अष्टाङ्गहृदयम्/उत्तरस्थानम् Adhyaay 14

श्लोक 1

विध्येत् सु-जातं निष्-प्रेक्ष्यं लिङ्ग-नाशं कफोद्भवम् ।
आवर्तक्य्-आदिभिः षड्भिर् विवर्जितम् उपद्रवैः ॥ १ ॥

श्लोक 2

सो ऽ-संजातो हि विषमो दधि-मस्तु-निभस् तनुः ।
शलाकयावकृष्टो ऽपि पुनर् ऊर्ध्वं प्रपद्यते ॥ २ ॥

श्लोक 3

पुनर् ऊर्ध्वं प्रवर्तते करोति वेदनां तीव्रां दृष्टिं च स्थगयेत् पुनः ।
श्लेष्मलैः पूर्यते चाशु सो ऽन्यैः सोपद्रवश् चिरात् ॥ ३ ॥

श्लोक 4

सो ऽन्यैः सोपद्रवैश् चिरात् श्लैष्मिको लिङ्ग-नाशो हि सित-त्वाच् छ्लेष्मणः सितः ।
तस्यान्य-दोषाभिभवाद् भवत्य् आ-नील-ता गदः ॥ ४ ॥

श्लोक 5

भवत्य् आ-नील-ता गदे भवत्य् आ-नीलिका गदे तत्रावर्त-चला दृष्टिर् आवर्तक्य् अरुणासिता ।
शर्करार्क-पयो-लेश-निचितेव घनाति च ॥ ५ ॥

श्लोक 6

आवर्तक्य् अरुणा सिता राजी-मती दृङ् निचिता शालि-शूकाभ-राजिभिः ।
विषम-च्छिन्न-दग्धाभा स-रुक् छिन्नांशुका स्मृता ॥ ६ ॥

श्लोक 7

दृष्टिः कांस्य-सम-च्छाया चन्द्रकी चन्द्रकाकृतिः ।
छत्त्राभा नैक-वर्णा च छत्त्रकी नाम नीलिका ॥ ७ ॥

श्लोक 8

न विध्येद् अ-सिरार्हाणां न तृट्-पीनस-कासिनाम् ।
ना-जीर्णि-भीरु-वमित-शिरः-कर्णाक्षि-शूलिनाम् ॥ ८ ॥

श्लोक 9

न दृक्-पीनस-कासिनाम् अथ साधारणे काले शुद्ध-संभोजितात्मनः ।
देशे प्रकाशे पूर्वाह्णे भिषग् जानूच्च-पीठ-गः ॥ ९ ॥

श्लोक 10

यन्त्रितस्योपविष्टस्य स्विन्नाक्षस्य मुखानिलैः ।
अङ्गुष्ठ-मृदिते नेत्रे दृष्टौ दृष्ट्वोत्प्लुतं मलम् ॥ १० ॥

श्लोक 11

स्वां नासां प्रेक्षमाणस्य निष्-कम्पं मूर्ध्नि धारिते ।
कृष्णाद् अर्धाङ्गुलं मुक्त्वा तथार्धार्धम् अपाङ्गतः ॥ ११ ॥

श्लोक 12

स्व-नासां प्रेक्षमाणस्य तद् अर्धार्धम् अपाङ्गतः तर्जनी-मध्यमाङ्गुष्ठैः शलाकां निश्-चलं धृताम् ।
दैव-च्छिद्रं नयेत् पार्श्वाद् ऊर्ध्वम् आमन्थयन् इव ॥ १२ ॥

श्लोक 13

सव्यं दक्षिण-हस्तेन नेत्रं सव्येन चेतरत् ।
विध्येत् सु-विद्धे शब्दः स्याद् अ-रुक् चाम्बु-लव-स्रुतिः ॥ १३ ॥

श्लोक 14

सान्त्वयन्न् आतुरं चानु नेत्रं स्तन्येन सेचयेत् ।
शलाकायास् ततो ऽग्रेण निर्लिखेन् नेत्र-मण्डलम् ॥ १४ ॥

श्लोक 15

निर्लिखेद् दृष्टि-मण्डलम् अ-बाधमानः शनकैर् नासां प्रति नुदंस् ततः ।
उच्छिङ्घनाच् चापहरेद् दृष्टि-मण्डल-गं कफम् ॥ १५ ॥

श्लोक 16

उच्छिङ्खनाच् चापहरेद् स्थिरे दोषे चले वाति स्वेदयेद् अक्षि बाह्यतः ।
अथ दृष्टेषु रूपेषु शलाकाम् आहरेच् छनैः ॥ १६ ॥

श्लोक 17

स्थिरे दोषे चले वापि घृताप्लुतं पिचुं दत्त्वा बद्धाक्षं शाययेत् ततः ।
विद्धाद् अन्येन पार्श्वेन तम् उत्तानं द्वयोर् व्यधे ॥ १७ ॥

श्लोक 18

व्यधाद् अन्येन पार्श्वेन निवाते शयने ऽभ्यक्त-शिरः-पादं हिते रतम् ।
क्षवथुं कासम् उद्गारं ष्ठीवनं पानम् अम्भसः ॥ १८ ॥

श्लोक 19

शिरो-गात्रं हिते रतम् अधो-मुख-स्थितिं स्नानं दन्त-धावन-भक्षणम् ।
सप्ताहं नाचरेत् स्नेह-पीत-वच् चात्र यन्त्रणा ॥ १९ ॥

श्लोक 20

शक्तितो लङ्घयेत् सेको रुजि कोष्णेन सर्पिषा ।
स-व्योषामलकं वाट्यम् अश्नीयात् स-घृतं द्रवम् ॥ २० ॥

श्लोक 21

विलेपीं वा त्र्य्-अहाच् चास्य क्वाथैर् मुक्त्वाक्षि सेचयेत् ।
वात-घ्नैः सप्तमे त्व् अह्नि सर्व-थैवाक्षि मोचयेत् ॥ २१ ॥

श्लोक 22

यन्त्रणाम् अनुरुध्येत दृष्टेर् आ-स्थैर्य-लाभतः ।
रूपाणि सूक्ष्म-दीप्तानि सहसा नावलोकयेत् ॥ २२ ॥

श्लोक 23

शोफ-राग-रुजादीनाम् अधिमन्थस्य चोद्भवः ।
अ-हितैर् वेध-दोषाच् च यथा-स्वं तान् उपाचरेत् ॥ २३ ॥

श्लोक 24

अ-हितैर् वेध्य-दोषाच् च यथा-स्वं तान् उपक्रमेत् कल्किताः स-घृता दूर्वा-यव-गैरिक-शारिवाः ।
मुखालेपे प्रयोक्तव्या रुजा-रागोपशान्तये ॥ २४ ॥

श्लोक 25

स-सर्षपास् तिलास् तद्-वन् मातुलुङ्ग-रसाप्लुताः ।
पयस्या-शारिवा-पत्त्र-मञ्जिष्ठा-मधुयष्टिभिः ॥ २५ ॥

श्लोक 26

अजा-क्षीर-युतैर् लेपः सुखोष्णः शर्म-कृत् परम् ।
लोध्र-सैन्धव-मृद्वीका-मधुकैश् छागलं पयः ॥ २६ ॥

श्लोक 27

अजा-क्षीरान्वितैर् लेपः शृतम् आश्च्योतनं योज्यं रुजा-राग-विनाशनम् ।
मधुकोत्पल-कुष्ठैर् वा द्राक्षा-लाक्षा-सितान्वितैः ॥ २७ ॥

श्लोक 28

मधुकोत्पल-कुष्ठैला- द्राक्षा-लाक्षा-रसान्वितैः -द्राक्षा-लाक्षा-सितान्वितैः -द्राक्षा-लाक्षा-रसान्वितैः वात-घ्न-सिद्धे पयसि शृतं सर्पिश् चतुर्-गुणे ।
पद्मकादि-प्रतीवापं सर्व-कर्मसु शस्यते ॥ २८ ॥

श्लोक 29

सिरां तथान्-उपशमे स्निग्ध-स्विन्नस्य मोक्षयेत् ।
मन्थोक्तां च क्रियां कुर्याद् वेधे रूढे ऽञ्जनं मृदु ॥ २९ ॥

श्लोक 30

व्यधे रूढे ऽञ्जनं मृदु आढकी-मूल-मरिच-हरिताल-रसाञ्जनैः ।
विद्धे ऽक्ष्णि स-गुडा वर्तिर् योज्या दिव्याम्बु-पेषिता ॥ ३० ॥

श्लोक 31

जाती-शिरीष-धव-मेषविषाणि-पुष्प-वैडूर्य-मौक्तिक-फलं पयसा सु-पिष्टम् ।
आजेन ताम्रम् अमुना प्रतनु प्रदिग्धं सप्ताहतः पुनर् इदं पयसैव पिष्टम् ॥ ३१ ॥

श्लोक 32

जाती-शिरीष-धव-मेषविषाण-पुष्प- पिण्डाञ्जनं हितम् अन्-आतप-शुष्कम् अक्ष्णि विद्धे प्रसाद-जननं बल-कृच् च दृष्टेः ।
स्रोतो-ज-विद्रुम-शिलाम्बु-धि-फेन-तीक्ष्णैर् अस्यैव तुल्यम् उदितं गुण-कल्पनाभिः ॥३२ ॥
स्रोतो-ज-विद्रुम-शिलार्णव-फेन-तीक्ष्णैर्