श्लोक 1
अथातो रसभेदीयमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
रसः खल्वाप्यः प्रागव्यक्तश्च।
स षडृतुकत्वात् कालस्य महाभूतगुणैरूनातिरिक्तैः संसृष्टो विषमं विदग्धः षोढा पृथग्विपरिणमते मधुरादिभेदेन॥
श्लोक 3
तत्र भूजलयोर्बाहुल्यान्मधुरो रसः।
भूतेजसोरम्लः।
जलतेजसोर्लवणः।
वाय्वाकाशयोस्तिक्तः।
वायुतेजसोः कटुकः।
वायूर्व्योः कषायः॥
श्लोक 4
तेषां स्वादुरास्वाद्यमानो मुखमुपलिम्पतीन्द्रियाणि प्रसादयति।
देहं प्रह्लादयति।
षट्पदपिपीलिकादीनामपीष्टतमः।
अम्लस्तु जिह्वामुद्वेजयत्युरःकण्ठं विदहति।
मुखं स्रावयत्यक्षिभ्रुवं सङ्कोचयति दशनान् हर्षयति रोमाणि च।
लवणो मुखं विष्यन्दयति कण्ठकपोलं विदहति अन्नं प्ररोचयति।
तिक्तो विशदयति वदनं विशोधयति कण्ठं प्रतिहन्ति रसनाम्।
कटुको भृशमुद्वेजयति जिह्वाग्रं चिमिचिमायति कण्ठकपोलं स्रावयति मुखाक्षिनासिकं विदहति देहम्।
कषायस्तु जडयति जिह्वां बध्नाति कण्ठं पीडयति हृदयम्॥
श्लोक 5
तत्र मधुरो रसो जन्मप्रभृतिसात्म्यात् सर्वधातुविवर्धनः आयुष्यो बालवृद्धक्षतक्षीणबलवर्णेन्द्रियत्वक्केशकण्ठहितः प्रीणनो बृंहणो जीवनस्तर्पणः स्थैर्यसन्धानः स्तन्यकरो वातपित्तविषदाहमूर्छातृष्णाप्रशमनः स्निग्धः शीतो मृदुर्गुरुश्च॥
श्लोक 6
एवंगुणोऽपि स सदात्युपयुज्यमानः स्थौल्याग्निसादगुरुतालसकातिन्द्रियाः।
श्वासप्रमेहगलरोगाविसंज्ञतास्यमाधुर्यलोचनगलार्बुदगण्डमालाः॥
श्लोक 7
छर्द्युदर्दमूर्द्धरुक्कासपीनसक्रिमीन् श्लीपदज्वरोदरष्ठीवनानि चावहेत्॥
श्लोक 8
अम्लोऽनिलनिबर्हणोऽनुलोमनः कोष्ठविदाही रक्तपित्तकृदुष्णवीर्यः शीतस्पर्शोबोधयतीन्द्रियाणि।
रोचनः पाचनो दीपनो बृंहणस्तर्पणः प्रीणनः क्लेदनो व्यवायी लघुः स्निग्धो हृद्यश्च॥
श्लोक 9
जनयति शिथिलत्वं सेवितः सोतिदेहे कफविलयनकण्डूपाण्डुतादृग्विघातान्।
क्षतविहितविसर्पं रक्तपित्तं पिपासां श्वयथुमपि कृशानां तैजसत्वात् भ्रमं च॥
श्लोक 10
लवणः स्तम्भबन्धसङ्घातविध्मापनः सर्वरसप्रत्यनीको दीपनो रोचनः पाचनः क्लेदनः शोषणः स्नेहनः स्वेदनो भेदनः छेदनः सरो व्यवायी विकाषी हरति पवनं विष्यन्दयति कफं विशोधयति स्रोतांसि नातिगुरुः स्निग्धतीक्ष्णोष्णश्च॥
श्लोक 11
खलतिपलिततृष्णातापमूर्च्छाविसर्पश्वयथुकिटिभकोष्ठाक्षेपरोधास्रपित्तम्।
क्षतविषमदवृद्धिं वातरक्तं करोति क्षपयति बलभोजः सोति वा सेवनेन॥
श्लोक 12
तिक्तः स्वयमरोचिष्णुररुचिविषकृमिमूर्च्छोत्क्लेदज्वरदाहतृटकुष्ठकण्डूहरः क्लेदमेदोवसामज्जविण्मूत्रपित्तश्लेष्मोपशोषणो दीपनः पाचनो लेखनः स्तन्यकण्ठविशोधनो मेध्यो नातिरूक्षः शीतो लघुश्च॥
श्लोक 13
धातुबलक्षयमूर्च्छाग्लानिभ्रमवातरोगपरुषत्वम्।
खरविशदरौक्ष्यभावैः सोति समासेवितःकुर्यात्॥
श्लोक 14
कटुकोऽलसकश्वयथूदर्दस्थौल्याभिष्यन्दकृमिवक्त्ररोगविषकुष्ठकण्डूप्रसाधनो व्रणावसादनः स्नेह क्लेदशोषणो रोचनः पाचनो दीपनो लेखनः शोधनः शोषयत्यन्नं स्फुटयतीन्द्रियाणि भिनत्ति शोणितसंघातं छिन्नत्ति बन्धान् विवृणोति स्रोतांसि क्षपयति श्लेष्माणं लघुरूक्षतीक्ष्णोष्णश्च॥
श्लोक 15
कुरुतेऽतिनिषोवितः स तृष्णामदमूर्च्छावमिमोहदेहसादान्।
बलशुक्रगलोपशोषकम्पभ्रमतापग्लपनातिकर्शनानि॥
श्लोक 16
करचरणपार्श्वपृष्ठप्रभृतिष्वनिलस्यकोपमतितीव्रम्।
सङ्काचतोदभेदैर्वाव्यग्निगुणाधिकत्वेन॥
श्लोक 17
कषायो बलासं सपित्तं सरक्तं निहन्त्याशु बध्नाति वर्चोतिरूक्षः।
गुरुस्त्वक्सवर्णत्वकृत् क्लेदशोषी हिमः प्रीणनो रोपणो लेखनश्च॥
श्लोक 18
अत्यभ्यासात् सोऽपि शुक्रोपरोधं तृष्णाध्मानस्तम्भविष्टम्भकार्श्यम्।
स्रोतोबन्धं वातविण्मूत्रसङ्गं पक्षाघाताक्षेपकादींश्च कुर्यात्॥
श्लोक 19
अथ मधुरस्कन्धो घृतमधुतैलक्षीरमेदोमज्जेक्षुविकृतिद्राक्षाक्षोडखर्जूरमोचचोचपनससिञ्चतिकाप्रियालराजादनखर्यूरीतालमस्तककाश्मर्यमधूकपरूषकतामलकीवीराविदारीशतावरीतुगाक्षीरीजीवकर्षभक्षीरशुक्लामधूलिकात्मगुप्ताबलातिबलाविश्वदेवासहदेवासालपर्णीमुद्गपर्णीपृश्निपर्णीमषपर्णीमहासहाक्षुद्रसहाऋद्धिवृद्धिश्रावणीच्छत्रातिच्छत्रर्श्यर्पोक्ताश्व गन्धाश्वदंष्ट्रामृणालिकापुष्करबीजशृङ्गाटककशेरुकतककनकबिम्बीप्रपौण्डरीकप्रभृतीनि जीवनीयो गणस्तृणपञ्चमूलं च॥
श्लोक 20
अम्लद्रव्यस्कन्धो दाडिमामलकाम्राम्रातककोशाम्रमातुलुङ्गवृक्षाम्लाम्लीकाम्लेवतसकुवललकुचपारावतभव्यकरमर्दधवधन्वनकोलबदरैरावतकपित्थदन्तशठप्राचीनामलकनारङ्गतिलकण्टकरूप्यदधिमस्तुतक्रधान्याम्लमद्यशुक्तप्रभृतीनि॥
श्लोक 21
लवणद्रव्यस्कन्धः सैन्धवादीनि क्षारान्तानि त्रपुसीसप्रभृतीनि॥
श्लोक 22
तिक्तद्रव्यस्कन्धोऽगरुतगरोशीरवालकचन्दननलदकृतमालनक्तमालापामार्गहरिद्राद्वयमुस्तमूर्वामदनफलाजशृङ्गीत्रायमाणाकटुकाकिराततिक्तककरवीरविशालासुषव्यतिविषायवासकज्योतिष्मतीपाठाविकङ्कतार्ककाकमाचीवचावरणवत्सकवैजयन्तीवेतससप्तपर्णसोमवल्कसुमनःकांस्यलोहप्रभृतीनि पटोलादिश्च शाकवर्गः॥
श्लोक 23
कटुकद्रव्यस्कन्धो मरिचहिङ्गुतेजोवतीहस्तिपिप्पलीविडङ्गभल्लातकास्थिमूलकसर्षपलशुनपलाण्डुकरञ्जमनश्शिलालदेवदारुकुष्ठैलासुरसचोरकहरेणुकामूत्रपित्तप्रभृतीनि कुठेरादिश्च हरितवर्गः पञ्चकोलं च॥
श्लोक 24
कषायद्रव्यस्कन्धो हरीतकीप्रियङ्ग्वनन्ताक्षौद्रलोध्रकट्फलधवधन्वनधात्रीफलधातकीपुष्पपद्मापद्मकपद्मपुष्पनागकेसरकुमुकोत्पलतुङ्गतिन्दुककदम्बोदुम्बरजम्ब्वाम्रप्लक्षवटबिभीतकविकङ्कतजम्ब्वाम्रास्थ्यामकपित्थाश्वत्थमोचरससमङ्गासोमवल्कसप्तपर्णस्यन्दनासनसल्लकीसालतालप्रियालैलावास्तुकपरिपेलवजिङ्गिणीबदरीखदिरकदरारिमेदकाशकशेरुकवंशाश्मन्तकाशोकशिरीषशिंशपापलाशशमशिणशङ्खनाभिमेषशृङ्गीतरुणखर्ज्जूरस्फूर्ज्जकभूर्ज्जार्जुनाजकर्णवरणप्रियालमुक्ताञ्जनैगरिकबिसमृणालप्रभृतीनि॥
श्लोक 25
तत्र प्रायो मधुरं श्लेष्मलमन्यत्र पुराणशालियवगोधूममुद्गमधुशर्कराजाङ्गलमांसात्।
प्रायोऽम्लं पित्तलमन्यत्र दाडिमामलकात्।
प्रायोलवणमचक्षुष्यमन्यत्र सैन्धवात्।
प्रायस्तिक्तकटुकं वातलमवृष्यं चान्यत्रामृतापटोलीनागरपिप्पलीलशुनात्।
प्रायः कषायं शीतं स्तम्भनं चान्यत्र हरीतक्याः॥
श्लोक 26
इति यथास्थूलं नित्योपयोगिनां प्रधानतमानां चोपसङ्ग्रहः॥
श्लोक 27
घृतामलकसिन्धूत्थपटोलीनागराभयाः।
श्रेष्ठा यथास्वं स्कन्धेषु रसदेशस्तु वक्ष्यते॥
श्लोक 28
अथ यः शिशिरपवनधरणीधरविविधवनगहननदीतटाकपल्वलोदपानकमलकुमुदकुवलयावकीर्णोरम्यः स्थिरस्निग्धभूमिर्भूरिहरिततृणोऽतिदूरविस्तृतप्रतानप्रवालोपसंच्छन्नपादपः सस्यसरीसृपखगबहुलः श्लेष्मपित्तप्रायो गुर्वौषधिसलिलः श्लीपदगलरोगापाचींज्वराद्यामयोपद्रुतजनपदः सोऽनूपो मधुररसयोनिः॥
श्लोक 29
यस्तु विषमविपुलसिकतास्थलबहुलोऽतिदूरावगाढविरससलिलः क्लेशसहारोगशरीरदीर्घायुःप्रायो जनपदोऽनूपरीतश्च स जाङ्गलः कटुकरसयोनिः।
अत एव चानूपसाधारणो जाङ्गलसाधारणश्च विकल्प्यः।
तयोराद्यो लवणाम्लयोर्योनिरितरश्चेतरयोः।
संयोगास्त्वेषां सप्तपञ्चाशद्भवन्ति।
भवन्ति चात्र॥
श्लोक 30
स्वादुर्द्विकेषु पञ्चाम्लश्चतुरो लवणस्त्रयम्।
द्वौ तिक्तः कटुकश्चैकं याति पञ्चदशैव ते॥
श्लोक 31
त्रिकेषु मधुरः साम्लश्चतुरो लवणान्वितः।
त्रीन्युक्तस्तिक्तकेन द्वौ कटुनैकं निषेवते॥
श्लोक 32
स्वादुर्दशैवमम्लः षट् संयोगान् पूर्ववत्क्रिया।
लवणस्त्रीन् भजत्येकं तिक्त एवं तु विंशतिः॥
श्लोक 33
स्वादुश्चाम्लश्चतुष्केषु षट् त्रयं लवणानुगः।
एकं तिक्तयुतो याति दशैव मधुरो रसः॥
श्लोक 34
चत्वारोऽम्लः पटुश्चैकं भेदाः पञ्चदशेति च।
एकैकस्य परित्यागात् संयोगाः पञ्चके च षट्॥
श्लोक 35
एकश्च षड्रसः षट् च पृथगेवं त्रिषष्टिधा।
ते रसानुरसतो रसभेदास्तारतम्यपरिकल्पनया च।
सम्भवन्ति गणनां समतीता दोषभेषजवशादुपयोज्याः॥
इति अष्टादशोऽध्यायः।