अष्टाङ्गहृदयम्/उत्तरस्थानम् Adhyaay 11

श्लोक 1

उपनाहं भिषक् स्विन्नं भिन्नं व्रीहि-मुखेन च ।
लेखयेन् मण्डलाग्रेण ततश् च प्रतिसारयेत् ॥ १ ॥

श्लोक 2

भिन्नं व्रीहि-मुखेन तु पिप्पली-क्षौद्र-सिन्धूत्थैर् बध्नीयात् पूर्व-वत् ततः ।
पटोल-पत्त्रामलक-क्वाथेनाश्च्योतयेच् च तम् ॥ २ ॥

श्लोक 3

पर्वणी बडिशेनात्ता बाह्य-संधि-त्रि-भागतः ।
वृद्धि-पत्त्रेण वर्ध्यार्धे स्याद् अश्रु-गतिर् अन्य-था ॥ ३ ॥

श्लोक 4

पर्वणी बडिशेनान्तर्-बाह्य-संधि-त्रि-भागतः स्याद् अस्र-गतिर् अन्य-था स्याद् अस्र-स्रुतिर् अन्य-था चिकित्सा चार्म-वत् क्षौद्र-सैन्धव-प्रतिसारिता ।
पूयालसे सिरां विध्येत् ततस् तम् उपनाहयेत् ॥ ४ ॥

श्लोक 5

ततस् तद् उपनाहयेत् कुर्वीत चाक्षि-पाकोक्तं सर्वं कर्म यथा-विधि ।
सैन्धवार्द्रक-कासीस-लोह-ताम्रैः सु-चूर्णितैः ॥ ५ ॥

श्लोक 6

चूर्णाञ्जनं प्रयुञ्जीत स-क्षौद्रैर् वा रस-क्रियाम् ।
कृमि-ग्रन्थिं करीषेण स्विन्नं भित्त्वा विलिख्य च ॥ ६ ॥

श्लोक 7

त्रि-फला-क्षौद्र-कासीस-सैन्धवैः प्रतिसारयेत् ।
पित्ताभिष्यन्द-वच् छुक्तिं बलासाह्वय-पिष्टके ॥ ७ ॥

श्लोक 8

बलासाह्वय-पिष्टकौ कफाभिष्यन्द-वन् मुक्त्वा सिरा-व्यधम् उपाचरेत् ।
बीजपूर-रसाक्तं च व्योष-कट्फलम् अञ्जनम् ॥ ८ ॥

श्लोक 9

जाती-मुकुल-सिन्धूत्थ-देवदारु-महौषधैः ।
पिष्टैः प्रसन्नया वर्तिः शोफ-कण्डू-घ्नम् अञ्जनम् ॥ ९ ॥

श्लोक 10

शोफ-कण्डू-घ्नम् औषधम् रक्त-स्यन्द-वद् उत्पात-हर्ष-जालार्जुन-क्रिया ।
सिरोत्पाते विशेषेण घृत-माक्षिकम् अञ्जनम् ॥ १० ॥

श्लोक 11

सिरा-हर्षे तु मधुना श्लक्ष्ण-घृष्टं रसाञ्जनम् ।
अर्जुने शर्करा-मस्तु-क्षौद्रैर् आश्च्योतनं हितम् ॥ ११ ॥

श्लोक 12

स्फटिकः कुङ्कुमं शङ्खो मधुकं मधुनाञ्जनम् ।
मधुना चाञ्जनं शङ्खः फेनो वा सितया सह ॥ १२ ॥

श्लोक 13

स्फटिकं कुङ्कुमं शङ्खं कासीसं मधुनाञ्जनम् अर्मोक्तं पञ्च-धा तत्र तनु धूमाविलं च यत् ।
रक्तं दधि-निभं यच् च शुक्र-वत् तस्य भेषजम् ॥ १३ ॥

श्लोक 14

उत्तानस्येतरत् स्विन्नं स-सिन्धूत्थेन चाञ्जितम् ।
रसेन बीजपूरस्य निमील्याक्षि विमर्दयेत् ॥ १४ ॥

श्लोक 15

इत्थं संरोषिताक्षस्य प्रचले ऽर्माधि-मांसके ।
घृतस्य निश्-चलं मूर्ध्नि वर्त्मनोश् च विशेषतः ॥ १५ ॥

श्लोक 16

प्रबले ऽर्माधि-मांसके अपाङ्गम् ईक्षमाणस्य वृद्धे ऽर्मणि कनीनकात् ।
वली स्याद् यत्र तत्रार्म बडिशेनावलम्बितम् ॥ १६ ॥

श्लोक 17

नात्य्-आयतं मुचुण्ड्या वा सूच्या सूत्रेण वा ततः ।
समन्तान् मण्डलाग्रेण मोचयेद् अथ मोक्षितम् ॥ १७ ॥

श्लोक 18

नात्य्-आयतं समुत्पाट्य कनीनकम् उपानीय चतुर्-भागावशेषितम् ।
छिन्द्यात् कनीनकं रक्षेद् वाहिनीश् चाश्रु-वाहिनीः ॥ १८ ॥

श्लोक 19

छिन्द्यात् कनीनकं रक्षन् छिन्द्यात् कनीनकं रक्ष्ये कनीनक-व्यधाद् अश्रु नाडी चाक्ष्णि प्रवर्तते ।
वृद्धे ऽर्मणि तथापाङ्गात् पश्यतो ऽस्य कनीनकम् ॥ १९ ॥

श्लोक 20

कनीनक-वधाद् अश्रु कनीनक-वधाद् आशु कनीनक-व्यधाद् अ-स्रु- -नाडी चाक्ष्णि प्रवर्तते सम्यक्-छिन्नं मधु-व्योष-सैन्धव-प्रतिसारितम् ।
उष्णेन सर्पिषा सिक्तम् अभ्यक्तं मधु-सर्पिषा ॥ २० ॥

श्लोक 21

बध्नीयात् सेचयेन् मुक्त्वा तृतीयादि-दिनेषु च ।
करञ्ज-बीज-सिद्धेन क्षीरेण क्वथितैस् तथा ॥ २१ ॥

श्लोक 22

स-क्षौद्रैर् द्वि-निशा-लोध्र-पटोली-यष्टि-किंशुकैः ।
कुरण्ट-मुकुलोपेतैर् मुञ्चेद् एवाह्नि सप्तमे ॥ २२ ॥

श्लोक 23

कोरण्ट-मुकुलोपेतैर् सम्यक्-छिन्ने भवेत् स्वास्थ्यं हीनाति-च्छेद-जान् गदान् ।
सेकाञ्जन-प्रभृतिभिर् जयेल् लेखन-बृंहणैः ॥ २३ ॥

श्लोक 24

सिता-मनःशिलैलेय-लवणोत्तम-नागरम् ।
अर्ध-कर्षोन्मितं तार्क्ष्यं पलार्धं च मधु-द्रुतम् ॥ २४ ॥

श्लोक 25

पलार्धं च मधु-प्लुतम् अञ्जनं श्लेष्म-तिमिर-पिल्ल-शुक्रार्म-शोष-जित् ।
त्रि-फलैक-तम-द्रव्य-त्वचं पानीय-कल्किताम् ॥ २५ ॥

श्लोक 26

पिल्ल-शुक्रार्म-काच-जित् शराव-पिहितां दग्ध्वा कपाले चूर्णयेत् ततः ।
पृथक्-शेषौषध-रसैः पृथग् एव च भाविता ॥ २६ ॥

श्लोक 27

सा मषी शोषिता पेष्या भूयो द्वि-लवणान्विता ।
त्रीण्य् एतान्य् अञ्जनान्य् आह लेखनानि परं निमिः ॥ २७ ॥

श्लोक 28

सिरा-जाले सिरा यास् तु कठिना लेखनौषधैः ।
न सिध्यन्त्य् अर्म-वत् तासां पिटिकानां च साधनम् ॥ २८ ॥

श्लोक 29

दोषानुरोधाच् छुक्रेषु स्निग्ध-रूक्षा वरा घृतम् ।
तिक्तम् ऊर्ध्वम् असृक्-स्रावो रेक-सेकादि चेष्यते ॥ २९ ॥

श्लोक 30

दोषानुबन्धाच् छुक्रेषु स्निग्धा रूक्षा वरा घृतम् स्निग्ध-रूक्ष-वरा घृतम् तिक्तम् ऊर्ध्वम् असृक्-स्राव-रेक-सेकादि चेष्यते त्रिस् त्रिवृद्-वारिणा पक्वं क्षत-शुक्रे घृतं पिबेत् ।
सिरयानु हरेद् रक्तं जलौकोभिश् च लोचनात् ॥ ३० ॥

श्लोक 31

सिद्धेनोत्पल-काकोली-द्राक्षा-यष्टी-विदारिभिः ।
स-सितेनाज-पयसा सेचनं सलिलेन वा ॥ ३१ ॥

श्लोक 32

रागाश्रु-वेदना-शान्तौ परं लेखनम् अञ्जनम् ।
वर्तयो जाति-मुकुल-लाक्षा-गैरिक-चन्दनैः ॥ ३२ ॥

श्लोक 33

प्रसादयन्ति पित्तास्रं घ्नन्ति च क्षत-शुक्रकम् ।
दन्तैर् दन्ति-वराहोष्ट्र-गवाश्वाज-खरोद्भवैः ॥ ३३ ॥

श्लोक 34

प्रसादयन्ति पित्तासृक् -गो-रासभ-समुद्भवैः स-शङ्ख-मौक्तिकाम्भो-धि-फेनैर् मरिच-पादिकैः ।
क्षत-शुक्रम् अपि व्यापि दन्त-वर्तिर् निवर्तयेत् ॥ ३४ ॥

श्लोक 35

तमाल-पत्त्रं गो-दन्त-शङ्ख-फेनो ऽस्थि गार्दभम् ।
ताम्रं च वर्तिर् मूत्रेण सर्व-शुक्रक-नाशिनी ॥ ३५ ॥

श्लोक 36

ताम्रं च बस्त-मूत्रेण रत्नानि दन्ताः शृङ्गाणि धातवस् त्र्य्-ऊषणं त्रुटी ।
करञ्ज-बीजं लशुनो व्रण-सादि च भेषजम् ॥ ३६ ॥

श्लोक 37

स-व्रणा-व्रण-गम्भीर-त्वक्-स्थ-शुक्र-घ्नम् अञ्जनम् ।
निम्नम् उन्नमयेत् स्नेह-पान-नस्य-रसाञ्जनैः ॥ ३७ ॥

श्लोक 38

स-रुजं नी-रुजं तृप्ति-पुट-पाकेन शुक्रकम् ।
शुद्ध-शुक्रे निशा-यष्टी-शारिवा-शाबराम्भसा ॥ ३८ ॥

श्लोक 39

शारिवा-साधिताम्भसा सेचनं लोध्र-पोटल्या कोष्णाम्भो-मग्नयाथ-वा ।
बृहती-मूल-यष्ट्य्-आह्व-ताम्र-सैन्धव-नागरैः ॥ ३९ ॥

श्लोक 40

धात्री-फलाम्बुना पिष्टैर् लेपितं ताम्र-भाजनम् ।
यवाज्यामलकी-पत्त्रैर् बहु-शो धूपयेत् ततः ॥ ४० ॥

श्लोक 41

तत्र कुर्वीत गुटिकास् ता जल-क्षौद्र-पेषिताः ।
महा-नीला इति ख्याताः शुद्ध-शुक्र-हराः परम् ॥ ४१ ॥

श्लोक 42

स्थिरे शुक्रे घने चास्य बहु-शो ऽपहरेद् असृक् ।
शिरः-काय-विरेकांश् च पुट-पाकांश् च भूरि-शः ॥ ४२ ॥

श्लोक 43

कुर्यान् मरिच-वैदेही-शिरीष-फल-सैन्धवैः ।
हर्षणं त्रि-फला-क्वाथ-पीतेन लवणेन वा ॥ ४३ ॥

श्लोक 44

घर्षणं त्रि-फला-क्वाथ- सर्षप-त्रि-फला-क्वाथ- कुर्याद् अञ्जन-योगौ वा श्लोकार्ध-गदिताव् इमौ ।
शङ्ख-कोलास्थि-कतक-द्राक्षा-मधुक-माक्षिकैः ॥ ४४ ॥

श्लोक 45

सुरा-दन्तार्णव-मलैः शिरीष-कुसुमान्वितैः ।
धात्री-फणिज्जक-रसे क्षारो लाङ्गलिकोद्भवः ॥ ४५ ॥

श्लोक 46

खर-दन्तार्णव-मलैः क्षारो लाङ्गलिका-भवः क्षारो लाङ्गलिकी-भवः उषितः शोषितश् चूर्णः शुक्र-हर्षणम् अञ्जनम् ।
मुद्गा वा निस्-तुषाः पिष्टाः शङ्ख-क्षौद्र-समायुताः ॥ ४६ ॥

श्लोक 47

शुक्र-घर्षणम् अञ्जनम् सारो मधूकान् मधु-मान् मज्जा वाक्षात् स-माक्षिका ।
गो-खराश्वोष्ट्र-दशनाः शङ्खः फेनः समुद्र-जः ॥ ४७ ॥

श्लोक 48

सारो मधूकात् स-मधुर् सारो मधूकान् मधुना वर्तिर् अर्जुन-तोयेन हृष्ट-शुक्रक-नाशिनी ।
उत्सन्नं वा स-शल्यं वा शूक्रं वालादिभिर् लिखेत् ॥ ४८ ॥

श्लोक 49

पिष्टा शुक्रक-नाशिनी दुष्ट-शुक्रक-नाशिनी सिरा-शुक्रे त्व् अ-दृष्टि-घ्ने चिकित्सा व्रण-शुक्र-वत् ।
पुण्ड्र-यष्ट्य्-आह्व-काकोली-सिंही-लोह-निशाञ्जनम् ॥ ४९ ॥

श्लोक 50

कल्कितं छाग-दुग्धेन स-घृतैर् धूपितं यवैः ।
धात्री-पत्त्रैश् च पर्यायाद् वर्तिर् अत्राञ्जनं परम् ॥ ५० ॥

श्लोक 51

वर्तिर् अत्राञ्जनं हितम् वर्तिर् नेत्राञ्जनं परम् अ-शान्ताव् अर्म-वच् छस्त्रम् अजकाख्ये च योजयेत् ।
अजकायाम् अ-साध्यायां शुक्रे ऽन्य-त्र च तद्-विधे ॥ ५१ ॥

श्लोक 52

वेदनोपशमं स्नेह-पानासृक्-स्रावणादिभिः ।
कुर्याद् बीभत्स-तां जेतुं शुक्रस्योत्सेध-साधनम् ॥ ५२ ॥

श्लोक 53

शुक्ल-त्वोत्सेध-साधनम् नारिकेलास्थि-भल्लात-ताल-वंश-करीर-जम् ।
भस्माद्भिः स्रावयेत् ताभिर् भावयेत् करभास्थि-जम् ॥ ५३ ॥

श्लोक 54

चूर्णं शुक्रेष्व् अ-साध्येषु तद् वैवर्ण्य-घ्नम् अञ्जनम् ।
साध्येषु साधनायालम् इदम् एव च शीलितम् ॥ ५४ ॥

श्लोक 55

अजकां पार्श्वतो विद्ध्वा सूच्या विस्राव्य चोदकम् ।
समं प्रपीड्याङ्गुष्ठेन वसार्द्रेणानु पूरयेत् ॥ ५५ ॥

श्लोक 56

व्रणं गो-मांस-चूर्णेन बद्धं बद्धं विमुच्य च ।
सप्त-रात्राद् व्रणे रूढे कृष्ण-भागे समे स्थिरे ॥ ५६ ॥

श्लोक 57

स्नेहाञ्जनं च कर्तव्यं नस्यं च क्षीर-सर्पिषा ।
तथापि पुनर्-आध्माने भेद-च्छेदादिकां क्रियाम् ॥ ५७ ॥

श्लोक 

तथापि पुनर्-आध्माते युक्त्या कुर्याद् यथा नाति-च्छेदेन स्यात् निमज्जनम् ॥ ५७ऊअब् ॥

श्लोक 58

अव् युक्त्या युञ्ज्याद् यथा नाति- नित्यं च शुक्रेषु शृतं यथा-स्वं पाने च मर्शे च घृतं विदध्यात् ।
न हीयते लब्ध-बला तथान्तस् तीक्ष्णाञ्जनैर् दृक् सततं प्रयुक्तैः ॥ ५८ ॥
तीक्ष्णाञ्जनैर् दृक् प्रततं प्रयुक्तैः