श्लोक 1
अथातः सर्वगाक्षिरोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
वातेन नेत्रेऽभिष्यण्णे नासानाहोऽल्पशोफता।
शङ्खाक्षिभ्रूललाटास्यतोदस्फुरणभेदनम्॥
श्लोक 3
शुष्काल्पा दूषिका शीतमल्पं चाश्रु चला रुजः।
निमेषोन्मेषणं कृच्छ्राज्जन्तूनामिव सर्पणम्॥
श्लोक 4
अक्ष्याध्मातमिवाभाति सूक्ष्मैश्शल्यैरिवाचितम्।
स्निग्धोष्णैश्चोपशमनम् सोभिष्यन्द उपेक्षितः॥
श्लोक 5
अधिमन्थो भवेत्तत्र कर्णयोर्नदनं भ्रमः।
अरण्येव च मथ्यन्ते ललाटाक्षिभ्रुवादयः॥
श्लोक 6
हताधिमन्थः सोपि स्यात् प्रमादात्तेन वेदनाः।
अनेकरूपा जायन्ते व्रणो दृष्टौ च दृष्टिहा॥
श्लोक 7
मन्याक्षिशङ्खतो वायुरन्यतो वा प्रवर्तयेत्।
व्यथां तीव्रामपैच्छिल्यरागशोफं विलोचनम्।
सङ्गोचयति पर्यश्रु सोन्यतोवातसंज्ञितः॥
श्लोक 8
तद्वज्जिह्मं भवेन्नेत्रमूनं वा वातपर्यये॥
श्लोक 9
दाहो धूमायनं शोफः श्यावता वर्त्मनोर्बहिः।
अन्तःक्लेदोऽश्रु पीतोष्णं रागः पीताभदर्शनम्।
क्षारोक्षितक्षताक्षित्वं पित्ताभिष्यन्दलक्षणम्॥
श्लोक 10
ज्वलदङ्गारकीर्णाभं यकृत्पिण्डसमप्रभम्।
अधिमन्थे भवेन्नेत्रम् स्यन्दे तु कफसम्भवे॥
श्लोक 11
अधिमन्थे भवेन्नेत्रम् स्यन्दे तु कफसम्भवे।
जाड्यं शोफो महान् कण्डूर्निद्रान्नानभिनन्दनम्।
सान्द्रस्निग्धबहुश्वेतपिच्छावद्दूषिकाश्रुता॥
श्लोक 12
अधिमन्थे नतं कृष्णमुन्नतं शुक्लमण्डलम्।
प्रसेको नासिकाध्मानं पांसुपूर्णमिवेक्षणम्॥
श्लोक 13
रक्ताश्रुराजीदूषीका रक्तमण्डलदर्शनम्।
रक्तस्यन्देन नयनं सपित्तस्यन्दलक्षणम्॥
श्लोक 14
मन्थेऽक्षिताम्रपर्यन्तमुत्पाटनसमानरुक्।
रागेण बन्धूकनिभं ताम्यति श्पर्शनाक्षमम्।
असृङ्निमग्नारिष्टाभं कृष्णमग्न्याभदर्शनम्॥
श्लोक 15
अधिमन्था यथास्वं च सर्वे स्यन्दाधिकव्यथाः।
शङ्खदन्तकफोलेषु कपाले चातिरुक्कराः॥
श्लोक 16
वातपित्तातुरं घर्षतोदभेदोपदेहवत्।
रूक्षदारुणवर्त्माक्षिकृच्छ्रोन्मीलनिमीलनम्॥
श्लोक 17
विकूणनविशुष्कत्वशीतेच्छाशूलपाकवत्।
उक्तः शुष्काक्षिपाकोऽयम् सशोफः स्यात्त्रिभिर्मलैः॥
श्लोक 18
सरक्तैस्तत्र शोफोऽतिरुग्दाहष्ठीवनादिमान्॥
श्लोक 19
अश्रूष्णशीतविशदपिच्छिलाच्छघनं मुहुः॥
श्लोक 20
अल्पशोफोऽल्पशोफस्तु पाकोऽन्यैर्लक्षणैस्तथा॥
श्लोक 21
अक्षिपाकात्यये शोफः संरम्भः कलुषाश्रुता।
कफोपदिग्धमसितं सितं प्रक्लेदरागवत्।
दाहो दर्शनसंरोधो वेदनाश्चानवस्थिताः॥
श्लोक 22
अन्नसारोऽम्लतां नीतः पित्तरक्तोल्बणैर्मलैः।
सिराभिर्नेत्रमारूढः करोति श्यावलोहितम्॥
श्लोक 23
सशोफदाहपाकाश्रु भृशं चाविलदर्शनम्।
अम्लोषितोऽयमित्युक्ता गदाः षोडश सर्वगाः॥
श्लोक 24
हताधिमन्थमेतेषु साक्षिपाकात्ययं त्यजेत्॥
श्लोक 25
वातोद्भूतः पञ्चरात्रेण दृष्टिं सप्ताहेन श्लेष्मजातोऽधिमन्थः।
रक्तोत्पन्नो हन्ति तद्वत्त्रिरात्रान्मिथ्याचारात् पैत्तिकः सद्य एव॥
॥इति अष्टादशोऽध्यायः॥