श्लोक 1
मेहिनो बलिनः कुर्याद् आदौ वमन-रेचने ।
स्निग्धस्य सर्षपारिष्ट-निकुम्भाक्ष-करञ्ज-जैः ॥ १ ॥
श्लोक 2
तैलस् त्रिकण्टकाद्येन यथा-स्वं साधितेन वा ।
स्नेहेन मुस्त-देवाह्व-नागर-प्रतिवाप-वत् ॥ २ ॥
श्लोक 3
सुरसादि-कषायेण दद्याद् आस्थापनं ततः ।
न्यग्रोधादेस् तु पित्तार्तं रसैः शुद्धं च तर्पयेत् ॥ ३ ॥
श्लोक 4
न्यग्रोधादेस् तु पित्तार्ते मूत्र-ग्रह-रुजा-गुल्म-क्षयाद्यास् त्व् अपतर्पणात् ।
ततो ऽनुबन्ध-रक्षार्थं शमनानि प्रयोजयेत् ॥ ४ ॥
श्लोक 5
अ-संशोध्यस्य तान्य् एव सर्व-मेहेषु पाययेत् ।
धात्री-रस-प्लुतां प्राह्णे हरिद्रां माक्षिकान्विताम् ॥ ५ ॥
श्लोक 6
दार्वी-सुराह्व-त्रि-फला-मुस्ता वा क्वथिता जले ।
चित्रक-त्रि-फला-दार्वी-कलिङ्गान् वा स-माक्षिकान् ॥ ६ ॥
श्लोक 7
मधु-युक्तं गुडूच्या वा रसम् आमलकस्य वा ॥ ७अब् ॥
लोध्राभया-तोयद-कट्फलानां पाठा-विडङ्गार्जुन-धन्वनानाम् ॥ ७च्द् ॥
गायत्रि-दार्वी-कृमिहृद्-धवानां कफे त्रयः क्षौद्र-युताः कषायाः ॥ ७एf ॥
श्लोक 8
उशीर-लोध्रार्जुन-चन्दनानां पटोल-निम्बामलकामृतानाम् ।
लोध्राम्बु-कालीयक-धातकीनां पित्ते त्रयः क्षौद्र-युताः कषायाः ॥ ८ ॥
श्लोक 9
यथा-स्वम् एभिः पानान्नं यव-गोधूम-भावनाः ॥ ९अब् ॥
श्लोक 10
यव-गोधूम-भावनाम् यव-गोधूम-भावनम् वातोल्बणेषु स्नेहांश् च प्रमेहेषु प्रकल्पयेत् ।
अपूप-सक्तु-वाट्यादिर् यवानां विकृतिर् हिता ॥ १० ॥
श्लोक 11
गजाश्व-गुद-मुक्तानाम् अथ-वा वेणु-जन्मनाम् ।
तृण-धान्यानि मुद्गाद्याः शालिर् जीर्णः स-षष्टिकः ॥ ११ ॥
श्लोक 12
श्री-कुक्कुटो ऽम्लः खलकस् तिल-सर्षप-किट्ट-जः ।
कपित्थं तिन्दुकं जम्बूस् तत्-कृता राग-षाडवाः ॥ १२ ॥
श्लोक 13
तिक्तं शाकं मधु श्रेष्ठा भक्ष्याः शुष्काः स-सक्तवः ।
धन्व-मांसानि शूल्यानि परिशुष्काण्य् अयस्-कृतिः ॥ १३ ॥
श्लोक 14
मध्व्-अरिष्टासवा जीर्णाः सीधुः पक्व-रसोद्भवः ।
तथासनादि-साराम्बु दर्भाम्भो माक्षिकोदकम् ॥ १४ ॥
श्लोक 15
वासितेषु वरा-क्वाथे शर्वरीं शोषितेष्व् अहः ।
यवेषु सु-कृतान् सक्तून् स-क्षौद्रान् सीधुना पिबेत् ॥ १५ ॥
श्लोक 16
शाल-सप्ताह्व-कम्पिल्ल-वृक्षकाक्ष-कपित्थ-जम् ।
रोहीतकं च कुसुमं मधुनाद्यात् सु-चूर्णितम् ॥ १६ ॥
श्लोक 17
कफ-पित्त-प्रमेहेषु पिबेद् धात्री-रसेन वा ।
त्रिकण्टक-निशा-लोध्र-सोमवल्क-वचार्जुनैः ॥ १७ ॥
श्लोक 18
पद्मकाश्मन्तकारिष्ट-चन्दनागुरु-दीप्यकैः ।
पटोल-मुस्त-मञ्जिष्ठा-माद्री-भल्लातकैः पचेत् ॥ १८ ॥
श्लोक 19
तैलं वात-कफे पित्ते घृतं मिश्रेषु मिश्रकम् ।
दश-मूल-शठी-दन्ती-सुराह्वं द्वि-पुनर्नवम् ॥ १९ ॥
श्लोक 20
मूलं स्नुग्-अर्कयोः पथ्यां भूकदम्बम् अरुष्करम् ।
करञ्जौ वरुणान् मूलं पिप्पल्याः पौष्करं च यत् ॥ २० ॥
श्लोक 21
करञ्ज-वरुणान् मूलं पृथग् दश-पलं प्रस्थान् यव-कोल-कुलत्थतः ।
त्रींश् चाष्ट-गुणिते तोये विपचेत् पाद-वर्तिना ॥ २१ ॥
श्लोक 22
तेन द्वि-पिप्पली-चव्य-वचा-निचुल-रोहिषैः ।
त्रिवृद्-विडङ्ग-कम्पिल्ल-भार्गी-विश्वैश् च साधयेत् ॥ २२ ॥
श्लोक 23
भार्गी-बिल्वैश् च साधयेत् प्रस्थं घृताज् जयेत् सर्वांस् तन् मेहान् पिटिका विषम् ।
पाण्डु-विद्रधि-गुल्मार्शः-शोष-शोफ-गरोदरम् ॥ २३ ॥
श्लोक 24
श्वासं कासं वमिं वृद्धिं प्लीहानं वात-शोणितम् ।
कुष्ठोन्मादाव् अपस्मारं धान्वन्तरम् इदं घृतम् ॥ २४ ॥
श्लोक 25
लोध्र-मूर्वा-शठी-वेल्ल-भार्गी-नत-नख-प्लवान् ।
कलिङ्ग-कुष्ठ-क्रमुक-प्रियङ्ग्व्-अतिविषाग्निकान् ॥ २५ ॥
श्लोक 26
द्वे विशाले चतुर्-जातं भूनिम्बं कटु-रोहिणीम् ।
यवानीं पौष्करं पाठां ग्रन्थिं चव्यं फल-त्रयम् ॥ २६ ॥
श्लोक 27
कर्षांशम् अम्बु-कलशे पाद-शेषे स्रुते हिमे ।
द्वौ प्रस्थौ माक्षिकात् क्षिप्त्वा रक्षेत् पक्षम् उपेक्षया ॥ २७ ॥
श्लोक 28
लोध्रासवो ऽयं मेहार्शः-श्वित्र-कुष्ठा-रुचि-कृमीन् ।
पाण्डु-त्वं ग्रहणी-दोषं स्थूल-तां च नियच्छति ॥ २८ ॥
श्लोक 29
साधयेद् असनादीनां पलानां विंशतिं पृथक् ।
द्वि-वहे ऽपां क्षिपेत् तत्र पाद-स्थे द्वे शते गुडात् ॥ २९ ॥
श्लोक 30
क्षौद्राढकार्धं पलिकं वत्सकादिं च कल्कितम् ।
तत् क्षौद्र-पिप्पली-चूर्ण-प्रदिग्धे घृत-भाजने ॥ ३० ॥
श्लोक 31
वत्सकादि च कल्कितम् स्थितं दृढे जतु-सृते यव-राशौ निधापयेत् ।
खदिराङ्गार-तप्तानि बहु-शो ऽत्र निमज्जयेत् ॥ ३१ ॥
श्लोक 32
तनूनि तीक्ष्ण-लोहस्य पत्त्राण्य् आ-लोह-संक्षयात् ।
अयस्-कृतिः स्थिता पीता पूर्वस्माद् अधिका गुणैः ॥ ३२ ॥
श्लोक 33
रूक्षम् उद्वर्तनं गाढं व्यायामो निशि जागरः ।
यच् चान्यच् छ्लेष्म-मेदो-घ्नं बहिर् अन्तश् च तद् धितम् ॥ ३३ ॥
श्लोक 34
सु-भावितां सार-जलैस् तुलां पीत्वा शिलोद्भवात् ।
साराम्बुनैव भुञ्जानः शालीञ् जाङ्गल-जै रसैः ॥ ३४ ॥
श्लोक 35
शालिं जाङ्गल-जै रसैः सर्वान् अभिभवेन् मेहान् सु-बहूपद्रवान् अपि ।
गण्ड-मालार्बुद-ग्रन्थि-स्थौल्य-कुष्ठ-भगन्दरान् ॥ ३५ ॥
श्लोक 36
कृमि-श्लीपद-शोफांश् च परं चैतद् रसायनम् ।
अ-धनश् छत्त्र-पाद-त्र-रहितो मुनि-वर्तनः ॥ ३६ ॥
श्लोक
चन्दनम् उत्पलं द्राक्षा उशीरं च पुनर्नवा ।
यष्टीमधुक-श्रीखण्डं त्रि-फलोत्पल-शारिवा ॥ ३६.१+१ ॥
श्लोक
शमी वंश-फलं लोध्रं त्रि-जातं नागकेसरम् ।
पद्मकं च कणा-चूर्णं तत्-तुल्या शर्करा शुभा ॥ ३६.१+२ ॥
श्लोक
एतच् चूर्णं पिबेत् प्रातस् तण्डुलोदक-वारिणा ।
प्रमेहे रक्त-पित्ते च कृच्छ्र-दोषे च दारुणे ॥ ३६.१+३ ॥
श्लोक 37
योजनानां शतं यायात् खनेद् वा सलिलाशयान् ।
गो-शकृन्-मूत्र-वृत्तिर् वा गोभिर् एव सह भ्रमेत् ॥ ३७ ॥
श्लोक 38
बृंहयेद् औषधाहारैर् अ-मेदो-मूत्रलैः कृशम् ।
शराविकाद्याः पिटिकाः शोफ-वत् समुपाचरेत् ॥ ३८ ॥
श्लोक 39
अ-पक्वा व्रण-वत् पक्वास् तासां प्राग्-रूपम् एव च ।
क्षीरि-वृक्षाम्बु पानाय बस्त-मूत्रं च शस्यते ॥ ३९ ॥
श्लोक 40
तीक्ष्णं च शोधनं प्रायो दुर्-विरेच्या हि मेहिनः ।
तैलम् एलादिना कुर्याद् गणेन व्रण-रोपणम् ॥ ४० ॥
श्लोक 41
उद्वर्तने कषायं तु वर्गेणारग्वधादिना ।
परिषेको ऽसनाद्येन पानान्ने वत्सकादिना ॥ ४१ ॥
श्लोक 42
परिषेके ऽसनाद्येन पाठा-चित्रक-शार्ङ्गष्टा-शारिवा-कण्टकारिकाः ।
सप्ताह्वं कौटजं मूलं सोमवल्कं नृपद्रुमम् ॥ ४२ ॥
श्लोक 43
संचूर्ण्य मधुना लिह्यात् तद्-वच् चूर्णं नवायसम् ।
मधु-मेहि-त्वम् आपन्नो भिषग्भिः परिवर्जितः ॥ ४३ ॥
श्लोक
शिला-जतु-तुलाम् अद्यात् प्रमेहार्तः पुनर्-नवः ॥ ४३ऊअब् ॥