अष्टाङ्गसंग्रहः सूत्रस्थानम् अथ द्वादशोऽध्यायः

श्लोक 1

अथातो द्विविधौषधविज्ञानीयमध्यायं व्याख्यास्यामः।
इति हस्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

द्विविधमौषधमूर्जस्करं रोगघ्नं च।
उभयमपि चोभयात्मकम्।
बाहुल्येन तु निर्देशः।
तत्रोर्जस्करं द्विविधं रसायनं वाजीकरणं च।
रोगघ्नमपि द्विविधम्।
रोगस्य प्रशमनमपुनर्भवकरं च।
पुनश्च द्विविधम्।
द्रव्यमद्रव्यम् च।
तत्र द्रव्यम् त्रिविधम्।
भौममौद्भिदं जङ्गममिति।
तेषु वक्ष्यमाणं हेमादि लवणान्तं प्रायेण भौमम्।
औद्भिदं पुनर्वनस्पतिवानस्पत्यवीरुदौषधिभेदेन चतुर्विधं भवति।
तत्र फलिनो वनस्पतिः।
पुष्पफलवान् वानस्पत्यः।
वल्लीगुल्मवीरुत्।
फलपाकान्ताश्चौषध्य इति।
जङ्गमोद्भवं मधुघृतादि जङ्गमद्रव्यमाहुः॥

श्लोक 3

अद्रव्यं पुनरुपवासानिलातपच्छायामन्त्रसान्त्वदानभयोत्त्राससङ्क्षोभणहर्षणभर्त्सनहसनस्वप्नजागरण संवाहनादीनि।
पुनरपि च त्रिविधं दैवव्यपाश्रयं युक्तिव्यपाश्रयं सत्वावजयश्चेति।
तत्र दैवव्यपाश्रयं मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तो पवासस्वस्त्ययनप्रणिधानगमनादि।
युक्तिव्यपाश्रयमाहारौषधयोजनादि।
सत्वावजयः पुनरहितान्मनोनिग्रहः।
पुनरपि च त्रिविधम्।
अपकर्षणं प्रकृतिविघातो निदानत्यागश्च॥

श्लोक 4

ते पुनरपकर्षणादयो द्विविधाः बाह्याभ्यन्तरभेदेन।
तत्र बाह्यमपकर्षणं ग्रन्थ्यर्बुदोपपक्ष्मक्रिमिशल्यादिषु शस्त्रहस्तयन्त्रादिभिः।
आभ्यन्तरं पुनर्वमनविरेचनादिभिः।
प्रकृतिविघातः संशमनम्।
तत् बाह्यमभ्यङ्गस्वेदप्रदेहपरिषेकोपमर्दनादि।
आभ्यन्तरं यदन्तरमनुप्रविश्याविक्षोभयद्दोषान् शमयति।
निदानत्यागो यथादोषं शीतोष्णशनव्यायामादीनां वर्जनं स्निग्धरुक्षाद्यनभ्यवहारश्च।
तत्र शस्त्रादिसाध्ये भेषजमनुक्रमते न तु भेषजसाध्ये शस्त्रादि॥

श्लोक 5

पुनरपि त्रिविधं हेतुविपरीतं व्याधिविपरीतमुभयार्थकारि च।
तत्र हेतुविपरीतं गुरुस्निग्धशीतादिजे व्याधौ लघुरूक्षोष्णादि।
तथेतरस्मिन्नितरत्।
व्याधिविपरीतम्।
द्वौ मूलोपक्रमौ लङ्घनबृंहणे।
पञ्च कर्माणि वमनादीनि सधूमधूपाञ्जनादीनि च।
तथा विम्लापनोपनाहनपाटनादीनि॥

श्लोक 6

यच्च दोषशमनत्वे सत्यपि ज्वरे विशेषतो हितं मुस्ता पर्पटकं यवाग्वश्च प्रमेहे रजनी यवान्नं चेत्यादि।
रक्तपित्ते चोर्ध्वागे विरेचनमधोगे वमनम्।
उभयार्थकारि पुनर्दैवव्यपाश्रयमौषधम्।
तथा छर्द्यां छर्दनमतिसारे विरेचनं मदात्ययेमद्यपानं तुत्थदग्धेऽग्निप्रतपनं पित्तेऽन्तर्न्निगूढे विमार्गगे वा स्वेदः कट्वम्ललवणतीक्ष्णोष्णाभ्यवहारश्च बहिः प्रवर्त्तनाय स्वमार्गापादनाय च।
श्लेष्मणि चान्तर्निगूढे स्तब्धे बहिः शीतोपचारस्तत्पीडितस्योष्मणोऽन्तःप्रवेशेन कफो विलयतामुपयाति।
एवंविधं ह्यविपरीतमेव सत् भेषजं हेतुव्याधिविपरीतमर्थं करोति॥

श्लोक 7

अनौषधं पुनर्द्विविधं बाधनमनुबाधनं च।
तत्र सद्यः प्राणहरं बाधनम्।
कालान्तरेणानुबाधनमिति।
परं चातो रसवीर्यादिभेदेन यथास्थूलमौषधैकदेश उपदिश्यते॥

श्लोक 8

सुवर्णं बृंहणं स्निग्धं मधुरं रसपाकयोः।
विषदोषहरं शीतं सकषायं रसायनम्॥

श्लोक 9

रूप्यं स्निग्धं कषायाम्ल विपाके मधुरं रसम्।
वयसः स्थापनं शीतं लेखनं वातपित्तजित्॥

श्लोक 10

ताम्रं सतिक्तमधुरं कषायं लेखनं लघु।
कटुपाकरसं शीतं रोषणं कफपित्तजित्॥

श्लोक 11

कस्यं कषायानुरसं विशदं लेखन लघु।
दृष्टिप्रसादनं रूक्षं तिक्तं पित्तकफापहम्॥

श्लोक 12

सतिक्तलवणं भेदि पाण्डुत्वकृमिवातनुत्।
लेखनं पित्तलं किञ्चित् त्रपु सीसं च तद्गुणम्॥

श्लोक 13

चक्षुष्यं कृष्णलोहं तु कषायं स्वादुतिक्तकम्।
लेखनं वातलं शीतं कृमिकुष्ठकफप्रणुत्॥

श्लोक 14

गात्रशैथिल्यपालित्यपाण्डुघ्नं शोषशोफजित्।
तद्वत्तीक्ष्णं विशेषेण तद्विकाषि सुदुर्जरम्॥

श्लोक 15

पद्मरागमहानीलपुष्परागविदूरकाः।
मुक्ताविद्रुमवज्रेन्द्रवैडूर्यस्फटिकादिकम्॥

श्लोक 16

मणिरत्नं सरं शीतं कषायं स्वादुलेखनम्।
चक्षुष्यं धारणात्तत्तु पाप्मालक्ष्मीविषापहम्॥

श्लोक 17

धन्यमायुष्यमोजस्यं हर्षोत्साहकरं शिवम्।
सक्षार उष्णवीर्यश्च काचो दृष्टिकृदञ्जनात्॥

श्लोक 18

शङ्खोदधिमलौ शीतौ कषायावतिलेखनौ।
तुत्थकं कटु सक्षारं कषायं विषदं लघु॥

श्लोक 19

लेखनं भेदि चक्षुष्यं कण्डूकृमिविषापहम्।
विशदो गैरिकः स्निग्धः कषायमधुरो हिमः॥

श्लोक 20

कफघ्नी तिक्तकटुका मनोह्वा लेखनी सरा।
स्निग्धं कषायकटुकं हरितालं विषप्रणुत्॥

श्लोक 21

कषायं मधुरं शीतं लेखनं स्निग्धमञ्जनम्।
रक्तपित्तविषच्छर्दिहिध्माघ्नं दृक्प्रसादनम्॥

श्लोक 22

स्रोतोऽञ्जनं वरं तत्र ततः सौवीरकाञ्जनम्।
कफघ्नं तित्तकटुकं छेदि सोष्णं रसाञ्जनम्॥

श्लोक 23

स्वादु हिध्माप्रशमनं कासमेहक्षयापहम्।
कफघ्नमुष्णं कटुकं शिलाजतु रसायनम्॥

श्लोक 24

तिक्तं च छेदनं योगवाहित्वात्सर्वरोगजित्।
विशेषात् कृछ्रमेहार्शःपाण्डुशोफकफापहम्॥

श्लोक 25

कषाया मधुरा रूक्षा कासघ्नी वंशरोचना।
तुगाक्षीरी क्षयश्वासकासघ्नी मधुरा हिमा॥

श्लोक 26

विष्यन्दि लवणं सर्वं सूक्ष्मं सृष्टमलं विदुः।
वातघ्नं पाकि तीक्ष्णोष्णं रोचनं कफपित्तकृत्॥

श्लोक 27

सैधन्वं तत्र सस्वादु वृष्यं हृद्यं त्रिदोषनुत्।
लघ्वनुष्णं दृशः पथ्यमविदाह्यग्निदीपनम्॥

श्लोक 28

लघु सौवर्चलं हृद्यं सुगन्ध्युद्गारशोधनम्।
कटुपाकं विबन्धघ्नं दीपनीयं रुचिप्रदम्॥

श्लोक 29

ऊर्ध्वाधःकफवातानुलोमनं दीपनं विडम्।
विबन्धानाहविष्टम्भशूलगौरवनाशनम्॥

श्लोक 30

विपाके स्वादु सामुद्रं गुरु श्लेष्मविवर्धनम्।
सतिक्तकटुकक्षारं तीक्ष्णमुत्क्लेदि चौद्भिदम्॥

श्लोक 31

कृष्णे सौवर्चलगुणा लवणे गन्धवर्जिताः।
रोमकं लघु पांसूत्थं सक्षारं श्लेष्मलं गुरु॥

श्लोक 32

लवणानां प्रयोगे तु सैन्धवादीन् प्रयोजयेत्।
गुल्महृत् ग्रहणीपाण्डुप्लीहानाहगलामयान्॥

श्लोक 33

श्वासार्शःकफवातांश्च शमयेद्यवशूकजः।
स्वर्जिका तद्गुणान्न्यूना क्षारेण तु ततोऽधिका॥

श्लोक 34

क्षारः सर्वश्च परमं तीक्ष्णोष्णः कृमिजिल्लघुः।
पित्तासृग्दूषणः पाकी छेद्यहृद्यो विदारणः।
अपथ्यः कटुलावण्याच्शुक्रौजःकेशचक्षुषाम्॥

श्लोक 35

कषाया मधुरा पाके रूक्षा विलवणा लघुः।
दीपनी पाचनी मेध्या वयसः स्थापनी परम्॥

श्लोक 36

उष्णवीर्या सरायुष्या बुद्धीन्द्रियबलप्रदा।
कुष्ठवैवर्ण्यवैस्वर्यपुराणविषमज्वरान्॥

श्लोक 37

शिरोऽक्षिपाण्डुहृद्रोगकामलाग्रहणीगदान्।
सशोषशोफातीसारमेहमोहवमिक्रिमीन्॥

श्लोक 38

श्वासकासप्रसेकार्शःप्लीहानाहगरोदरम्।
विबन्धं स्रोतसां गुल्ममूरुस्तम्भमरोचकम्॥

श्लोक 39

हरीतकी जयेद्व्याधींस्ताअंस्तांश्चकफवातजान्।
तद्वदामलकं शीतं माधुर्यात् पित्तजित् परम्॥

श्लोक 40

कफं कटुविपाकित्वादम्लत्वान्मारुतं जयेत्।
परं च कण्ठ्यं चक्षुष्यं हृद्यं दाहज्वरापहम्॥

श्लोक 41

अक्षं तु तद्गुणान्न्यूनं कषायमधुरं हिमम्।
कासश्वासगलश्लेष्मपित्तशुक्रहरं लघु॥

श्लोक 42

परं केश्यस्तु तन्मज्जा शुक्रघ्नं च ततोऽञ्जनम्।
इय रसायनवरा त्रिफलाक्ष्यामयापहा।
रोपणी त्वग्गदक्लेदमेदोमेहकफास्रजित्॥

श्लोक 43

सकेसरं चतुर्जातं त्वक्पत्रैलं त्रिजातकम्।
पित्तप्रकोपि तीष्णोष्णं रूक्षं रोचनदीपनम्॥

श्लोक 44

रसे पाके च कटुकं कफघ्नं मरिचं लघु।
श्लेष्मला स्वादु शीतार्द्रा गुर्वीं स्निग्धा च पिप्पली॥

श्लोक 45

सा शुष्का विपरीतातःस्निग्धा वृष्या रसे कटुः।
स्वादुपाकानिलश्लेष्मश्वासकासापहा सरा॥

श्लोक 46

न तामत्युपयुञ्जीत रसायनविधिं विना।
नागरं दीपनं वृष्यं ग्राहि हृद्यं विबन्धनुत्॥

श्लोक 47

रुच्य लघु स्वादुपाकं स्निग्धोष्णं कफवातजित्।
तद्वदार्द्रकमेतच्च त्रयं त्रिकटुकं जयेत्॥

श्लोक 48

स्थौल्याग्निसदनश्वासकासश्लीपदपीनसान्।
चविका पिप्पलीमूलं मरिचाल्पान्तरं गुणैः॥

श्लोक 49

चित्रकोऽग्निसमः पाके शोफार्शःकृमिकुष्ठहा।
पञ्चकोलकमेतच्च मरिचेन विना स्मृतम्।
गुल्मप्लीहोदरानाहशूलघ्नं दीपनं परम्॥

श्लोक 50

बिल्वकाश्मर्यतर्कारीपाटलाटुण्टुकैर्महत्।
जयेत् कषायं तिक्तोष्णं पञ्चमूलं कफानिलौ॥

श्लोक 51

ह्रस्वं बृहत्यंशुमतीद्वयगोक्षुरकैः स्मृतम्।
स्वादुपाकरसं नातिशीतोष्णं सर्वदोषजित्॥

श्लोक 52

बलापुनर्नवैरण्डशूर्पपर्णीद्वयेन च।
मध्यमं कफवातघ्नं नातिपित्तकरं लघु॥

श्लोक 53

अभीरुवीराजीवन्तीजीवकर्षभकैः स्मृतम्।
जीवनाख्यं तु चक्षुष्यं वृष्यं पित्तानिलापहम्॥

श्लोक 54

तृणाख्यं शरदर्भेक्षुशालिकाशैस्तु पित्तजित्।
अजशृङ्गी हरिद्रा च विदारीशारिवामृताः॥

श्लोक 55

बल्याख्यं कण्टकाख्यं तु श्वदंष्ट्राभीरुसैर्यकैः।
सहिस्त्राकरमर्दीकैस्सर्वदोषहरे च ते॥

श्लोक 56

कारवीकुञ्चिवाजाजीकवरीधान्यतुम्बरु।
अन्नगन्धहरं रुच्यं दीपनं कफवातजित्॥

श्लोक 57

वाष्पिका कटुतिक्तोष्णा कृमिश्लेष्महरा परम्।
शूलाटोपहरा रुच्या दीप्यकः कोष्ठशूलजित्॥

श्लोक 58

अहृद्याः सर्षपाः स्निग्धा बाष्पिकावच्च कीर्त्तिताः।
हिङ्गु वातकफानाहशूलघ्नं पित्तकोपनम्॥

श्लोक 59

कटुपाकरसं रुच्यं दीपनं पाचनं लघु।
पित्तास्रकोपि तच्चैव श्रेष्ठं बोष्काणदेशजम्॥

श्लोक 60

ततो न्यूनगुणं त्वन्यद्द्रव्यव्यञ्जनधूपनम्।
शताह्वाकुष्ठतगरसुरदारुहरेणवः॥

श्लोक 61

एलैलवालुसरलत्वग्व्याघ्रनखचोरकाः।
लघूष्णाः कटुकाः पाके कफवातनिबर्हणाः॥

श्लोक 62

सैर्यकस्तिक्तमधुरः स्निग्धोष्णः कफवातजित्।
बस्तिमूत्रविबन्धघ्नो वृष्यो गोक्षुरको हिमः॥

श्लोक 63

पाचनं कफपित्तघ्नं तिक्तं शीतं विषाद्वयम्।
कफघ्नं तिक्तकटुकं मुस्तं संग्राहि पाचनम्॥

श्लोक 64

तिक्तामृता त्रिदोषघ्नी ग्राहिण्युष्णा रसायनी।
दीपनी ज्वरतृड्दाहकामलावातरक्तनुत्॥

श्लोक 65

तिक्तशीतौ ज्वरहरौ लघू भूनिम्बपर्पटौ।
निम्बस्तिक्तो हिमः कुष्ठकृमिपित्तकफापहः॥

श्लोक 66

महानिम्बः परं ग्राही कषायो रूक्षशीतलः।
गुग्गुलुः पिच्छिलः स्पर्शे विशदोऽभ्यवहारतः॥

श्लोक 67

सस्वादु सकटुस्तिक्तः सकषायो रसायनम्।
व्रण्यः स्वर्यः कटुः पाके रुक्षः सूक्ष्मोऽग्निदीपनः॥

श्लोक 68

क्लेदमेदोनिलश्लेष्मगण्डमेहापचीक्रिमीन्।
पिटकाग्रन्थिशोफांश्च हन्त्युष्णः स्रंसनो लघुः॥

श्लोक 69

शङ्खपुष्पी सरा तिक्ता मेध्या कृमिविषापहा।
कटुतिक्तोष्णमगरु स्निग्धं वातकफापहम्॥

श्लोक 70

पित्तास्रविषतृड्दाहक्लमघ्नं गुरु रूक्षणम्।
सर्वं सतिक्तमधुरं चन्दनं शिशिरं परम्॥

श्लोक 71

लघु रक्तं तथोशीरं वालकं पाचनं च तत्।
ज्वरातिसारवमथुरक्तपित्तक्षतापहम्॥

श्लोक 72

मधुकं रक्तपित्तघ्नं व्रणशोधनरोपणम्।
गुरु स्वादु हिमं वृष्यं चक्षुष्यं स्वरवर्णकृत्॥

श्लोक 73

कटुतिक्ते निशे कुष्ठमेहपित्तकफापहे।
प्रलेपाज्जयतः कण्डूं शोफं दुष्टव्रणं विषम्॥

श्लोक 74

प्रपौण्डरीकं चक्षुष्यं शिशिरं व्रणरोपणम्।
कषायतिक्तमधुरं रक्तपित्तप्रसादनम्॥

श्लोक 75

बलात्रयं स्वादु वृष्यं स्निग्धं शीतं बलप्रदम्।
तत्र नागबला बल्या क्षतक्षीणहिता गुरुः॥

श्लोक 76

ताम्बुलं कटु सक्षारं रुच्यमुष्णं कफप्रणुत्।
भेदि सम्मोहकृत् पूगं कषायं स्वादु रोचनम्॥

श्लोक 77

जातिपत्री कटुफलं कङ्कोलकलवङ्गकम्।
लघु तृष्णापहं हृद्यं वक्त्रदौर्गन्ध्यनाशनम्॥

श्लोक 78

सस्वादुतिक्तस्तृष्णाघ्नः कर्पूरश्च्छेदनो हिमः।
लताकस्तूरिका तद्वन्मुखशोषहरा परम्॥

श्लोक 79

कषायमधुरं शीतं पद्मं पित्तकफास्रजित्।
तद्वत् बकुलपुन्नागकुमुदोत्पलपाटलम्॥

श्लोक 80

सचम्पकं ततो न्यूनं गुणैः कोरण्डकिंशुकम्।
मालतीमल्लिकापुष्पं तिक्तं जयति मारुतम्॥

श्लोक 81

विषपित्तकफान्नगं सिन्दुवारं च तद्गुणम्।
कफघ्नं कैतकं तिक्तं शैरीषं विषहारि च॥

श्लोक 82

वातलं पुष्पमागस्त्यं कषायं कफपित्तजित्।
चातुर्थिकज्वरहरं नावनेनोपयोजितम्॥

श्लोक 83

बन्धूकं श्लेष्मलं ग्राहि तद्वदेव च यूथिका।
कफघ्नमुष्णवीर्यं च कुङ्कुमं व्रणशोधनम्।
अवल्वेडकजं बीजं कटिवातकफप्रणुत्॥

श्लोक 84

आस्या वर्णश्लेष्ममेदःसौकुमार्यकृदन्यथा।
अतोऽध्वाग्निबलांयूषि कुर्याच्चङ्क्रमणं सुखम्॥

श्लोक 85

मारुतस्यानुलोम्यं च खुडस्तम्भश्रमापहम्।
अन्वर्थसंज्ञं पादत्रं बलदृक्शुक्रवर्द्धनम्॥

श्लोक 86

वर्ण्यं नेत्रहितं छत्रं वातवर्षातपापहम्।
प्रवातो रौक्ष्यवैवर्ण्यस्तम्भकृद्दाहतृड्भ्रमान्॥

श्लोक 87

श्रमाग्निमूर्च्छाश्च जयेदप्रवातस्त्वतोऽन्यथा।
प्राग्वायुरुष्णोऽभिष्यन्दी त्वग्दोषार्शोविषक्रिमीन्॥

श्लोक 88

सन्निपातज्वरं श्वासमामं वायुं च कोपयेत्।
पश्चिमः शिशिरो हन्ति मूर्च्छां दाहं तृषं विषम्॥

श्लोक 89

दक्षिणो मारुतः श्रेष्ठो नेत्र्योऽङ्गबलवर्द्धनः।
रक्तपित्तप्रशमनो न च वातप्रकोपनः॥

श्लोक 90

उत्तरो मारुतः स्निग्धो मृदुर्मधुर एव च।
कषायानुरसः शीतो दोषाणामप्रकोपनः॥

श्लोक 91

आतपो भ्रमतृट्स्वेददाहमूर्च्छाविवर्णताः।
कुर्यात् पित्तास्रवह्नींश्च छाया चैतानपोहति।
तमः कषायकटुकं ज्योत्स्ना मधुरशीतला॥

श्लोक 92

भवति चात्र।
रसादिभेदैरिति भेषजाना दिङ्मात्रमुक्तं न यतोऽस्ति किञ्चित्।
अनौषधं द्रव्यमिहावबोधो रूपस्य तेषां वनगोचरेभ्यः॥
इति द्वादशोऽध्यायः।