अष्टाङ्गहृदयम्/निदानस्थानम् Adhyaay 14

श्लोक 1

मिथ्याहार-विहारेण विशेषेण विरोधिना ।
साधु-निन्दा-वधान्य-स्व-हरणाद्यैश् च सेवितैः ॥ १ ॥

श्लोक 2

पाप्मभिः कर्मभिः सद्यः प्राक्तनैर् वेरिता मलाः ।
सिराः प्रपद्य तिर्यग्-गास् त्वग्-लसीकासृग्-आमिषम् ॥ २ ॥

श्लोक 3

प्राक्तनैः प्रेरिता मलाः दूषयन्ति श्लथी-कृत्य निश्चरन्तस् ततो बहिः ।
त्वचः कुर्वन्ति वैवर्ण्यं दुष्टाः कुष्ठम् उशन्ति तत् ॥ ३ ॥

श्लोक 4

दूषयन्तः श्लथी-कृत्य कालेनोपेक्षितं यस्मात् सर्वं कुष्णाति तद् वपुः ।
प्रपद्य धातून् व्याप्यान्तः सर्वान् संक्लेद्य चावहेत् ॥ ४ ॥

श्लोक 5

स-स्वेद-क्लेद-संकोथान् कृमीन् सूक्ष्मान् सु-दारुणान् ।
रोम-त्वक्-स्नायु-धमनी-तरुणास्थीनि यैः क्रमात् ॥ ५ ॥

श्लोक 6

भक्षयेच् छ्वित्रम् अस्माच् च कुष्ठ-बाह्यम् उदाहृतम् ।
कुष्ठानि सप्त-धा दोषैः पृथङ् मिश्रैः समागतैः ॥ ६ ॥

श्लोक 7

पृथग् द्वन्द्वैः समागतैः सर्वेष्व् अपि त्रि-दोषेषु व्यपदेशो ऽधिक-त्वतः ।
वातेन कुष्ठं कापालं पित्ताद् औदुम्बरं कफात् ॥ ७ ॥

श्लोक 8

मण्डलाख्यं विचर्ची च ऋक्षाख्यं वात-पित्त-जम् ।
चर्मैक-कुष्ठ-किटिभ-सिध्मालस-विपादिकाः ॥ ८ ॥

श्लोक 9

ऋक्षाक्षं वात-पित्त-जम् वात-श्लेष्मोद्भवाः श्लेष्म-पित्ताद् दद्रू-शतारुषी ।
पुण्डरीकं स-विस्फोटं पामा चर्म-दलं तथा ॥ ९ ॥

श्लोक 10

सर्वैः स्यात् काकणं पूर्वं त्रिकं दद्रु स-काकणम् ।
पुण्डरीकर्क्ष-जिह्वे च महा-कुष्ठानि सप्त तु ॥ १० ॥

श्लोक 11

त्रिकं दद्रूः स-काकणा पुण्डरीकर्श्य-जिह्वे च अति-श्लक्ष्ण-खर-स्पर्श-खेदा-स्वेद-वि-वर्ण-ताः ।
दाहः कण्डूस् त्वचि स्वापस् तोदः कोठोन्नतिः श्रमः ॥ ११ ॥

श्लोक 12

व्रणानाम् अधिकं शूलं शीघ्रोत्पत्तिश् चिर-स्थितिः ।
रूढानाम् अपि रूक्ष-त्वं निमित्ते ऽल्पे ऽपि कोपनम् ॥ १२ ॥

श्लोक 13

रोम-हर्षो ऽसृजः कार्ष्ण्यम् कुष्ठ-लक्षणम् अग्र-जम् ।
कृष्णारुण-कपालाभं रूक्षं सुप्तं खरं तनु ॥ १३ ॥

श्लोक 14

विस्तृता-सम-पर्य्-अन्तं हृषितैर् रोमभिश् चितम् ।
तोदाढ्यम् अल्प-कण्डूकं कापालं शीघ्र-सर्पि च ॥ १४ ॥

श्लोक 15

दूषितैर् रोमभिश् चितम् पक्वोदुम्बर-ताम्र-त्वग्-रोम गौर-सिरा-चितम् ।
बहलं बहल-क्लेद-रक्तं दाह-रुजाधिकम् ॥ १५ ॥

श्लोक 16

रोम गौर-सिरा-ततम् बहुलं बहुल-क्लेद- आशूत्थानावदरण-कृमि विद्याद् उदुम्बरम् ।
स्थिरं स्त्यानं गुरु स्निग्धं श्वेत-रक्तम् अन्-आशु-गम् ॥ १६ ॥

श्लोक 17

अन्यो-ऽन्य-सक्तम् उत्सन्नं बहु-कण्डू-स्रुति-क्रिमि ।
श्लक्ष्ण-पीताभ-पर्य्-अन्तं मण्डलं परिमण्डलम् ॥ १७ ॥

श्लोक 18

अन्यो-ऽन्य-सक्तम् उच्छूनं अन्यो-ऽन्य-सक्तम् उत्सङ्गं स-कण्डू-पिटिका श्यावा लसीकाढ्या विचर्चिका ।
परुषं तनु रक्तान्तम् अन्तः-श्यावं समुन्नतम् ॥ १८ ॥

श्लोक 19

स-तोद-दाह-रुक्-क्लेदं कर्कशैः पिटिकैश् चितम् ।
ऋक्ष-जिह्वाकृति प्रोक्तम् ऋक्ष-जिह्वं बहु-क्रिमि ॥ १९ ॥

श्लोक 20

ऋश्य-जिह्वाकृति प्रोक्तम् ऋश्य-जिह्वं बहु-क्रिमि हस्ति-चर्म-खर-स्पर्शं चर्मैकाख्यं महाश्रयम् ।
अ-स्वेदं मत्स्य-शकल-संनिभं किटिभं पुनः ॥ २० ॥

श्लोक 21

रूक्षं किण-खर-स्पर्शं कण्डू-मत् परुषासितम् ।
सिध्मं रूक्षं बहिः स्निग्धम् अन्तर् घृष्टं रजः किरेत् ॥ २१ ॥

श्लोक 22

श्लक्ष्ण-स्पर्शं तनु श्वेत-ताम्रं दौग्धिक-पुष्प-वत् ।
प्रायेण चोर्ध्व-काये स्याद् गण्डैः कण्डू-युतैश् चितम् ॥ २२ ॥

श्लोक 23

रक्तैर् अलसकं पाणि-पाद-दार्यो विपादिकाः ।
तीव्रार्त्यो मन्द-कण्ड्वश् च स-राग-पिटिकाचिताः ॥ २३ ॥

श्लोक 24

दीर्घ-प्रताना दूर्वा-वद् अतसी-कुसुम-च्छविः ।
उत्सन्न-मण्डला दद्रूः कण्डू-मत्य् अनुषङ्गिणी ॥ २४ ॥

श्लोक 25

स्थूल-मूलं स-दाहार्ति रक्त-श्यावं बहु-व्रणम् ।
शतारुः क्लेद-जन्त्व्-आढ्यं प्राय-शः पर्व-जन्म च ॥ २५ ॥

श्लोक 26

रक्तान्तम् अन्तरा पाण्डु कण्डू-दाह-रुजान्वितम् ।
सोत्सेधम् आचितं रक्तैः पद्म-पत्त्रम् इवांशुभिः ॥ २६ ॥

श्लोक 27

घन-भूरि-लसीकासृक्-प्रायम् आशु विभेदि च ।
पुण्डरीकं तनु-त्वग्भिश् चितं स्फोटैः सितारुणैः ॥ २७ ॥

श्लोक 28

विस्फोटं पिटिकाः पामा कण्डू-क्लेद-रुजाधिकाः ।
सूक्ष्माः श्यावारुणा बह्व्यः प्रायः स्फिक्-पाणि-कूर्परे ॥ २८ ॥

श्लोक 29

स-स्फोटम् अ-स्पर्श-सहं कण्डूषा-तोद-दाह-वत् ।
रक्तं दलच् चर्म-दलं काकणं तीव्र-दाह-रुक् ॥ २९ ॥

श्लोक 30

पूर्वं रक्तं च कृष्णं च काकणन्ती-फलोपमम् ।
कुष्ठ-लिङ्गैर् युतं सर्वैर् नैक-वर्णं ततो भवेत् ॥ ३० ॥

श्लोक 31

दोष-भेदीय-विहितैर् आदिशेल् लिङ्ग-कर्मभिः ।
कुष्ठेषु दोषोल्बण-तां सर्व-दोषोल्बणं त्यजेत् ॥ ३१ ॥

श्लोक 32

रिष्टोक्तं यच् च यच् चास्थि-मज्ज-शुक्र-समाश्रयम् ।
याप्यं मेदो-गतं कृच्छ्रं पित्त-द्वन्द्वास्र-मांस-गम् ॥ ३२ ॥

श्लोक 33

अ-कृच्छ्रं कफ-वाताढ्यं त्वक्-स्थम् एक-मलं च यत् ।
तत्र त्वचि स्थिते कुष्ठे तोद-वैवर्ण्य-रूक्ष-ताः ॥ ३३ ॥

श्लोक 34

स्वेद-स्वाप-श्वयथवः शोणिते पिशिते पुनः ।
पाणि-पादाश्रिताः स्फोटाः क्लेदः संधिषु चाधिकम् ॥ ३४ ॥

श्लोक 35

कौण्यं गति-क्षयो ऽङ्गानां दलनं स्याच् च मेदसि ।
नासा-भङ्गो ऽस्थि-मज्ज-स्थे नेत्र-रागः स्वर-क्षयः ॥ ३५ ॥

श्लोक 36

क्षते च कृमयः शुक्रे स्व-दारापत्य-बाधनम् ।
यथा-पूर्वं च सर्वाणि स्युर् लिङ्गान्य् असृग्-आदिषु ॥ ३६ ॥

श्लोक 37

स्व-दारापत्य-धावनम् कुष्ठैक-संभवं श्वित्रं किलासं दारुणं च तत् ।
निर्दिष्टम् अ-परिस्रावि त्रि-धातूद्भव-संश्रयम् ॥ ३७ ॥

श्लोक 38

किलासं चारुणं च तत् वाताद् रूक्षारुणं पित्तात् ताम्रं कमल-पत्त्र-वत् ।
स-दाहं रोम-विध्वंसि कफाच् छ्वेतं घनं गुरु ॥ ३८ ॥

श्लोक 39

स-कण्डु च क्रमाद् रक्त-मांस-मेदःसु चादिशेत् ।
वर्णेनैवेदृग् उभयं कृच्छ्रं तच् चोत्तरोत्तरम् ॥ ३९ ॥

श्लोक 40

अ-शुक्ल-रोमा-बहलम् अ-संसृष्टं मिथो नवम् ।
अन्-अग्नि-दग्ध-जं साध्यं श्वित्रं वर्ज्यम् अतो ऽन्य-था ॥ ४० ॥

श्लोक 41

अ-शुक्ल-रोमा-बहुलम् अ-संसृष्टम् अथो नवम् गुह्य-पाणि-तलौष्ठेषु जातम् अप्य् अ-चिरन्-तनम् ।
स्पर्शैकाहार-शय्यादि-सेवनात् प्राय-शो गदाः ॥ ४१ ॥

श्लोक 42

सर्वे संचारिणो नेत्र-त्वग्-विकारा विशेषतः ।
कृमयस् तु द्वि-धा प्रोक्ता बाह्याभ्यन्तर-भेदतः ॥ ४२ ॥

श्लोक 43

बहिर्-मल-कफासृग्-विड्-जन्म-भेदाच् चतुर्-विधाः ।
नामतो विंशति-विधा बाह्यास् तत्रा-मृजोद्भवाः ॥ ४३ ॥

श्लोक 44

बाह्यास् तत्र मलोद्भवाः बाह्यास् तत्रासृग्-उद्भवाः तिल-प्रमाण-संस्थान-वर्णाः केशाम्बराश्रयाः ।
बहु-पादाश् च सूक्ष्माश् च यूका लिक्षाश् च नामतः ॥ ४४ ॥

श्लोक 45

द्वि-धा ते कोठ-पिटिका-कण्डू-गण्डान् प्रकुर्वते ।
कुष्ठैक-हेतवो ऽन्तर्-जाः श्लेष्म-जास् तेषु चाधिकम् ॥ ४५ ॥

श्लोक 46

मधुरान्न-गुड-क्षीर-दधि-सक्तु-नवौदनैः ।
शकृज्-जा बहु-विड्-धान्य-पर्ण-शाकोलकादिभिः ॥ ४६ ॥

श्लोक 47

मधुराम्ल-गुड-क्षीर- -पर्ण-शाकौकुलादिभिः कफाद् आमाशये जाता वृद्धाः सर्पन्ति सर्वतः ।
पृथु-ब्रध्न-निभाः के-चित् के-चिद् गण्डू-पदोपमाः ॥ ४७ ॥

श्लोक 48

रूढ-धान्याङ्कुराकारास् तनु-दीर्घास् तथाणवः ।
श्वेतास् ताम्रावभासाश् च नामतः सप्त-धा तु ते ॥ ४८ ॥

श्लोक 49

अन्त्रादा उदरावेष्टा हृदयादा महा-कुहाः ।
कुरवो दर्भ-कुसुमाः सु-गन्धास् ते च कुर्वते ॥ ४९ ॥

श्लोक 50

अन्त्रादा उदराविष्टा हृदयादा महा-रुहाः चुरवो दर्भ-कुसुमाः हृल्-लासम् आस्य-स्रवणम् अ-विपाकम् अ-रोचकम् ।
मूर्छा-छर्दि-ज्वरानाह-कार्श्य-क्षवथु-पीनसान् ॥ ५० ॥

श्लोक 51

रक्त-वाहि-सिरोत्थाना रक्त-जा जन्तवो ऽणवः ।
अ-पादा वृत्त-ताम्राश् च सौक्ष्म्यात् के-चिद् अ-दर्शनाः ॥ ५१ ॥

श्लोक 52

रक्त-वाहि-सिरा-स्थानाद् रक्त-वाहि-सिरा-स्थाना केशादा रोम-विध्वंसा रोम-द्वीपा उदुम्बराः ।
षट् ते कुष्ठैक-कर्माणः सह-सौरस-मातरः ॥ ५२ ॥

श्लोक 53

सह-जा रस-मातरः पक्वाशये पुरीषोत्था जायन्ते ऽधो-विसर्पिणः ।
वृद्धाः सन्तो भवेयुश् च ते यदामाशयोन्-मुखाः ॥ ५३ ॥

श्लोक 54

वृद्धास् ते स्युर् भवेयुश् च तदास्योद्गार-निःश्वासा विड्-गन्धानुविधायिनः ।
पृथु-वृत्त-तनु-स्थूलाः श्याव-पीत-सितासिताः ॥ ५४ ॥

श्लोक 55

ते पञ्च नाम्ना कृमयः ककेरुक-मकेरुकाः ।
सौसुरादाः सुलूनाख्या लेलिहा जनयन्ति च ॥ ५५ ॥

श्लोक 56

सौसुरादाः शलूनाख्या विड्-भेद-शूल-विष्टम्भ-कार्श्य-पारुष्य-पाण्डु-ताः ।
रोम-हर्षाग्नि-सदन-गुद-कण्डूर् विनिर्गमात् ॥ ५६ ॥
-गुद-कण्डूर् विनिर्गताः -गुद-कण्डूर् वि-मार्ग-गाः