अष्टाङ्गसंग्रहः उत्तरस्थानम् 16

श्लोक 1

अथातस्तिमिरप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

तिमिरं काचतां याति काचोऽप्यान्ध्यमुपेक्षया।
नेत्ररोगेष्वतो घोरं तिमिरं साधयेत् द्रुतम्॥

श्लोक 3

तुलां पचेत जीवन्त्या द्रोणेऽपां पादशेषिते।
तत्क्वाथे द्विगुणक्षीरं घृतप्रस्थं विपाचयेत्॥

श्लोक 4

प्रपौण्डरीककाकोलीपिप्पलीलोध्रसैन्धवैः।
शताह्वामधुकद्राक्षा सितादारुफलत्रयैः।
कार्षिकैर्निशि तत्पीतं तिमिरापहरं परम्॥

श्लोक 5

द्राक्षाचन्दनमञ्जिष्ठाकाकोलीद्वयजीवकैः।
सिताशतावरीमेदापुण्ड्राह्वमधुकोत्पलैः॥

श्लोक 6

पचेज्जीर्णघृतपस्थं समक्षीरं पिचून्मितैः।
हन्ति तच्छ्रुक्रतिमिररक्तराजीशिरोरुजः॥

श्लोक 7

पटोलनिम्बकटुकादार्वीसेव्यवरावृषम्।
सधन्वयासत्रायन्तीपर्पटं पालिकं पृथक्॥

श्लोक 8

प्रस्थमामलकानां च क्वाथयेदर्मणेऽम्भसः।
तदाढकेर्धपलिकैः पिष्टैः प्रस्थं घृतात् पचेत्॥

श्लोक 9

मुस्तभूनिम्बयष्ट्याह्वकुटयोदीच्यचन्दनैः।
सव्योषचव्यैस्तत्सर्पिर्घ्राणकर्णाक्षिरोगजित्॥

श्लोक 10

विद्रधिज्वरदुष्टारुर्विसर्पापचिकुष्ठनुत्।
विशेषाच्छ्रुक्रतिमिरनक्तान्ध्योष्णाम्लदाहहृत्॥

श्लोक 11

त्रिफलाष्टपलं क्वाथ्यं पादशेषं जलाढके।
तेन तुल्यपयस्केन त्रिफलापलकल्कवान्॥

श्लोक 12

अर्धप्रस्थो घृतात्सिद्धः सितया माक्षिकेण वा।
युक्तं पिबेत्तत्तिमिरी तद्युक्तं वा वरारसम्॥

श्लोक 13

यष्टीमधुद्विकाकोलीव्याघ्रीकृष्णामृतोत्पलैः।
पालिकैः ससिताद्राक्षैर्घृतप्रस्थं पचेत् समैः॥

श्लोक 14

अजाक्षीरवरावासामार्कवस्वरसैः पृथक्।
महात्रैफलमित्येतत् परं दृष्टिविकारजित्॥

श्लोक 15

त्रैफलेनाथ हविषा लिहानस्त्रिफलां निशि।
यष्टीमधुकसंयुक्तां मधुना च परिप्लुताम्॥

श्लोक 16

मासमेकं हिताहारः पिबन्नामलकोदकम्।
सौपर्णं लभते चक्षुरित्याह भगवान् निमिः॥

श्लोक 17

गव्यं घृतं लोहरजो भाजने बादरे स्थितम्।
त्रिफलाचूर्णसहितं पीतं तिमिरनाशनम्॥

श्लोक 18

पुराणं च सिताभीरुयष्टीमधुकचूर्णवत्।
निषिक्तमग्निवर्णैर्वा जीर्णं सर्पिरयोगुडैः॥

श्लोक 19

हेमरूप्यायसैश्चूर्णैर्युक्तां वा त्रिफलां पृथक्।
घृतक्षौद्रान्वितामद्यात् केवलां वा विचूर्णिताम्॥

श्लोक 20

ताप्यायस्त्रिफलाचूर्णं मधुजीर्णघृतद्रुतम्।
लोहपात्रे स्थितं मासं माषराशौ च भक्षयेत्॥

श्लोक 21

सक्तून् वाद्यात्ससर्पिष्कांस्त्रिफलाचूर्णसंयुतान्।
भुञ्जीत वा सुसिद्धेन सूपेनामलकैः सह॥

श्लोक 22

प्रातर्भक्तस्य वा पूर्वमद्यात् पथ्यां पृथक् पृथक्।
मृद्वीकाशर्कराक्षौद्रैः सततं तिमिरातुरः॥

श्लोक 23

क्वाथोसनात् भृङ्गरसस्तैलं कालतिलोद्भवम्।
लोहपात्रे तदेकत्र साधितं नावनं हितम्॥

श्लोक 24

स्रोतोजांशांश्चतुष्षष्टिं हेमायोरूप्यताम्रकैः।
युक्तान् प्रत्येकमेकांशैरन्धमूषोदरस्थितान्॥

श्लोक 25

ध्मापयित्वा समावृत्तं ततस्तच्च निषेचयेत्।
रसस्कन्धकषायेण सप्तकृत्वः पृत्थक् पृथक्॥

श्लोक 26

वैडूर्यमुक्ताशङ्खानां त्रिभिर्भागैर्युतं ततः।
चूर्णाञ्जनं प्रयुञ्जीत तत्सर्वतिमिरापहम्॥

श्लोक 27

निर्दग्धं बदराङ्गारैस्तुत्थं चेत्थं निषेचितम्।
क्रमादजापयः सर्पिः क्षौद्रैस्तस्मात् पलद्वयम्॥

श्लोक 28

कार्षिकैस्ताप्यमरिचस्रोतोजकटुकानतैः।
पटुलोध्रशिलापथ्याकणैलाञ्जनफेनकैः॥

श्लोक 29

युक्तं पलेन यष्ट्याश्च मूषान्तर्ध्मातचूर्णितम्।
हन्ति काचार्मनक्तान्ध्यरक्तराजीः सुशीलितः।
चूर्णो विशेषात्तिमिरं भास्करो भास्करो यथा॥

श्लोक 30

मनोह्वासैन्ध्हवव्योषशङ्खनाभीरसाञ्जनम्।
कतकं चन्दनं फेनो विडङ्गानि सितोपला॥

श्लोक 31

कुक्कुटाण्डकपालं च जलपिष्टा सुखावती।
हन्त्येषा मधुना घृष्टा काचतैमिर्यशुक्लकान्॥

श्लोक 32

त्रिफलाकुक्कुटाण्डत्वक्कासीसमयसो रजः।
नीलोत्पलं विडङ्गानि फेनं च सरितां पतेः॥

श्लोक 33

आजेन पयसा पिष्ट्वा लेपयेत्ताम्रभाजनम्।
सप्तरात्रे गते भूयः पिष्टं क्षीरेण वर्तयेत्।
एषा दृष्टिप्रदा वर्तिरपि स्याद्भिन्नचक्षुषः॥

श्लोक 34

अञ्जनं कृष्णसर्पास्ये निहितं कुशवेष्टिते।
ततस्ततः समुद्वृत्य मासात् सञ्चूर्णयेत् सह॥

श्लोक 35

सुमनःक्षारकैः शुष्कैरर्धांशैः सैन्धवेन च।
प्रयोजयेद्रागवति तिमिरे तद्वराञ्जनम्॥

श्लोक 36

पयसा त्रयमेतच्च चूर्णयित्वा सुभावितम्॥

श्लोक 37

सामान्यं साधनं त्वेतत्प्रतिदोषमतः शृणु॥

श्लोक 38

वातजे तिमिरे तत्र दशमूलाम्भसा घृतम्।
क्षीरे चतुर्गुणे श्रेष्ठाकल्कपक्वं पिबेत्ततः॥

श्लोक 39

त्रिफलापञ्चमूलानां कषायं क्षीरसंयुतम्।
एरण्डतैलसंयुक्तं योजयेत विरेचनम्॥

श्लोक 40

शङ्खिनीतिल्वकश्यामादन्तीर्निष्काथ्य वा जले।
त्रिवृत्कल्कप्रतीवापं तेन पक्वं घृतं पिबेत्॥

श्लोक 41

प्रपौण्डरीकबृहतीबलानलदसैन्धवैः।
दारुबिल्वाडकीकृष्णा हरिद्द्रामधुयष्टिभिः।
सिद्धं चतुर्गुणक्षीरं तैलं नस्तो निषेचयेत्॥

श्लोक 42

सितैरण्डजटासिंहीफलदारुनिशानतैः।
शताह्वाबिल्वमूलैश्च तैलं पक्वं पयोऽन्वितम्।
नस्यं सर्वोर्ध्वजत्रूत्थवातश्लेष्मामयार्तिषु॥

श्लोक 43

वसाञ्जने च वैयाघ्री वाराही वा प्रशस्यते।
गृध्राहिकुक्कुटोत्था वा मधुकेनान्विता पृथक्॥

श्लोक 44

प्रत्यञ्जनं च स्रोतोजं रसक्षीरघृतैः क्रमात्।
निषिक्तं पूर्ववद्योज्यं तिमिरघ्नमनुत्तमम्॥

श्लोक 45

नचेदेवं शमं याति ततस्तर्पणमाचरेत्॥

श्लोक 46

शताह्वाकुष्ठनलदकाकोलीद्वययष्टिभिः।
प्रपौण्डरीकसरलपिप्पलीदेवदारुभिः।
सर्पिरष्टगुणक्षीरं पक्वं तर्पणमुत्तमम्॥

श्लोक 47

प्रसादनं स्नेहनं च पुटपाकं प्रयोजयेत्॥

श्लोक 48

वातपीनसवच्चात्र निरूहं सानुवासनम्॥

श्लोक 49

पित्तजे तिमिरे सर्पिर्जीवनीयफलत्रयैः।
विपाचितं पाययित्वा स्निग्धस्य व्यधयेत्सिराम्।
शर्करैलात्रिवृच्चूर्णैर्मधुयुक्तैर्विरेचयेत्॥

श्लोक 50

मञ्जिष्ठालोध्रमधुकसारिवाचन्दनैः शृतम्।
जलं सशर्करास्तन्यं नेत्रसेके प्रशस्यते॥

श्लोक 51

स्तन्यं वा पद्मकोशीरक्षीरिवृक्षाङ्कुरैः शृतम्।
तप्तैर्निर्वापितं सर्पिरसकृल्लोहपिण्डकैः॥

श्लोक 52

विमर्दितसिताद्राक्षं हिमं तच्चाक्षिसेचनम्।
शीतानालेपसेकादीन् मुखे मूर्ध्नि च शीलयेत्॥

श्लोक 53

सारिवापद्मकोशीरमुस्ताशाबरचन्दनैः।
वर्तिः शस्ताञ्जने चूर्णस्तथा पद्मोत्पलाञ्जनैः।
सनागपुष्पकर्पूरयष्ट्याह्वस्वर्णगौरिकैः॥

श्लोक 54

लोध्रमूर्वाप्रपुण्ड्राह्वमांसीयष्ट्याह्वचन्दनैः।
सोशीरैः साधितं सर्पिः सक्षीरं तर्पणं हितम्॥

श्लोक 55

एभिरेवौषधैश्छागे पक्वे यकृति तद्रसे।
पूर्ववत् पुटपाकश्च कार्यस्तिमिरनाशनः॥

श्लोक 56

श्लेष्मोद्भवेऽमृताक्वाथवराकणशृतं घृतम्।
विध्येत् सिरां पीतवतो दद्याच्चानु विरेचनम्।
क्वाथं पूगाभयाशुण्ठीकृष्णाकुम्भनिकुम्भजम्॥

श्लोक 57

करञ्जकट्फलवचात्रिफलापञ्चकोलकैः।
सदार्वीकैः पयो युक्तं सिद्धं तैलं च नावनम्॥

श्लोक 58

शङ्खप्रियङ्गुनैपालीकटुत्रिकफत्रिकैः।
दृग्वैमल्याय विमला वर्तिः स्यात् कोकिला पुनः॥

श्लोक 59

कृष्णलोहरजोव्योषसैन्धवत्रिफलाञ्जनैः।
पीताख्या द्विनिशाकुष्ठनतपत्रकणोषणैः॥

श्लोक 60

पत्रपीतावराव्योषशिलालनतसैन्धवैः॥

श्लोक 61

मनोह्वाशङ्खसिन्धूत्थमरिचैस्तिमिरं जयेत्।
वर्तिः प्रगाढमप्याशु शुक्रपिल्लामयार्म च॥

श्लोक 62

तालीसपाठाकिणिहीवेल्लमांसीनिशाभयैः।
पिष्टैः क्षीरिद्रुमक्वाथे घृतं सिद्धं च तर्पणम्॥

श्लोक 63

पुटपाकं च पिशितैर्जाङ्गलैः सैन्धवान्वितैः।
सपिप्पलीमधुघृतैः कल्कितैः प्रागिवाचरेत्॥

श्लोक 64

शिग्रुपत्रैर्जलस्विन्नैः कार्यः स्वेदश्च मात्रया॥

श्लोक 65

रक्तजे पित्तवत् कार्यं सन्निपाते यथोल्बणम्॥

श्लोक 66

व्याघ्रर्ष्यगोशिखिवसा यवक्वाथपयोयुता।
दूर्वामधुककल्केन विपक्वा तर्पणे हिता॥

श्लोक 67

यष्ट्यनन्ताद्विबृहतीपिप्पलीलवणद्वयैः।
सलोहचन्दनैः पक्वं यकृता शल्यकस्य च।
मृगगोधाशशानां च पुटपाकं प्रकल्पयेत्॥

श्लोक 68

दद्यादुशीरनिर्यूहे चूर्णितं कणसैन्धवम्।
तत्स्रुतं सघृतं भूयः पचेत् क्षौद्रं क्षिपेद्धने।
शीते चास्मिन् हितमिदं सर्वजे तिमिरेऽञ्जनम्॥

श्लोक 69

कुष्ठं वा शर्करोपेतमान्तरिक्षेण वारिणा।
निष्काथ्यं सर्पिःक्षौद्राभ्यां संसृष्टं प्रागिवाञ्जनम्॥

श्लोक 70

स्रोतोऽञ्जनं ससौवीरं वेष्टयित्वाजमेदसा।
वटपत्रैरनु तथा दर्भैः कृष्णमृदानु च।
गोमयानलपक्वं तत् प्रशस्तं चूर्णमञ्जनम्॥

श्लोक 71

उरभ्रशल्यकश्वाविण्मार्जारशिखिजन्ममिः।
वसाभिर्विधिनानेन योगा योज्याः पृथक् पृथक्॥

श्लोक 72

वटप्ररोहमधुकदूर्वालोध्रतिलोत्पलैः।
वयोम्बुपिष्टैः सघृतैः शिरो वक्त्रं च लेपयेत्॥

श्लोक 73

कुर्याच्छिरः परीषेकमेभिरेव पयःशृतैः॥

श्लोक 74

सन्निपाते यदुदितं दोषोद्रेकं विभज्य तत्।
संसर्गेऽपि प्रयुञ्जीत काचे तिमिरवत् क्रिया॥

श्लोक 75

न तु तत्र सिरां विध्येत् दृक्स्थिता यन्त्रपीडनात्।
कुर्युरान्ध्यं मला दद्यात् स्रव्ये त्वस्रे जलौकसः॥

श्लोक 76

धूमराख्याम्लपित्तोष्णविदाहे जीर्णसर्पिषा।
स्निग्धं विरेचयेच्छीतैश्शीतैर्दिह्या च सर्वतः॥

श्लोक 77

गोशकृद्रसदुग्धाज्यैर्विपक्वं शस्यतेऽञ्जनम्।
स्वर्णगौरिकतालीसचूर्णावापा रसक्रिया॥

श्लोक 78

पुराणगुडकासीसपिप्पलीकट्फलाद्रजः।
भावितं त्रिफलाम्भोभिः शुष्कं गोविड्रसाप्लुतम्।
निशान्ध्वतिमिरे सद्यो गुटिका हन्ति तत्कृता॥

श्लोक 79

दध्ना विघृष्टं मरिचं रात्र्यन्धांजनमुत्तमम्।
भृष्टं घृतं कुम्भयोनेः पत्रैः पाने च पूजितम्॥

श्लोक 80

कारञ्जिकोत्पलस्वर्णगौरिकाम्भोजकेसरैः।
गोविड्रसेन पिष्टेयं वर्तिर्नक्तान्ध्यनाशिनी॥

श्लोक 81

क्षौद्रजातीरसाभ्यां वा द्विहरिद्रारसाञ्जनैः।
अजामूत्रेण वा कौन्तीकृष्णास्त्रोतोजसैन्धवैः॥

श्लोक 82

गोशकृद्रसपिष्टैर्वा द्विनिशापिप्पलीयुतैः।
कालानुसारीतालीसपत्रयष्ट्याह्वनागरैः॥

श्लोक 83

कणा वा कापिले पित्ते मासार्धं परिभाविता।
यकृत्पित्तेषु वा गोधाशशर्ष्यरुरुबर्हिणाम्॥

श्लोक 84

खादेच्च प्लीहयकृती माहिषे तैलसर्पिषा।
घृते सिद्धानि जीवन्त्याः पल्लवानि च भक्षयेत्।
तथातिमुक्तकैरण्डसोहलाभीरुजानि च॥

श्लोक 85

व्रणवच्चाक्षिरोगेषु भोज्याभोज्यानि निर्दिशेत्॥

श्लोक 86

अविधारितवेगस्य भजतोऽञ्जननावनम्।
त्यजतः क्रोधशोकौ च तिमिरं नाश्नुतेऽन्तरम्॥

श्लोक 87

त्रिफलामश्नतो रात्रौ संस्कृतं पिबतो घृतम्।
भुक्त्वा चापिबतस्तोयं तिमिरं लघु शाम्यति॥

श्लोक 88

सुषभव्यं सुकन्यां च स्कन्दं च्यवनमश्विनौ।
पडेतान् यः स्मरेन्नित्यं तस्य चक्षुर्न हीयते॥

श्लोक 89

चिन्ताभिघातभीशोकरौक्ष्यामोत्कुटिकासनात्।
विरेकनस्यवमनपुटपाकादिविभ्रमात्॥

श्लोक 90

विदग्धाहारवमनात् क्षुत्तृष्णादिविधारणात्।
अक्षिरोगावसानाच्च पश्येत्तिमिररोगिवत्॥

श्लोक 91

सूर्योपरागानलविद्युदादिविलोकनेनोपहतेक्षणस्य।
सन्तर्पणं स्निग्धहिमादि योज्यं तथाञ्जनं हेम घृतेन घृष्टम्॥

श्लोक 92

चक्षूरक्षायां सर्वकालं मनुष्यैर्यत्नः कर्तव्यो जीविते यावदिच्छा।
व्यार्थो लोकोऽयं तुल्यरात्रिन्दिवानां पुंसामन्धानां विद्यामानेऽपि वित्ते॥

श्लोक 93

त्रिफलारुधिरस्रुतिर्विशुद्धिर्मनसो निर्वृतिरञ्जनं सनस्यम्।
शकुनाशनता सपादपूजा घृतपानं च सदैव नेत्ररक्षा॥

श्लोक 94

अहितादशनात् सदा निवृत्तिर्भृशभास्वच्चलसूक्ष्मवीक्षणाच्च।
मुनिना निमिनोपदिष्टमेतत् परमं रक्षणमीक्षणस्य पुंसाम्॥

श्लोक 95

तमालतृटिकुङ्कुमान्यसितमुत्पलं पिप्पली सिताञ्जनमयोरजो मरिचकाकमाचीत्वचः।
सयष्टिमधुकाञ्जनान्युदधिफेनमक्ष्यामयेष्वनुत्तममतोऽञ्जनं विमलमाशु तैमिर्यहृत्॥
॥इति षोडशोऽध्यायः॥