अष्टाङ्गहृदयम्/चिकित्सास्थानम् Adhyaay 11

श्लोक 

लिङ्गाग्र-सुषिरे सम्यग् योन्यां वा संप्रवेशयेत् ।
मूत्र-दुःख-हरं मुख्यं कर्पूरं परिसंक्षिपेत् ॥ ०+१ ॥

श्लोक 1

कृच्छ्रे वात-घ्न-तैलाक्तम् अधो नाभेः समीर-जे ।
सु-स्निग्धैः स्वेदयेद् अङ्गं पिण्ड-सेकावगाहनैः ॥ १ ॥

श्लोक 2

दश-मूल-बलैरण्ड-यवाभीरु-पुनर्नवैः ।
कुलत्थ-कोल-पत्तूर-वृश्चीवोपलभेदकैः ॥ २ ॥

श्लोक 3

तैल-सर्पिर्-वराहर्क्ष-वसाः क्वथित-कल्कितैः ।
स-पञ्च-लवणाः सिद्धाः पीताः शूल-हराः परम् ॥ ३ ॥

श्लोक 4

द्रव्याण्य् एतानि पानान्ने तथा पिण्डोपनाहने ।
सह तैलफलैर् युञ्ज्यात् साम्लानि स्नेह-वन्ति च ॥ ४ ॥

श्लोक 5

सौवर्चलाढ्यां मदिरां पिबेन् मूत्र-रुजापहाम् ।
पैत्ते युञ्जीत शिशिरं सेक-लेपावगाहनम् ॥ ५ ॥

श्लोक 6

पिबेद् वरीं गोक्षुरकं विदारीं स-कसेरुकाम् ।
तृणाख्यं पञ्च-मूलं च पाक्यं स-मधु-शर्करम् ॥ ६ ॥

श्लोक 7

वृषकं त्रपुसैर्वारु-लट्वा-बीजानि कुङ्कुमम् ।
द्राक्षाम्भोभिः पिबन् सर्वान् मूत्राघातान् अपोहति ॥ ७ ॥

श्लोक 8

एर्वारु-बीज-यष्ट्य्-आह्व-दार्वीर् वा तण्डुलाम्बुना ।
तोयेन कल्कं द्राक्षायाः पिबेत् पर्युषितेन वा ॥ ८ ॥

श्लोक 9

कफ-जे वमनं स्वेदं तीक्ष्णोष्ण-कटु-भोजनम् ।
यवानां विकृतीः क्षारं कालशेयं च शीलयेत् ॥ ९ ॥

श्लोक 10

पिबेन् मद्येन सूक्ष्मैलां धात्री-फल-रसेन वा ।
सारसास्थि-श्वदंष्ट्रैला-व्योषं वा मधु-मूत्र-वत् ॥ १० ॥

श्लोक 11

स्व-रसं कण्टकार्या वा पाययेन् माक्षिकान्वितम् ।
शितिवारक-बीजं वा तक्रेण श्लक्ष्ण-चूर्णितम् ॥ ११ ॥

श्लोक 12

धव-सप्ताह्व-कुटज-गुडूची-चतुरङ्गुलम् ।
केम्बुकैला-करञ्जं च पाक्यं स-मधु साधिताम् ॥ १२ ॥

श्लोक 13

कटुकैला-करञ्जं च तैर् वा पेयां प्रवालं वा चूर्णितं तण्डुलाम्बुना ।
स-तैलं पाटला-क्षारं सप्त-कृत्वो ऽथ-वा स्रुतम् ॥ १३ ॥

श्लोक 14

पाटली-याव-शूकाभ्यां पारिभद्रात् तिलाद् अपि ।
क्षारोदकेन मदिरां त्वग्-एलोषण-संयुताम् ॥ १४ ॥

श्लोक 15

पिबेद् गुडोपदंशान् वा लिह्याद् एतान् पृथक् पृथक् ।
संनिपातात्मके सर्वं यथावस्थम् इदं हितम् ॥ १५ ॥

श्लोक 16

अश्मन्य् अप्य् अ-चिरोत्थाने वात-वस्त्य्-आदिकेषु च ।
अश्मरी दारुणो व्याधिर् अन्तक-प्रतिमो मतः ॥ १६ ॥

श्लोक 17

वात-वस्त्य्-आदिकेष्व् अपि तरुणो भेषजैः साध्यः प्रवृद्धश् छेदम् अर्हति ।
तस्य पूर्वेषु रूपेषु स्नेहादि-क्रम इष्यते ॥ १७ ॥

श्लोक 18

पाषाणभेदो वसुको वशिरो ऽश्मन्तको वरी ।
कपोतवङ्कातिबला-भल्लूकोशीर-कच्छकम् ॥ १८ ॥

श्लोक 19

भल्लूकोशीर-कन्तकम् वृक्षादनी शाक-फलं व्याघ्र्यौ गुण्ठस् त्रिकण्टकः ।
यवाः कुलत्थाः कोलानि वरुणः कतकात् फलम् ॥ १९ ॥

श्लोक 20

ऊषकादि-प्रतीवापम् एषां क्वाथे शृतं घृतम् ।
भिनत्ति वात-संभूतां तत् पीतं शीघ्रम् अश्मरीम् ॥ २० ॥

श्लोक 21

गन्धर्वहस्त-बृहती-व्याघ्री-गोक्षुरकेक्षुरात् ।
मूल-कल्कं पिबेद् दध्ना मधुरेणाश्म-भेदनम् ॥ २१ ॥

श्लोक 22

कुशः काशः शरो गुण्ठ इत्कटो मोरटो ऽश्मभित् ।
दर्भो विदारी वाराही शालि-मूलं त्रिकण्टकः ॥ २२ ॥

श्लोक 23

भल्लूकः पाटली पाठा पत्तूरः स-कुरण्टकः ।
पुनर्नवे शिरीषश् च तेषां क्वाथे पचेद् घृतम् ॥ २३ ॥

श्लोक 24

पिष्टेन त्रपुसादीनां बीजेनेन्दीवरेण च ।
मधुकेन शिला-जेन तत् पित्ताश्मरि-भेदनम् ॥ २४ ॥

श्लोक 25

वरुणादिः समीर-घ्नौ गणाव् एला हरेणुका ।
गुग्गुलुर् मरिचं कुष्ठं चित्रकः स-सुराह्वयः ॥ २५ ॥

श्लोक 26

तैः कल्कितैः कृताव् आपम् ऊषकादि-गणेन च ।
भिनत्ति कफ-जाम् आशु साधितं घृतम् अश्मरीम् ॥ २६ ॥

श्लोक 27

क्षार-क्षीर-यवाग्व्-आदि द्रव्यैः स्वैः स्वैश् च कल्पयेत् ।
पिचुकाङ्कोल्ल-कतक-शाकेन्दीवर-जैः फलैः ॥ २७ ॥

श्लोक 28

पीतम् उष्णाम्बु स-गुडं शर्करा-पातनं परम् ।
क्रौञ्चोष्ट्र-रासभास्थीनि श्वदंष्ट्रा तालपत्त्रिका ॥ २८ ॥

श्लोक 29

पीतम् उष्णाम्बु स-घृतं अजमोदा कदम्बस्य मूलं विश्वस्य चौषधम् ।
पीतानि शर्करां भिन्द्युः सुरयोष्णोदकेन वा ॥ २९ ॥

श्लोक 30

मूलं बिल्वस्य चौषधम् नृत्यकुण्डक-बीजानां चूर्णं माक्षिक-संयुतम् ।
अवि-क्षीरेण सप्ताहं पीतम् अश्मरि-पातनः ॥ ३० ॥

श्लोक 31

नृत्यकुण्डल-बीजानां मर्कटकस्य बीजानां क्वाथश् च शिग्रु-मूलोत्थः कद्-उष्णो ऽश्मरी-पातनः ।
तिलापामार्ग-कदली-पलाश-यव-संभवः ॥ ३१ ॥

श्लोक 32

क्षारः पेयो ऽवि-मूत्रेण शर्करास्व् अश्मरीषु च ।
कपोतवङ्का-मूलं वा पिबेद् एकं सुरादिभिः ॥ ३२ ॥

श्लोक 33

तत्-सिद्धं वा पिबेत् क्षीरं वेदनाभिर् उपद्रुतः ।
हरीतक्य्-अस्थि-सिद्धं वा साधितं वा पुनर्नवैः ॥ ३३ ॥

श्लोक 34

क्षीरान्न-भुग् बर्हि-शिखा-मूलं वा तण्डुलाम्बुना ।
मूत्राघातेषु विभजेद् अतः शेषेष्व् अपि क्रियाम् ॥ ३४ ॥

श्लोक 35

बृहत्य्-आदि-गणे सिद्धं द्वि-गुणी-कृत-गोक्षुरे ।
तोयं पयो वा सर्पिर् वा सर्व-मूत्र-विकार-जित् ॥ ३५ ॥

श्लोक 36

देवदारुं घनं मूर्वां यष्टीमधु हरीतकीम् ।
मूत्राघातेषु सर्वेषु सुरा-क्षीर-जलैः पिबेत् ॥ ३६ ॥

श्लोक 37

रसं वा धन्वयासस्य कषायं ककुभस्य वा ।
सुखाम्भसा वा त्रि-फलां पिष्टां सैन्धव-संयुताम् ॥ ३७ ॥

श्लोक 38

व्याघ्री-गोक्षुरक-क्वाथे यवागूं वा स-फाणिताम् ।
क्वाथे वीरतरादेर् वा ताम्र-चूड-रसे ऽपि वा ॥ ३८ ॥

श्लोक 39

अद्याद् वीरतराद्येन भावितं वा शिला-जतु ।
मद्यं वा निगदं पीत्वा रथेनाश्वेन वा व्रजेत् ॥ ३९ ॥

श्लोक 40

मद्यं वा निर्-गदं पीत्वा शीघ्र-वेगेन संक्षोभात् तथास्य च्यवते ऽश्मरी ।
सर्व-था चोपयोक्तव्यो वर्गो वीरतरादिकः ॥ ४० ॥

श्लोक 41

रेकार्थं तैल्वकं सर्पिर् वस्ति-कर्म च शीलयेत् ।
विशेषाद् उत्तरान् वस्तीञ् छुक्राश्मर्यां तु शोधिते ॥ ४१ ॥

श्लोक 42

छुक्राश्मर्यां च शोधिते तैर् मूत्र-मार्गे बल-वान् शुक्राशय-विशुद्धये ।
पुमान् सु-तृप्तो वृष्याणां मांसानां कुक्कुटस्य च ॥ ४२ ॥

श्लोक 43

कामं स-कामः सेवेत प्रमदा मद-दायिनीः ।
सिद्धैर् उपक्रमैर् एभिर् न चेच् छान्तिस् तदा भिषक् ॥ ४३ ॥

श्लोक 44

न चेच् छान्तिस् ततो भिषक् इति राजानम् आपृच्छ्य शस्त्रं साध्व् अवचारयेत् ।
अ-क्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत् ॥ ४४ ॥

श्लोक 45

निश्चितस्यापि वैद्यस्य बहु-शः सिद्ध-कर्मणः ।
अथातुरम् उपस्निग्ध-शुद्धम् ईषच् च कर्शितम् ॥ ४५ ॥

श्लोक 46

अथातुरम् उपस्निग्धं -शुद्धम् ईषच् च कर्षितम् शुद्धम् ईषच् च कर्शितम् अभ्यक्त-स्विन्न-वपुषम् अ-भुक्तं कृत-मङ्गलम् ।
आ-जानु-फलक-स्थस्य नरस्याङ्के व्यपाश्रितम् ॥ ४६ ॥

श्लोक 47

पूर्वेण कायेनोत्तानं निषण्णं वस्त्र-चुम्भले ।
ततो ऽस्याकुञ्चिते जानु-कूर्परे वाससा दृढम् ॥ ४७ ॥

श्लोक 48

सहाश्रय-मनुष्येण बद्धस्याश्वासितस्य च ।
नाभेः समन्ताद् अभ्यज्याद् अधस् तस्याश् च वामतः ॥ ४८ ॥

श्लोक 49

मृदित्वा मुष्टिनाक्रामेद् यावद् अश्मर्य् अधो-गता ।
तैलाक्ते वर्धित-नखे तर्जनी-मध्यमे ततः ॥ ४९ ॥

श्लोक 50

अ-दक्षिणे गुदे ऽङ्गुल्यौ प्रणिधायानु-सेवनि ।
आसाद्य बल-यत्नाभ्याम् अश्मरीं गुद-मेढ्रयोः ॥ ५० ॥

श्लोक 51

प्रणिधायानु-सेवनीम् कृत्वान्तरे तथा वस्तिं निर्-वलीकम् अन्-आयतम् ।
उत्पीडयेद् अङ्गुलीभ्यां यावद् ग्रन्थिर् इवोन्नतम् ॥ ५१ ॥

श्लोक 52

शल्यं स्यात् सेवनीं मुक्त्वा यव-मात्रेण पाटयेत् ।
अश्म-मानेन न यथा भिद्यते सा तथाहरेत् ॥ ५२ ॥

श्लोक 53

समग्रं सर्प-वक्त्रेण स्त्रीणां वस्तिस् तु पार्श्व-गः ।
गर्भाशयाश्रयस् तासां शस्त्रम् उत्सङ्ग-वत् ततः ॥ ५३ ॥

श्लोक 54

न्यसेद् अतो ऽन्य-था ह्य् आसां मूत्र-स्रावी व्रणो भवेत् ।
मूत्र-प्रसेक-क्षणनान् नरस्याप्य् अपि चैक-धा ॥ ५४ ॥

श्लोक 55

वस्ति-भेदो ऽश्मरी-हेतुः सिद्धिं याति न तु द्वि-धा ।
वि-शल्यम् उष्ण-पानीय-द्रोण्यां तम् अवगाहयेत् ॥ ५५ ॥

श्लोक 56

तथा न पूर्यते ऽस्रेण वस्तिः पूर्णे तु पीडयेत् ।
मेढ्रान्तः क्षीरि-वृक्षाम्बु मूत्र-संशुद्धये ततः ॥ ५६ ॥

श्लोक 57

मेढ्रतः क्षीरि-वृक्षाम्बु मेढ्रे ऽन्तः क्षीरि-वृक्षाम्बु कुर्याद् गुडस्य सौहित्यं मध्व्-आज्याक्त-व्रणः पिबेत् ।
द्वौ कालौ स-घृतां कोष्णां यवागूं मूत्र-शोधनैः ॥ ५७ ॥

श्लोक 58

त्र्य्-अहं दशाहं पयसा गुडाढ्येनाल्पम् ओदनम् ।
भुञ्जीतोर्ध्वं फलाम्लैश् च रसैर् जाङ्गल-चारिणाम् ॥ ५८ ॥

श्लोक 59

क्षीरि-वृक्ष-कषायेण व्रणं प्रक्षाल्य लेपयेत् ।
प्रपौण्डरीक-मञ्जिष्ठा-यष्ट्य्-आह्व-नयनौषधैः ॥ ५९ ॥

श्लोक 60

व्रणाभ्यङ्गे पचेत् तैलम् एभिर् एव निशान्वितैः ।
दशाहं स्वेदयेच् चैनं स्व-मार्गं सप्त-रात्रतः ॥ ६० ॥

श्लोक 61

दशाहं स्वेदयेच् चैव दशाहं स्वेदयेच् चैवं मूत्रे त्व् अ-गच्छति दहेद् अश्मरी-व्रणम् अग्निना ।
स्व-मार्ग-प्रतिपत्तौ तु स्वादु-प्रायैर् उपाचरेत् ॥ ६१ ॥

श्लोक 62

तं वस्तिभिर् न चारोहेद् वर्षं रूढ-व्रणो ऽपि सः ।
नग-नागाश्व-वृक्ष-स्त्री-रथान् नाप्सु प्लवेत च ॥ ६२ ॥

श्लोक 63

मूत्र-शुक्र-वहौ वस्ति-वृषणौ सेवनीं गुदम् ।
मूत्र-प्रसेकं योनिं च शस्त्रेणाष्टौ विवर्जयेत् ॥ ६३ ॥