श्लोक 1
प्राग्-रूप एव स्यन्देषु तीक्ष्णं गण्डूष-नावनम् ।
कारयेद् उपवासं च कोपाद् अन्य-त्र वात-जात् ॥ १ ॥
श्लोक 2
दाहोपदेह-रागाश्रु-शोफ-शान्त्यै बिडालकम् ।
कुर्यात् सर्व-त्र पत्त्रैला-मरिच-स्वर्ण-गैरिकैः ॥ २ ॥
श्लोक 3
स-रसाञ्जन-यष्ट्य्-आह्व-नत-चन्दन-सैन्धवैः ।
सैन्धवं नागरं तार्क्ष्यं भृष्टं मण्डेन सर्पिषः ॥ ३ ॥
श्लोक
घृष्टं मण्डेन सर्पिषः बदरी-पत्त्र-यष्ट्य्-आह्व-पथ्यामलक-तुत्थकम् ।
अन्तर्-धूमं दहेत् सद्यः कोपे तच्-चूर्णं वात-जे ॥ ३.१+१ ॥
श्लोक 4
वात-जे घृत-भृष्टं वा योज्यं शबर-देश-जम् ।
मांसी-पद्मक-कालीय-यष्ट्य्-आह्वैः पित्त-रक्तयोः ॥ ४ ॥
श्लोक 5
योज्यं शाबर-देश-जम् मांसी-पद्मक-काकोली- मनोह्वा-फलिनी-क्षौद्रैः कफे सर्वैस् तु सर्व-जे ॥ ५अब् ॥
सित-मरिच-भागम् एकं चतुर्-मनोह्वं द्विर् अष्ट-शाबरकम् ॥ ५च्द् ॥
संचूर्ण्य वस्त्र-बद्धं प्रकुपित-मात्रे ऽवगुण्ठनं नेत्रे ॥ ५एf ॥
श्लोक
संचूर्ण्यम् अति-प्रबद्धं प्रकुपित-मात्रे ऽवगुण्ठनम् इदं नेत्रे धातु-शुण्ठ्य्-अभया-तार्क्ष्यं बहिर्-लेपो ऽक्षि-रोग-हा ॥ ५.१(१)+१अब् ॥
श्लोक
धातु-शुण्ठ्य्-अभया-तार्क्ष्य-बहिर्-लेपो ऽक्षि-रोग-हा हरीतकी-सैन्धव-तार्क्ष्य-शीलैः स-गैरिकैः स्व-स्व-कर-प्रमृष्टैः ।
बहिः-प्रलेपं नयनस्य कुर्यात् सर्वाक्षि-रोग-प्रशमार्थम् एतत् ॥ ५.१(२)+१ ॥
श्लोक 6
आरण्याश् छगण-रसे पटावबद्धाः सु-स्विन्ना नख-वि-तुषी-कृताः कुलत्थाः ।
तच्-चूर्णं सकृद् अवचूर्णनान् निशीथे नेत्राणां विधमति सद्य एव कोपम् ॥ ६ ॥
श्लोक 7
आरण्याश् छगण-रसे पटावनद्धाः घोषाभया-तुत्थक-यष्टि-लोध्रैर् मूती सु-सूक्ष्मैः श्लथ-वस्त्र-बद्धैः ।
ताम्र-स्थ-धान्याम्ल-निमग्न-मूर्तिर् अर्तिं जयत्य् अक्षिणि नैक-रूपाम् ॥ ७ ॥
श्लोक 8
घोषाभया-तुत्थक-यष्टि-लोध्रैः व्योषाभया-तुत्थक-यष्टि-लोध्रैर् गुण्डी सु-सूक्ष्मैः श्लथ-वस्त्र-बद्धैः पिष्टैः सु-सूक्ष्मैः श्लथ-वस्त्र-बद्धैः ताम्राच्छ-धान्याम्ल-निमग्न-मूर्तिर् षो-डशभिः सलिल-पलैः पलं तथैकं कटङ्कटेर्याः सिद्धम् ।
सेको ऽष्ट-भाग-शिष्टः क्षौद्र-युतः सर्व-दोष-कुपिते नेत्रे ॥ ८ ॥
श्लोक 9
क्षौद्र-युतः सर्व-दोष-प्रकुपिते नेत्रे वात-पित्त-कफ-संनिपात-जां नेत्रयोर् बहु-विधाम् अपि व्यथाम् ।
शीघ्रम् एव जयति प्रयोजितः शिग्रु-पल्लव-रसः स-माक्षिकः ॥ ९ ॥
श्लोक 10
तरुणम् उरुबूक-पत्त्रं मूलं च विभिद्य सिद्धम् आजे क्षीरे ।
वाताभिष्यन्द-रुजं सद्यो विनिहन्ति सक्तु-पिण्डिका चोष्णा ॥ १० ॥
श्लोक 11
मूलं च विचूर्ण्य सिद्धम् आजे क्षीरे आश्च्योतनं मारुत-जे क्वाथो बिल्वादिभिर् हितः ।
कोष्णः सहैरण्ड-जटा-बृहती-मधु-शिग्रुभिः ॥ ११ ॥
श्लोक 12
ह्रीवेर-वक्र-शार्ङ्गष्टोदुम्बर-त्वक्षु साधितम् ।
साम्भसा पयसाजेन शूलाश्च्योतनम् उत्तमम् ॥ १२ ॥
श्लोक
त्वक्-प्रसाधितम् -प्लक्ष-साधितम् लोध्रामलक-रसाञ्ज[न]-बिम्बितिका-पत्त्र-तुबरिका-तुत्थैः ।
आश्च्योतनम् इदम् अक्ष्णोः प्रसह्य सद्यः प्रकोप-हरम् ॥ १२+१ ॥
श्लोक 13
मञ्जिष्ठा-रजनी-लाक्षा-द्राक्षर्द्धि-मधुकोत्पलैः ।
क्वाथः स-शर्करः शीतः सेचनं रक्त-पित्त-जित् ॥ १३ ॥
श्लोक 14
द्राक्षा-द्वि-मधुकोत्पलैः कसेरु-यष्ट्य्-आह्व-रजस् तान्तवे शिथिलं स्थितम् ।
अप्सु दिव्यासु निहितं हितं स्यन्दे ऽस्र-पित्त-जे ॥ १४ ॥
श्लोक 15
तान्तवे शिथिले स्थितम् पुण्ड्र-यष्टी-निशा-मूती प्लुता स्तन्ये स-शर्करे ।
छाग-दुग्धे ऽथ-वा दाह-रुग्-रागाश्रु-निवर्तनी ॥ १५ ॥
श्लोक 16
श्वेत-लोध्रं स-मधुकं घृत-भृष्टं सु-चूर्णितम् ।
वस्त्र-स्थं स्तन्य-मृदितं पित्त-रक्ताभिघात-जित् ॥ १६ ॥
श्लोक 17
नागर-त्रि-फला-निम्ब-वासा-लोध्र-रसः कफे ।
कोष्णम् आश्च्योतनं मिश्रैर् भेषजैः सांनिपातिके ॥ १७ ॥
श्लोक 18
वासा-लोध्र-रसाः कफे -वासा-लोध्र-रसं कफे सर्पिः पुराणं पवने पित्ते शर्करयान्वितम् ।
व्योष-सिद्धं कफे पीत्वा यव-क्षारावचूर्णितम् ॥ १८ ॥
श्लोक 19
पित्ते शर्करया युतम् स्रावयेद् रुधिरं भूयस् ततः स्निग्धं विरेचयेत् ।
आनूप-वेसवारेण शिरो-वदन-लेपनम् ॥ १९ ॥
श्लोक 20
उष्णेन शूले दाहे तु पयः-सर्पिर्-युतैर् हिमैः ।
तिमिर-प्रतिषेधं च वीक्ष्य युञ्ज्याद् यथा-यथम् ॥ २० ॥
श्लोक 21
अयम् एव विधिः सर्वो मन्थादिष्व् अपि शस्यते ।
अ-शान्तौ सर्व-था मन्थे भ्रुवोर् उपरि दाहयेत् ॥ २१ ॥
श्लोक 22
रूप्यं रूक्षेण गो-दध्ना लिम्पेन् नील-त्वम् आगते ।
शुष्के तु मस्तुना वर्तिर् वाताक्ष्य्-आमय-नाशिनी ॥ २२ ॥
श्लोक 23
लिप्तं नील-त्वम् आगते लिप्ते नील-त्वम् आगते सुमनः-कोरकाः शङ्खस् त्रि-फला मधुकं बला ।
पित्त-रक्तापहा वर्तिः पिष्टा दिव्येन वारिणा ॥ २३ ॥
श्लोक 24
सुमनः-क्षारकाः शङ्खस् सैन्धवं त्रि-फला व्योषं शङ्खनाभिः समुद्र-जः ।
फेन ऐलेयकं सर्जो वर्तिः श्लेष्माक्षि-रोग-नुत् ॥ २४ ॥
श्लोक 25
प्रपौण्डरीकं यष्ट्य्-आह्वं दार्वी चाष्ट-पलं पचेत् ।
जल-द्रोणे रसे पूते पुनः पक्वे घने क्षिपेत् ॥ २५ ॥
श्लोक 26
पुष्पाञ्जनाद् दश-पलं कर्षं च मरिचात् ततः ।
कृतश् चूर्णो ऽथ-वा वर्तिः सर्वाभिष्यन्द-संभवान् ॥ २६ ॥
श्लोक 27
हन्ति राग-रुजा-घर्षान् सद्यो दृष्टिं प्रसादयेत् ।
अयं पाशुपतो योगो रहस्यं भिषजां परम् ॥ २७ ॥
श्लोक 28
शुष्काक्षि-पाके हविषः पानम् अक्ष्णोश् च तर्पणम् ।
घृतेन जीवनीयेन नस्यं तैलेन वाणुना ॥ २८ ॥
श्लोक 29
नस्यं तैलेन चाणुना परिषेको हितश् चात्र पयः कोष्णं स-सैन्धवम् ।
सर्पिर्-युक्तं स्तन्य-पिष्टम् अञ्जनं च महौषधम् ॥ २९ ॥
श्लोक 30
सर्पिर्-युक्तं स्तन्य-घृष्टम् वसा वानूप-सत्-त्वोत्था किञ्-चित्-सैन्धव-नागरा ।
घृताक्तान् दर्पणे घृष्टान् केशान् मल्लक-संपुटे ॥ ३० ॥
श्लोक 31
वसा चानूप-सत्-त्वोत्था दग्ध्वाज्य-पिष्टा लोह-स्था सा मषी श्रेष्ठम् अञ्जनम् ।
स-शोफे वाल्प-शोफे च स्निग्धस्य व्यधयेत् सिराम् ॥ ३१ ॥
श्लोक 32
स-शोफे चाल्प-शोफे च रेकः स्निग्धे पुनर् द्राक्षा-पथ्या-क्वाथ-त्रिवृद्-घृतैः ।
श्वेत-लोध्रं घृते भृष्टं चूर्णितं तान्तव-स्थितम् ॥ ३२ ॥
श्लोक 33
श्वेत-लोध्रं घृत-भृष्टं उष्णाम्बुना विमृदितं सेकः शूल-हरः परम् ।
दार्वी-प्रपौण्डरीकस्य क्वाथो वाश्च्योतने हितः ॥ ३३ ॥
श्लोक
दार्व्याः प्रपौण्डरीकस्य यष्टी-हिमोत्पल-क्षीरैः कुर्यान् मूर्धस्य लेपनम् ॥ ३३+१अब् ॥
संधावांश् च प्रयुञ्जीत घर्ष-रागाश्रु-रुग्-घरान् ॥ ३३ऊअब् ॥
श्लोक 34
ताम्रं लोहे मूत्र-घृष्टं प्रयुक्तं नेत्रे सर्पिर्-धूपितं वेदना-घ्नम् ।
ताम्रे घृष्टो गव्य-दध्नः सरो वा युक्तः कृष्णा-सैन्धवाभ्यां वरिष्ठः ॥ ३४ ॥
श्लोक 35
शङ्खं ताम्रे स्तन्य-घृष्टं घृताक्तैः शम्याः पत्त्रैर् धूपितं तद् यवैश् च ।
नेत्रे युक्तं हन्ति संधाव-संज्ञं क्षिप्रं घर्षं वेदनां चाति-तीव्राम् ॥ ३५ ॥
श्लोक 36
उदुम्बर-फलं लोहे घृष्टं स्तन्येन धूपितम् ॥ ३६अब् ॥
श्लोक 37
साज्यैः शमी-च्छदैर् दाह-शूल-रागाश्रु-हर्ष-जित् ।
शिग्रु-पल्लव-निर्यासः सु-घृष्टस् ताम्र-संपुटे ॥ ३७ ॥
श्लोक
शिग्रु-पल्लव-निर्यासो घृष्टस् ताम्रस्य संपुटे द्वि-निशा-त्रि-फला-मुस्तैः प्रमदा-दुग्ध-पेषितैः ।
सेकः स-शर्करा-क्षौद्रैर् अभिघात-रुजापहः ॥ ३७.१+१ ॥
श्लोक
प्रमदा-दुग्ध-कल्कितैः निषिक्तं तुत्थकं वारान् गो-जले पञ्च-विंशतिम् ।
स्तन्ये वा छाग-दुग्धे वा सद्यः-कोपे तद् अञ्जनम् ॥ ३७.१+२ ॥
श्लोक 38
घृतेन धूपितो हन्ति शोफ-घर्षाश्रु-वेदनाः ।
तिलाम्भसा मृत्-कपालं कांस्ये घृष्टं सु-धूपितम् ॥ ३८ ॥
श्लोक 39
निम्ब-पत्त्रैर् घृताभ्यक्तैर् घर्ष-शूलाश्रु-राग-जित् ।
संधावेनाञ्जिते नेत्रे विगतौषध-वेदने ॥ ३९ ॥
श्लोक 40
स्तन्येनाश्च्योतनं कार्यं त्रिः परं नाञ्जयेच् च तैः ।
तालीश-पत्त्र-चपला-नत-लोह-रजो-ऽञ्जनैः ॥ ४० ॥
श्लोक 41
नत-लोह-रसाञ्जनैः जाती-मुकुल-कासीस-सैन्धवैर् मूत्र-पेषितैः ।
ताम्रम् आलिप्य सप्ताहं धारयेत् पेषयेत् ततः ॥ ४१ ॥
श्लोक 42
मूत्रेणैवानु गुटिकाः कार्याश् छाया-विशोषिताः ।
ताः स्तन्य-घृष्टा घर्षाश्रु-शोफ-कण्डू-विनाशनाः ॥ ४२ ॥
श्लोक 43
मूत्रेण चानु गुटिकाः कुर्याच् छाया-विशोषिताः व्याघ्री-त्वङ्-मधुकं ताम्र-रजो ऽजा-क्षीर-कल्कितम् ।
शम्य्-आमलक-पत्त्राज्य-धूपितं शोफ-रुक्-प्रणुत् ॥ ४३ ॥
श्लोक 44
रजो ऽजा-क्षीर-पेषितम् अम्लोषिते प्रयुञ्जीत पित्ताभिष्यन्द-साधनम् ।
उत्क्लिष्टाः कफ-पित्तास्र-निचयोत्थाः कुकूणकः ॥ ४४ ॥
श्लोक 45
पक्ष्मोपरोधं शुष्काक्षि-पाकः पूयालसो बिसः ।
पोथक्य्-अम्लोषितो ऽल्पाख्यः स्यन्द-मन्था विनानिलात् ॥ ४५ ॥
श्लोक 46
एते ऽष्टा-दश पिल्लाख्या दीर्घ-कालानुबन्धिनः ।
चिकित्सा पृथग् एतेषां स्वं स्वम् उक्ताथ वक्ष्यते ॥ ४६ ॥
श्लोक 47
स्वं स्वम् उक्ताथ कथ्यते पिल्ली-भूतेषु सामान्याद् अथ पिल्लाख्य-रोगिणः ।
स्निग्धस्य छर्दित-वतः सिरा-व्यध-हृतासृजः ॥ ४७ ॥
श्लोक 48
अथ पिल्लाक्षि-रोगिणः विरिक्तस्य च वर्त्मानु निर्लिखेद् आ-विशुद्धितः ।
तुत्थकस्य पलं श्वेत-मरिचानि च विंशतिः ॥ ४८ ॥
श्लोक 49
विरिक्तस्य तु वर्त्मानु विलिखेद् आ-विशुद्धितः त्रिंशता काञ्जिक-पलैः पिष्ट्वा ताम्रे निधापयेत् ।
पिल्लान् अ-पिल्लान् कुरुते बहु-वर्षोत्थितान् अपि ॥ ४९ ॥
श्लोक 50
तत् सेकेनोपदेहाश्रु-कण्डू-शोफांश् च नाशयेत् ।
करञ्ज-बीजं सुरसं सुमनः-कोरकाणि च ॥ ५० ॥
श्लोक 51
सुमनः-क्षारकाणि च संक्षुद्य साधयेत् क्वाथे पूते तत्र रस-क्रिया ।
अञ्जनं पिल्ल-भैषज्यं पक्ष्मणां च प्ररोहणम् ॥ ५१ ॥
श्लोक 52
रसाञ्जनं सर्ज-रसो रीति-पुष्पं मनःशिला ।
समुद्र-फेनो लवणं गैरिकं मरिचानि च ॥ ५२ ॥
श्लोक 53
जाती-पुष्पं मनःशिला समुद्र-फेनं लवणं अञ्जनं मधुना पिष्टं क्लेद-कण्डू-घ्नम् उत्तमम् ।
अभया-रस-पिष्टं वा तगरं पिल्ल-नाशनम् ॥ ५३ ॥
श्लोक 54
भावितं बस्त-मूत्रेण स-स्नेहं देवदारु च ।
सैन्धव-त्रि-फला-कृष्णा-कटुका-शङ्खनाभयः ॥ ५४ ॥
श्लोक 55
स-स्नेहं देवदारु वा स-ताम्र-रजसो वर्तिः पिल्ल-शुक्रक-नाशिनी ।
पुष्प-कासीस-चूर्णो वा सुरसा-रस-भावितः ॥ ५५ ॥
श्लोक
ताम्रे दशाहं तत् पैल्ल्य-पक्ष्म-शात-जिद् अञ्जनम् ॥ ५५ऊअब् ॥
श्लोक 56
अलं च सौवीरकम् अञ्जनं च ताभ्यां समं ताम्र-रजः सु-सूक्ष्मम् ।
पिल्लेषु रोमाणि निषेवितो ऽसौ चूर्णः करोत्य् एक-शलाकयापि ॥ ५६ ॥
श्लोक 57
ताभ्यां समं ताम्र-रजश् च सूक्ष्मम् पिल्लेषु रोमाणि निषेवितो ऽयं लाक्षा-निर्गुण्डी-भृङ्ग-दार्वी-रसेन श्रेष्ठं कार्पासं भावितं सप्त-कृत्वः ।
दीपः प्रज्वाल्यः सर्पिषा तत्-समुत्था श्रेष्ठा पिल्लानां रोपणार्थे मषी सा ॥ ५७ ॥
श्लोक 58
श्रेष्ठा पिल्लानां रोपणार्थं मषी सा वर्त्मावलेखं बहु-शस् तद्-वच् छोणित-मोक्षणम् ॥ ५८अब् ॥
श्लोक 59
पुनः पुनर् विरेकं च नित्यम् आश्च्योतनाञ्जनम् ।
नावनं धूम-पानं च पिल्ल-रोगातुरो भजेत् ॥ ५९ ॥
श्लोक 60
पूयालसे त्व् अ-शान्ते ऽन्ते दाहः सूक्ष्म-शलाकया ।
चतुर्-णवतिर् इत्य् अक्ष्णो हेतु-लक्षण-साधनैः ॥ ६० ॥
श्लोक 61
पूयालसे त्व् अ-शान्ते तु चतुर्-णवतिर् इत्य् अक्ष्णोर् परस्-परम् अ-संकीर्णाः कार्त्स्न्येन गदिता गदाः ।
सर्व-दा च निषेवेत स्वस्थो ऽपि नयन-प्रियः ॥ ६१ ॥
श्लोक 62
पुराण-यव-गोधूम-शालि-षष्टिक-कोद्रवान् ।
मुद्गादीन् कफ-पित्त-घ्नान् भूरि-सर्पिः-परिप्लुतान् ॥ ६२ ॥
श्लोक 63
शाकं चैवं-विधं मांसं जाङ्गलं दाडिमं सिताम् ।
सैन्धवं त्रि-फलां द्राक्षां वारि पाने च नाभसम् ॥ ६३ ॥
श्लोक 64
आतप-त्रं पद-त्राणं विधि-वद् दोष-शोधनम् ।
वर्जयेद् वेग-संरोधम् अ-जीर्णाध्यशनानि च ॥ ६४ ॥
श्लोक 65
अ-जीर्णाध्यशनादि च क्रोध-शोक-दिवा-स्वप्न-रात्रि-जागरणातपान् ।
विदाहि विष्टम्भ-करं यच् चेहाहार-भेषजम् ॥ ६५ ॥
श्लोक 66
निशा-जागरणानि च विदाह-विष्टम्भ-करं यद् यद् आहार-भेषजम् विहाराहार-भेषजम् द्वे पाद-मध्ये पृथु-संनिवेशे सिरे गते ते बहु-धा च नेत्रे ।
ता म्रक्षणोद्वर्तन-लेपनादीन् पाद-प्रयुक्तान् नयने नयन्ति ॥ ६६ ॥
श्लोक 67
द्वे पाद-मध्ये पृथु-संनिविष्टे पाद-प्रयुक्तान् नयनं नयन्ति मलौष्ण्य-संघट्टन-पीडनाद्यैस् ता दूषयन्ते नयनानि दुष्टाः ।
भजेत् सदा दृष्टि-हितानि तस्माद् उपानद्-अभ्यञ्जन-धावनानि ॥ ६७ ॥
तलोष्ण-संघट्टन-पीडनाद्यैस् मृल्-लोष्ट-संघट्टन-पीडनाद्यैस्