श्लोक 1
अथ शोधनादिगणसङ्ग्रहमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
मदननीमूतकेक्ष्वाकुकोशातकीद्वयफलपुष्पपत्राणि कुटजकरञ्जत्रपुससर्षपपिप्पलीविडङ्गैलाप्रत्यक्पुष्पीहरेणुपृथ्वीकाकुस्तुम्बरुप्रपुन्नाटानां फलानि शारदानि च हस्तिपर्ण्याः कोविदारकर्बुदारारिष्टश्वगन्धानीपविदुलबिल्वबिम्बीबन्धुजीवकश्वेताशणपुष्पीसदापुष्पीवचाचित्राचित्रकमृगेन्द्रवारुणीसुषवीचतुरङ्गुलस्वादु कण्टकपाठापाटलीशार्ङ्गेष्टामधुकमूर्वासप्तपर्णसोमवल्कद्वीपिशिग्रुसुमनस्सौमनस्यायवानीवृश्चीवपुनर्नवामहा सहाक्षुद्रसहेक्षुकाण्डकालक्तपिप्पलीमूलचविकानलदोशीरह्रीबेरमूलानि। शाल्मलीशेलुकाभद्रपण्यैरावण्यावर्त्तक्युपोदकोद्दालधन्वनरसाञ्जनराजादनोपचित्रागोपशृङ्गाटिकापिच्छाः।
प्रियङ्गुपूष्पम्।
तालीसपत्रम्।
हरिद्राशृङ्गवेरकन्दौ।
मधुयष्टीदारुहरिद्रासासौ।
तगरगुडूचीमधुफणितक्षीरक्षारलवणानि चेति वमनोपयोगीनि॥
श्लोक 3
त्रिवृच्छामादन्तीद्रवन्तीशङ्खिनीसप्तलाजगन्धाजशृङ्गीवचागवाक्षीछगलान्त्रीसुवर्णक्षीरीचित्रककिणिहीह्रस्वपञ्चमूलवृश्चीवपुनर्नवापलङ्कषावास्तुकशाकसालमूलानि।
तिल्वकरम्यककाम्पिल्यकपाटलीत्वच।
त्रिफलापीलुप्रियालकुवलबदरकर्कन्धुकाश्मर्यपरूषकद्राक्षानीलिनीक्लीतनकोदकीर्याविडङ्गपूगपञ्चाङ्गुलफलानि।
चतुरङ्गुलफलपत्राणि।
पूतीकस्य त्वक्फलपत्राणि।
महावृक्षसप्तच्छदज्योतिष्मतीक्षीराणि।
क्षीरमद्यमस्तुतक्रधान्याम्लमूत्राणि चेति विरेचनोपयोगीनि॥
श्लोक 4
कोशातकीदेवदालीसप्तलाकारवोल्लिकास्वरसमर्कक्षीरमुष्णोदकं चेत्युभयात्मकानि।
बस्तिषु तु तेषु तेष्ववस्थान्तरेषुयान्युपयुज्यन्ते द्रव्याणि तान्यसङ्ख्येयत्वान्नोपदिश्यन्ते।
रसस्कन्धेभ्य एव यथादोषं यथावस्थं च विभजेत्।
सर्वेषु तु प्रायो मदनकुटज जीमूतकेक्ष्वाकुकोशातकीद्वयत्रपुंसासिद्धार्थकशताह्वाफलानि।
बलादशमूलैरण्डत्रिवृद्वचायष्ट्याह्वकुष्ठरास्नापुनर्नवकत्तृणमूलानि।
सरलदेवदारुहपुषाहिङ्गुरसाञ्जनव्योषपत्रैलामृतायवकोलकुलत्थगुडलवणमस्तुधान्याम्लमूत्रस्नेहक्षीरक्षौद्राणि चेति निरूहोपयोगीनि॥
श्लोक 5
अपामार्गविडङ्गमरिचपिप्पलीशिरीषविल्वाजाज्यजमोजवार्ताकपृथ्वीकैलाहरेणुफलानि।
तालीसतमालतर्कारीहरितकवर्गपत्राणि।
सर्षपाफलपत्राणि।
शिग्रुफलपत्रत्वचः।
हरिद्रामूलकलशुननागरकन्दपत्राणि।
अतिविषाकन्दाः।
कुष्ठवचाभार्ङ्गीश्वेताकिणिहीनागदन्तीज्योतिष्मतीगवाक्षीवयस्थावृश्चिकालीबम्बीकरञ्जमूलानि।
अर्कालर्कपुष्पमूलानि।
लोध्रमदनसप्तपर्णनिम्बपीलुबीजानि।
मुरुङ्गीमातुलुङ्गीलवङ्गपुष्पाणि।
अगरुसुरदारुसरलसल्लकीजिङ्गिण्यसनरसाञ्जनहिङ्गुलाक्षानिर्यासाः।
तमालसालतालमधूकदार्वीसाराः।
तेजस्विनीमेषशृङ्गीवराङ्गेङ्गुदीबृहतीद्वयचोचत्वचः।
राजादनमज्जक्षौद्रलवणानि मद्यानि गवादिशकृद्रसमूत्रपित्तान्येवंविधानि चेन्द्रियोपशयान्यन्यान्यपि तथा स्नेहाः क्षीरं रक्तं मांसरसो धान्यरसस्तोयमिति शिरोविरेचनोपयोगीनि॥
श्लोक 6
मधुकपद्मकमञ्जिष्ठाशारिवामुस्तापुन्नागनागकेसरैलवालुकसुवर्णत्वक्तमालपृथ्वीकाहरेणुलाक्षाशतपुष्पासल्लकीशर्करामदनकमरुबकन्यग्रोधोदुम्बराश्वत्थप्लक्षलोध्रत्वक् पद्मोत्पलानि सर्वगन्धद्रव्याणि च कुष्ठतगरवर्ज्यानि प्रायोगिकधूमोपयोगीनि अगरुगुग्गुलुसल्लकीशैलेयकनलदह्रीबेरहरेणूशीरमुस्ताध्यामकवराङ्गश्रीवेष्टकस्थौणेयकपरिपेलवैलवालुककुन्दुरुकसर्जरसयष्ट्याह्वफलसारस्नेहमधूच्छिष्टबिल्वफलमज्जयवतिलमाषकुङ्कुमानि मेदोमज्जवसासर्पीषि च स्नैहिकधूमोपयोगीनि।
शिरोविरेचनद्रव्याणि गन्धद्रव्याणि च तीक्ष्णानि मनोह्वा हरितालं चेति तीक्ष्णधूमोपयोगीनि॥
श्लोक 7
भद्रदारुकुष्ठतगरवरुणबलातिबलार्तगलकच्छुराह्लादिनीकुबेराक्षीवत्सादिन्यर्कालर्ककतकभार्ङ्गीकार्पासीवृश्चिकालीपत्तूरप्रभृतीनि विदार्यादिगणो वीरतरादि स्तृणाख्यवर्ज्यानि षट् पञ्चमूलानि चेति वातशमनानि।
दूर्वानन्तामोचरसमञ्जिष्ठापरिपेलवकालाकालीयककदलीकन्दलीपयस्यात्मगुप्तानालिकेरखर्ज्जूरद्राक्षाविदारीबदरीबलानागबलानागपुष्पशतावरीशीत पाक्योदनपाकीतृणशूल्यांशुमतीद्वयारिष्टकारिष्टाटरूषकेत्कटर्प्रियङ्गुधातकीधवधवधन्वनस्यन्दनखदिरकदरप्रियालतालसालसर्जतिनिशाश्वकर्णगुन्द्रावानीरपद्मापद्मकपद्मबीजमृणालकुमुदनलिनसौगन्धिकपुण्डरीकशतपत्रशैवालकल्हारोत्पलकाकोल्युत्पलिकाशलूकशृङ्गाटककशेरुकक्रौञ्चादनप्रभृतीनि अन्यानि च शीतवीर्याणि सारिवादिः पद्मकादिः पटोलाअदिर्न्यग्रोधादिर्दाहहरो महाकषायस्तृणपञ्चमूलं चेति पित्तशमनानि।
शीतशिवशतपुष्पासरलसुरदारुरास्नेङ्गु दीसातलासुमनःकाकादनीलाङ्गलिकाहस्तिकर्णमुञ्जातलामज्जकप्रभृतीन्यन्यानि च रूक्षोष्णवीर्याण्यारग्वधादिरसनादिरर्कादिः सुरसादिर्मुष्ककादिर्वत्सकादिर्मुस्तादिः शीतघ्नश्च महाकषायो वल्लीकण्टकपञ्चमूले च श्लेष्मशमनानीति॥
श्लोक 8
भवति चात्र।
समीक्ष्य दोषदूष्यादीनमी वर्गाः सुयोजिताः।
सर्वामयजयायालं जायन्ते नियतात्मनाम्॥
इति चतुर्दशोऽध्यायः।