अष्टाङ्गसंग्रहः उत्तरस्थानम् 13

श्लोक 1

अथातः सन्धिसितासितरोगविज्ञानीयं नामा ध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

वायुः क्रुद्धः सिराः प्राप्य जलाभं जलवाहिनीः।
अश्रु स्रावयते वर्त्मशुक्लसन्धेः कनीनकात्।
तेन नेत्रमरुग्रागशोफं स्यात् स जलास्रवः॥

श्लोक 3

कफात् कफास्रवे श्वेतं पिच्छिलं बहलं स्रवेत्॥

श्लोक 4

कफेन शोफस्तीक्ष्णाग्रः क्षारबुद्बुदकोपमः।
पृथुमूलश्चलः स्निग्धः सवर्णो मृदुपिच्छिलः।
महानपाकः कण्डूमानुपनाहः स नीरुजः॥

श्लोक 5

रक्ताद्रक्तास्रवे ताम्रं बहूष्णं चाश्रु संस्रवेत्॥

श्लोक 6

वर्त्मसन्ध्याश्रया शुक्ले पिटका दाहशूलिनी।
ताम्रा मुद्गोपमा भिन्ना रक्तं स्रवति पर्वणी॥

श्लोक 7

पूयास्रावे मलाः सास्रा वर्त्मसन्धेः कनीनकात्।
स्रावयन्ति मुहुः पूयं सासृक् त्वङ्मांसपाकतः॥

श्लोक 8

पूयालसो व्रणः सूक्ष्मः शोफसंरम्भपूर्वकः।
कनीनसन्धावाध्मायी पूयास्रावी सवेदनः॥

श्लोक 9

कनीनस्यान्तरलजी शोफो रुक्तोददाहवान्॥

श्लोक 10

अपाङ्गे वा कनीने वा कण्डूषापक्ष्मपोटवान्।
पूयास्रावी कृमिग्रन्थिः ग्रन्थिः कृमियुतोऽर्तिमान्॥

श्लोक 11

उपनाहकृमिग्रन्थिपूयालसकपर्वणीः।
शस्त्रेण साधयेत् पञ्च सालजीनास्रवांस्त्यजेत्॥

श्लोक 12

पित्तं कुर्यात् सिते बिन्दूनसितश्यावपीतकान्।
मलाक्तादर्शतुल्यं वा सर्वं शुक्लमदाहरुक्।
रोगोऽयं शुक्तिकासंज्ञः सशकृद्भेदतृड्ज्वरः॥

श्लोक 13

कफाच्छुक्ले समं श्वेतं चिरवृध्यधिमांसकम्॥

श्लोक 14

शुक्लार्मशोफस्त्वरुजः सवर्णो बहलो मृदुः।
गुरुः स्निग्धोम्बुबिन्द्वाभो बलासग्रथितः स्मृतः॥

श्लोक 15

बिन्दुभिः पिष्टधवलैरुत्सन्नैः पिष्टकं वदेत्॥

श्लोक 16

रक्तराजीततं शुक्लमूष्यते यत् सवेदनम्।
सशोफाश्रूपदेहं च सिरोत्पातः स शोणितात्॥

श्लोक 17

उपेक्षितः सिरोत्पातो राजीस्ता एव वर्धयन्।
कुर्यात् सास्रं सिराहर्षं तेनाक्ष्युद्वीक्षणाक्षमम्॥

श्लोक 18

सिराजालं सिराजालं बृहद्रक्तं घनोन्नतम्॥

श्लोक 19

शोणितार्म समं श्लक्ष्णं पद्माभमाधिमांसकम्॥

श्लोक 20

नीरुक्श्लक्ष्णोर्जुनो बिन्दुः शशलोहितलोहितः॥

श्लोक 21

मृद्वाशुवृध्यरुङ्मांसं प्रस्तारि श्यावलोहितम्॥

श्लोक 22

प्रस्तार्यर्म मलैः सास्रैः स्नावर्म स्नावसन्निभम्॥

श्लोक 23

शुष्कासृक्पिण्डवच्छ्यावं यन्मांसं बहलं पृथु॥

श्लोक 24

अधिमांसार्म तत् दाहघर्षवत्यः सिरावृताः।
कृष्णासन्नाः सिरासंज्ञाः पिटकाः सर्षपोपमाः॥

श्लोक 25

शुक्तिहर्षसिरोत्पातपिष्टकग्रथितार्जुनम्।
साधयेदौषधैः षट्कं शेषं शस्त्रेण सप्तकम्॥

श्लोक 26

नवोत्थं तदपि द्रव्यैरर्मोक्तं यत्तु पञ्चधा।
तच्छेद्यमसितप्राप्तं मांसस्नावसिरावृतम्।
चर्मोद्दालवदुच्छ्रायि दृष्टिप्राप्तं तु वर्जयेत्॥

श्लोक 27

पित्तं कृष्णेऽथवा दृष्टौ शुक्लं तोदाश्रुरागवत्।
छित्वा त्वचं जनयति तेन स्यात्कृष्णमण्डलम्॥

श्लोक 28

पक्वजम्बूनिभं किञ्चिन्निम्नं च क्षतशुक्रकम्।
तत् कृच्छ्रसाध्यं याप्यं तु द्वितीयपटलव्यधात्॥

श्लोक 29

तत्र तोदादिबाहुल्यं सूचीविद्धाभकृष्णता।
तृतीयपटलच्छेदादसाध्यं निचितं व्रणैः॥

श्लोक 30

शङ्खशुक्लं कफात्साध्यं नातिरुक् शुद्धशुक्रकम्॥

श्लोक 31

आताम्रपिच्छिलास्रस्रुदातास्रपिटकातिरुक्।
अजाविट्सदृशोच्छ्रायकार्ष्ण्या वर्ज्यासृजाजका॥

श्लोक 32

सिराशुक्रं मलैः सास्रैस्तज्जुष्टं कृष्णमण्डलम्।
सतोददाहताम्राभिः सिराभिरवतन्यते॥
अनिमित्तोष्णशीताच्छघनास्रस्रुच्च तत्त्यजेत्॥

श्लोक 33

दोषैः सास्रैः सदृक्कृष्णं नीयते शुक्लरूपताम्।
धवलास्रोपलिप्ताभं निष्पावार्धदलाकृति॥

श्लोक 34

अतितीव्ररुजारागदाहश्वयथुपीडितम्।
पाकात्ययेन तच्छुक्रं वर्जयेत्तीव्रवेदनम्॥

श्लोक 35

यस्य वा लिङ्गनाशोऽन्तःश्यावं यद्वा सलोहितम्।
अत्युत्सेधावगाढं वा सास्रनाडीव्रणावृतम्॥

श्लोक 36

पुराणं विषमं मध्ये विच्छिन्नं यच्च शुक्रकम्।
पञ्चेत्युक्ता गदाः कृष्णे साध्यासाध्यविभागतः॥
॥इति त्रयोदशोऽध्यायः॥