श्लोक 1
अथातो ग्रहणीदोषचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
ग्रहणीसमाश्रितं दोषमादावेव यथास्वमजीर्णानुसारतो मात्राशीतीयोक्तविधानेनोपक्रमेत।
अथातीसारविधिना च।
आमपाचनार्थं पिबेन्मुस्तातिविषाविश्वभेषजक्वाथम्।
तच्चूर्णं वा सुखोदकेन, तेन वा शुण्ठीम्।
तद्वद्वचादिवर्गं ससैन्धवम्।
व्वारुणीमण्डेन वा गुल्मविध्युक्तं त्रिलवणादि चूर्णम्॥
श्लोक 3
सप्रवाहे वा वर्चसि चूर्णीकृतान् बिडलवणयुक्तान् बिल्वमध्यनागरचित्रकान् दाडिमाम्भसा सकफे वा।
अतिमात्र आमशूलेऽलसकोक्तं हिङ्ग्वादिमुष्णाम्भसा पिबेत्।
छर्दिशूलानाहानुग्रन्थिषु तु मरिचाजाजिसौवर्चलाभयाः।
सपित्तकफे चामे कटुकेन्द्रयवपाठापिप्पलीमूलवचाभयानागराणि क्वथितानि चूर्णितानि वा॥
श्लोक 4
भोजनकाले च पञ्चकोलपरिगृहीतं पटुलघुदीपनीयं पेयादिकमुपकल्पयेत्।
पेयां वा नागरातिविषाभ्यां तक्रदाडिमवृक्षाम्लाम्लाम् पाने च तक्रमस्त्वार नालमदिरारिष्टानतीसारनिर्दिष्टं चाम्बु।
यवानीपथ्यामलकमरिचानि त्रिपलिकानि लवणपञ्चकं च पलांशकमेकतश्चूर्णयित्वा कंसे सद्योमथितस्यासुनुयात्।
ततो व्यक्ताम्लकटुकं जातं पिबेत्।
एष तक्रारिष्टः परमग्निदीपनोऽर्शोगुल्मजठरश्वयथुकृमिप्रमेहहरः॥
श्लोक 5
अपि च ग्रहणीदोषिणां तक्रं दीपनग्राहि लाघवात्।
पथ्यं मधुरपाकित्वान्न च पित्तप्रदूषणम्॥
श्लोक 6
कषायोष्णविकाशित्वाद्भूक्षत्वाच्च कफे हितम्।
वाते स्वाद्वम्लसान्द्रत्वात् सद्यस्कमविदाहि तत्॥
श्लोक 7
तस्मात्तक्रप्रयोगा ये जठराणां तथार्शसाम्।
विहिता ग्रहणीदोषे सर्वशस्तान् प्रयोजयेत्॥
श्लोक 8
दाडिमकपित्थवृक्षाम्लाम्लीकानां पृथक् पृथक् कुडवं लवणपञ्चककुडवं त्र्यूषणत्रिपलं शर्करापलाष्टकं चैकध्यं चूर्णितमन्नपाने प्रणीतमजीर्णारुचिश्वासकासप्लीहगुल्मग्रहणीहृत्पाण्डुरोगघ्नम्।
परिपक्वामं च मारुतग्रहणीरोगिणमग्निसन्धुक्षणार्थं सर्पिः पाययेत्।
द्विपञ्चमूलपञ्चकोलसरलसुरदारुसुरभिगजपिप्पलीशणबीजयवकोलकुलत्थान्मस्तुनारनालेन वा पाचयेत्।
तेन पादावशेषेण पञ्चलवणद्विक्षाराम्लबदरयुक्तं सर्पिर्विपक्वमथवा सैन्धवव्योषक्षारद्वयपञ्चमूलाभयारास्नाजाजीग्रन्थिकशठीविडङ्गगर्भमार्द्रकमातुलुङ्गकोलाम्लीकादाडिमस्वरसशुष्कमूलकक्वाथमस्तुतक्रशुक्तप्रसन्नासौवीरकतुषोदकारनालोपेतं परमग्निदीपनमग्निघृताख्यम्॥
श्लोक 9
अथवा चव्यचित्रकपाठातेजोवतीपिप्पलीमूलानि कुडवोन्मितानि मुस्तद्विकुडवमास्फोतजातीनिम्बसप्तच्छदाश्वमारककर्कोटकपटोलपल्लवानां च मुष्टिं मुष्टिमन्तर्नखमुदकद्रोणे पक्त्वा पादावशेषमवतारयेत्।
अर्धपलोन्मितां चात्र कल्कितां दद्यादतिविषां कृष्णासारिवाभद्राश्च द्विपलांशं सैन्धवं बिडं यवक्षारं च मागधिकायाश्चतुष्पलं पात्रं च घृतस्य एतदगस्त्यनिर्मितमलमनलजननम्॥
श्लोक 10
उद्दीपिते तु किञ्चिदनले विबद्धमलमास्थापयेत्।
ततो जिते मातरिश्वनि स्रस्तदोषमेरण्डतैलेन तिल्वकसर्पिषा वा क्षारवता मिश्रकस्नेहेन वा विरेचयेत्।
कृतसंसर्गक्रमं च बद्धवर्चसमनुवासयेद्वातहरदीपनीयाम्लद्रव्यसिद्धेन तैलेन।
ततः पुनरपि लघ्वन्नभोजनः सर्पिरेव यथाग्निबलमल्पशोऽवचारयेत्।
अग्निघृतं च छर्दिविबन्धशूलश्वासकासिनः सबीजपूरकरसम्।
अभ्यङ्गार्थं च तैलमग्निघृतौषधैः साधयेत्।
अनिलकफसंसर्गे तु चूर्णमेषामौषधानामुष्णोदकेन पिबेत्॥
श्लोक 11
पित्तदुष्टायां तु ग्रहण्यां स्वस्थानगतमुत्क्लिष्टं द्रवमनलीनर्वापणं पित्तमास्थापनेन वमनेन वा निर्हरेत्।
तिक्तलघुद्रव्यैश्च कृतसंसर्जनस्य दोषशेषशमनार्थं मधुनावलेह्यमुष्णाम्बुना वा पातुं प्रणयेत्।
मूर्वाकिरातततिक्तपर्पटकवचाचन्दनमुस्तत्रिकटुकत्रायमाणायवानीकलिङ्गत्वक्फलकटुरोहिणीदेवदारुदार्वीत्वक् पद्मकोशीरारिष्टपटोलपत्रातिविषासौराष्ट्रीत्वगेलामधु शिग्रुबीजचूर्णम्।
अयं हि ग्रहणीदोषशूलातिसारपाण्डुहृद्रोगगुल्मज्वरप्रमेहकामलामुखरोगारोचकनिबर्हणः॥
श्लोक 12
भूनिम्बत्रिकटुककटुकामुस्तेन्द्रयवाः समाश्चित्रकभागौ द्वौ कुटजत्वग्भागाश्च षोडश सर्वमेकत्र चूर्णितं सगुडशीतोदकं पीतं समानं पूर्वेण।
नागररसाञ्जनातिविषाधातकीघनपाठाकलिङ्गत्वग्बीजबिल्वकटुकाः सक्षौद्रास्तण्डुलाम्बुपीताः पित्तग्रहणीविकारं रक्तातिसारमर्शांसि सप्रवाहिकं गुदशूलं च व्यपोहन्ति।
ततश्चैवं शमितपित्तोद्रेकस्याग्नेः स्थिरीकरणाय सर्पिः पूर्वोक्तमूर्वादिक्वाथेन सारिवास्फोतसप्तपर्णाटरूषकेन्द्रयववीराभूनिम्बधान्यन्यग्रोधाश्वत्थोदुम्बरप्लक्षोपकुल्यानीलोत्पलगर्भसिद्धं पानाय प्रयुञ्जीत कुष्ठोक्तं वा तिक्तकम्॥
श्लोक 13
श्लेष्मदुष्टायां पुनर्ग्रहण्यां मागधिकंसिद्धार्थकल्कतीक्ष्णेन मदनफलकषायेण पुनःपुनर्वामयेत्।
अब्धातुर्हि प्रवृद्धस्तेजो निर्वापयति।
ततः कृतपेयादिक्रमस्य लवणक्षाराम्लकटुकोत्कटैर्यथोक्तैरन्नपानौषधैरनलमुत्तेजयेत्।
मञ्जिष्ठाचित्रकारुष्करकृमिघ्नमधूकपुष्पाणि क्रमाद् द्विकुडवार्धाढकाढकार्धद्रोणद्रोणांशान्यपां द्रोणत्रये क्वाथयेत्।
द्रोणशेषश्च पूतशीतः स निर्यूहो मधुद्विप्रस्थवांश्चन्दनोशीरसूक्ष्मैलागरुरूषितं जतुसृतं घृतकुम्भमध्युषितो मासमासवः।
सर्वदोषघ्नोऽग्निजननो बृंहणः शोषकुष्ठकिलासप्रमेहानाहगुल्मपाण्डुहृद्रोगजिच्च॥
श्लोक 14
मधूकपुष्पाणां स्वरसोऽर्धावशेषक्वथितः क्षौद्रपादयुक्तः सर्वथा समानः पूर्वेण।
अनेन द्राक्षेक्षुकाश्मर्यफलस्वरसासवा व्याख्याताः॥
श्लोक 15
दशमूलवीरारजनीत्रिफलाजीवकर्षभकाणां पृथक् पृथक् पञ्चपलान् भागानपां वहे पक्त्वा पादशेषे रसे शीतीभूते गुडतुलाद्वयं दद्यादर्धकुडवं च माक्षिकात्तत्प्रमाणांश्च चूर्णितान् मुस्तप्रियङ्गुमञ्जिष्ठामधुकविडङ्गप्लवशाबरलोध्रान् एषोऽर्धमासस्थितो मूलासवोऽयं समानः पूर्वेण।
महावृक्षकण्डचतुष्पलं द्विगुणार्ककाण्डं लवणत्रयत्रिपलं पक्ववार्ताककुडवं चित्रकमूलपलद्वयं चान्तर्धूमं दग्ध्वा वार्ताकरसेन गुटिकाः कुर्यात्।
ता भोजनोत्तरं भक्षिता ग्रहणी दुर्नामविषूचिकालसककासश्वासपीनसप्लीहपाण्डुश्वयथुमेहारोचकगुल्महराः॥
श्लोक 16
दशमूलार्कमूलदन्तीत्रिवृच्चित्रकास्फोतपाठारास्नास्नुहीकाण्डानां पृथग्दशपलान् भागान् कपालोदरे दग्ध्वा क्षारमुदकद्रोणैश्चतुर्भिः क्वाथयेत्।
पादावशेषं च पूतं पुनःपादावशेषमेव क्वथितावतारितं गुडपलशतोन्मिश्रमधिश्रयेत्।
घनीभवति च तस्मिन् सुश्लक्ष्णरजसां वृश्चिकालीद्वययावशूकानां त्रिंशत् पलान्यावपेत्।
त्रिंशदेव वचाभयाव्योषचित्रकाणाम्।
द्विपलं च पृथक् पृथक् हिङ्ग्वम्लवेतसयोः।
ततोऽक्षमात्रा गुटिकाः कृत्वा यथाबलमुपयुक्ताः समानाः पूर्वाभिरधिका वा।
अर्शोविहितांश्च क्षारतक्रारिष्टान् घृतान्यन्नपानं च सेवेत।
षट्पलं भल्लातकघृतं धान्वतरं च।
सन्निपाते तु पञ्च कर्माणि कुर्याद्यथावस्थं वा ग्रहणीचिकित्सितमिति।
भवति चात्र॥
श्लोक 17
प्रसेके श्लैष्मिकेऽल्पाग्नेर्दीपनं रूक्षतिक्तकम्।
योज्यं कृशस्य व्यत्यासात् स्निग्धरूक्षं कफोदये॥
श्लोक 18
क्षीणक्षामशरीरस्य दीपनं स्नेहसंयुतम्।
दीपनं बहुपित्तस्य तिक्तं मधुरकैर्युतम्॥
श्लोक 19
स्नेहोऽम्ललवणैर्युक्तो बहुवातस्य शस्यते।
स्नेहमेव परं विद्याद्दुर्बलानलदीपनम्॥
श्लोक 20
नालं स्नेहसमिद्धस्य शमायान्नं सुगुर्वपि।
मलमामं कफे क्षीणे मन्दाग्निर्योऽतिसार्यते॥
श्लोक 21
स पिबेत् सर्पिषो मात्रां दीपनीयौषधैर्युताम्।
प्रसन्नो मार्गमापन्नः स्वं समानोऽनिलस्तया।
अग्नेः समीपचारित्वादाशु प्रकुरुते बलम्॥
श्लोक 22
पुरीषं यस्तु कृच्छ्रेण कठिनत्वाद्विमुञ्चति।
स घृतं लवणैर्युक्तं नरोऽन्नावग्रहं पिबेत्॥
श्लोक 23
रौक्ष्यान्मन्देऽनले सर्पिस्तलं वा दीपनैः पिबेत्।
क्षारचूर्णासवारिष्टान् मन्दे स्नेहातिपानतः॥
श्लोक 24
उदावर्तात्तु योक्तव्या निरूहस्नेहबस्तयः।
दोषातिवृध्या मन्देऽग्नौ संशुद्धोऽन्नविधिं चरेत्॥
श्लोक 25
व्याधिमुक्तस्य मन्देऽग्नौ सर्पिरेव तु दीपनम्।
अध्वोपवासक्षामत्वैर्यवाग्वा पाययेत् घृतम्।
अन्नावपीडितं बल्यं दीपनं बृंहणं च तत्॥
श्लोक 26
दीर्घकालप्रसङ्गात्तु क्षामक्षीणकृशान् नरान्।
प्रसहानां रसैः साम्लैर्भोजयेत् पिशिताशिनाम्॥
श्लोक 27
लघूष्णकटुशोधित्वैर्दीपयन्त्याशु तेऽनलम्।
मांसोपचितमांसत्वात् परं च बलवर्धनाः॥
श्लोक 28
स्नेहासवसुरारिष्टचूर्णक्वाथहिताशनैः।
सम्यक् प्रयुक्तैर्देहस्य बलमग्नेश्च वर्धते॥
श्लोक 29
दीप्तो यथैव स्थास्नुश्च बाह्योऽग्निः सारदारुभिः।
सस्नेहैर्जायते तद्वदाहारैः कोष्ठगोऽनलः॥
श्लोक 30
नाभोजनेन कायाग्निर्दीप्यते नातिभोजनात्।
यथा निरिन्धनो वह्निरल्पो वातीन्धनावृतः॥
श्लोक 31
यदा क्षीणे कफे पित्तं स्वे स्थाने पवनानुगम्।
प्रवृद्धं वर्धयत्यग्निं तदासौ सानिलोऽनलः॥
श्लोक 32
पक्त्वान्नमाशु धातूंश्च सर्वानोजश्च सङ्क्षिपन्।
मारयेत् स्यात् स ना स्वस्थो भुक्ते जीर्णे तु ताम्यति।
तृट्कासदाहमूर्च्छाद्या व्याधयोऽत्यग्निसम्भवाः॥
श्लोक 33
तमत्यग्निं गुरुस्निग्धमन्दसान्द्रहिमस्थिरैः।
अन्नपानैर्नयेच्छान्तिं दीप्तमग्निमिवाम्बुभिः॥
श्लोक 34
मुहुर्मुहुरजीणापि भोज्यान्यस्योपहारयेत्।
निरिन्धनोऽन्तरं लब्ध्वा यथैनं न विपादयेत्॥
श्लोक 35
कृसरां पायसं स्निग्धं पैष्टिकं गुडवैकृतम्।
अश्नीयादौदकानूपपिशितानि भृतानि च॥
श्लोक 36
मत्स्यान् विशेषतः श्लक्ष्णान् स्थिरतोयचराश्च ये।
आविकं सुभृतं मांसमद्यादत्यग्निवारणम्॥
श्लोक 37
पयः सहमधूच्छिष्टं घृतं वा तृषितः पिबेत्।
गोधूमचूर्णं पयसा बहुसर्पिःप्लुतं पिबेत्॥
श्लोक 38
आनूपरसयुक्तान् वा स्नेहांस्तैलविवर्जितान्।
श्यामात्रिवृद्विपक्वं वा पयो दद्याद्विरेचनम्॥
श्लोक 39
असकृत् पित्तहरणं पयसा प्रतिभोजनम्।
यत्किञ्चिद्गुरु मेध्यं च श्लेष्मकारि च भोजनम्।
सर्वं तदत्यग्निहितं भुक्त्वा च स्वपनं दिवा॥
श्लोक 40
आहारमग्निः पचति दोषानाहारवर्जितः।
धातून् क्षीणेषु दोषेषु जीवितं धातुसङ्क्षये॥
श्लोक 41
अग्निमूलं बलं पुंसां बलमूलं हि जीवितम्।
एष सारश्चिकित्साया यदग्नेः परिरक्षणम्॥
॥इति द्वादशोऽध्यायः॥