श्लोक 1
विदाह्य् अन्नं विरुद्धं च तत् तच् चासृक्-प्रदूषणम् ।
भजतां विधि-हीनं च स्वप्न-जागर-मैथुनम् ॥ १ ॥
श्लोक 2
तत् तथासृक्-प्रदूषणम् प्रायेण सु-कुमाराणाम् अ-चङ्क्रमण-शीलिनाम् ।
अभिघाताद् अ-शुद्धेश् च नृणाम् असृजि दूषिते ॥ २ ॥
श्लोक 3
वातलैः शीतलैर् वायुर् वृद्धः क्रुद्धो वि-मार्ग-गः ।
तादृशैवासृजा रुद्धः प्राक् तद् एव प्रदूषयेत् ॥ ३ ॥
श्लोक 4
तादृशेनासृजा रुद्धः आढ्य-रोगं खुडं वात-बलासं वात-शोणितम् ।
तद् आहुर् नामभिस् तच् च पूर्वं पादौ प्रधावति ॥ ४ ॥
श्लोक 5
पलाशं वात-शोणितम् विशेषाद् यान-यानाद् यैः प्रलम्बौ तस्य लक्षणम् ।
भविष्यतः कुष्ठ-समं तथा सादः श्लथाङ्ग-ता ॥ ५ ॥
श्लोक 6
जानु-जङ्घोरु-कट्य्-अंस-हस्त-पादाङ्ग-संधिषु ।
कण्डू-स्फुरण-निस्तोद-भेद-गौरव-सुप्त-ताः ॥ ६ ॥
श्लोक 7
भूत्वा भूत्वा प्रणश्यन्ति मुहुर् आविर्-भवन्ति च ।
पादयोर् मूलम् आस्थाय कदा-चिद् धस्तयोर् अपि ॥ ७ ॥
श्लोक 8
आखोर् इव विषं क्रुद्धं कृत्स्नं देहं विधावति ।
त्वङ्-मांसाश्रयम् उत्तानं तत् पूर्वं जायते ततः ॥ ८ ॥
श्लोक 9
कालान्तरेण गम्भीरं सर्वान् धातून् अभिद्रवत् ।
कण्ड्व्-आदि-संयुतोत्ताने त्वक् ताम्रा श्याव-लोहिता ॥ ९ ॥
श्लोक 10
सायामा भृश-दाहोषा गम्भीरे ऽधिक-पूर्व-रुक् ।
श्वयथुर् ग्रथितः पाकी वायुः संध्य्-अस्थि-मज्जसु ॥ १० ॥
श्लोक 11
छिन्दन्न् इव चरत्य् अन्तर् वक्री-कुर्वंश् च वेग-वान् ।
करोति खञ्जं पङ्गुं वा शरीरे सर्वतश् चरन् ॥ ११ ॥
श्लोक 12
छिन्दन्न् इव चरन्न् अन्तर् वाते ऽधिके ऽधिकं तत्र शूल-स्फुरण-तोदनम् ।
शोफस्य रौक्ष्य-कृष्ण-त्व-श्याव-ता-वृद्धि-हानयः ॥ १२ ॥
श्लोक 13
धमन्य्-अङ्गुलि-संधीनां संकोचो ऽङ्ग-ग्रहो ऽति-रुक् ।
शीत-द्वेषान्-उपशयौ स्तम्भ-वेपथु-सुप्तयः ॥ १३ ॥
श्लोक 14
रक्ते शोफो ऽति-रुक् तोदस् ताम्रश् चिमिचिमायते ।
स्निग्ध-रूक्षैः शमं नैति कण्डू-क्लेद-समन्वितः ॥ १४ ॥
श्लोक 15
पित्ते विदाहः संमोहः स्वेदो मूर्छा मदः स-तृट् ।
स्पर्शा-क्षम-त्वं रुग् रागः शोफः पाको भृशोष्म-ता ॥ १५ ॥
श्लोक 16
कफे स्तैमित्य-गुरु-ता-सुप्ति-स्निग्ध-त्व-शित-ताः ।
कण्डूर् मन्दा च रुग् द्वन्द्व-सर्व-लिङ्गं च संकरे ॥ १६ ॥
श्लोक 17
एक-दोषानुगं साध्यं नवं याप्यं द्वि-दोष-जम् ।
त्रि-दोष-जं त्यजेत् स्रावि स्तब्धम् अर्बुद-कारि च ॥ १७ ॥
श्लोक 18
त्रि-दोषं तत् त्यजेत् स्रावि रक्त-मार्गं निहत्याशु शाखा-संधिषु मारुतः ।
निविश्यान्यो-ऽन्यम् आवार्य वेदनाभिर् हरत्य् असून् ॥ १८ ॥
श्लोक 19
रक्त-मार्गं निहन्त्य् आशु वायौ पञ्चात्मके प्राणो रौक्ष्य-व्यायाम-लङ्घनैः ।
अत्य्-आहाराभिघाताध्व-वेगोदीरण-धारणैः ॥ १९ ॥
श्लोक 20
रूक्ष-व्यायाम-लङ्घनैः कुपितश् चक्षुर्-आदीनाम् उपघातं प्रवर्तयेत् ।
पीनसार्दित-तृट्-कास-श्वासादींश् चामयान् बहून् ॥ २० ॥
श्लोक 21
उदानः क्षवथूद्गार-च्छर्दि-निद्रा-विधारणैः ।
गुरु-भाराति-रुदित-हास्याद्यैर् विकृतो गदान् ॥ २१ ॥
श्लोक 22
च्छर्दि-निद्रावधारणैः कण्ठ-रोध-मनो-भ्रंश-च्छर्द्य्-अ-रोचक-पीनसान् ।
कुर्याच् च गल-गण्डादींस् तांस् ताञ् जत्रूर्ध्व-संश्रयान् ॥ २२ ॥
श्लोक 23
व्यानो ऽति-गमन-ध्यान-क्रीडा-विषम-चेष्टितैः ।
विरोधि-रूक्ष-भी-हर्ष-विषादाद्यैश् च दूषितः ॥ २३ ॥
श्लोक 24
व्यानो ऽति-गमन-स्थान- पुंस्-त्वोत्साह-बल-भ्रंश-शोफ-चित्तोत्प्लव-ज्वरान् ।
सर्वाङ्ग-रोग-निस्तोद-रोम-हर्षाङ्ग-सुप्त-ताः ॥ २४ ॥
श्लोक 25
रोम-हर्षाङ्ग-सुप्ति-ताः कुष्ठं विसर्पम् अन्यांश् च कुर्यात् सर्वाङ्ग-गान् गदान् ।
समानो विषमा-जीर्ण-शीत-संकीर्ण-भोजनैः ॥ २५ ॥
श्लोक 26
करोत्य् अ-काल-शयन-जागराद्यैश् च दूषितः ।
शूल-गुल्म-ग्रहण्य्-आदीन् पक्वामाशय-जान् गदान् ॥ २६ ॥
श्लोक 27
अपानो रूक्ष-गुर्व्-अन्न-वेगाघाताति-वाहनैः ।
यान-यानासन-स्थान-चङ्क्रमैश् चाति-सेवितैः ॥ २७ ॥
श्लोक 28
वेग-घाताति-वाहनैः कुपितः कुरुते रोगान् कृच्छ्रान् पक्वाशयाश्रयान् ।
मूत्र-शुक्र-प्रदोषार्शो-गुद-भ्रंशादिकान् बहून् ॥ २८ ॥
श्लोक 29
सर्वं च मारुतं सामं तन्द्रा-स्तैमित्य-गौरवैः ।
स्निग्ध-त्वा-रोचकालस्य-शैत्य-शोफाग्नि-हानिभिः ॥ २९ ॥
श्लोक 30
कटु-रूक्षाभिलाषेण तद्-विधोपशयेन च ।
युक्तं विद्यान् निर्-आमं तु तन्द्रादीनां विपर्ययात् ॥ ३० ॥
श्लोक 31
वायोर् आवरणं चातो बहु-भेदं प्रवक्ष्यते ।
लिङ्गं पित्तावृते दाहस् तृष्णा शूलं भ्रमस् तमः ॥ ३१ ॥
श्लोक 32
बहु-भेदं प्रचक्ष्यते कटुकोष्णाम्ल-लवणैर् विदाहः शीत-काम-ता ।
शैत्य-गौरव-शूलानि कट्व्-आद्य्-उपशयो ऽधिकम् ॥ ३२ ॥
श्लोक 33
लङ्घनायास-रूक्षोष्ण-काम-ता च कफावृते ।
रक्तावृते स-दाहार्तिस् त्वङ्-मांसान्तर-जा भृशम् ॥ ३३ ॥
श्लोक 34
भवेच् च रागी श्वयथुर् जायन्ते मण्डलानि च ।
मांसेन कठिनः शोफो वि-वर्णः पिटिकास् तथा ॥ ३४ ॥
श्लोक 35
हर्षः पिपीलिकानां च संचार इव जायते ।
चलः स्निग्धो मृदुः शीतः शोफो गात्रेष्व् अ-रोचकः ॥ ३५ ॥
श्लोक 36
हर्षः पिपीलिकादीनां आढ्य-वात इति ज्ञेयः स कृच्छ्रो मेदसावृते ।
स्पर्शम् अस्थ्य्-आवृते ऽत्य्-उष्णं पीडनं चाभिनन्दति ॥ ३६ ॥
श्लोक 37
सूच्येव तुद्यते ऽत्य्-अर्थम् अङ्गं सीदति शूल्यते ।
मज्जावृते विनमनं जृम्भणं परिवेष्टनम् ॥ ३७ ॥
श्लोक 38
शूलं च पीड्यमानेन पाणिभ्यां लभते सुखम् ।
शुक्रावृते ऽति-वेगो वा न वा निष्-फल-तापि वा ॥ ३८ ॥
श्लोक 39
शूलं च पीड्यमाने च शूलं च पीड्यमाने तु न वा निष्-फल-तापि च भुक्ते कुक्षौ रुजा जीर्णे शाम्यत्य् अन्नावृते ऽनिले ।
मूत्रा-प्रवृत्तिर् आध्मानं वस्तेर् मूत्रावृते भवेत् ॥ ३९ ॥
श्लोक 40
वस्तौ मूत्रावृते भवेत् विड्-आवृते विबन्धो ऽधः स्व-स्थाने परिकृन्तति ।
व्रजत्य् आशु जरां स्नेहो भुक्ते चानह्यते नरः ॥ ४० ॥
श्लोक 41
विड्-आवृते ऽति-विड्-रोधः स्वे स्थाने परिकृन्तति शकृत् पीडितम् अन्नेन दुःखं शुष्कं चिरात् सृजेत् ।
सर्व-धात्व्-आवृते वायौ श्रोणि-वङ्क्षण-पृष्ठ-रुक् ॥ ४१ ॥
श्लोक 42
विलोमो मारुतो ऽ-स्वस्थं हृदयं पीड्यते ऽति च ।
भ्रमो मूर्छा रुजा दाहः पित्तेन प्राण आवृते ॥ ४२ ॥
श्लोक 43
विलोमो मारुतो ऽ-स्वास्थ्यं भ्रमो मूर्छा रुजानाहः विदग्धे ऽन्ने च वमनम् उदाने ऽपि भ्रमादयः ।
दाहो ऽन्तर् ऊर्जा-भ्रंशश् च दाहो व्याने च सर्व-गः ॥ ४३ ॥
श्लोक 44
दाहो व्याने तु सर्व-गः क्लमो ऽङ्ग-चेष्टा-सङ्गश् च स-संतापः स-वेदनः ।
समान ऊष्मोपहतिर् अति-स्वेदो ऽ-रतिः स-तृट् ॥ ४४ ॥
श्लोक 45
क्लमो ऽङ्ग-चेष्टा-भङ्गश् च दाहश् च स्याद् अपाने तु मले हारिद्र-वर्ण-ता ।
रजो-ऽतिवृत्तिस् तापश् च योनि-मेहन-पायुषु ॥ ४५ ॥
श्लोक 46
रजो-ऽति-वृद्धिस् तापश् च श्लेष्मणा त्व् आवृते प्राणे सादस् तन्द्रा-रुचिर् वमिः ।
ष्ठीवनं क्षवथूद्गार-निःश्वासोच्छ्वास-संग्रहः ॥ ४६ ॥
श्लोक 47
उदाने गुरु-गात्र-त्वम् अ-रुचिर् वाक्-स्वर-ग्रहः ।
बल-वर्ण-प्रणाशश् च व्याने पर्वास्थि-वाग्-ग्रहः ॥ ४७ ॥
श्लोक 48
व्याने पार्श्वास्थि-वाग्-ग्रहः गुरु-ताङ्गेषु सर्वेषु स्खलितं च गतौ भृशम् ।
समाने ऽति-हिमाङ्ग-त्वम् अ-स्वेदो मन्द-वह्नि-ता ॥ ४८ ॥
श्लोक 49
अपाने स-कफं मूत्र-शकृतः स्यात् प्रवर्तनम् ।
इति द्वा-विंशति-विधं वायोर् आवरणं विदुः ॥ ४९ ॥
श्लोक 50
अपाने स-कफं मूत्रं शकृतः स्यात् प्रवर्तनम् प्राणादयस् तथान्यो-ऽन्यम् आवृण्वन्ति यथा-क्रमम् ।
सर्वे ऽपि विंशति-विधं विद्याद् आवरणं च तत् ॥ ५० ॥
श्लोक 51
आवृण्वन्ति यथा-यथम् निःश्वासोच्छ्वास-संरोधः प्रतिश्यायः शिरो-ग्रहः ।
हृद्-रोगो मुख-शोषश् च प्राणेनोदान आवृते ॥ ५१ ॥
श्लोक 52
हृद्-रोगो मुख-रोगश् च उदानेनावृते प्राणे वर्णौजो-बल-संक्षयः ।
दिशानया च विभजेत् सर्वम् आवरणं भिषक् ॥ ५२ ॥
श्लोक 53
स्थानान्य् अवेक्ष्य वातानां वृद्धिं हानिं च कर्मणाम् ।
प्राणादीनां च पञ्चानां मिश्रम् आवरणं मिथः ॥ ५३ ॥
श्लोक 54
पित्तादिभिर् द्वा-दशभिर् मिश्राणां मिश्रितैश् च तैः ।
मिश्रैः पित्तादिभिस् तद्-वन् मिश्रणाभिर् अनेक-धा ॥ ५४ ॥
श्लोक 55
तारतम्य-विकल्पाच् च यात्य् आवृतिर् अ-संख्य-ताम् ।
तां लक्षयेद् अवहितो यथा-स्वं लक्षणोदयात् ॥ ५५ ॥
श्लोक 56
शनैः शनैश् चोपशयाद् गूढाम् अपि मुहुर् मुहुः ।
विशेषाज् जीवितं प्राण उदानो बलम् उच्यते ॥ ५६ ॥
श्लोक 57
स्यात् तयोः पीडनाद् धानिर् आयुषश् च बलस्य च ।
आवृता वायवो ऽ-ज्ञाता ज्ञाता वा वत्सरं स्थिताः ॥ ५७ ॥
श्लोक 58
प्रयत्नेनापि दुः-साध्या भवेयुर् वान्-उपक्रमाः ।
विद्रधि-प्लीह-हृद्-रोग-गुल्माग्नि-सदनादयः ॥ ५८ ॥
श्लोक
भवन्त्य् उपद्रवास् तेषाम् आवृतानाम् उपेक्षणात् ॥ ५८ऊअब् ॥
श्लोक
व्याधीनां संशयं छेत्तुम् अन्यतो यो ऽ-प्रमत्त-वान् ।
निदानं सततं तेन चिन्तनीयं विपश्चिता ॥ ५८ऊ+१ ॥