अष्टाङ्गहृदयम्/चिकित्सास्थानम् Adhyaay 15

श्लोक 1

दोषाति-मात्रोपचयात् स्रोतो-मार्ग-निरोधनात् ।
संभवत्य् उदरं तस्मान् नित्यम् एनं विरेचयेत् ॥ १ ॥

श्लोक 2

स्रोतो-मार्ग-विघातनात् पाययेत् तैलम् ऐरण्डं स-मूत्रं स-पयो ऽपि वा ।
मासं द्वौ वाथ-वा गव्यं मूत्रं माहिषम् एव वा ॥ २ ॥

श्लोक 3

मासं द्वौ वा तथा गव्यं पिबेद् गो-क्षीर-भुक् स्याद् वा करभी-क्षीर-वर्तनः ।
दाहानाहाति-तृण्-मूर्छा-परीतस् तु विशेषतः ॥ ३ ॥

श्लोक 4

रूक्षाणां बहु-वातानां दोष-संशुद्धि-काङ्क्षिणाम् ।
स्नेहनीयानि सर्पींषि जठर-घ्नानि योजयेत् ॥ ४ ॥

श्लोक 5

षट्-पलं दश-मूलाम्बु-मस्तु-द्व्य्-आढक-साधितम् ।
नागर-त्रि-पलं प्रस्थं घृत-तैलात् तथाढकम् ॥ ५ ॥

श्लोक 6

नागरं त्रि-पलं प्रस्थं मस्तुनः साधयित्वैतत् पिबेत् सर्वोदरापहम् ।
कफ-मारुत-संभूते गुल्मे च परमं हितम् ॥ ६ ॥

श्लोक 7

चतुर्-गुणे जले मूत्रे द्वि-गुणे चित्रकात् पले ।
कल्के सिद्धं घृत-प्रस्थं स-क्षारं जठरी पिबेत् ॥ ७ ॥

श्लोक 8

यव-कोल-कुलत्थानां पञ्च-मूलस्य चाम्भसा ।
सुरा-सौवीरकाभ्यां च सिद्धं वा पाययेद् घृतम् ॥ ८ ॥

श्लोक 9

एभिः स्निग्धाय संजाते बले शान्ते च मारुते ।
स्रस्ते दोषाशये दद्यात् कल्प-दृष्टं विरेचनम् ॥ ९ ॥

श्लोक 10

पटोल-मूलं त्रि-फलां निशां वेल्लं च कार्षिकम् ।
कम्पिल्ल-नीलिनी-कुम्भ-भागान् द्वि-त्रि-चतुर्-गुणान् ॥ १० ॥

श्लोक 11

पिबेत् संचूर्ण्य मूत्रेण पेया-पूर्वं ततो रसैः ।
विरिक्तो जाङ्गलैर् अद्यात् ततः षड्-दिवसं पयः ॥ ११ ॥

श्लोक 12

शृतं पिबेद् व्योष-युतं पीतम् एवं पुनः पुनः ।
हन्ति सर्वोदराण्य् एतच् चूर्णं जातोदकान्य् अपि ॥ १२ ॥

श्लोक 13

गवाक्षीं शङ्खिनीं दन्तीं तिल्वकस्य त्वचं वचाम् ।
पिबेत् कर्कन्धु-मृद्वीका-कोलाम्भो-मूत्र-सीधुभिः ॥ १३ ॥

श्लोक 14

यवानी हपुषा धान्यं शतपुष्पोपकुञ्चिका ।
कारवी पिप्पली-मूलम् अजगन्धा शठी वचा ॥ १४ ॥

श्लोक 15

चित्रको ऽजाजिकं व्योषं स्वर्णक्षीरी फल-त्रयम् ।
द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवण-पञ्चकम् ॥ १५ ॥

श्लोक 16

विडङ्गं च समांशानि दन्त्या भाग-त्रयं तथा ।
त्रिवृद्-विशाले द्वि-गुणे सातला च चतुर्-गुणा ॥ १६ ॥

श्लोक 17

एष नारायणो नाम चूर्णो रोग-गणापहः ।
नैनं प्राप्याभिवर्धन्ते रोगा विष्णुम् इवासुराः ॥ १७ ॥

श्लोक 18

नैनं प्राप्यातिवर्तन्ते तक्रेणोदरिभिः पेयो गुल्मिभिर् बदराम्बुना ।
आनाह-वाते सुरया वात-रोगे प्रसन्नया ॥ १८ ॥

श्लोक 19

दधि-मण्डेन विट्-सङ्गे दाडिमाम्भोभिर् अर्शसैः ।
परिकर्ते स-वृक्षाम्लैर् उष्णाम्बुभिर् अ-जीर्णके ॥ १९ ॥

श्लोक 20

भगन्दरे पाण्डु-रोगे कासे श्वासे गल-ग्रहे ।
हृद्-रोगे ग्रहणी-दोषे कुष्ठे मन्दे ऽनले ज्वरे ॥ २० ॥

श्लोक 21

दंष्ट्रा-विषे मूल-विषे स-गरे कृत्रिमे दोषे ।
यथार्हं स्निग्ध-कोष्ठेन पेयम् एतद् विरेचनम् ॥ २१ ॥

श्लोक 22

हपुषां काञ्चनक्षीरीं त्रि-फलां नीलिनी-फलम् ।
त्रायन्तीं रोहिणीं तिक्तां सातलां त्रिवृतां वचाम् ॥ २२ ॥

श्लोक 23

सैन्धवं काल-लवणं पिप्पलीं चेति चूर्णयेत् ।
दाडिम-त्रि-फला-मांस-रस-मूत्र-सुखोदकैः ॥ २३ ॥

श्लोक 24

पेयो ऽयं सर्व-गुल्मेषु प्लीह्नि सर्वोदरेषु च ।
श्वित्रे कुष्ठेष्व् अ-जरके सदने विषमे ऽनले ॥ २४ ॥

श्लोक 25

शोफार्शः-पाण्डु-रोगेषु कामलायां हलीमके ।
वात-पित्त-कफांश् चाशु विरेकेण प्रसाधयेत् ॥ २५ ॥

श्लोक 26

नीलिनीं निचुलं व्योषं क्षारौ लवण-पञ्चकम् ।
चित्रकं च पिबेच् चूर्णं सर्पिषोदर-गुल्म-नुत् ॥ २६ ॥

श्लोक 27

पूर्व-वच् च पिबेद् दुग्धं क्षामः शुद्धो ऽन्तरान्तरा ।
कारभं गव्यम् आजं वा दद्याद् आत्ययिके गदे ॥ २७ ॥

श्लोक 28

स्नेहान् एव विरेकार्थे दुर्-बलेभ्यो विशेषतः ।
हरीतकी-सूक्ष्म-रजः-प्रस्थ-युक्तं घृताढकम् ॥ २८ ॥

श्लोक 29

स्नेहम् एव विरेकार्थे अग्नौ विलाप्य मथितं खजेन यव-पल्लके ।
निधापयेत् ततो मासाद् उद्धृतं गालितं पचेत् ॥ २९ ॥

श्लोक 30

हरीतकीनां क्वाथेन दध्ना चाम्लेन संयुतम् ।
उदरं गरं अष्ठीलाम् आनाहं गुल्म-विद्रधी ॥ ३० ॥

श्लोक 31

हन्त्य् एतत् कुष्ठम् उन्मादम् अपस्मारं च पानतः ।
स्नुक्-क्षीर-युक्ताद् गो-क्षीराच् छृत-शीतात् खजाहतात् ॥ ३१ ॥

श्लोक 32

यज् जातम् आज्यं स्नुक्-क्षीर-सिद्धं तच् च तथा-गुणम् ।
क्षीर-द्रोणं सुधा-क्षीर-प्रस्थार्ध-सहितं दधि ॥ ३२ ॥

श्लोक 33

प्रस्थार्धेन युतं दधि जातं मथित्वा तत्-सर्पिस् त्रिवृत्-सिद्धं च तद्-गुणम् ।
तथा सिद्धं घृत-प्रस्थं पयस्य् अष्ट-गुणे पिबेत् ॥ ३३ ॥

श्लोक 34

पयस्य् अष्ट-गुणे पचेत् स्नुक्-क्षीर-पल-कल्केन त्रिवृता-षट्-पलेन च ।
एषां चानु पिबेत् पेयां रसं स्वादु पयो ऽथ-वा ॥ ३४ ॥

श्लोक 35

घृते जीर्णे विरिक्तश् च कोष्णं नागर-साधितम् ।
पिबेद् अम्बु ततः पेयां ततो यूषं कुलत्थ-जम् ॥ ३५ ॥

श्लोक 36

पिबेद् रूक्षस् त्र्य्-अहं त्व् एवं भूयो वा प्रतिभोजितः ।
पुनः पुनः पिबेत् सर्पिर् आनुपूर्व्यानयैव च ॥ ३६ ॥

श्लोक 37

घृतान्य् एतानि सिद्धानि विदध्यात् कुशलो भिषक् ।
गुल्मानां गर-दोषाणाम् उदराणां च शान्तये ॥ ३७ ॥

श्लोक 38

पीलु-कल्कोपसिद्धं वा घृतम् आनाह-भेदनम् ।
तैल्वकं नीलिनी-सर्पिः स्नेहं वा मिश्रकं पिबेत् ॥ ३८ ॥

श्लोक 39

हृत-दोषः क्रमाद् अश्नन् लघु-शाल्य्-ओदन-प्रति ।
उपयुञ्जीत जठरी दोष-शोष-निवृत्तये ॥ ३९ ॥

श्लोक 40

हरीतकी-सहस्रं वा गो-मूत्रेण पयो-ऽनुपः ।
सहस्रं पिप्पलीनां वा स्नुक्-क्षीरेण सु-भावितम् ॥ ४० ॥

श्लोक 41

पिप्पली-वर्धमानं वा क्षीराशी वा शिला-जतु ।
तद्-वद् वा गुग्गुलुं क्षीरं तुल्यार्द्रक-रसं तथा ॥ ४१ ॥

श्लोक 42

पिप्पलीं वर्धमानं वा चित्रकामरदारुभ्यां कल्कं क्षीरेण वा पिबेत् ।
मासं युक्तस् तथा हस्ति-पिप्पली-विश्व-भेषजम् ॥ ४२ ॥

श्लोक 43

विडङ्गं चित्रको दन्ती चव्यं व्योषं च तैः पयः ।
कल्कैः कोल-समैः पीत्वा प्रवृद्धम् उदरं जयेत् ॥ ४३ ॥

श्लोक 44

भोज्यं भुञ्जीत वा मासं स्नुही-क्षीर-घृतान्वितम् ।
उत्कारिकां वा स्नुक्-क्षीर-पीत-पथ्या-कणा-कृताम् ॥ ४४ ॥

श्लोक 45

पार्श्व-शूलम् उपस्तम्भं हृद्-ग्रहं च समीरणः ।
यदि कुर्यात् ततस् तैलं बिल्व-क्षारान्वितम् पिबेत् ॥ ४५ ॥

श्लोक 46

पक्वं वा टुण्टुक-बला-पलाश-तिल-नाल-जैः ।
क्षारैः कदल्य्-अपामार्ग-तर्कारी-जैः प्र्ठक्-कृतैः ॥ ४६ ॥

श्लोक 47

कफे वातेन पित्ते वा ताभ्यां वाप्य् आवृते ऽनिले ।
बलिनः स्वौषध-युतं तैलम् एरण्ड-जं हितम् ॥ ४७ ॥

श्लोक 48

देवदारु-पलाशार्क-हस्ति-पिप्पलि-शिग्रुकैः ।
साश्वकर्णैः स-गो-मूत्रैः प्रदिह्याद् उदरं बहिः ॥ ४८ ॥

श्लोक 49

वृश्चिकाली-वचा-शुण्ठी-पञ्च-मूल-पुनर्नवात् ।
वर्षाभू-धान्य-कुष्ठाच् च क्वाथैर् मूत्रैश् च सेचयेत् ॥ ४९ ॥

श्लोक 50

विरिक्त-म्लानम् उदरं स्वेदितं शाल्वणादिभिः ।
वाससा वेष्टयेद् एवं वायुर् नाध्मापयेत् पुनः ॥ ५० ॥

श्लोक 51

स्वेदितं शाल्वलादिभिः सु-विरिक्तस्य यस्य स्याद् आध्मानं पुनर् एव तम् ।
सु-स्निग्धैर् अम्ल-लवणैर् निरूहैः समुपाचरेत् ॥ ५१ ॥

श्लोक 52

सोपस्तम्भो ऽपि वा वायुर् आध्मापयति यं नरम् ।
तीक्ष्णाः स-क्षार-गो-मूत्राः शस्यन्ते तस्य वस्तयः ॥ ५२ ॥

श्लोक 53

इति सामान्यतः प्रोक्ताः सिद्धा जठरिणां क्रियाः ।
वातोदरे ऽथ बलिनं विदार्य्-आदि-शृतं घृतम् ॥ ५३ ॥

श्लोक 54

इति सामान्यतः प्रोक्ता सिद्धा जठरिणां क्रिया पाययेत ततः स्निग्धं स्वेदिताङ्गं विरेचयेत् ।
बहु-शस् तैल्वकेनैनं सर्पिषा मिश्रकेण वा ॥ ५४ ॥

श्लोक 55

कृते संसर्जने क्षीरं बलार्थम् अवचारयेत् ।
प्राग् उत्क्लेशान् निवर्त्यं च बले लब्धे क्रमात् पयः ॥ ५५ ॥

श्लोक 56

प्राग् उत्क्लेशान् निवर्तेत यूषै रसैर् वा मन्दाम्ल-लवणैर् एधितानलम् ।
सोदावर्तं पुनः स्निग्ध-स्विन्नम् आस्थापयेत् ततः ॥ ५६ ॥

श्लोक 57

तीक्ष्णाधो-भाग-युक्तेन दश-मूलिक-वस्तिना ।
तिलोरुबूक-तैलेन वात-घ्नाम्ल-शृतेन च ॥ ५७ ॥

श्लोक 58

दश-मूलेन वस्तिना स्फुरणाक्षेप-संध्य्-अस्थि-पार्श्व-पृष्ठ-त्रिकार्तिषु ।
रूक्षं बद्ध-शकृद्-वातं दीप्ताग्निम् अनुवासयेत् ॥ ५८ ॥

श्लोक 59

अ-विरेच्यस्य शमना वस्ति-क्षीर-घृतादयः ।
बलिनं स्वादु-सिद्धेन पैत्ते संस्नेह्य सर्पिषा ॥ ५९ ॥

श्लोक 60

श्यामा-त्रिभण्डी-त्रि-फला-विपक्वेन विरेचयेत् ।
सिता-मधु-घृताढ्येन निरूहो ऽस्य ततो हितः ॥ ६० ॥

श्लोक 61

न्यग्रोधादि-कषायेण स्नेह-वस्तिश् च तच्-छृतः ।
दुर्-बलं त्व् अनुवास्यादौ शोधयेत् क्षीर-वस्तिभिः ॥ ६१ ॥

श्लोक 62

जाते चाग्नि-बले स्निग्धं भूयो भूयो विरेचयेत् ।
क्षीरेण स-त्रिवृत्-कल्केनोरुबूक-शृतेन वा ॥ ६२ ॥

श्लोक 63

जाते त्व् अग्नि-बले स्निग्धं नोरुबूक-शृतेन तम् सातला-त्रायमाणाभ्यां शृतेनारग्वधेन वा ।
स-कफे वा स-मूत्रेण स-तिक्ताज्येन सानिले ॥ ६३ ॥

श्लोक 64

सप्तला-त्रायमाणाभ्यां पयसान्य-तमेनैषां विदार्य्-आदि-शृतेन वा ।
भुञ्जीत जठरं चास्य पायसेनोपनाहयेत् ॥ ६४ ॥

श्लोक 65

पुनः क्षीरं पुनर् वस्तिं पुनर् एव विरेचनम् ।
क्रमेण ध्रुवम् आतिष्ठन् यत्तः पित्तोदरं जयेत् ॥ ६५ ॥

श्लोक 66

यतः पित्तोदरं जयेत् वत्सकादि-विपक्वेन कफे संस्नेह्य सर्पिषा ।
स्विन्नं स्नुक्-क्षीर-सिद्धेन बल-वन्तं विरेचितम् ॥ ६६ ॥