अष्टाङ्गसंग्रहः चिकित्सितस्थानम् 14

श्लोक 1

अथातः प्रमेहचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

प्रायेण हि प्रमेहिणोऽभिष्यण्णदेहत्वादुपहताग्नेर्भक्ष्यादिपञ्चविधमप्यन्नमुपयुक्तं मूत्राय मेदसे च विपरिणमते।
तस्मादस्य तेजोधातुवृद्धये क्लेदमेदः प्रशमनाय च बलिनः संशोधनानि प्रयुञ्जीत।
दुर्बलस्य तु संशमनानि।
सर्वस्य च बद्धमूत्राण्यमेदस्कराण्यबृंहणान्यग्निदीपनानि बलजननानि चान्नपानानि।
बलं हि विधिनोपचितमशेषामयक्षयाय सम्प्रवर्तते॥

श्लोक 3

अथ संशोधनार्हं प्रमेहिणमादवेव बिभीतकसर्षपेङ्गुदीकरञ्जनिम्बनिकुम्भान्यतमतैलेन त्रिकण्टकादिना वा यथास्वं सिद्धेन स्नेहेन प्रियङ्वादिशृतेन वा हविषा स्नेहयित्वा कल्पविहितैः प्रयोगैर्वामयेद्विरेचयेच्च॥

श्लोक 4

ततो जातबलं मुस्तामरदारुनागरप्रतिवापेन सुरसादिकषायेणास्थापयेत्।
पित्तोत्तरं तु न्यग्रोधादिकषायेण।
ततश्च जाङ्गलरसैः क्रमेण सन्तर्पयेत्।
अत्यपतर्पणेन हि प्रमेहिणो विशेषेण मूत्रकृच्छ्रबस्तिमेढ्रशूलगुल्मातिकार्श्यभ्रमादीनां सम्भवः।
ततोऽनुबन्धरक्षणार्थं शमनार्हस्य च शमनान्यवचारयेत्॥

श्लोक 5

प्रातः सर्वप्रमेहेषु हरिद्रां मधुना युक्तामामलकरसेन पिबेत्।
अथवा सालसप्तपर्णकुटजकपित्थकम्पिल्लकबिभीतकरोहितककुसुमानि तच्चूर्णं वा क्षौद्रेण लिह्यात्।
हरीतकीचूर्णं वा।
पिबेद्वा त्रिफलामुस्तादेवदारुहरिद्राक्वाथम्।
असनचित्रकत्रिफलादार्वीकलिङ्गकानां वा सक्षौद्रम्।
तद्वद् गुडूच्या वा स्वरसमामलकानां वा॥

श्लोक 6

विशेषतस्तु कफमेहेषु कट्फलमुस्तालोध्राभयानां समाक्षिकं कषायम्।
तगरविडङ्गद्विहरिद्राणां वा।
चन्दनागरुकुष्ठदेवदारूणां वा।
पाठाग्निमन्थचविकात्रिफलानां वा।
पित्तप्रमेहेषु तु लोध्रसेव्यार्जुनचन्दनानाम्।
निम्बामृतामलकपटोलीनां वा।
शिरीषसर्जार्जुनकेसराणां वा।
फलिनीकमलोत्पलकिंशुकानां वा।
कुटजोत्पलकटङ्कटेरीणां वा॥

श्लोक 7

तेष्वपि च विशेषेण पिबेदुदकमेहादिषु क्रमात् कषायं पारिजातस्य वैजयन्त्याः सप्तच्छदस्यारिष्टस्य निशायाः ककुभचन्दयोश्चित्रकस्य पाठाजोङ्गकयोः खदिरस्य त्रिफलारग्वधयोश्च मधुयुतम्।
पिबेच्च सिकतामेहे हिङ्गुप्रवालकैलालवणानि मद्येन मूत्रेण क्षारोदकेन वा।
क्षारमेहादिषु त्रिफलाया असनादेः न्यग्रोधादेः शम्याकस्य चन्दनमञ्जिष्ठयोः गुडूचीतिन्दुकास्थिकाश्मर्यखर्जूराणां च मधुयुक्तम्।
शोणितमेहे मदयन्तीपत्रकल्कं च सक्षौद्रं शीताम्बुना॥

श्लोक 8

वातयेष्वपि यापनार्थं कफपित्तोल्बणेषु पिबेत् कषायम्।
तत्र वसामेहेऽग्निमन्थस्य।
मज्जमेहेऽमृतचित्रकयोः।
कुष्ठकुटजपाठाकटुरोहिणीकल्कमिश्रम् हस्तमेहे हस्तिसूकरखरोष्ट्रास्थिक्षारम्।
मधुमेहे कदरखदिरपुरकषायम्॥

श्लोक 9

कफानुगतेषु तु वसादिमेहेषु यथास्वकषायेण साधितानि तैलानि।
पित्तानुगतेषु च घृतानि यमकं वा प्रयुञ्जीत॥

श्लोक 10

एतेन शेषेष्वपि मेहेषु स्नेहविकल्प उक्तो वेदितव्यः॥

श्लोक 11

तथा कषायसम्पृक्तैः स्नेहैः कफपित्तमूत्रमेदसामनिलस्य चोपशमो भवति॥

श्लोक 12

त्रिकण्टकातिविषाभल्लातकलोध्रवचापिचुमन्दघननिशाजमोदार्जुना-श्मन्तकपटोलसोमवल्कमञ्जिष्ठापद्मकचन्दनागरुभिश्च स्नेहो विपक्वः सर्वमेहघ्नः॥

श्लोक 13

दशमूलहरीतकीदेवदारुकरञ्जद्वयद्विवर्षाभूदन्तीभूकदम्बभल्लातकशठीपुष्करमूलार्कमूलस्नुहीमूलवरणमूलपिप्पलीमूलानि प्रत्येकशो दशपलोन्मितानि यवकोलकुलत्थप्रस्थत्रयं चाष्टगुणेऽम्भसि साधयित्वा पादशेषं कषायमवतारयेत्।
तेन वचाविडङ्गकम्पिल्लकभल्लातकभार्ङ्गीरोहिषचविकापिप्पलीद्वयत्रिवृन्निचुलविश्वभेषजप्रतीवापं घृतप्रस्थं विपचेत्।
एतद्धान्वन्तरं सर्पिः सर्वमेहपिटकाकुष्ठविषशोफार्शोगुल्मविद्रधिप्लीहजठरश्वासकासवर्ध्मपाण्डुरोगवातशोणितोन्मादापस्मारहरम्॥

श्लोक 14

आहारं च यवविकृतिप्रायं मध्वामलकोपेतमाहारयेत्।
यथायथं प्रमेहघ्नौषधनिर्यूहैः सुबहुशो यवान् भावयित्वा सक्तुमन्थापूपधानालाजवाट्यादीन् विविधांश्च लघून् भक्ष्यानुपकल्पयेत्।
तद्वच्च गोधूमान्।
गवाश्वखरजठरस्थितैश्च यवैर्वंशयवैर्वा।
यवो हि बद्धमूत्रो मेदःपित्तकफहरः स्थैर्यकरश्च।
तथा शालिषष्टिकतृणधान्यानि मुद्गादयस्तिक्तानि शाकानि जाङ्गलानि च पिशितानि शूल्यानि परिशुष्काणि प्रदिग्धानि भृष्टचणकोपदंशानि विविधासवानुपानान्युपयुञ्जीत॥

श्लोक 15

लोध्रमूर्वाशठीविडङ्गत्रिफलापुष्करमूलचातुर्जातकक्रमुकचविकायवानीश्यामाभार्ङ्गीद्विविशालाभूनिम्बतगरचित्रकपिप्पलीमूलकटुरोहिणीकुष्ठपाठेन्द्रयवातिविषाप्लवनखमरिचानि कर्षांशान्यपां कलशेऽधिशृत्य तुर्यशेषे रसे पूते जतुशृतपुराणघृतभाजनस्थेऽर्धभागेन मधु निधाय पक्षमुपेक्षितोऽयं लोध्रासवः सर्वप्रमेहकुष्ठकिलासस्थौल्यारुचककृमिपाण्डुशोफार्शोग्रहणीदोषान्निहन्ति॥

श्लोक 16

दशमूलदन्तीत्रिवृच्छ्यामाश्रेयसीचित्रकपुनर्नवसुधाधवैकैषिकागण्डीरगुडूचीनां पृथक् पञ्चविंशतिपलान् भागांस्त्रिफलाढकं च सलिलद्रोणैर्दशभिः पादशेषं निर्यूहमवतारयेत्।
तस्मिन् पूतशीते शुचिभाजनस्थे पुराणगुडतुलाद्वयं गोमूत्राढकमयोरजोर्धाढकं मागधिकाप्रस्थं कुटजार्जुनकुष्ठकृमिघ्नवचाचित्रकपलानि च द्वादश प्रतीवापं दत्वा मासं स्थापयेत्।
एष दशमूलारिष्टः समानः पूर्वेण॥

श्लोक 17

असनादिद्रव्याणि पृथक् विंशतिपलान्यम्भसां घटाष्टकेन क्वाथयेत्।
चतुर्थस्थितं च परिस्रुतं सुशीतं गुडपलशतद्वयेन मध्वर्धाढकेन श्लक्ष्णपिष्टेन च पृथक् पलांशेन वत्सकादिना संयोज्य सक्षौद्रेण पिप्पलीचूर्णेनान्तःप्रलिप्ते जतुसृते घृतकुम्भे आवाप्य यवप्ल्ले निधापयेत्।
तत्र च तनूनि खदिराङ्गारप्रतप्तानि त्रींश्चतुरो वा मासानयं विवृतो लोहारिष्टः पूर्वस्मादधिकगुणः।
शीघुमधुमाधवानपि च निगदान् पिबेत्॥

श्लोक 18

निवृत्तमद्यस्तु सारोदकं दर्भाम्भो मधुकपित्थतिन्दुकमरिचानुविद्धानि पानकानि रागषाडवांश्च सार्षपिकान्यनुपानानि च तद्विधानि।
उष्ट्राश्वतरखरपुरीषचूर्णानुविद्धं चास्मै दद्यादशनम्॥

श्लोक 19

मुस्तामृतागण्डीरद्विहरिद्राद्विसारिवाद्विदर्भवर्षाभूत्रिकण्टकव्योषफल्गुरोहिषपल्लवश्यामासुरदारुकालाविडङ्गपाठाकम्पिल्लकभार्ङ्गीनिदिग्धिकादन्तीचित्रककटुकैरण्डमूलानि समांशान्यैकध्यं चूर्णयित्वा तच्चूर्णादयश्चूर्णं द्विगुणं श्लक्ष्णमावाप्य मद्यानुपानं मधुनावलिह्यात् पिबेद्वा सुखोदकेन त्रिफलाम्भसा वा।
तेन मेहप्लीहहलीमकपाण्डुरोगश्वयथुदुर्नामगुल्मोदराणि शीघ्रमुपशाम्यन्ति।
द्विविधोपक्रमणीयोक्तांश्चातिस्थौल्यादिगदयोगांश्च शीलयेत्।
प्रवृद्धमेदाः प्रगाढव्यायामोद्वर्तनस्नानविलेपनानि च रूक्षाभिरौषधीभिः॥

श्लोक 20

अधनस्तु छत्रपादत्रविरहितो मुनिवृत्तिर्योजनशतमधिकं वा गच्छेत्।
श्यामाकनीवारामतिन्दुककपित्थाश्मन्तकफलमूलाहारो वा मृगैः सह वसेत्।
गोभिर्वा सह तन्मूत्रशकृद्वृत्तिः परिभ्रमेत्।
तडागानि वा खनेत्।
कृशं त्वविरुद्धैर्बृंहयेत्॥

श्लोक 21

शराविकाद्यास्तु अपक्वाः शोफवदुपाचरेत्।
पक्वाश्च व्रणवत्।
पूर्वरूपेष्वेव तु तासां पाने वनस्पतिकषायं बस्तमूत्रं चोपदिशन्ति।
तीक्ष्णं च संशोधनं।
दुर्विरेच्या हि मेहिनो भवन्ति मेदोभिव्याप्तदेहत्वात्।
तैलं च व्रणरोपणार्थमेलादौ कुर्वीत।
आरग्वधादेः कषायमुद्वर्तने।
असनादेः परिषेचने।
वत्सकादेः पानभोजनेषु॥

श्लोक 22

पाठाचित्रकशार्ङ्गेष्टाक्षुद्रवृहतीसारिवासोमवल्कसप्तपर्णारग्वधकुटजमूलचूर्णं मधुनालिह्यान्नवायसं वा।
असनादिवर्गस्य कषायं पादशेषं परिगृह्य परिस्राव्य च पुनः प्रियङ्ग्वामलकलोध्रदन्तीकृष्णायस्ताम्रचूर्णावापं दर्वीप्रलेपिनमवतारयेत् तं यथाबलमवलिह्यात्।
यथास्वं च प्रमेहघ्नौषधनिर्यूहैर्भावितशिलाजतुतुलोपयुक्ता सर्वमेहान् सपिटकानपकर्षतीति॥

श्लोक 23

भवति चात्र मागधीमधुकं लेध्रं कुष्ठमेलाहरेणवः।
समङ्गा धातकीपुष्पं सारिवा रजनीद्वयम्॥

श्लोक 24

प्रियङ्गवः सर्जरसः पद्मकं पद्मकेसरम्।
मातुलुङ्गस्य पत्राणि मधूच्छिष्टं ससैन्धवम्॥

श्लोक 25

तैस्तैलं सिद्धमभ्यङ्गाच्छोधयेद्रोपयेत च।
दुष्टारुःपिटकागण्डगण्डमालाभगन्दरान्॥

श्लोक 26

पिटकाः साधयेच्छीघ्नं ता ह्यसून् घ्नन्ति मेहिनः।
अनुशेषानपि भिषग्यथाबलमुपद्रवान्॥

श्लोक 27

सर्वजत्वान्महामर्मसंश्रयादनुषङ्गतं।
सुबहूपद्रवत्वाच्च प्रमेहो दारुणे गदः॥
॥इति चतुर्दशोऽध्यायः॥