श्लोक 1
अथातोऽतीसारचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
प्रायेणातिसारो ह्यग्निमुपहत्य प्रागामाधिष्ठानो भवति।
तस्मादनिलजमप्यामपाचनार्थमादौ लङ्घनेनोपक्रमेत।
तत्र शूलानाहप्रसेकार्तं लवणाम्बुनोष्णेन वामयेत्।
न तु सामे पूर्वं सङ्ग्राहि प्रयुञ्जीत विबद्धे वा मले।
स्तिमिताध्मातगुरुसरुजकोष्ठः प्राणदामुष्णाम्बुनोपयुञ्जीत।
सव्योष्णां वा धान्याम्लक्वथितां वा।
अन्यद्वा स्रंसनदीपनमौषधम्॥
श्लोक 3
अपिच विशुद्धस्रोतसो ह्यस्य दोषशेषे प्रवाहिते।
सुखं सङ्ग्रहणं कर्तुं पाचनैः स्तम्भ्नेन वा॥
श्लोक 4
मध्यदोषस्तु विशोषयन् मागधीनागरवचाभूतीकधनिकाहरीतकीनां क्वाथं पिबेत्।
जलजलदबिल्वपेशिकाशुण्ठीधान्यकानां वा।
उभयमपि चैतत् प्रमथ्याख्यम्।
वचादिवर्गं क्वथितं चूर्णितं वा।
तद्वद्वचाभयाविडङ्गपाठाशुण्ठीबिडलवणानि वा।
मुस्तपिप्पलीन्द्रयवपाठातेजोवतीर्वा।
विडङ्गाभयाकणलवणपञ्चकानि वा।
पिप्पलीन्द्रयवपाठाशुण्ठीर्वा।
सरक्ते तु प्रवृत्त आमे गजपिप्पलीं मधुशर्करामधुराम्॥
श्लोक 5
अल्पदोषं पुनरुपवासयेत्।
पानं त्वतिसारिणोम्बु वचातिविषाभ्यां क्वथितम्।
शुण्ठ्यतिविषाभ्यां मुस्तपर्पटकाभ्यां नागरधान्यकाभ्यां वा।
क्षुद्वतस्तु लघुपञ्चमूलपञ्चकोलहस्तिपिप्पलीबलाबिल्वपाठाहिङ्गुधान्यकजीरकशठीगन्धपलाशहपुषायवानीतिन्तिणीकदाडिमबिडसैन्धवैरन्नपानं यवाग्वादि कल्पयेत्॥
श्लोक 6
बिल्वशलाटुहरीतकीपिप्पलीमूलैर्मूढवातस्य।
अंशुमतीद्वयबलाबिल्वशलाटुभिः पित्तोल्बणस्य।
पिबेच्च तृषितः पटपूतं तक्रम्।
मधुसुराधान्याम्लयवागूमण्डान्यतमं वा।
एष क्रमोऽनिलकफघ्नो दीपनपाचनो रोचनः सङ्ग्राही बल्यश्च॥
श्लोक 7
पक्वदोषोऽपि तु योऽतिसार्यते बहुशोऽनिलेन विबद्धं सपिच्छं सफेनं सशूलपरिकर्तिकं सरोमहर्षं निष्पुरीषं च तां प्रवाहिकां बिम्बिसीमिति चाचक्षते।
तत्रोदावर्तोपदिष्टांस्तेनैव विधिना संस्कृतांश्छागपिशितरसान् दद्यात्॥
श्लोक 8
यूषांश्च वर्चःक्षये तृष्यतो यवमुद्गमाषतिलकृतान्।
समेन वा तिलबालबिल्वयोः कल्केन दधिसरस्नेहयुक्तं खलकम्।
चित्रकशृङ्गवेरपूतीकरञ्जबिल्वाजमोदैर्वा तक्रदाडिमतैलाढ्यं सैन्धवोपेतमजिताख्यम्।
शठीतिन्तिणीकबिडदाडिमक्षारपञ्चकोलमरिचत्रिफलाधातकीधनिकापाठाजमोदाजाजीजीरककपित्थजम्ब्वाम्रास्थिभिर्वा तुल्यभागैः षड्गुणबिल्वमध्यैर्गुडमुद्गरसस्नेहदधिसिद्धोऽपराजिताख्यः खलको दीपनः पाचनो रुच्यो ग्राही बिम्बिसिनाशनः॥
श्लोक 9
दधिसरं वा सगुडदाडिमं यमकभृष्टम्।
यमकभृष्टान् वा सशुण्ठीचूर्णान् सक्तून्।
माषान् वा सुसिद्धान् घृतमण्डोपसेच्नान् मरिचोपदंशान्।
छागमेषयोर्वान्तराधिरसं दाडिमाम्लं धान्यनागरोपेतं स्नेहविपक्वं व्यञ्जनं पानं च।
तद्वत् सुरां यमकस्निग्धां पिबेद्वा।
शुण्ठीबदरचूर्णं दधिघृततैलक्षौद्रफाणितोपेतम्॥
श्लोक 10
हिङ्गुदाडिममहौषधोपकुल्याचूर्णं वा घृतक्षीरोष्णाम्बुमद्यान्यतमेन।
लिह्याद्वा लोध्रबिल्वशलाटुगुडांस्त्रिकटुकोत्कटांस्तैलेन।
अश्वत्थवातपोतक्वाथसिद्धं वा शाल्योदनं घृततैलक्षौद्रयुक्तं दध्ना खजाहतदधिसरानुपानमश्नीयात्॥
श्लोक 11
अपि च दीपनं रोचनं रुच्यं दधि वातहरं परम्।
बद्धविड्वा हरत्यस्मात् चिरोत्थामपि बिम्बिसीम्॥
श्लोक 12
तृष्णोल्बणस्तु सरक्तपिच्छोपवेशी पानान्नविरतो धारोष्णं क्षीरमाकाङ्क्षं पिबेत्।
शृतं वा गन्धर्वहस्तमूलेनाथवा बिल्वशलाटुभिः।
तदेव वाल्पतृष्णः सगुडतैलम्।
शृतेन वा पयसा मरिचकल्कं द्विगुणतिलकल्कयुक्तम्।
क्षीरेणैव वा पिप्पलीम्।
व्योषसिद्धेन वा पयसान्नानि भुञ्जीत॥
श्लोक 13
शूलाधिक्ये तु दशमूलक्वथितेन पयसा सक्षौद्रेणास्थापनं दद्यात्।
अथवा पिच्छाबस्तिमनुवासनं च वातघ्नं वा पित्तघ्नं वा॥
श्लोक 14
गुदभ्रंशे शूले चाम्लबदरचाङ्गेरीरसदधिक्षारनागरकल्केन शृतमम्लं सर्पिर्निराममातुरं पाययेत्।
मरिचपञ्चकोलाजाजीधनिकाबिडदाडिमगर्भं वा पूर्ववदम्लम्।
अनुवासयेद्वा दशमूलसिद्धेन स्नेहेन।
पिप्पल्यादिना वा॥
श्लोक 15
गुदं चाभ्यङ्गपूर्वं स्वेदेन मृदुभूतं प्रवेशयेत्।
सच्छिद्रेण चास्य चर्मणा गोष्फणाबन्धं कुर्यात्।
मूषकमनान्त्रं कृत्वा महापञ्चमूलकषायं च क्षीरे विपचेत्।
तेन पयसा वातहरकल्कप्रतीवापं तैलं पाचयेत् तदभ्यञ्जनेन पानेन च सुकृच्छ्रमपि गुदभ्रंशं साधयति॥
श्लोक 16
पित्तातिसारमपि साममादौ तीक्ष्णवर्ज्यैरौषधैर्वातातिसारवत् पाचयेत्।
तृष्णायां ससारिवाभूनिम्बं ज्वरविहितमम्भः षडङ्गमवचारयेत्।
उपोषितस्य चान्नकालेऽभीरुदृस्वपञ्चमूलबलाद्वयशूर्पर्ण्यादिमृदुमधुरतिक्तदीपनद्रव्यनिर्यूहयुज्क्तान् कालविन्मण्डपेयासक्तुयूषरसादीनीषदम्लाननम्लान् वा कवोष्णान् सुशीतान् वा सक्षौद्रान्॥
श्लोक 17
अनुबन्धे तु मूर्वातिविषेन्द्रयवहरिद्रारसाञ्जनानि क्वथितानि पिबेत्।
केवलं वा वृक्षकबीजम्।
पाठागुडूचीकटुकाकिराततिक्तानि वा।
हरिद्रादिगणं वा।
वत्सकबीजातिविषाबिल्वाम्बुमुस्तानि वा।
तण्डुलोदकेन वातिविषावृक्षकत्वक्फलानि सक्षौद्राणि।
चन्दनोशीरशुण्ठीलोध्रनीलोत्पलानि वा।
नागरोत्पलधातकीपुष्पदाडिमत्वचो वा।
कमलोत्पललोध्रमोचरससमङ्गातिलान् वा।
मधुकशृङ्गवेरदीर्घवृन्तत्वचो वा।
मधुयुक्तानि शर्करापद्मकेसरमुस्तापयस्याचन्दनानि वा।
शाल्मलीवृन्तकृतं वा शीतकषायं मधुमधुकोपेतम्॥
श्लोक 18
मधुकप्रियङ्गुकट्वङ्गत्वग्दाडिमाङ्कुरकल्केन वा दधियुतां यवागूं खलकं वा।
बिल्वकपित्थजम्ब्बाम्रास्थिभिर्वा।
मधुयुक्तान् वा लोध्राम्बष्ठाप्रियङ्ग्वादिगणान् क्वाथादिषु पृथक् कल्पितान्।
श्यामादिमहाकषायं वा॥
श्लोक 19
शूलार्तस्तु रूक्षकोष्ठो घृतं सक्षारं पिबेत्।
क्षीरं वा बृहतीबलांशुमतीकच्छुरामूलसिद्धं मधुककट्वङ्गाजमोदशर्करावचूर्णितं सतैलक्षौद्रम्।
क्षीरमेव वा धारोष्णम्॥
श्लोक 20
बलवान् विबद्धमलो विरेकार्थं त्रिफलाचूर्णयुक्तं वा पलाशफलक्वाथसिद्धं वा पयः पीत्वा पय एव कवोष्णमनुपिबेत्।
एवमेव च त्रायमाणया शृतम्।
ततो निस्सृते शकृति पुराणेऽतिसारः शान्तिमेति॥
श्लोक 21
स्रुतदोषस्य च संसर्जनकाले शूलं चेदनुवर्तेत ततो बिल्वमधुकशताह्वाद्वयगर्भं सक्षीरं तैलचतुर्गुणं सर्पिर्विपाच्यानुवासनं दद्यात्।
ततः सम्यक्कृतायामपि संसर्ग्यामतीसारानुबन्धे पिच्छाबस्तयो योज्याः।
शाल्मलीवृन्तान्यार्द्रदर्भैर्वेष्टयित्वा कृष्णमृदावलिप्य गोमयाग्निना स्वेदयेत्।
शुष्कायां मृदि स्विन्नानि ज्ञात्वा वृन्तान्युलूखले समापेथ्य तेषां मुष्टिसम्मितं पिण्डं क्षीरप्रस्थे विमर्दयेत्।
ततस्तेन पयसा पूतेन सघृततैलेन मधुमधुककल्कयुक्तेनास्थापयेत्।
प्रत्यागते च स्नातः पयसा कच्छुराशृतेन जाङ्गलरसैर्वाश्नीयात्।
एष पिच्छाबस्तिः पित्तरक्तातिसारग्रहणीगुल्मशोषज्वरान् विरेचनास्थापनातियोगं च शमयति॥
श्लोक 22
चिरोत्थितं त्वतीसारमवेदनं पक्वमप्यशाम्यन्तं पुटपाकैरुपाचरेत्।
अरलुकत्वक्कल्कं काश्मर्यपत्रप्रच्छन्नं पुटपाकविधिना पाचयेत् तद्रसं सुशीतं मधुयुतं पिबेत्।
वटादित्वक्प्ररोहकल्कमप्येवं कल्पयेत्।
अथवा तित्तिरिमपनीतान्त्रपिच्छं न्यग्रोधादेर्वल्कलस्य प्ररोहाणां वा कल्केन पूरयित्वा पूर्ववत् पुटपाकं कुर्यात्।
ततः तस्माद्रसमादाय सिताक्षौद्रयुक्तं पाययेत् अनेन सर्वे जाङ्गलसत्वा व्याख्याताः॥
श्लोक 23
यस्तु पित्तातिसारी पित्तलान्यासेवेत तस्य पित्तमतिवृद्धं रक्तातिसारं तृड्दाहमोहज्वरशूलपायुपाकांश्च करोति।
तत्र क्षीरमाजं न्यग्रोधादिप्रसवशृतं सितामधुयुक्तमाहारे गुदप्रक्षालने च विदध्यात्।
तद्विधं वा सर्पिः सपयस्कं पिबेत्।
क्षीरोत्थं वा सर्पिः क्षीरानुपानं कपिञ्जलरसाशी क्षीराशी वा लिह्यात्॥
श्लोक 24
सल्लकीप्रियङ्गुतिनिशशाल्मलीप्लक्षत्वक्संसृष्टं सिद्धं वा सक्षौद्रं क्षीरं पिबेत्।
यष्टीलोध्रसारिवाभिर्वा शृतं समधुसितम्।
तद्वत् कृष्णतिलसमङ्गोत्पलयष्टीमधुभिः।
शशकपिञ्जलपारावततण्डुलीयकमुद्गकाश्मर्यबीजादिरसांश्च सेवेत।
घृतभृष्टं वा रक्तमाजं मार्गं वा।
पूर्वोक्तान् वा पुटपाकान् मधुककृष्णमृत्तिकाशङ्खकल्कं वा सरुधिरं पिबेत् तण्डुलोदकेन।
तेन वा समाक्षिकं फलिनीकल्कम्।
अथवा ससिताक्षौद्रं चन्दनम्॥
श्लोक 25
एते हि प्रयोगाः तृष्णादिप्रशमना रक्तातियोगघ्नाश्च।
वातोत्तरस्तु शतावरीघृतं लिह्यात्।
सशर्करं वा नवनीतम्।
पिच्छिलस्वरससाधितं वा सर्पिः।
लाक्षापिप्पलीशृङ्गवेरकटुकेन्द्रयवदार्वीत्वग्भिर्घृतं सिद्धं पेयामण्डेन पीतमतीसारं त्रिदोषमपि वारयति॥
श्लोक 26
यदा पुनर्वायुना विट् बद्धं सशोणितमल्पाल्पं सफेनं कृच्छ्रादुपवेश्यते तदा पूर्वोक्तं पिच्छाबस्तिं दद्यात्।
मधुरौषधसिद्धेन च सर्पिषानुवासयेत्।
प्रायेण हि दुर्बलगुदा गुदाश्रयामयिनो भवन्ति।
विशेषतश्चिरकालातीसारिणः।
अतिसारातिप्रवृत्तौ स्वस्थानबलवृद्धो वायुः पित्तमनुबलमवाप्य दुर्जयतरो भवति तस्मात्तेषामभीक्ष्णमनुवासनं प्रयुञ्जीत।
गुददाहे पुनः पटोलमधुकमधूकक्षीरिवृक्षादिकषायेण सघृतशर्कराक्षौद्रेण क्षीरेण वा गुदं तदासन्नांश्च प्रदेशान् सिञ्चेत्।
शतधौतादिभिर्घृतैश्च पिचूनभ्यङ्गांश्च दद्यात्।
पटोलादीनामेव च कल्केन सघृतेन प्रदिह्यात्।
तच्चूर्णौर्धातकीलोध्रमाषचूर्णेन च पायुद्वारमवचूर्णयेत्।
एवमेव च शूले वातहरतैलप्रदेहैरुपाचरेत्।
यः पुनरेवमपि पित्तलान्यासेवेत स शीघ्रं गुदवलीषु पक्वासु व्यापद्यते॥
श्लोक 27
श्लेष्मातीसारं तु प्रागेव नितरामामपाचनार्थं लङ्घनेन साधयेत्।
अनुबन्धे च पिबेत् कषायं मुस्ताभयाशुण्ठीबिल्वशलाटूनाम्।
वचाविडङ्गभूतीकधनिकादेवदारूणां वा।
पाठातिविषाकुष्ठचव्यकटुरोहिणीनां वा चित्रकपिप्पलीद्वयपिप्पलीमूलानां वा।
सुखाम्बुना वा हिङ्ग्वाद्यमलसकोक्तम्।
पथ्यासैन्धवशुण्ठीचूर्णं व।
लिह्याद्वा त्रिकटुचूर्णं क्षौद्रशर्करोपेतम्।
कपित्थं क्षौद्रेण वा।
कट्फलं वा पिप्पलीर्वा।
पूर्ववच्च सर्वं वातपित्तामरक्तसंसर्गमपेक्ष्य यथायथमुपकल्पयेत्।
सशूलप्रवाहिकस्य च निरामस्य वातेऽधिके वचाबिल्वपिप्पलीकुष्ठशताह्वाकल्कयुक्तं सलवणं पिच्छाबस्तिमनुवासनं च कोष्णेन बिल्वतैलेन बहुशोवचादिगर्भेण वा तैलेनेति।
भवति चात्र॥
श्लोक 28
स्वस्थाने मारुतोऽवश्यं वर्धते कफसङ्क्षयात्।
स वृद्धः सहसा हन्यात्तस्मात्तं त्वरया जयेत्॥
श्लोक 29
भीशोकाभ्यामपि मरुच्छीघ्रं कुप्यत्यतस्तयोः।
कार्या क्रिया वातहरा हर्षणाश्वासनानि च॥
श्लोक 30
यस्योच्चाराद्विना मूत्रं पवनो वा प्रवर्तते।
दीप्ताग्नेर्लघुकोष्ठस्य शान्तस्तस्योदरामयः॥
श्लोक 31
आमस्य पाको मलसङ्ग्रहोऽनु न सङ्ग्रहे रुग्गुदनाभिजन्मा।
विलङ्घनैर्ग्राहिभिरीरणघ्नैः क्रमेण तैस्तैर्विधिभिर्विधेयः॥
श्लोक 32
न रिक्तकोष्ठस्य पुरीषबन्धो न रूक्षकुक्षेः सुहितस्य चाति।
पित्तास्रतोऽन्यत्र न चातिशीतैरत्युष्णतीक्ष्णैर्न कदाचिदेव॥
श्लोक 33
खलरसदाधिका यमकदाडिमसारकृता।
दधि सगुडं पयोऽसिततिलाश्च सुजर्जरिताः।
सलवणमारुतघ्नगणसाधिततैलमलं।
घृतमपि वा प्रवाहणकृतां विजयेत रुजाम्॥
॥इति एकादशोऽध्यायः॥