अष्टाङ्गसंग्रहः निदानस्थानम् 16

श्लोक 1

अथातो वातशोणितनिदानं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

विदाह्यन्नं विरुद्धं च तत्तच्चासृक्प्रदूषणम्।
भजतां विधिहीनं च स्वप्नजागरमैथुनम्॥

श्लोक 3

प्रायेण सुकुमारणामचङ्क्रमणशीलिनाम्।
अभिघातादशुद्धेश्च नृणामसृजि दूषिते॥

श्लोक 4

वातलैः शीतलैर्वायुर्वृद्धः क्रुद्धो विमार्गगः।
तादृशेनासृजा रुद्धः प्राक्तदेव प्रदूषयेत्॥

श्लोक 5

आढ्यरोगं खुडं वातबलासं वातशोणितम्।
तदाहुर्नामभिस्तच्च पूर्वं पादौ प्रधावति॥

श्लोक 6

विशेषाद्यानयानाद्यैः प्रलम्बौ तस्य लक्षणम्।
भविष्यतः कुष्ठसमं तथा सादः श्लथाङ्गता॥

श्लोक 7

जानुजङ्घोरुकट्यंसहस्तपादाङ्गसन्धिषु।
कण्डूस्फुरणनिस्तोदभेदगौरवसुप्तताः॥

श्लोक 8

भूत्वा भूत्वा प्रणश्यन्ति मुहुराविर्भवन्ति च।
पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि॥

श्लोक 9

आखोरिव विषं क्रुद्धं कृत्स्नं देहं प्रधावति।
त्वङ्मांसाश्रयमुत्तानं तत् पूर्वं जायते ततः॥

श्लोक 10

कालान्तरेण गम्भीरं सर्वान् धातूनाभिद्रवत्।
कण्ड्वादिसंयुतोत्ताने त्वक् ताम्रश्यावलोहिता॥

श्लोक 11

सायामा भृशदाहोषा गम्भीरेऽधिकपूर्वरुक्।
श्वयथुर्ग्रथितः पाकी सन्ध्यस्थिमज्जसु॥

श्लोक 12

भिन्दन्निव चरत्यन्तर्वक्रीकुवश्च वेगवान्।
करोति खञ्जं पङ्गुं वा शरीरे सर्वतश्चरन्॥

श्लोक 13

वातेऽधिकेऽधिकं तत्र शूलस्फुरणतोदनम्।
शोफस्य रौक्ष्यकृष्णत्वश्यावतावृद्धिहानयः॥

श्लोक 14

धमन्यङ्गुलिसन्धीनां सङ्कोचोऽङ्गग्रहोऽतिरुक्।
शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः॥

श्लोक 15

रक्ते शोफोऽतिरुक् तोदस्ताम्रश्चिमिचिमायते।
स्निग्धरूक्षैः शमं नैति कण्डूक्लेदसमन्वितः॥

श्लोक 16

पित्ते विदाहःसम्मोहः स्वेदो मूर्छा मदः सतृट्।
स्पर्शाक्षमत्वं रुग्रागः शोफः पाको भृशोष्मता॥

श्लोक 17

कफे स्तैमित्यगुरुतासुप्तिस्निग्धत्वशीतताः।
कण्डूर्मन्दा च रुग्द्वन्द्वसर्वलिङ्गं च सङ्करे॥

श्लोक 18

एकदोषानुगं साध्यं नवं याप्यं द्विदोषजम्।
त्रिदोषजं त्यजेत् स्रावि स्तब्धमर्बुदकारि च॥

श्लोक 19

रक्तमार्गं निहन्त्याशु शाखासन्धिषु मारुतः।
निविश्यान्योन्यमावार्य वेदनाभिर्हरत्यसून्॥

श्लोक 20

वायौ पञ्चात्मके प्राणो रौक्ष्यव्यायामलङ्घनैः।
अत्याहाराभिघाताध्ववेगोदीरणधारणैः॥

श्लोक 21

कुपितश्चक्षुरादीनामुपघातं प्रवर्तयेत्।
पीनसार्दिततृट्कासश्वासादींश्चामयान्बहून्॥

श्लोक 22

उदानः क्षवथूद्गारच्छर्दिनिद्राविधारणैः।
गुरुभारातिरुदितहास्याद्यैर्विकृतो गदान्॥

श्लोक 23

कण्ठरोधमनोभ्रंशच्छर्द्यरोचकपनिसान्।
कुर्याच्च गलगण्डादीन्तांतान्जत्रूर्ध्वसंश्रयान्॥

श्लोक 24

व्यानोऽतिगमनस्थानक्रीडाविषमचेष्टितैः।
विरोधिरूक्षभीहर्षविषादाद्यैश्च दूषितः॥

श्लोक 25

पुंस्त्वोत्साहबलभ्रंशशोफचित्तोत्प्लवज्वरान्।
सर्वाङ्गरोगनिस्तोदरोमहर्षाङ्गसुप्तताः॥

श्लोक 26

कुष्ठं विसर्पमन्यांश्च कुर्यात्सर्वाङ्गगान् गदान्।
समानो विषमाजीर्णशीतसङ्कीर्णभोजनैः॥

श्लोक 27

करोत्यकालशयनजागराद्यैश्च दूषितः।
शूलगुल्मग्रहण्यादीन् पक्वामाश्यजान् गदान्॥

श्लोक 28

अपानो रूक्षगुर्वन्नवेगाघातातिवाहनैः।
यानयानासनस्थानचङ्क्रमैश्चातिसेवितैः॥

श्लोक 29

कुपितः कुरुते रोगान्कृच्छ्रान्पक्वाशयाश्रयान्।
मूत्रशुक्रप्रदोषार्शोगुदभ्रंशादिकान् बहून्॥

श्लोक 30

सर्वं च मारुतं सामं तन्द्रास्तैमित्यगौरवैः।
स्निग्धत्वारोचकालस्यशैत्यशोफाग्निहानिभिः॥

श्लोक 31

कटुरूक्षाभिलाषेण तद्विधोपशयेन च।
युक्तं विद्यान्निरामं तु तन्द्रादीनां विपर्ययात्॥

श्लोक 32

वायोरावरणं चातो बहुभेदं प्रवक्ष्यते।
लिङ्गं पित्तावृते दाहस्तृष्णा शूलं भ्रमस्तमः॥

श्लोक 33

कटुकोष्णाम्ललवणैर्विदाहः शीतकमता।
शैत्यगौरवशूलानि कट्वाद्युपशयोऽधिकम्॥

श्लोक 34

लङ्घनायासरूक्षोष्णकामता च कफावृते।
रक्तावृते सदाहार्तिस्त्वङ्मांसान्तरजा भृशम्॥

श्लोक 35

भवेच्च रागी श्वयथुर्जायन्ते मण्डलानि च।
मांसेन कठिनः शोफो विवर्णः पिटकास्तथा॥

श्लोक 36

हर्षः पिपीलिकानां च सञ्चार इव जायते।
चलः स्निग्धो मृदुः शीतः शोफो गात्रेष्वरोचकः॥

श्लोक 37

आढ्यवात इति ज्ञेयः स कृच्छ्रो मेदसावृते।
स्पर्शमस्थ्यावृतेऽत्युष्णं पीडनं चाभिनन्दति॥

श्लोक 38

सूच्येव तुद्यतेऽत्यर्थमङ्गं सीदति शूल्यते।
मज्जावृते विनमनं जृम्भणं परिवेष्टनम्॥

श्लोक 39

शूलं च पीड्यमाने च पाणिभ्यां लभते सुखम्।
शुक्रावृतेऽतिवेगो वा न वा निष्फलतापि वा॥

श्लोक 40

भुक्ते कुक्षौ रुजा जीर्णे शाम्यत्यन्नावृतेऽनिले।
मूत्राप्रवृत्तिराध्मानं बस्तेर्मूत्रावृते भवेत्॥

श्लोक 41

विडावृते विबन्धोऽधः स्वे स्थाने परिकृन्तति॥

श्लोक 42

व्रजत्याशु जरां स्नेहो भुक्ते चानह्यते नरः।
शकृत्पीडितमन्नेन दुःखं शुष्कं चिरात्सृजेत्॥

श्लोक 43

सर्वधात्वावृते वायौ श्रोणिवङ्क्षणपृष्ठरुक्।
विलोमो मारुतोऽस्वास्थ्यं हृदयं पीड्यतेऽतिच॥

श्लोक 44

भ्रमो मूर्छा रुजा दाहः पित्तेन प्राण आवृते।
विदग्धेऽन्ने च वमनमुदाने विभ्रमादयः॥

श्लोक 45

दाहोऽन्तरूर्जाभ्रंशश्च दाहो व्याने तु सर्वगः।
क्लमोऽङ्गचेष्टासङ्गश्च सन्तापः सहवेदनः॥

श्लोक 46

समान उष्मोपहतिरतिस्वेदोऽरतिः सतृट्।
दाहश्च स्यादपाने तु मले हारिद्रवर्णता॥

श्लोक 47

रुजोऽतिवृद्धिस्तापश्च योनिमेहनपायुषु॥

श्लोक 48

श्लेष्मणा त्वावऋते प्राणे सादस्तन्द्रारुचिर्वमिः।
ष्ठीवनक्षवथूद्गारनिश्वासोच्छ्वाससङ्ग्रहः॥

श्लोक 49

उदाने गुरुगात्रत्वमरुचिर्वाक्स्वरग्रहः।
बलवर्णप्रणाशश्च व्याने पर्वास्थिवाग्ग्रहः॥

श्लोक 50

गुरुताङ्गेषु सर्वेषु स्खलितं च गतौ भृशम्।
समानेऽतिहिमाङ्गत्वमस्वेदो मन्दवह्निता॥

श्लोक 51

अपाने सकफं मूत्रशकृतोः स्यात् प्रवर्तनम्।
इति द्वाविंशतिविधं वायोरावरणं विदुः॥

श्लोक 52

प्राणादयस्तथान्योन्यमावृण्वन्ति यथाक्रमम्।
सर्वेपि विंशतिविधं विद्यादावरणं च तत्॥

श्लोक 53

निश्वासोच्छ्ववाससंरोधःप्रतिश्यायःशिरोग्रहः।
हृद्रोगो मुखशोषश्च प्राणेनोदान आवृते॥

श्लोक 54

उदानेनावृते प्राणे वर्णौजोबलसङ्क्षयः।
दिशानया च विभजेत् सर्वमावरणं भिषक्॥

श्लोक 55

स्थानान्यवेक्ष्य वातानां वृद्धिं हानिं च कर्मणाम्।
प्राणादीनां च पञ्चानां मिश्रमावरणं मिथः॥

श्लोक 56

पित्तादिभिर्द्वादशभिर्मिश्राणां मिश्रितैश्च तैः।
मिश्रैः पित्तादिभिस्तद्वन्मिश्रणाभिरनेकधा॥

श्लोक 57

तारतम्यविकल्पाच्च यात्यावृतिरसङ्ख्यताम्।
तां लक्षयेदवहितो यथास्वं लक्षणोदयात्॥

श्लोक 58

शनैश्शनैश्चोपशयाद् गूढामपि मुहुर्मुहुः।
विशेषाज्जीवितं प्राण उदानो बलमुच्यते॥

श्लोक 59

स्यात्तयोः पीडनाद्धानिरायुषश्च बलस्य च॥

श्लोक 60

आवृता वायवोऽज्ञाता ज्ञाता वा वत्सरं स्थिताः।
प्रयत्नेनापि दुःसाध्या भवेयुर्वानुपक्रमाः॥

श्लोक 61

विद्रधिप्लीहहृद्रोगगुल्माग्निसदनादयः।
भवन्त्युपद्रवास्तेषामावृतानामुपेक्षणात्॥