अष्टाङ्गसंग्रहः उत्तरस्थानम् 11

श्लोक 1

अथातो वर्त्मरोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

सर्वरोगनिदानोक्तैरहितैः कुपिता मलाः।
अचक्षुष्यैर्विशेषेण प्रायः पित्तानुसारिणः॥

श्लोक 3

सिराभिरूर्ध्वं प्रसृता नेत्रावयवमाश्रिताः।
वर्त्मसन्धिं सितं कृष्णं दृष्टिं वा सर्वमक्षि वा॥

श्लोक 4

रोगान् कुर्युः चलस्तत्र प्राप्य वर्त्माश्रयाः सिराः।
सुप्तोत्थितस्य कुरुते वर्त्मस्तम्भं सवेदनम्॥

श्लोक 5

पांसुपूर्णाभनेत्रत्वं कृच्छ्रोन्मीलनमश्रु च।
विमर्दनात् स्याच्च शमः कृच्छ्रोन्मीलं वदन्ति तमू॥

श्लोक 6

चालयन्वर्त्मनी वायुर्निमेषोन्मेषणं मुहुः।
करोत्यरुङ्निमेषोऽसौ वर्त्म यत्तु निमील्यते॥

श्लोक 7

विमुक्तसन्धि निश्चेष्टं हीनं वातहतं हि तत्॥

श्लोक 8

कृष्णाः पित्तेन बह्व्योन्तर्वर्त्म कुम्भीकबीजवत्।
आध्मायन्ते पुनर्भिन्नाः पिटकाः कुम्भिसंज्ञिकाः॥

श्लोक 9

सदाहक्लेदनिस्तोदं रक्ताभं स्पर्शनाक्षमम्।
पित्तेन जायते वर्त्म पित्तोत्क्लिष्टमुशन्ति तत्॥

श्लोक 10

करोति कण्डूं दाहं च पित्तं पक्ष्मान्तमाश्रितम्।
पक्ष्मणां शतनं चानु पक्ष्मशातं वदन्ति तम्॥

श्लोक 11

पोथक्यः पिटकाः श्वेताः सर्षपाभा घनाः क्कफात्।
शोफोपदेहरुक्कण्डूपिच्छिलास्रसमन्विताः॥

श्लोक 12

कफोत्क्लिष्टं भवेद्वर्त्म स्तम्भक्लेदोपदेहवत्॥

श्लोक 13

ग्रन्थिः पाण्डुररुक्पाकः कण्डूमान्कठिनःकफात्।
कोलमात्रः स लगणः किञ्चिदल्पस्ततोऽथवा॥

श्लोक 14

रक्ता रक्तेन पिटका तत्तुल्यपिटकाचिता।

श्लोक 15

उत्सङ्गाख्या तथोत्क्लिष्टं राजिमत् स्पर्शनाक्षमम्॥

श्लोक 16

अर्शोऽधिमांसं वर्त्मान्तः स्तब्धं स्निग्धं सदाहरुक्।
रक्तं रक्तेन तत्स्रावि च्छिन्नं च्छिन्नं च वर्धते॥

श्लोक 17

अर्शोऽधिमांसं वर्त्मान्तः स्तब्धं स्निग्धं सदाहरुक्।
रक्तं रक्तेन तत्स्रावि च्छिन्नं च्छिन्नं च वर्धते॥

श्लोक 18

दोषैर्वर्त्म बहिः शूनं यदन्तः सूक्ष्मखाचितम्।
सस्रावमन्तरुदकं बिसाभं बिसवर्त्म तत्॥

श्लोक 19

यद्वर्त्मोत्क्लिष्टमुत्क्लिष्टमकस्मान्म्लानतामियात्।
रक्तदोषत्रयोत्क्लेशात् भवत्युत्क्लिष्टवर्त्म तत्॥

श्लोक 20

श्याववर्त्म मलैः सास्रैः श्यावं रुक्क्लेदशोफवत्॥

श्लोक 21

श्लिष्टाख्यं वर्त्मनी श्लिष्टे कण्डूश्वयथुरागिणी॥

श्लोक 22

वर्त्मान्तः पिटका रूक्षाः कर्कशाः सिकतोपमाः॥

श्लोक 23

सिकतावर्त्मकृष्णं तु कर्दमं कर्दमोपमम्॥

श्लोक 24

बहलं बहलैर्मांसैः सवर्णैश्चीयते समैः॥

श्लोक 25

कुकूणकः शिशोरेव दन्तोत्पत्तिनिमित्तजः।
स्यात्तेन शिशुरुच्छूनताम्राक्षो वीक्षणाक्षमः।
सवर्त्मशूलपैच्छिल्यकर्णनासाक्षिमर्दनः॥

श्लोक 26

पक्ष्मोपरोधे सङ्कोचो वर्त्मनोर्जायते ततः।
खरतान्तर्मुखत्वं च रोम्णामन्यानि वा पुनः॥

श्लोक 27

कण्टकैरिव तीक्ष्णाग्रैर्घृष्टं तैरक्षि शूयते।
ऊष्यते चानिलादिद्विडल्पाहं शान्तिरुद्धृतैः॥

श्लोक 28

कनीनके बहिर्वर्त्म कठिनो ग्रन्थिरुन्नतः।
ताम्रः पक्वोस्रपूयस्रुदलज्याध्मायते मुहुः॥

श्लोक 29

वर्त्मान्तर्मांसपिण्डाभः श्वयथुर्ग्रथितोऽरुजः।
सास्रैः स्यादर्बुदो दोषैर्विषमो बाह्यतश्चलः॥

श्लोक 30

चतुर्विंशतिरित्येते व्याधयो वर्त्मसंश्रयाः॥

श्लोक 31

आद्योऽत्रभेषजैः साध्यो द्वौ ततोर्शश्च वर्जयेत्।
पक्ष्मोपरोधो याप्यः स्याच्छेषाञ्छस्त्रौषधैर्जयेत्॥

श्लोक 32

कुट्टयेत् पक्ष्माशतनं छिन्द्यात्तेष्वपि चार्बुदम्।
भिन्द्याल्लगणकुम्भीकाबिसोत्सङ्गाञ्जनालजीः॥

श्लोक 33

पोथकीश्यावसिकताश्लिष्टोत्क्लिष्टचतुष्टयम्।
सकर्दमं सबहलं विलिखेत् सुकुकूणकम्॥
॥इति एकादशोऽध्यायः॥