अष्टाङ्गसंग्रहः शरीरस्थानम् द्वादशोऽध्यायः

श्लोक 1

अथातो दूतादिविज्ञानीयमध्यायं व्याख्यास्यामः॥

श्लोक 2

निर्दिष्टं रिष्टमातुराश्रयम्।
दूतस्यापि तु जातिवेषभाषाचेष्टितदेशकाला वैद्यस्य च तत्सङ्गमसङ्कल्पप्रस्थानप्रयाणप्रवेशा ग्रहचारोऽपूर्वसम्भवः स्वप्नदर्शनानि च रोगिणः शुभाशुभं सूचयन्ति॥

श्लोक 3

तत्रातुराद्वर्णोत्तमोऽन्याश्रमः पाषण्डः षण्डो मुण्डी जटिलः स्त्री व्याधितोऽनेकोऽजीर्णविवर्णमलिनच्छिन्नार्द्रैकवसनः पङ्कतैलदिग्धो रक्तमाल्यानुलेपनो विकृताङ्गरूपकर्मा खरोष्ट्रमहिषवाहनो विक्लबः श्वसन् रुदन् निष्टुरामङ्गलाभिधायी दूरादाह्वयमानस्तृणलोष्टतुषाङ्गारभस्मतुषसीसास्थिकेशशिरोललाटनासिकास्यदन्तजिह्वाग्रीवानखानामिकाङ्गुलिस्तनजठरनाभिपृष्ठकटीमेहनजङ्घाकपालपललोपलमुसलशूर्पोपानन्मार्जनीशस्त्रवस्त्रान्तदशाकार्पासभग्नच्युतस्पृक्काष्ठयष्टीतुलारज्जुपाशचर्मवेणुरिक्तभाजनस्नेहभाजनधरः पादाभ्यां भुवं मुञ्चन् विलिखन् गृहीत्वा पक्वं फलप्रसारं वा तद्विधमन्यद्वा विकारतुल्यगुणे च देशे काले वा दूतो वैद्यमुपसर्पन्नशुभः॥

श्लोक 4

तद्यथा।
घृतोदकादिद्रवसमपि स्थमातिशीतस्तब्धः प्रत्युषसि श्लेष्मामयेऽशुभः।
पित्तामये तु शुभः।
तथा सेतुभङ्गे छर्दिमेहातिसारादिष्वशुभः सेतुबन्धे तु शुभः।
तथा मध्याह्नोभयसन्ध्यार्द्धरात्रिचतुर्थीषष्ठीनवमीपर्वदिनेषु ग्रहोपरागोत्पातदर्शनभ्रणीकृत्तिकार्द्राश्लेषामघामूलपूर्वासु चाशुभो यश्च वैद्यं सुप्तं नग्नं च भूमौ शयानमभ्यक्तं मुक्तकेशं दक्षिणाभिमुखं विक्लवं छिन्दन्तं भिन्दन्तमग्निपितृकार्यप्रवणमशस्तं चिन्तयन्तं कथयन्तं वोपतिष्ठति।
यो वा दिशं याम्यां प्रतिकृताञ्जलिर्विषमैकपादस्थः।
यस्मिन् व्याधिताश्रयं कथयति दूते भिषगशुभमिन्द्रियार्थमुपलक्षयेत् सङ्कल्पयेद्वा तं च नानुयायात्।
अतोऽन्यथा पुनः करुणापेशलेन मनसा सौमनस्यवता मातापितृसमेनातुरस्यात्यन्तमारोग्यमाशसमानेन प्रयातव्यम्॥

श्लोक 5

प्रस्थानगमनप्रवेशेषु दधिमधुघृतलाजपुष्पाक्षतोदुम्बराश्वत्थमुक्तामणिछत्रदूर्वाङ्कुरादर्शकन्याध्वजस्यन्दनाष्टापदाक्षा नृपश्रीतरुर्भद्रपीठानि सस्यानि मत्स्या हया हंसचाषौ वृषः केसरी दक्षिणावर्तशङ्खाब्जसिद्धार्थकारोचनाः स्वस्तिकस्तोरणं कीचकावेणवो वरवधूर्मदसिक्तगण्डो गजस्तोयलम्बोऽम्बुदः पूर्णकुम्भो हरिद्रात्रिरिन्द्रः फलान्यार्द्रमांसं सितं चामरं गौः सवत्साङ्गना पुत्रिणी मानुषं वर्धमानं सहस्रं भूमिरभ्युद्वृता सिद्धमन्नं वराहश्च तोयोत्थितास्त्रिणयनमधुसूदनस्कन्दपद्मासनाः लोकपालाः सुराः खं दिशोऽग्निः सरांसि स्रवन्त्यः समुद्रा मखा मारुतो ज्योतिषं धर्मशास्त्राणि तीर्थानि काव्यं धर्मार्थकामामृतं वालखिल्यादयो वेदवाक्यं निधिः कौस्तुभः काञ्चनं मणिभद्रः सुमेरुः प्रियङ्गुः प्रदीपो वचामोदकौ दितिरदितिररुन्धती र्द्धिः सावित्र्युमाकाशगङ्गा शची देवसेना स्वधा शान्तिर्लक्ष्मीः सरस्वत्यपत्यं क्षमा स्वस्तिशब्दो वषट्कार औंकारपुण्याहधर्मक्रियाश्चैतदष्टोत्तरं मङ्गलानां शतं दर्शनात् स्पर्शनात् कीर्तनाच्चाशुभानि व्यपोह्यार्थसिद्धिं दिशन्त्युत्तमाम्।
अपि च॥

श्लोक 6

पुन्नामानः पक्षिणो वामाः शिवाः।
शिवा श्यामा पिङ्गला कोकिलारला चुच्छुन्दरी सूकरी गृहगोधिकैकशफाश्च स्त्रीनामानो दक्षिणाः।
शिखी चणकश्येनगजाजकपयश्च।
प्रवेशे तु विपरीताः।
सर्वत्र च दक्षिणाद्वामगमनमिष्टं श्वसृगालयोः।
विपरीतं मृगविहङ्गयोः।
सर्वथापि दर्शनं भरद्वाजचाषभासनकुलानाम्॥

श्लोक 7

शशसर्पाजाविगोधाजाविकसूकराणां तु कीर्तनमिष्टम्।
न दर्शनं विरुतं वा।
विपरीतमृक्षवानरयोः।
सर्पमपि त्वनिष्टं सरटकुक्कुटबिडालोलूकानाम्।
तथा ग्रन्थ्यर्बुदादिषु छेदशब्द इष्टो गुल्मोदरादिषु भेदशब्दोऽतीसाररक्तपित्तादिषु रुद्धशब्दोऽश्मर्युदरादिषु प्रवर्तनशब्द इति।
एवमन्येऽपि ध्वनयो योज्याः।
सर्वत्रैव च स्थिरस्थावरवर्द्धमानत्राताचलध्रुवक्षेमशिवादयः शब्दा धन्यवादित्रस्वराश्च श्रेष्ठाः॥

श्लोक 8

क्षतहतपतिताक्रोशप्रहारच्छेदभेददाहहाहाप्रतिषेधादिशब्दाः चिकित्साप्रतिषेधाय॥

श्लोक 9

दीप्तायां च दिशि क्रूराः पक्षिमृगध्वनयो वृक्षे वा रूक्षशुष्के सवल्लीकण्टके।
तद्विधे वा देशे॥

श्लोक 10

दर्शनं च तृणपललकाष्ठभारकर्परकलोष्टादीनां कण्टकोर्ध्वपादयानशयनासनादिभग्नोपस्कररिक्तकुम्भमद्यवसातैलतिलगर्भिणीश्चपाकव्यसनिमृतानां च।
प्रवेशे चातुरगृहात् पूर्वोक्तमाङ्गल्यनिर्गमः।
प्रविष्टस्य तु भिषजः न सत्कारो लाभतुष्टिस्तुतयश्चाशुभाः॥

श्लोक 11

आतुरस्य वक्रानुवक्ता ग्रहा गर्हितस्थानस्थाः।
केतुशनिराहुभिर्जन्मर्क्षाभिभवो गृहदारशयनासनवाहनमणिरत्नोपकरणेषु वा गर्हितलक्षणप्रादुर्भावश्चिकित्साप्रतिषेधाय॥

श्लोक 12

स्वप्नस्तु स्वयमन्येन वा दृष्टः शुभाशुभहेतुः सप्तविधो दृष्टः श्रुतोऽनुभूतः प्रार्थितः सङ्कल्पितो भाविको दोषजश्च।
तत्राद्यः पञ्चविधोऽफलः।
तथा यथास्वप्रकृतिर्विस्मृतो दिवातिह्रस्वोऽतिदोर्घो नातिशुप्तदृष्टश्च॥

श्लोक 13

पूर्वरात्रेऽल्पं चिराच्च फलं करोति।
गोसर्गे महत्सद्यश्च।
निद्रया च पुनरनुपहतः प्रतीपैर्वा वचोभिर्दानयमनियमादिभिर्वा॥

श्लोक 14

तत्र यः प्रेतैः सह मद्यं पिबन् शुनाकृष्यते।
स हन्यते ज्वरेण।
यो लाक्षारक्ताभमम्बरं पश्यति यो वा रक्तदेहमाल्यवस्त्रो हसन्नार्या ह्रियते स रक्तपित्तेन।
यो याम्यां दिशं खरोष्ट्रमहिषवराहान्यतमेन स यक्ष्मणा।
यस्य कण्टकिनी लता वंशस्तालो वा हृदि जायते स गुल्मेन।
यस्य शिरसि स शिरोरोगेण वा शिरच्छेदनेन।
यस्य नग्नस्याज्यावसिक्तस्याग्निमनर्चिषं जुह्वतो जायन्ते पद्मान्युरसि स कुष्ठेन।
यश्चण्डालैः सह स्नेहं पिबति स प्रमेहेण।
यो मत्तः सोऽपस्मारेण।
यश्चन्द्रसूर्ययोरुपरागं पश्यति तस्य नेत्ररोग उपजायते।
यस्तयोः पतनं तस्य नेत्रविनाशः॥

श्लोक 15

यः शष्कुलीरपूरान्वाभ्यवहृत्य प्रतिबुद्धश्छर्दयति यस्य शिरसि लतादयो जायन्ते वयांसि च निलीयन्ते मौड्यं वा भवति यो गृध्रोत्लूककाकाद्यैः प्रेतपिशाचरक्षोद्रविडान्ध्रस्त्रीचण्डालाद्यैर्वा परिवार्यते दक्षिणाभिमुखं वा स्त्रिया नृत्यन्नाकृष्यते अन्तावसायिभिर्वा स्वयं वा दिग्वासा याति शून्याटवीं वा कपिरथेन प्रेतैः प्रव्रजितैर्वा परिष्वज्यते नग्नो वा रक्तां स्रजं धारयति पङ्कदिग्धो हसति नृत्यति वा वेत्रवंशकण्टकतृणगहने संसृज्यते पतति वा पांसूपधानायां भुवि वल्मीकभस्मश्मशानश्वभ्रायतनेषु पङ्ककूपकलुषोदकेषु वा मज्जति स्रोतसा वा ह्रियते रक्तकुसुमवनां भूमिं गुहामन्धकाराचितां पापकर्मालयं संबाधं जननीं वा प्रविशति मत्स्येन वा ग्रस्यते।
श्मश्रुकर्म च यो गात्रवृद्धिं विवाहं चानुभवति शैलप्रासादाग्रात्पतत्यारोहति वा यूपपुष्पाड्यशाल्मलीकोविदारकिंशुकपारिभद्रकान्यो वा पराजीयते बध्यते छर्दयति विरिच्यते हृष्यति लभते वा हिरण्यलोहलवणतैलपिण्याककार्पासानश्नाति पक्वान्नं पिबति मद्यं स्नेहं वाभ्यज्यति निर्भर्त्स्यते वा कुपितैः पितृभिः चन्द्रार्कतारादीपदेवतानेत्रदर्शनान्यनुपततो नश्यतो वा पश्यति वक्रं वा बाहुमङ्गं वा विभिद्यमानं पुरुषान् वा नग्नान् कषायवाससोऽसौम्यान् दण्डपाशहस्तान् कृष्णान्रक्ताक्षान् स्त्रियं वा कृष्णशुक्लदर्शनां दीर्घकेशस्तनीं कालरात्रिरूपां ते व्याधिताः पञ्चतामाप्नुवन्ति स्वस्थास्तु जीवितसन्देहमिति।
भवन्ति चात्र॥

श्लोक 16

मनोवहानां पूर्णत्वात् स्रोतसां प्रबलैर्मलैः।
दृश्यन्ते दारुणाः स्वप्ना विनाशाभिमुखात्मभिः॥

श्लोक 17

अकल्याणमपि स्वप्नं दृष्ट्वा तत्रैव यः पुनः।
पश्येत् सौम्यं शुभं तस्य शुभमेव फलं भवेत्॥

श्लोक 18

देवान् द्विजान् गोवृषभान् जीवतः सुहृदो नृपान्।
साधून्यशस्विनो वह्निमिद्धं स्वच्छान् जलाशयान्॥

श्लोक 19

कन्याः कुमारकान् गौरान् शुक्लवस्त्रान् सुतेजसः।
नराशनं दीप्ततनुं समन्ताद्रुधिरोक्षितम्॥

श्लोक 20

यः पश्येल्लभते यो वा छत्रादर्शविषामिषम्।
शुक्लाः सुमनसो वस्त्रममेध्यालेपनं फलम्॥

श्लोक 21

शैलप्रासादसफलवृक्षसिंहनरद्विपान्।
आरोहेत् गोऽश्वयानं च तरेन्नदह्रदोदधीन्॥

श्लोक 22

पूर्वोत्तरेण गमनमगम्यागमनं मृतिः।
सम्बाधान्निस्सृतिः स्पर्शास्तारकाचलभास्वताम्॥

श्लोक 23

रोदनं पतितोत्थानं द्विषतां चावमर्दनम्।
यस्य स्यादायुरारोग्यं वित्तं स बहुशोऽश्नुते॥

श्लोक 24

पितृदेवद्विजातीनां क्रुद्धभीतकृशात्मनाम्।
मलिनाम्बरपुष्पाणां दर्शनं न प्रशस्यते॥

श्लोक 25

तेषामेव तु तुष्टानां शुद्धपुष्पाम्बरात्मनाम्।
दर्शनं शस्यते स्वप्ने तैश्च सम्भाषणं शुभम्॥

श्लोक 26

दृष्ट्वा स्वप्नान् दारुणान् शोभनान् वा।
प्रातः स्नातः सर्षपानग्निवर्णान्।
हुत्वा सावित्र्या सर्पिषाक्तांस्तिलान्वा।
पूतः पापैर्मुच्यते व्याधिभिश्च॥

श्लोक 27

मङ्गलाचारसम्पन्नपरिवारस्तथातुरः।
श्रद्दधानोऽनुकूलश्च प्रभूतद्रव्यसङ्ग्रहः॥

श्लोक 28

सत्त्वलक्षणसंयोगो भक्तिर्वैद्यद्विजातिषु।
चिकित्सायामनिर्वेदस्तदारोग्यस्य लक्षणम्॥

श्लोक 29

इत्यत्र जन्ममरणं यतः सम्यगुदाहृतम्।
शरीरस्य ततः स्थानं शारीरमिदमुच्यते॥