जयति हित-भुग् गव्य-मूत्रेण कुष्ठम् ॥ ४१द् ॥
श्लोक 42
निशा-कणा-नागर-वेल्ल-तौबरं स-वह्नि-ताप्यं क्रम-शो विवर्धितम् ।
गवाम्बु-पीतं वटकी-कृतं तथा निहन्ति कुष्ठानि स-दारुणान्य् अपि ॥ ४२ ॥
श्लोक 43
त्रि-कटूत्तमा-तिलारुष्कराज्य-माक्षिक-सितोपला-विहिता ।
गुटिका रसायनं कुष्ठ-जिच् च वृष्या च सप्त-समा ॥ ४३ ॥
श्लोक 44
गुटिका रसायनं स्यात्. -हृच् च वृष्या च सप्त-समा. कुष्ठ-जिच् च वृष्या च सप्त-समा चन्द्रशकलाग्नि-रजनी-विडङ्ग-तुबरास्थ्य्-अरुष्कर-त्रि-फलाभिः ।
वटका गुडांश-कॢप्ताः समस्त-कुष्ठानि नाशयन्त्य् अभ्यस्ताः ॥ ४४ ॥
श्लोक 45
विडङ्ग-भल्लातक-वाकुचीनां स-द्वीपि-वाराहि-हरीतकीनाम् ।
स-लाङ्गली-कृष्ण-तिलोपकुल्या गुडेन पिण्डी विनिहन्ति कुष्ठम् ॥ ४५ ॥
श्लोक 46
शशाङ्कलेखा स-विडङ्ग-सारा स-पिप्पलीका स-हुताश-मूला ।
सायो-मला सामलका स-तैला कुष्ठानि कृच्छ्राणि निहन्ति लीढा ॥ ४६ ॥
श्लोक 47
शशाङ्कलेखा स-विडङ्ग-मूला पथ्या-तिल-गुडैः पिण्डी कुष्ठं सारुष्करैर् जयेत् ।
गुडारुष्कर-जन्तुघ्न-सोमराजी-कृताथ-वा ॥ ४७ ॥
श्लोक 48
विडङ्गाद्रि-जतु-क्षौद्र-सर्पिष्-मत् खादिरं रजः ।
किटिभ-श्वित्र-दद्रू-घ्नं खादेन् मित-हिताशनः ॥ ४८ ॥
श्लोक 49
सिता-तैल-कृमिघ्नानि धात्र्य्-अयो-मल-पिप्पलीः ।
लिहानः सर्व-कुष्ठानि जयत्य् अति-गुरूण्य् अपि ॥ ४९ ॥
श्लोक 50
मुस्तं व्योषं त्रि-फला मञ्जिष्ठा दारु पञ्च-मूले द्वे ।
सप्तच्छद-निम्ब-त्वक् स-विशाला चित्रको मूर्वा ॥ ५० ॥
श्लोक 51
चूर्णं तर्पण-भागैर् नवभिः संयोजितं स-मध्व्-अंशम् ।
नित्यं कुष्ठ-निबर्हणम् एतत् प्रायोगिकं खादन् ॥ ५१ ॥
श्लोक 52
श्वयथुं स-पाण्डु-रोगं श्वित्रं ग्रहणी-प्रदोषम् अर्शांसि ।
वर्ध्म-भगन्दर-पिटिका-कण्डू-कोठापचीर् हन्ति ॥ ५२ ॥
श्लोक 53
रसायन-प्रयोगेण तुबरास्थीनि शीलयेत् ।
भल्लातकं वाकुचिकां वह्नि-मूलं शिलाह्वयम् ॥ ५३ ॥
श्लोक 54
इति दोषे विजिते ऽन्तस्-त्वक्-स्थे शमनं बहिः प्रलेपादि हितम् ।
तीक्ष्णालेपोत्क्लिष्टं कुष्ठं हि विवृद्धिम् एति मलिने देहे ॥ ५४ ॥
श्लोक 55
स्थिर-कठिन-मण्डलानां कुष्ठानां पोटलैर् हितः स्वेदः ।
स्विन्नोत्सन्नं कुष्ठं शस्त्रैर् लिखितं प्रलेपनैर् लिम्पेत् ॥ ५५ ॥
श्लोक 56
येषु न शस्त्रं क्रमते स्पर्शेन्द्रिय-नाशनेषु कुष्ठेषु ।
तेषु निपात्यः क्षारो रक्तं दोषं च विस्राव्य ॥ ५६ ॥
श्लोक 57
लेपो ऽति-कठिन-परुषे सुप्ते कुष्ठे स्थिरे पुराणे च ।
पीता-गदस्य कार्यो विषैः स-मन्त्रो ऽ-गदैश् चानु ॥ ५७ ॥
श्लोक 58
विषैः स-मन्त्रा-गदैश् चानु स्तब्धानि सुप्त-सुप्तान्य् अ-स्वेदन-कण्डुलानि कुष्ठानि ।
घृष्टानि शुष्क-गो-मय-फेनक-शस्त्रैः प्रदेह्यानि ॥ ५८ ॥
श्लोक 59
मुस्ता त्रि-फला मदनं करञ्ज आरग्वधः कलिङ्ग-यवाः ।
सप्ताह्व-कुष्ठ-फलिनी-दार्व्यः सिद्धार्थकं स्नानम् ॥ ५९ ॥
श्लोक 60
एष कषायो वमनं विरेचनं वर्णकस् तथोद्घर्षः ।
त्वग्-दोष-कुष्ठ-शोफ-प्रबाधनः पाण्डु-रोग-घ्नः ॥ ६० ॥
श्लोक 61
करवीर-निम्ब-कुटजाच् छम्याकाच् चित्रकाच् च मूलानाम् ।
मूत्रे दर्वी-लेपी क्वाथो लेपेन कुष्ठ-घ्नः ॥ ६१ ॥
श्लोक 62
श्वेत-करवीर-मूलं कुटज-करञ्जात् फलं त्वचो दार्व्याः ।
सुमनः-प्रवाल-युक्तो लेपः कुष्ठापहः सिद्धः ॥ ६२ ॥
श्लोक 63
शैरीषी त्वक् पुष्पं कार्पास्या राजवृक्ष-पत्त्राणि ।
पिष्टा च काकमाची चतुर्-विधः कुष्ठ-हा लेपः ॥ ६३ ॥
श्लोक 64
व्योष-सर्षप-निशा-गृह-धूमैर् याव-शूक-पटु-चित्रक-कुष्ठैः ।
कोल-मात्र-गुटिकार्ध-विषांशा श्वित्र-कुष्ठ-हरणो वर-लेपः ॥ ६४ ॥
श्लोक 65
निम्बं हरिद्रे सुरसं पटोलं कुष्ठाश्वगन्धे सुरदारु शिग्रुः ।
स-सर्षपं तुम्बुरु-धान्य-वन्यं चण्डा च चूर्णानि समानि कुर्यात् ॥ ६५ ॥
श्लोक 66
तैस् तक्र-पिष्टैः प्रथमं शरीरं तैलाक्तम् उद्वर्तयितुं यतेत ।
तथास्य कण्डूः पिटिकाः स-कोठाः कुष्ठानि शोफाश् च शमं व्रजन्ति ॥ ६६ ॥
श्लोक 67
तेनास्य कण्डूः पिटिकाः स-कोठाः मुस्तामृतासङ्ग-कटङ्कटेरी-कासीस-कम्पिल्लक-कुष्ठ-लोध्राः ।
गन्धोपलः सर्ज-रसो विडङ्गं मनःशिलाले करवीरक-त्वक् ॥ ६७ ॥
श्लोक 68
तैलाक्त-गात्रस्य कृतानि चूर्णान्य् एतानि दद्याद् अवचूर्णनार्थम् ।
दद्रूः स-कण्डूः किटिभानि पामा विचर्चिका चेति तथा न सन्ति ॥ ६८ ॥
श्लोक 69
स्नुग्-गण्डे सर्षपात् कल्कः कुकूलानल-पाचितः ।
लेपाद् विचर्चिकां हन्ति राग-वेग इव त्रपाम् ॥ ६९ ॥
श्लोक 70
मनःशिलाले मरिचानि तैलम् आर्कं पयः कुष्ठ-हरः प्रदेहः ।
तथा करञ्ज-प्रपुनाट-बीजं कुष्ठान्वितं गो-सलिलेन पिष्टम् ॥ ७० ॥
श्लोक 71
गुग्गुलु-मरिच-विडङ्गैः सर्षप-कासीस-सर्ज-रस-मुस्तैः ।
श्रीवेष्ट-कालगन्धैर् मनःशिला-कुष्ठ-कम्पिल्लैः ॥ ७१ ॥
श्लोक 72
उभय-हरिद्रा-सहितैश् चाक्रिक-तैलेन मिश्रितैर् एभिः ।
दिन-कर-कराभितप्तैः कुष्ठं घृष्टं च नष्टं च ॥ ७२ ॥
श्लोक 73
मरिचं तमाल-पत्त्रं कुष्ठं स-मनःशिलं स-कासीसम् ।
तैलेन युक्तम् उषितं सप्ताहं भाजने ताम्रे ॥ ७३ ॥
श्लोक 74
तेनालिप्तं सिध्मं सप्ताहाद् घर्म-सेविनो ऽपैति ।
मासान् नवं किलासं स्नानेन विना विशुद्धस्य ॥ ७४ ॥
श्लोक 75
मयूरक-क्षार-जले सप्त-कृत्वः परिस्रुते ।
सिद्धं ज्योतिष्मती-तैलम् अभ्यङ्गात् सिध्म-नाशनम् ॥ ७५ ॥
श्लोक 76
वायसजङ्घा-मूलं वमनी-पत्त्राणि मूलकाद् बीजम् ।
तक्रेण भौम-वारे लेपः सिध्मापहः सिद्धः ॥ ७६ ॥
श्लोक 77
जीवन्ती मञ्जिष्ठा दार्वी कम्पिल्लकं पयस् तुत्थम् ।
एष घृत-तैल-पाकः सिद्धः सिद्धे च सर्ज-रसः ॥ ७७ ॥
श्लोक 78
देयः स-मधूच्छिष्टो विपादिका तेन नश्यति ह्य् अक्ता ।
चर्मैक-कुष्ठ-किटिभं कुष्ठं शाम्यत्य् अलसकं च ॥ ७८ ॥
श्लोक 79
मूलं सप्ताह्वात् त्वक् शिरीषाश्वमाराद् अर्कान् मालत्याश् चित्रकास्फोत-निम्बात् ।
बीजं कारञ्जं सार्षपं प्रापुनाटम् श्रेष्ठा जन्तुघ्नं त्र्य्-ऊषणं द्वे हरिद्रे ॥ ७९ ॥
श्लोक 80
तैलं तैलं साधितं तैः स-मूत्रैस् त्वग्-दोषाणां दुष्ट-नाडी-व्रणानाम् ।
अभ्यङ्गेन श्लेष्म-वातोद्भवानां नाशायालं वज्रकं वज्र-तुल्यम् ॥ ८० ॥
श्लोक 81
एरण्ड-तार्क्ष्य-घन-नीप-कदम्ब-भार्गी- ॥ ८१अ ॥
-कम्पिल्ल-वेल्ल-फलिनी-सुरवारुणीभिः ॥ ८१ब् ॥
निर्गुण्ड्य्-अरुष्कर-सुराह्व-सुवर्णदुग्धा- ॥ ८१च् ॥
-श्रीवेष्ट-गुग्गुलु-शिला-पटु-ताल-विश्वैः ॥ ८१द् ॥
श्लोक 82
तुल्य-स्नुग्-अर्क-दुग्धं सिद्धं तैलं स्मृतं महा-वज्रम् ।
अतिशयित-वज्रक-गुणं श्वित्रार्शो-ग्रन्थि-माला-घ्नम् ॥ ८२ ॥
श्लोक 83
कुष्ठाश्वमार-भृङ्गार्क-मूत्र-स्नुक्-क्षीर-सैन्धवैः ।
तैलं सिद्धं विषापहम् अभ्यङ्गात् कुष्ठ-जित् परम् ॥ ८३ ॥
श्लोक 84
सिद्धं सिक्थक-सिन्दूर-पुर-तुत्थक-तार्क्ष्य-जैः ।
कच्छूं विचर्चिकां चाशु कटु-तैलं निबर्हति ॥ ८४ ॥
श्लोक 85
पुर-तुत्थक-तार्क्ष्यकैः पामां विचर्चिकां चाशु कटु-तैलं नियच्छति लाक्षा व्योषं प्रापुनाटं च बीजं स-श्रीवेष्टं कुष्ठ-सिद्धार्थकाश् च ।
तक्रोन्मिश्रः स्याद् धरिद्रा च लेपो दद्रूषूक्तो मूलकोत्थं च बीजम् ॥ ८५ ॥
श्लोक 86
चित्रक-शोभाञ्जनकौ गुडूच्य्-अपामार्ग-देवदारूणि ।
खदिरो धवश् च लेपः श्यामा दन्ती द्रवन्ती च ॥ ८६ ॥
श्लोक 87
लाक्षा-रसाञ्जनैलाः पुनर्नवा चेति कुष्ठिनां लेपाः ।
दधि-मण्ड-युताः पादैः षट् प्रोक्ता मारुत-कफ-घ्नाः ॥ ८७ ॥
श्लोक 88
जल-वाप्य-लोह-केसर-पत्त्र-प्लव-चन्दन-मृणालानि ।
भागोत्तराणि सिद्धं प्रलेपनं पित्त-कफ-कुष्ठे ॥ ८८ ॥
श्लोक 89
तिक्त-घृतैर् धौत-घृतैर् अभ्यङ्गो दह्यमान-कुष्ठेषु ।
तैलैश् चन्दन-मधुक-प्रपौण्डरीकोत्पल-युतैश् च ॥ ८९ ॥
श्लोक 90
क्लेदे प्रपतति चाङ्गे दाहे विस्फोटके च चर्म-दले ।
शीताः प्रदेह-सेका व्यधन-विरेकौ घृतं तिक्तम् ॥ ९० ॥
श्लोक 91
खदिर-वृष-निम्ब-कुटजाः श्रेष्ठा-कृमिजित्-पटोल-मधुपर्ण्यः ।
अन्तर् बहिः प्रयुक्ताः कृमि-कुष्ठ-नुदः स-गो-मुत्राः ॥ ९१ ॥
श्लोक
प्रलेपोद्वर्तन-स्नान-पान-भोजन-कर्मणि ।
शीलितं खादिरं वारि सर्व-त्वग्-दोष-नाशनम् ॥ ९१+१ ॥
श्लोक 92
वातोत्तरेषु सर्पिर् वमनं श्लेष्मोत्तरेषु कुष्ठेषु ।
पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं चाग्रे ॥ ९२ ॥
श्लोक 93
रक्तस्य विरेचनं चाग्र्यम् ये लेपाः कुष्ठानां युज्यन्ते निर्हृतास्र-दोषाणाम् ।
संशोधिताशयानां सद्यः सिद्धिर् भवति तेषाम् ॥ ९३ ॥
श्लोक 94
दोषे हृते ऽपनीते रक्ते बाह्यान्तरे कृते शमने ।
स्नेहे च काल-युक्ते न कुष्ठम् अतिवर्तते साध्यम् ॥ ९४ ॥
श्लोक 95
बहु-दोषः संशोध्यः कुष्ठी बहु-शो ऽनुरक्षता प्राणान् ।
दोषे ह्य् अति-मात्र-हृते वायुर् हन्याद् अ-बलम् आशु ॥ ९५ ॥
श्लोक 96
पक्षात् पक्षाच् छर्दनान्य् अभ्युपेयान् मासान् मासाच् छोधनान्य् अप्य् अधस्-तात् ।
शुद्धिर् मूर्ध्नि स्यात् त्रि-रात्रात् त्रि-रात्रात् षष्ठे षष्ठे मास्य् असृङ्-मोक्षणं च ॥ ९६ ॥
श्लोक 97
षष्ठे षष्ठे मास्य् असृङ्-मोक्षणानि यो दुर्-वान्तो दुर्-विरिक्तो ऽथ-वा स्यात् ॥ ९७अ ॥
कुष्ठी दोषैर् उद्धतैर् व्याप्यते ऽसौ ॥ ९७ब् ॥
निः-संदेहं यात्य् अ-साध्य-त्वम् एवं ॥ ९७च् ॥
तस्मात् कृत्स्नान् निर्हरेद् अस्य दोषान् ॥ ९७द् ॥
श्लोक 98
व्रत-दम-यम-सेवा-त्याग-शीलाभियोगो ॥ ९८अ ॥
द्वि-ज-सुर-गुरु-पूजा सर्व-सत्-त्वेषु मैत्री ॥ ९८ब् ॥
शिव-शिव-सुत-तारा-भास्-कराराधनानि ॥ ९८च् ॥
जिन-जिन-सुत-तारा-भास्-कराराधनानि प्रकटित-मल-पापं कुष्ठम् उन्मूलयन्ति ॥ ९८द् ॥