श्लोक 1
आदाव् एव विसर्पेषु हितं लङ्घन-रूक्षणम् ।
रक्तावसेको वमनं विरेकः स्नेहनं न तु ॥ १ ॥
श्लोक 2
प्रच्छर्दनं विसर्प-घ्नं स-यष्टीन्द्रयवं फलम् ।
पटोल-पिप्पली-निम्ब-पल्लवैर् वा समन्वितम् ॥ २ ॥
श्लोक 3
रसेन युक्तं त्रायन्त्या द्राक्षायास् त्रैफलेन वा ।
विरेचनं त्रिवृच्-चूर्णं पयसा सर्पिषाथ-वा ॥ ३ ॥
श्लोक 4
योज्यं कोष्ठ-गते दोषे विशेषेण विशोधनम् ।
अ-विशोध्यस्य दोषे ऽल्पे शमनं चन्दनोत्पलम् ॥ ४ ॥
श्लोक 5
मुस्त-निम्ब-पटोलं वा पटोलादिकम् एव वा ।
शारिवामलकोशीर-मुस्तं वा क्वथितं जले ॥ ५ ॥
श्लोक 6
दुरालभां पर्पटकं गुडूचीं विश्व-भेषजम् ।
पाक्यं शीत-कषायं वा तृष्णा-विसर्प-वान् पिबेत् ॥ ६ ॥
श्लोक 7
दार्वी-पटोल-कटुका-मसूर-त्रि-फलास् तथा ।
स-निम्ब-यष्टी-त्रायन्तीः क्वथिता घृत-मूर्छिताः ॥ ७ ॥
श्लोक
अमृत-वृष-पटोलं मुस्तकं सप्तपर्णं ॥ ७+१अ ॥
खदिरम् असित-वेत्रं निम्ब-पत्त्रं हरिद्रे ॥ ७+१ब् ॥
विविध-विष-विसर्पान् कुष्ठ-विस्फोट-कण्डूर् ॥ ७+१च् ॥
अपनयति मसूरीं शीत-पित्तं ज्वरं च ॥ ७+१द् ॥
श्लोक 8
शाखा-दुष्टे तु रुधिरे रक्तम् एवादितो हरेत् ।
त्वङ्-मांस-स्नायु-संक्लेदो रक्त-क्लेदाद् धि जायते ॥ ८ ॥
श्लोक 9
निर्-आमे श्लेष्मणि क्षीणे वात-पित्तोत्तरे हितम् ।
घृतं तिक्तं महा-तिक्तं शृतं वा त्रायमाणया ॥ ९ ॥
श्लोक 10
निर्हृते ऽस्रे विशुद्धे ऽन्तर्-दोषे त्वङ्-मांस-संधि-गे ।
बहिः-क्रियाः प्रदेहाद्याः सद्यो विसर्प-शान्तये ॥ १० ॥
श्लोक 11
शताह्वा-मुस्त-वाराही-वंशार्तगल-धान्यकम् ।
सुराह्वा कृष्णगन्धा च कुष्ठं चालेपनं चले ॥ ११ ॥
श्लोक 12
कुष्ठं वालेपनं चले न्यग्रोधादि-गणः पित्ते तथा पद्मोत्पलादिकम् ।
न्यग्रोध-पादास् तरुणाः कदली-गर्भ-संयुताः ॥ १२ ॥
श्लोक 13
बिस-ग्रन्थिश् च लेपः स्याच् छत-धौत-घृताप्लुतः ।
पद्मिनी-कर्दमः शीतः पिष्टं मौक्तिकम् एव वा ॥ १३ ॥
श्लोक 14
शङ्खः प्रवालं शुक्तिर् वा गैरिकं वा घृतान्वितम् ।
त्रि-फला-पद्मकोशीर-समङ्गा-करवीरकम् ॥ १४ ॥
श्लोक 15
समङ्गा-करवीर-जम् नल-मूलान्य् अनन्ता च लेपः श्लेष्म-विसर्प-हा ।
धव-सप्ताह्व-खदिर-देवदारु-कुरण्टकम् ॥ १५ ॥
श्लोक 16
स-मुस्तारग्वधं लेपो वर्गो वा वरुणादिकः ।
आरग्वधस्य पत्त्राणि त्वचः श्लेष्मातकोद्भवाः ॥ १६ ॥
श्लोक 17
इन्द्राणि-शाकं काकाह्वा शिरीष-कुसुमानि च ।
सेक-व्रणाभ्यङ्ग-हविर्-लेप-चूर्णान् यथा-यथम् ॥ १७ ॥
श्लोक 18
इन्द्राणि-शाक-काकाह्वा- शिरीष-कुसुमानि च एतैर् एवौषधैः कुर्याद् वायौ लेपा घृताधिकाः ।
कफ-स्थान-गते सामे पित्त-स्थान-गते ऽथ-वा ॥ १८ ॥
श्लोक 19
अ-शीतोष्णा हिता रूक्षा रक्त-पित्ते घृतान्विताः ।
अत्य्-अर्थ-शीतास् तनवस् तनु-वस्त्रान्तरा-स्थिताः ॥ १९ ॥
श्लोक 20
तनु-वस्त्रान्तर-स्थिताः योज्याः क्षणे क्षणे ऽन्ये ऽन्ये मन्द-वीर्यास् त एव च ।
संसृष्ट-दोषे संसृष्टम् एतत् कर्म प्रशस्यते ॥ २० ॥
श्लोक 21
शत-धौत-घृतेनाग्निं प्रदिह्यात् केवलेन वा ।
सेचयेद् घृत-मण्डेन शीतेन मधुकाम्बुना ॥ २१ ॥
श्लोक 22
सिताम्भसाम्भो-द-जलैः क्षीरेणेक्षु-रसेन वा ।
पान-लेपन-सेकेषु महा-तिक्तं परं हितम् ॥ २२ ॥
श्लोक 23
सिताम्भसाम्भो-ज-जलैः ग्रन्थ्य्-आख्ये रक्त-पित्त-घ्नं कृत्वा सम्यग् यथोदितम् ।
कफानिल-घ्नं कर्मेष्टं पिण्ड-स्वेदोपनाहनम् ॥ २३ ॥
श्लोक 24
ग्रन्थि-विसर्प-शूले तु तैलेनोष्णेन सेचयेत् ।
दश-मूल-विपक्वेन तद्-वन् मूत्रैर् जलेन वा ॥ २४ ॥
श्लोक 25
सुखोष्णया प्रदिह्याद् वा पिष्टया कृष्णगन्धया ।
नक्तमाल-त्वचा शुष्क-मूलकैः कलिनाथ-वा ॥ २५ ॥
श्लोक 26
दन्ती चित्रक-मूल-त्वक् सौधार्क-पयसी गुडः ।
भल्लातकास्थि कासीसं लेपो भिन्द्याच् छिलाम् अपि ॥ २६ ॥
श्लोक 27
स्नुह्य्-अर्क-पयसी गुडः बहिर्-मार्गाश्रितं ग्रन्थिं किं पुनः कफ-संभवम् ।
दीर्घ-काल-स्थितं ग्रन्थिम् एभिर् भिन्द्याच् च भेषजैः ॥ २७ ॥
श्लोक 28
मूलकानां कुलत्थानां यूषैः स-क्षार-दाडिमैः ।
गोधूमान्नैर् यवान्नैर् वा स-सीधु-मधु-शार्करैः ॥ २८ ॥
श्लोक 29
गोधूमान्नैर् यवान्नैश् च स-सीधु-मधु-शर्करैः स-क्षौद्रैर् वारुणी-मण्डैर् मातुलुङ्ग-रसान्वितैः ।
त्रि-फलायाः प्रयोगैश् च पिप्पल्याः क्षौद्र-संयुतैः ॥ २९ ॥
श्लोक 30
पिप्पली-क्षौद्र-संयुतैः देवदारु-गुडूच्योश् च प्रयोगैर् गिरिजस्य च ।
मुस्त-भल्लात-सक्तूनां प्रयोगैर् माक्षिकस्य च ॥ ३० ॥
श्लोक 31
धूमैर् विरेकैः शिरसः पूर्वोक्तैर् गुल्म-भेदनैः ।
तप्तायो-हेम-लवण-पाषाणादि-प्रपीडनैः ॥ ३१ ॥
श्लोक 32
आभिः क्रियाभिः सिद्धाभिर् विविधाभिर् बले स्थितः ।
ग्रन्थिः पाषाण-कठिनो यदि नैवोपशाम्यति ॥ ३२ ॥
श्लोक 33
अथास्य दाहः क्षारेण शरैर् हेम्नापि वा हितः ।
पाकिभिः पाचयित्वा वा पाटयित्वा तम् उद्धरेत् ॥ ३३ ॥
श्लोक 34
पाकिभिः पाचयित्वा च मोक्षयेद् बहु-शश् चास्य रक्तम् उत्क्लेशम् आगतम् ।
पुनश् चापहृते रक्ते वात-श्लेष्म-जिद् औषधम् ॥ ३४ ॥
श्लोक 35
प्रक्लिन्ने दाह-पाकाभ्यां बाह्यान्तर् व्रण-वत् क्रिया ।
दार्वी-विडङ्ग-कम्पिल्लैः सिद्धं तैलं व्रणे हितम् ॥ ३५ ॥
श्लोक 36
दूर्वा-स्व-रस-सिद्धं तु कफ-पित्तोत्तरे घृतम् ।
एकतः सर्व-कर्माणि रक्त-मोक्षणम् एकतः ॥ ३६ ॥
श्लोक 37
विसर्पो न ह्य् अ-संसृष्टः स ऽस्र-पित्तेन जायते ।
रक्तम् एवाश्रयश् चास्य बहु-शो ऽस्रं हरेद् अतः ॥ ३७ ॥
श्लोक 38
न घृतं बहु-दोषाय देयं यन् न विरेचनम् ।
तेन दोषो ह्य् उपस्तब्धस् त्वग्-रक्त-पिशितं पचेत् ॥ ३८ ॥