श्लोक 1
गुल्मं बद्ध-शकृद्-वातं वातिकं तीव्र-वेदनम् ।
रूक्ष-शीतोद्भवं तैलैः साधयेद् वात-रोगिकैः ॥ १ ॥
श्लोक 2
पानान्नान्वासनाभ्यङ्गैः स्निग्धस्य स्वेदम् आचरेत् ।
आनाह-वेदना-स्तम्भ-विबन्धेषु विशेषतः ॥ २ ॥
श्लोक 3
स्रोतसां मार्दवं कृत्वा जित्वा मारुतम् उल्बणम् ।
भित्त्वा विबन्धं स्निग्धस्य स्वेदो गुल्मम् अपोहति ॥ ३ ॥
श्लोक 4
स्नेह-पानं हितं गुल्मे विशेषेणोर्ध्व-नाभि-जे ।
पक्वाशय-गते वस्तिर् उभयं जठराश्रये ॥ ४ ॥
श्लोक 5
दीप्ते ऽग्नौ वातिके गुल्मे विबन्धे ऽनिल-वर्चसोः ।
बृंहणान्य् अन्न-पानानि स्निग्धोष्णानि प्रदापयेत् ॥ ५ ॥
श्लोक 6
पुनः पुनः स्नेह-पानं निरूहाः सानुवासनाः ।
प्रयोज्या वात-जे गुल्मे कफ-पित्तानुरक्षिणः ॥ ६ ॥
श्लोक 7
कफ-पित्तानुरक्षिणा वस्ति-कर्म परं विद्याद् गुल्म-घ्नं तद् धि मारुतम् ।
स्व-स्थाने प्रथमं जित्वा सद्यो गुल्मम् अपोहति ॥ ७ ॥
श्लोक 8
तस्माद् अभीक्ष्ण-शो गुल्मा निरूहैः सानुवासनैः ।
प्रयुज्यमानैः शाम्यन्ति वात-पित्त-कफात्मकाः ॥ ८ ॥
श्लोक 9
हिङ्गु-सौवर्चल-व्योष-विड-दाडिम-दीप्यकैः ।
पुष्कराजाजी-धान्याम्ल-वेतस-क्षार-चित्रकैः ॥ ९ ॥
श्लोक 10
शठी-वचाजगन्धैला-सुरसैर् दधि-संयुतैः ।
शूलानाह-हरं सर्पिः साधयेद् वात-गुल्मिनाम् ॥ १० ॥
श्लोक 11
हपुषोषण-पृथ्वीका-पञ्च-कोलक-दीप्यकैः ।
साजाजी-सैन्धवैर् दध्ना दुग्धेन च रसेन च ॥ ११ ॥
श्लोक 12
दाडिमान् मूलकात् कोलात् पचेत् सर्पिर् निहन्ति तत् ।
वात-गुल्मोदरानाह-पार्श्व-हृत्-कोष्ठ-वेदनाः ॥ १२ ॥
श्लोक 13
योन्य्-अर्शो-ग्रहणी-दोष-कास-श्वासा-रुचि-ज्वरान् ।
दश-मूलं बलां कालां सुषवीं द्वौ पुनर्नवौ ॥ १३ ॥
श्लोक 14
दश-मूलं बलां कालीं पौष्करैरण्ड-रास्नाश्वगन्धा-भार्ग्य्-अमृता-शठीः ।
पचेद् गन्ध-पलाशं च द्रोणे ऽपां द्वि-पलोन्मितम् ॥ १४ ॥
श्लोक 15
यवैः कोलैः कुलत्थैश् च माषैश् च प्रास्थिकैः सह ।
क्वाथे ऽस्मिन् दधि-पात्रे च घृत-प्रस्थं विपाचयेत् ॥ १५ ॥
श्लोक 16
स्व-रसैर् दाडिमाम्रात-मातुलुङ्गोद्भवैर् युतम् ।
तथा तुषाम्बु-धान्याम्ल-शुक्तैः श्लक्ष्णैश् च कल्कितैः ॥ १६ ॥
श्लोक 17
भार्गी-तुम्बुरु-षड्ग्रन्था-ग्रन्थि-रास्नाग्नि-धान्यकैः ।
यवानक-यवान्य्-अम्ल-वेतसासित-जीरकैः ॥ १७ ॥
श्लोक 18
अजाजी-हिङ्गु-हपुषा-कारवी-वृषकोषकैः ।
निकुम्भ-कुम्भ-मूर्वेभ-पिप्पली-वेल्ल-दाडिमैः ॥ १८ ॥
श्लोक 19
श्वदंष्ट्रा-त्रपुसैर्वारु-बीज-हिंस्राश्मभेदकैः ।
मिशि-द्वि-क्षार-सुरस-शारिवा-नीलिनी-फलैः ॥ १९ ॥
श्लोक 20
त्रि-कटु-त्रि-पटूपेतैर् दाधिकं तद् व्यपोहति ।
रोगान् आशु-तरान् पूर्वान् कष्टान् अपि च शीलितम् ॥ २० ॥
श्लोक 21
अपस्मार-गदोन्माद-मूत्राघातानिलामयान् ।
त्र्य्-ऊषण-त्रि-फला-धान्य-चविका-वेल्ल-चित्रकैः ॥ २१ ॥
श्लोक 22
अपस्मार-गरोन्माद- कल्की-कृतैर् घृतं पक्वं स-क्षीरं वात-गुल्म-नुत् ।
तुलां लशुन-कन्दानां पृथक् पञ्च-पलांशकम् ॥ २२ ॥
श्लोक 23
पञ्च-मूलं महच् चाम्बु-भारार्धे तद् विपाचयेत् ।
पाद-शेषं तद्-अर्धेन दाडिम-स्व-रसं सुराम् ॥ २३ ॥
श्लोक 24
धान्याम्लं दधि चादाय पिष्टांश् चार्ध-पलांशकान् ।
त्र्य्-ऊषण-त्रि-फला-हिङ्गु-यवानी-चव्य-दीप्यकान् ॥ २४ ॥
श्लोक 25
साम्ल-वेतस-सिन्धूत्थ-देवदारून् पचेद् घृतात् ।
तैः प्रस्थं तत् परं सर्व-वात-गुल्म-विकार-जित् ॥ २५ ॥
श्लोक 26
साम्ल-वेतस-सिन्धूत्थं देवदारु पचेद् घृतात् षट्-पलं वा पिबेत् सर्पिर् यद् उक्तं राज-यक्ष्मणि ।
प्रसन्नया वा क्षीरार्थः सुरया दाडिमेन वा ॥ २६ ॥
श्लोक 27
घृते मारुत-गुल्म-घ्नः कार्यो दध्नः सरेण वा ।
वात-गुल्मे कफो वृद्धो हत्वाग्निम् अ-रुचिं यदि ॥ २७ ॥
श्लोक 28
हृल्-लासं गौरवं तन्द्रां जनयेद् उल्लिखेत् तु तम् ।
शूलानाह-विबन्धेषु ज्ञात्वा स-स्नेहम् आशयम् ॥ २८ ॥
श्लोक 29
निर्यूह-चूर्ण-वटकाः प्रयोज्या घृत-भेषजैः ।
कोल-दाडिम-घर्माम्बु-तक्र-मद्याम्ल-काञ्जिकैह् ॥ २९ ॥
श्लोक 30
मण्डेन वा पिबेत् प्रातश् चूर्णान्य् अन्नस्य वा पुरः ।
चूर्णानि मातुलुङ्गस्य भावितान्य् अ-सकृद् रसे ॥ ३० ॥
श्लोक 31
कुर्वीत कार्मुक-तरान् वटकान् कफ-वातयोः ॥ ३१अब् ॥
हिङ्गु-वचा-विजया-पशुगन्धा-दाडिम-दीप्यक-धान्यक-पाठाः ॥ ३१च्द् ॥
पुष्कर-मूल-शठी-हपुषाग्नि-क्षार-युग-त्रि-पटु-त्रि-कटूनि ॥ ३१एf ॥
श्लोक 32
साजाजि-चव्यं सह-तिन्तिडीकं स-वेतसाम्लं विनिहन्ति चूर्णं ।
हृत्-पार्श्व-वस्ति-त्रिक-योनि-पायु-शूलानि वाय्व्-आम-कफोद्भवानि ॥ ३२ ॥
श्लोक 33
कृच्छ्रान् गुल्मान् वात-विण्-मूत्र-सङ्गं कण्ठे बन्धं हृद्-ग्रहं पाण्डु-रोगम् ।
अन्ना-श्रद्धा-प्लीह-दुर्-नाम-हिध्मा-वर्ध्माध्मान-श्वास-कासाग्नि-सादान् ॥ ३३ ॥
श्लोक 34
लवण-यवानी-दीप्यक-कण-नागरम् उत्तरोत्तरं वृद्धम् ।
सर्व-समांश-हरीतकी- चूर्णं वैश्वानरः साक्षात् ॥ ३४ ॥
श्लोक 35
सर्व-समांशं हरीतकी- सर्व-समांशा विजया- चूर्णो वैश्वानरः साक्षात् त्रि-कटुकम् अजमोदा सैन्धवं जीरके द्वे ॥ ३५अ ॥
सम-धरण-घृतानाम् अष्टमो हिङ्गु-भागः ॥ ३५ब् ॥
प्रथम-कवड-भोज्यः सर्पिषा संप्रयुक्तो ॥ ३५च् ॥
प्रथम-कवड-भोज्यः सर्पिषा चूर्णको ऽयं जनयति जठराग्निं वात-गुल्मं निहन्ति ॥ ३५द् ॥
श्लोक 36
जनयति भृशम् अग्निं वात-गुल्मं निहन्ति हिङ्गूग्रा-विड-शुण्ठ्य्-अजाजि-विजया-वाट्याभिधानामयैश् ॥ ३६अ ॥
चूर्णः कुम्भ-निकुम्भ-मूल-सहितैर् भागोत्तरं वर्धितैः ॥ ३६ब् ॥
पीतः कोष्ण-जलेन कोष्ठ-ज-रुजो गुल्मोदरादीन् अयं ॥ ३६च् ॥
शार्दूलः प्रसभं प्रमथ्य हरति व्याधीन् मृगौघान् इव ॥ ३६द् ॥
श्लोक 37
सिन्धूत्थ-पथ्या-कण-दीप्यकानां ॥ ३७अ ॥
चूर्णानि तोयैः पिबतां कवोष्णैः ॥ ३७ब् ॥
प्रयाति नाशं कफ-वात-जन्मा ॥ ३७च् ॥
नाराच-निर्भिन्न इवामयौघः ॥ ३७द् ॥
श्लोक 38
पूतीक-पत्त्र-गज-चिर्भट-चव्य-वह्नि- ॥ ३८अ ॥
-व्योषं च संस्तर-चितं लवणोपधानम् ॥ ३८ब् ॥
दग्ध्वा विचूर्ण्य दधि-मस्तु-युतं प्रयोज्यं ॥ ३८च् ॥
गुल्मोदर-श्वयथु-पाण्डु-गुदोद्भवेषु ॥ ३८द् ॥
श्लोक 39
गुल्मोदर-श्वयथु-पाण्डु-गदोद्भवेषु हिङ्गु-त्रि-गुणं सैन्धवम् अस्मात् त्रि-गुणं च तैलम् ऐरण्डम् ॥ ३९अब् ॥
श्लोक 40
तत् त्रि-गुण-लशुन-रसं गुल्मोदर-वर्ध्म-शूल-घ्नम् ।
मातुलुङ्ग-रसो हिङ्गु दाडिमं विड-सैन्धवम् ॥ ४० ॥
श्लोक 41
सुरा-मण्डेन पातव्यं वात-गुल्म-रुजापहम् ।
शुण्ठ्याः कर्षं गुडस्य द्वौ धौतात् कृष्ण-तिलात् पलम् ॥ ४१ ॥
श्लोक 42
वात-गुल्म-ज्वरापहम् खादन्न् एक-त्र संचूर्ण्य कोष्ण-क्षीरानुपो जयेत् ।
वात-हृद्-रोग-गुल्मार्शो-योनि-शूल-शकृद्-ग्रहान् ॥ ४२ ॥
श्लोक 43
पिबेद् एरण्ड-तैलं तु वात-गुल्मी प्रसन्नया ।
श्लेष्मण्य् अनु-बले वायौ पित्ते तु पयसा सह ॥ ४३ ॥
श्लोक 44
विवृद्धं यदि वा पित्तं संतापं वात-गुल्मिनः ।
कुर्याद् विरेचनीयो ऽसौ स-स्नेहैर् आनुलोमिकैः ॥ ४४ ॥
श्लोक 45
तापानुवृत्ताव् एवं च रक्तं तस्यावसेचयेत् ।
साधयेच् छुद्ध-शुष्कस्य लशुनस्य चतुः-पलम् ॥ ४५ ॥
श्लोक 46
क्षीरोदके ऽष्ट-गुणिते क्षीर-शेषं च पाचयेत् ।
वात-गुल्मम् उदावर्तं गृध्रसीं विषम-ज्वरम् ॥ ४६ ॥
श्लोक 47
हृद्-रोगं विद्रधिं शोषं साधयत्य् आशु तत् पयः ।
तैलं प्रसन्ना गो-मूत्रम् आरनालं यवाग्र-जः ॥ ४७ ॥
श्लोक 48
नाशयत्य् आशु तत् पयः गुल्मं जठरम् आनाहं पीतम् एक-त्र साधयेत् ।
चित्रक-ग्रन्थिकैरण्ड-शुण्ठी-क्वाथः परं हितः ॥ ४८ ॥
श्लोक 49
शूलानाह-विबन्धेषु स-हिङ्गु-विड-सैन्धवैः ।
पुष्करैरण्डयोर् मूलं यव-धन्वयवासकम् ॥ ४९ ॥
श्लोक 50
जलेन क्वथितं पीतं कोष्ठ-दाह-रुजापहम् ।
वाट्याह्वैरण्ड-दर्भाणां मूलं दारु महौषधम् ॥ ५० ॥
श्लोक 51
पीतं निःक्वाथ्य तोयेन कोष्ठ-पृष्ठांस-शूल-जित् ।
शिला-जं पयसान्-अल्प-पञ्च-मूल-शृतेन वा ॥ ५१ ॥
श्लोक 52
कोष्ठ-पृष्ट्य्-अंस-शूल-जित् वात-गुल्मी पिबेद् वाट्यम् उदावर्ते तु भोजयेत् ।
स्निग्धं पैप्पलिकैर् यूषैर् मूलकानां रसेन वा ॥ ५२ ॥
श्लोक 53
बद्ध-विण्-मारुतो ऽश्नीयात् क्षीरेणोष्णेन यावकम् ।
कुल्माषान् वा बहु-स्नेहान् भक्षयेल् लवणोत्तरान् ॥ ५३ ॥
श्लोक 54
नीलिनी-त्रिवृता-दन्ती-पथ्या-कम्पिल्लकैः सह ।
स-मलाय घृतं देयं स-विड-क्षार-नागरम् ॥ ५४ ॥
श्लोक 55
नीलिनीं त्रि-फलां रास्नां बलां कटुक-रोहिणीम् ।
पचेद् विडङ्गं व्याघ्रीं च पालिकानि जलाढके ॥ ५५ ॥
श्लोक 56
रसे ऽष्ट-भाग-शेषे तु घृत-प्रस्थं विपाचयेत् ।
दध्नः प्रस्थेन संयोज्य सुधा-क्षीर-पलेन च ॥ ५६ ॥
श्लोक 57
ततो घृत-पलं दद्याद् यवागू-मण्ड-मिश्रितम् ।
जीर्णे सम्यग्-विरिक्तं च भोजयेद् रस-भोजनम् ॥ ५७ ॥
श्लोक 58
गुल्म-कुष्ठोदर-व्यङ्ग-शोफ-पाण्ड्व्-आमय-ज्वरान् ।
श्वित्रं प्लीहानम् उन्मादं हन्त्य् एतन् नीलिनी-घृतम् ॥ ५८ ॥
श्लोक 59
कुक्कुटाश् च मयूराश् च तित्तिरि-क्रौञ्च-वर्तकाः ।
शालयो मदिरा सर्पिर् वात-गुल्म-चिकित्सितम् ॥ ५९ ॥
श्लोक 60
मितम् उष्णं द्रवं स्निग्धं भोजनं वात-गुल्मिनाम् ।
स-मण्डा वारुणी पानं तप्तं वा धान्यकैर् जलम् ॥ ६० ॥
श्लोक 61
स्निग्धोष्णेनोदिते गुल्मे पैत्तिके स्रंसनं हितम् ।
द्राक्षाभया-गुड-रसं कम्पिल्लं वा मधु-द्रुतम् ॥ ६१ ॥
श्लोक 62
कम्पिल्लं वा मधु-द्रवम् कल्पोक्तं रक्त-पित्तोक्तं गुल्मे रूक्षोष्ण-जे पुनः ।
परं संशमनं सर्पिस् तिक्तं वासा-घृतं शृतम् ॥ ६२ ॥
श्लोक 63
तृणाख्य-पञ्चक-क्वाथे जीवनीय-गणेन वा ।
शृतं तेनैव वा क्षीरं न्यग्रोधादि-गणेन वा ॥ ६३ ॥
श्लोक 64
तत्रापि स्रंसनं युञ्ज्याच् छीघ्रम् आत्ययिके भिषक् ।
वैरेचनिक-सिद्धेन सर्पिषा पयसापि वा ॥ ६४ ॥
श्लोक 65
रसेनामलकेक्षूणां घृत-प्रस्थं विपाचयेत् ।
पथ्या-पादं पिबेत् सर्पिस् तत् सिद्धं पित्त-गुल्म-नुत् ॥ ६५ ॥