अष्टाङ्गसंग्रहः निदानस्थानम् 14

श्लोक 1

अथातः कुष्ठश्वित्रकृमिनिदानं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

मिथ्याहारविहारेण विशेषेण विरोधिना।
साधुनिन्दावधान्यस्वहरणाद्यैश्च सेवितैः॥

श्लोक 3

पाप्मभिः कर्मभिः सद्यः प्राक्तनैर्वेरिता मलाः।
सिराः प्रपद्य तिर्यग्गास्त्वग्लसीकासृगामिषम्॥

श्लोक 4

दूषयन्तः श्लथीकृत्य निश्चरन्तस्ततो बहिः।
त्वचः कुर्वन्ति वैवर्ण्यं दुष्टाः कुष्ठमुशन्ति तत्॥

श्लोक 5

कालेनोपेक्षितं यस्मात् सर्वं कुष्णाति तद्वपुः।
प्रपद्य धातून्व्याप्यान्तः सर्वान्सङ्क्लेद्यचावहेत्॥

श्लोक 6

सस्वेदक्लेदसङ्कोथान् कृमीन् सूक्ष्मान् सुदारुणान्।
लोमत्वक्स्नायुधमनीतरुणास्थीनि यैः क्रमात्॥

श्लोक 7

भक्षयेत् श्वित्रमस्माच्च कुष्ठबाह्यमुदाहृतम्।
कुष्ठानि सप्तधा दोषैः पृथङ्मिश्रैः समागतैः॥

श्लोक 8

सर्वेष्वपि त्रिदोषेषु व्यपदेशोऽधिकत्वतः।
वातेन कुष्ठं कापालं पित्तादौदुम्बरं कफात्॥

श्लोक 9

मण्डलाख्यं विचर्ची च ऋष्याख्यं वातापित्तजम्।
चर्मैककुष्ठकिटिभसिध्मालसविपादिकाः॥

श्लोक 10

वातश्लेष्मोद्भवाः श्लेष्मपित्ताद्दद्रुशतारुषी।
पुण्डरीकं सविस्फोटं पामा चर्मदलं तथा॥

श्लोक 11

सर्वैः स्यात् काकणं पूर्वं त्रिकं दद्रु सकाकणम्।
पुण्डरीकर्ष्यजिह्वे च महाकुष्ठानि सप्त तु॥

श्लोक 12

अतिश्लक्ष्णखरस्पर्शस्वेदास्वेदविवर्णताः।
दाहः कण्डूस्त्वचि स्वापस्तोदः कोठोन्नतिःश्रमः॥

श्लोक 13

व्रणानामधिकं शूलं शीघ्नोत्पत्तिश्चिरस्थितिः।
रूढानामपि रूक्षत्वं निमित्तेऽल्पेऽपि कोथनम्॥

श्लोक 14

रोमहर्षोऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम्।
कृष्णारुणकपालाभं रूक्षं सुप्तं खरं तनु॥

श्लोक 15

विस्तृतासमपर्यन्तं हृषितैर्लोमभिश्चितम्।
तोदाढ्यमल्पकण्डूकं कापालं शीघ्रसर्पि च॥

श्लोक 16

पक्वोदुम्बरताम्रत्वग्रोमगौरसिराचितम्।
बहलं बहुलक्लेदं रक्तं दाहरुजाकरम्॥

श्लोक 17

आशूत्थानावदरणकृमि विद्यादुदुम्बरम्॥

श्लोक 18

स्थिरं स्त्यानं गुरु स्निग्धं श्वेतरक्तमनाशुगम्।
अन्योन्यासक्तमुत्सन्नं बहुकण्डूस्रुतिक्रिमि॥

श्लोक 19

श्लक्ष्णपीताभपर्यन्तं मण्डलं परिमण्डलम्।
सकण्डूपिटका श्यावा लसीकाढ्या विचर्चिका॥

श्लोक 20

परुषं तनुरक्तान्तमन्तःश्यावं समुन्नतम्।
सतोददाहरुक्क्लेदं कर्कशैः पिटकैश्चितम्॥

श्लोक 21

ऋष्यजिह्वाकृति प्रोक्तमृष्यजिह्वं बहुक्रिमि।
हस्तिचर्मखरस्पर्शं चमकाख्यं महाश्रयम्॥

श्लोक 22

अस्वेदं मत्स्यशकलसन्निभं किटिभं पुनः।
रूक्षं किणखरस्पर्शं कण्डूमत् परुषासितम्॥

श्लोक 23

सिध्म रूक्षं बहिःस्निग्धमन्तर्घृष्टं रजः किरेत्।
श्लक्ष्णस्पर्शं तनुश्वेतताम्रं दौग्धिकपुष्पवत्॥

श्लोक 24

प्रायेण चोर्ध्वकाये स्याद्गण्डैः कण्डूयुतैश्चितम्।
रक्तैरलसकं पाणिपाददार्यो विपादिकाः॥

श्लोक 25

तीव्रार्त्यो मन्दकण्ड्वश्च सरागपिटकाचिताः।
दीर्घप्रताना दूर्वावदतसीकुसुमच्छविः॥

श्लोक 26

उत्सन्नमण्डला दद्रुः कण्डूमत्यनुषङ्गिणी।
स्थूलमूलं सदाहार्ति रक्तश्यावं बहुव्रणम्॥

श्लोक 27

शतारुः क्लेदजन्त्वाढ्यं प्रायशः पर्वजन्म च।
रक्तान्तमन्तरापाण्डुकण्डुदाहरुजान्वितम्॥

श्लोक 28

सोत्सेधमाचितं रक्तैः पद्मपत्रमिवांशुभिः।
घनभूरिलसीकासृक्प्रायमाशु विभेदि च॥

श्लोक 29

पुण्डरीकम् तनुत्वग्भिश्चितं स्फोटैः सितारुणैः।
विस्फोटं पिटकाः पामाकण्डूक्लेदरुजाधिकाः॥

श्लोक 30

सूक्ष्माः श्यावारुणा बहूव्यः प्रायः स्फिक्पाणिकूर्परे।
सस्फोटमस्पर्शसहं कण्डूषातोददाहवत्॥

श्लोक 31

रक्तं दलच्चर्मदलं काकणं तीव्रदाहरुक्।
पूर्वं रक्तं च कृष्णं च काकणन्तीफलोपमम्॥

श्लोक 32

कुष्ठलिङ्गैर्युतं सर्वैर्नैकवर्णं ततो भवेत्।
दोषभेदीयविहितैरादिशेल्लिङ्गकर्मभिः॥

श्लोक 33

कुष्ठेषु दोषोल्बणतां सर्वदोषोल्बणं त्यजेत्।
रिष्ठोक्तं यच्च यच्चास्थिमज्जशुक्रसमाश्रयम्॥

श्लोक 34

याप्यं मेदोगतं कृच्छ्रं पित्तद्वन्द्वास्रमांसगम्।
अकृच्छ्रं कफवाताढ्यं त्वक्स्थमेकमलं च यत्॥

श्लोक 35

तत्र त्वचि स्थिते कुष्ठे तोदवैवर्ण्यरूक्षताः।
स्वेदस्वापश्वयथवः शोणिते पिशिते पुनः॥

श्लोक 36

पाणिपादाश्रिताः स्फोटाः क्लेदः सन्धिषु चाधिकम्।
कौण्यं गतिक्षयोऽङ्गानां दलनं स्याच्च मेदसि॥

श्लोक 37

नासाभङ्गोऽस्थिमज्जस्थे नेत्ररागः स्वरक्षयः।
क्षते च कृमयः शुक्रे स्वदारापत्यबाधनम्॥

श्लोक 38

यथापूर्वं च सर्वाणि स्युर्लिङ्गान्यसृगादिषु।
कुष्ठैकसम्भवं श्वित्रं किलासं चारुणं च तत्॥

श्लोक 39

निर्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम्॥

श्लोक 40

वाताद्रूक्षारुणं पित्तात्ताम्रं कमलपत्रवत्।
सदाहं रोमविध्वंसि कफाच्छ्वेतं घनं गुरु॥

श्लोक 41

सकण्डु च क्रमाद्रक्तमांसमेदस्सु चादिशेत्।
वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरम्॥

श्लोक 42

अशुक्लरोमाबहुलमसंसृष्टं मिथो नवम्।
अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा॥

श्लोक 43

गुह्यपाणितलौष्ठेषु जातमप्यचिरन्तनम्।
स्पर्शैकाहारशय्यादिसेवनात् प्रायशो गदाः॥

श्लोक 44

सर्वे सञ्चारिणो नेत्रत्वग्विकारा विशेषतः।
कृमयस्तु द्विधा प्रोक्ता बाह्याभ्यन्तरभेदतः॥

श्लोक 45

बहिर्मलकफासृग्विड्जन्मभेदाच्चतुर्विधाः।
नामतो विंशतिविधा बाह्यास्तत्रामृजोद्भवाः॥

श्लोक 46

तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः।
बहुपादाश्च सूक्ष्माश्च यूका लिक्षाश्च नामतः॥

श्लोक 47

द्विधा ते कोठपिटकाकण्डूगण्डान् प्रकुर्वते।
कुष्ठैकहेतवोऽन्तर्जाः श्लेष्मजास्तेषु चाधिकम्॥

श्लोक 48

मधुरान्नगुडक्षीरदधिसक्तुनवोदनैः।
शकृज्जा बहुविड्धान्यपर्णशाकौकुलादिभिः॥

श्लोक 49

कफादामाशये जाता वृद्धाः सर्पन्ति सर्वतः।
पृथुव्रद्ध्ननिभाः केचित् केचित् गण्डूपदोपमाः॥

श्लोक 50

रूढधान्याङ्कुराकारास्तनुदीर्घास्तथाणवः।
श्वेतास्ताम्रावभासाश्च नामतः सप्तधा तु ते॥

श्लोक 51

अन्त्रादा उदरावेष्टा हृदयादा महारुहाः।
चुरवो दर्भकुसुमाः सुगन्धास्ते तु कुर्वते॥

श्लोक 52

हृल्लासमास्यस्रवणमविपाकमरोचकम्।
मूर्छाच्छर्दिज्वरानाहकार्श्यक्षवथुपीनसान्॥

श्लोक 53

रक्तवाहिसिरास्थाना रक्तजा जन्तवोऽणवः।
अपादा वृत्तताम्राश्च सौक्ष्म्यात् केचिददर्शनाः॥

श्लोक 54

केशादा लोमविध्वंसा लोमद्वीपा उदुम्बराः।
षट् ते कुष्ठैककर्माणः सहसौरसमातरः॥

श्लोक 55

पक्वाशये पुरीषोत्था जायन्तेऽधोविसर्पिणः।
वृद्धास्ते स्युर्भवेयुश्च ते यदामाशयोन्मुखाः॥

श्लोक 56

तदास्योद्गारनिश्वासा विड्गन्धानुविधायिनः।
पृथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः॥

श्लोक 57

ते पञ्च नाम्ना कृमयः ककेरुकमकेरुकाः।
सौसुरादाः सलूनाख्या लेलिहा जनयन्ति च॥

श्लोक 58

विड्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुताः।
रोमहर्षाग्निसदनगुदकण्डूर्विनिर्गमात्॥
इति चतुर्दशोऽध्याय्ः॥