श्लोक 1
अथातो द्रव्यादिविज्ञानीयमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
इह हि द्रव्यं पञ्चमहाभूतात्मकम्।
तस्याधिष्ठानं पृथिवी योनिरुदकं खानिलानलसमवायान्निर्वृत्तिविशेषौ।
उत्कर्षेण तु व्यपदेशः।
तस्माद्भूतसमवायसम्भवान्नैकरसं द्रव्यम्।
ततश्च नैकदोषा व्याधयः॥
श्लोक 3
तत्र व्यक्तो रसः।
अनुरसस्तु रसेनाभिभूतत्वादव्यक्तो व्यक्तो वा किञ्चिदन्ते।
रसस्य तु छेदनोपशमने द्वे कर्मणी।
हिताहितौ प्रभावौ।
तदाश्रयेषु च द्रव्यसंज्ञकेषु पृथिव्यादिषु गुणाः प्रकृतिविकृतिविचारदेशकालवशाद्गुर्वादयो रसेषु साहचर्यादुपचर्यन्ते॥
श्लोक 4
तत्र द्रव्यं गुरुकठिनविशदमन्दसान्द्रस्थूलस्थिरगन्धगुणबहुलं पार्थिवं उपचयगौरवसङ्घातस्थैर्यकरम्॥
श्लोक 5
द्रवस्निग्धशीतगुरुमन्दसान्द्रसरमृदुपिच्छिलरसगुणबहुलमौदकं उपक्लेदस्नेहबन्धविष्यन्दमार्दवप्रह्लादकरम्॥
श्लोक 6
तीक्ष्णोष्णरूक्षसूक्ष्मलघुविशदरूपगुणबहुलमाग्नेयं दाहपाकप्रकाशप्रभावर्णकरम्॥
श्लोक 7
रूक्षसूक्ष्मलघुविशदविकाषिव्यवायिशीतखरस्पर्शगुणबहुलं वाय्व्यं रौक्ष्यलाघववैशद्यग्लानिविचारकरम्॥
श्लोक 8
सूक्ष्मलघुविशदश्लक्ष्णव्यवायिविविक्तशब्दगुणबहुलमाकाशात्मकं सौषिर्यलाघवकरम्॥
श्लोक 9
इत्थं च नानौषधभूतं जगति किञ्चिद् द्रव्यमस्ति विविधार्थप्रयोगवशात्॥
श्लोक 10
तत्राग्निमारुतात्मकं प्रायेणोर्ध्वभागिकम्।
तयोर्हिलाघवादूर्ध्वगतित्वाच्चाग्नेः प्लवनत्वाच्च मारुतस्य॥
श्लोक 11
भूम्यौदकात्मकं तु प्रायेणाधोभागिकम्।
तयोर्हि गौरवानिम्नगत्वाच्च तोयस्य॥
श्लोक 12
व्यामिश्रात्मकमुभयतोभागम्॥
श्लोक 13
शमनं तु दोषविपरीतगुणमुक्तं प्राक्।
तत्सङ्करे च यतो बाहुल्येन कार्यकर्तृत्वं भवति यदेवाधिकं तदेव तत्कार्यकरमिति व्यपदेशः।
तथानिलात्मकं ग्राहि।
अनलात्मकं दीपनपाचनम्।
उभयात्मकं लेखनम्।
भूम्युदकात्मकं बृंहणम्॥
श्लोक 14
तत्र कट्वम्ललवणा वीर्येण यथोत्तरमुष्णाः।
तिक्तकषायमधुराः शीताः
श्लोक 15
तिक्तकटुकषाया रूक्षा बद्धविण्मूत्रमारुताः।
लवणाम्लमधूराःस्निग्धाःसृष्टविण्मूत्रमारुताः॥
श्लोक 16
लवणकषायमधुरा गुरवः।
तद्वदम्लकटुकतिक्ता लघवः।
अन्ये पुनर्गुरुलघुस्निग्धरूक्षसाधारणं लवणमिच्छन्ति॥
श्लोक 17
वीर्यं तु केचिद् गुरुलघुस्निग्धरूक्षतीक्ष्णमन्दशीतोष्णभेदेनाष्टविधमाहुः।
अपरे पुनः पठन्ति॥
श्लोक 18
वीर्यं द्रव्यस्य तद्ज्ञेयं यद्योगात् क्रियते क्रिया।
नावीर्यं कुरुते किञ्चित् सर्वा वीर्यकृता हि सा॥
श्लोक 19
तैरपि चैवमतिप्रकृष्टशक्तियुक्तानामशेषौधगुणसारभूतानामष्टानामेव गुर्वादीनां वीर्यसंज्ञा विशिष्टाम्नायविहितापि लौकिकीति समुद्भाव्यते।
तथा हि तया रसविपाकगुणान्तरविजयिनो भूयांसश्च वरिष्ठाश्च गुणाः सङ्गृहीताः।
विशेषवृत्या च तत्र तत्र द्रव्यस्वरूपकथने व्यवहारः प्रवृत्तितो भवति।
अत एव सर्वातिशायी द्रव्यस्वभावः प्रभाव इत्याम्नातः।
सत्यपि च क्रियानिर्वर्त्तनसामान्ये तद्विपरीता रसादयो वीर्याख्यया प्रभावसंज्ञया वा न परामृश्यन्ते॥
श्लोक 20
अन्ये तु गुर्वादीनामग्नीषोमात्मकत्वादादानविसर्गविभाअगेन कालस्य चोष्णशीतात्मकत्वाद् द्विविधमेवामनन्ति।
एवं चाहुः॥
श्लोक 21
नानात्मकमपि द्रव्यमग्नीषोमौ महाबलौ।
व्यक्ताव्यक्तं जगदिव नातिक्रामति जातुचित्॥
श्लोक 22
तत्रोष्णं दहनपचनस्वेदनविलयनानिलकफशमनानि करोति॥
श्लोक 23
शीतं ह्लादनस्तम्भनजीवनरक्तपित्तप्रसादनादीनि॥
श्लोक 24
इति वीर्यमुक्तं विपाकस्तूच्यते।
विपाकस्तु प्रायः स्वादुः स्वादुलवणयोरम्लोऽम्लस्य कटुरितरेषाम्।
रसैरसौ तुल्यफलः॥
श्लोक 25
द्रव्यगुणविशेषेण चास्याल्पमध्यभूयस्त्वमुपलक्षयेत्॥
श्लोक 26
पराशरस्तु पठति।
पाकास्त्रयो रसानामम्लोऽम्लं पच्यते कटुः कटुकम्।
चत्वारोऽन्ये मधुरं सङ्कीर्णरसास्तु सङ्कीर्णम्॥
श्लोक 27
कटुतिक्तकषायाणां कटुको येषां विपाक इति पक्षः।
तेषां पित्तविघाते तिक्तकषायौ कथं भवतः॥
श्लोक 28
तत्र यन्मधुरं रसविपाकयोः शीतवीर्यं च द्रव्यं यच्चाम्लं तयोरुष्णवीर्यं च यद्वा कटुकं तेषां यथास्वं रसेभ्यः प्रायो गुणान् दोषकोपशमनत्वं च विद्यात्।
तद्यथा क्षीरमदिरामरिचादीनाम्॥
श्लोक 29
रसादिसङ्करेण त्वन्यथात्वम्।
यथा मधु मधुरं श्लेष्माणं शमयति कटुविपाकतया।
सकषायत्वाद्रौक्ष्याच्च वातं जनयति शीतवीर्यत्वाच्च।
तथा यवोऽपि।
आनूपौदकपिशितं शीतमपि पित्तं करोत्युष्णवीर्यत्वात्।
तथा तैलं कटुविपाकतया च विपाकत एव बद्धविण्मूत्रम्।
अम्लं काञ्जिकं कफं जयति रूक्षोष्णत्वात् कपित्थं तु रौक्ष्यात् पित्तं तु शीतवीर्यत्वात्।
आमलकं पित्तं शीतवीर्यत्वात् स्वादुपाकतया च कफं रौक्ष्याल्लाघवाच्च शैत्यरौक्ष्यलाघवैस्तु न वातम्।
लवणं सैन्धवं स्वादुपाकतया पित्तं जयति लाघवात् कफं जयति।
कटुकापि शुण्ठी स्नेहौष्ण्यस्वादुपाकैर्वातं क्षपयति पिप्पली च।
लशुनोऽपि स्नेहौष्ण्यगौरवैः।
पलाण्डुश्च।
स तु स्नेहगौरवाभ्यां जनयति श्लेष्माणम्।
वृद्धं च मूलकं स्वादुपाकतया।
स्निग्धानि तिक्तानि व्याघ्रीविशल्यार्कागरूण्युष्णवीर्यत्वात् पित्तं जनयन्ति।
कषायतिक्तं महत् पञ्चमूलं वातं जयति न तु पित्तं उष्णवीर्यत्वात्।
कषायश्च कुलत्थोऽम्लपाकतया चेत्येतन्निदर्शनमात्रमुक्तम्॥
श्लोक 30
तस्मात्।
किञ्चिद्रसेन कुरुते कर्म पाकेन चापरम्।
द्रव्यं गुणेन वीर्येण प्रभावेणैव किञ्चन॥
श्लोक 31
यदद् द्रव्ये रसादीनां बलवत्त्वेन वर्तते।
अभिभूयेतरांस्तत्तत् कारणत्त्वं प्रपद्यते॥
श्लोक 32
विरुद्धगुणसंयोगे भूयसाल्पं हि जीयते॥
श्लोक 33
रसं विपाकस्तौ वीर्यं प्रभावस्तान्यपोहति।
बलसाम्ये रसादीनामिति नैसर्गिकं बलम्॥
श्लोक 34
विरुद्धा अपि चान्योन्यं रसाद्याः कार्यसाधने।
नावश्यं स्युर्विघाताय गुणदोषा मिथो यथा॥
श्लोक 35
रसवीर्यप्रभृतयो भूतोत्कर्षापकर्षतः।
एकरूपा विरूपा वा द्रव्यं समधिशेरते॥
श्लोक 36
माधुर्यशैत्यपैच्छिल्यस्नेहगौरवमन्दताः।
सह वृत्त्या स्थिताः क्षीरे नत्वानूपौदकामिषे॥
श्लोक 37
गुणा द्रव्येषु ये चोक्तास्त एव तनुदोषयोः।
स्थितिवृद्धिक्षयास्तस्मात्तेषां हि द्रव्यहेतुकाः॥
श्लोक 38
रसं विद्यान्निपातेन तेनाधिवसनेन च।
वीर्यं विपाकं द्रव्याणां कर्मणः परिनिष्ठया॥
श्लोक 39
मधुरस्कन्धनिर्दिष्टघृततैलगुडादिषु।
गुणास्वादादीभेदेन रसषट्कं न युज्यते॥
श्लोक 40
अस्तु भेदादसङ्ख्यत्वमैक्यं वास्वादलक्षणात्।
भूतोत्कर्षापकर्षेण भेदो योऽल्पेन कल्प्यते॥
श्लोक 41
सङ्कीर्णत्वात् फले चासौ तुल्यत्वान्न विवक्ष्यते।
गुर्वादीनां विशेषेऽपि स्वजातेरनतिक्रमात्॥
श्लोक 42
सङ्ख्याभेदो यथा नास्ति रसानामपि स क्रमः।
दृष्टं मुखोपलेपादि यत्सर्वेषु घृतादिषु॥
श्लोक 43
न च तद्दाडिमाद्येषु षडेवातो रसाः स्मृताः।
आनन्त्यैकत्वयोश्च स्यान्न विचित्रार्थतन्त्रणम्॥
श्लोक 44
गुर्वाअंद्या वीर्यमुच्यन्ते शक्तिमन्तोऽन्यथागुणाः।
परसामर्थ्यहीनत्वात् गुणा एवेतरे गुणाः॥
श्लोक 45
यथारसं जगुः पाकान् षट् केचित्तदसाम्प्रतम्।
यत्स्वादुर्व्रीहिरम्लत्वं न चाम्लमपि दाडिमम्॥
श्लोक 46
याति तैलं च कटुतां कटुकापि न पिप्पली।
यथारसत्वे पाकानां न स्यादेवं विपर्ययः॥
श्लोक 47
यस्मादृद्ष्टो यवः स्यादुर्गुरुरप्यनिलप्रदः।
दीपनं शीतमप्याज्यं वसोष्णाप्यग्निसादिनी॥
श्लोक 48
कटुपाकोऽपि पित्तघ्नो मुद्गो माषस्तु पित्तलः।
स्वादुपाकोऽपि चलकृत् स्निग्धोष्णं गुरु फाणितम्॥
श्लोक 49
रसः स्वादुर्यथा चैतत्तथान्येष्वपि दृश्यते।
वातलं कफपित्तघ्नमम्लमप्याक्षकीफलम्॥
श्लोक 50
कुरुते दधि गुर्वेव वह्निं पारावतं न तु।
कपित्थं दाडिमं साम्लं ग्राहि नामलकीफलम्॥
श्लोक 51
कषाया ग्राहिणी शीता धातकी न हरीतकी।
अप्रधानाः पृथक् तस्माद्रसाद्याः संश्रितास्तुते॥
श्लोक 52
प्रभावश्च यतो द्रव्ये द्रव्यं श्रेष्ठमतो मतम्।
रसादिसाम्ये यत् कर्म विशिष्टं तत् प्रभावजम्॥
श्लोक 53
दन्ती रसाद्यैस्तुल्यापि चित्रकस्य विरेचनी।
मधुकस्य च मृद्वीका घृतं क्षीरस्य दीपनम्॥
श्लोक 54
कटुपाकरसस्निग्धगुरुत्वैः कफवातजित्।
लशुनो वातकफकृन्न तु तैरेव यद्गुणैः॥
श्लोक 55
मिथो विरुद्धान् वातादीन् लोहिताद्या जयन्ति यत्।
कुर्वन्ति यवकाद्याश्च तत्प्रभावविजृम्भितम्॥
श्लोक 56
शिरीषादिर्विषं हन्ति स्वप्नाद्यं तद्विवृद्धये।
मणिमन्त्रौषधीनां च यत् कर्मविविधात्मकम्॥
श्लोक 57
शिरीषादिर्विषं हन्ति स्वप्नाद्यं तद्विवृद्धये।
मणिमन्त्रौषधीनां च यत् कर्मविविधात्मकम्॥
श्लोक 58
विरेचयति यद् वृष्यमाशु शुक्रं करोति वा।
ऊर्ध्वाधोभागिकं यच्च द्रव्यं यच्छमनादि च॥
श्लोक 59
मात्रादि प्राप्य तत्तच्च यत् प्रपञ्चेन वर्णितम्।
तच्च प्रभावजं सर्वमतोऽचिन्त्यः स उच्यते॥
श्लोक 60
रसेन वीर्येण गुणैश्च कर्म द्रव्यं विपाकेन च यद्विदध्यात्।
सद्योऽन्यथा तत् कुरुते प्रभावाद्धेतोरतस्तत्र न गोचरोऽस्ति॥
इति सप्तदशोऽध्यायः।