श्लोक 1
प्रमेहा विंशतिस् तत्र श्लेष्मतो दश पित्ततः ।
षट् चत्वारो ऽनिलात् तेषां मेदो-मूत्र-कफावहम् ॥ १ ॥
श्लोक 2
अन्न-पान-क्रिया-जातं यत् प्रायस् तत् प्रवर्तकम् ।
स्वाद्व्-अम्ल-लवण-स्निग्ध-गुरु-पिच्छिल-शीतलम् ॥ २ ॥
श्लोक 3
नव-धान्य-सुरानूप-मांसेक्षु-गुड-गो-रसम् ।
एक-स्थानासन-रतिः शयनं विधि-वर्जितम् ॥ ३ ॥
श्लोक 4
वस्तिम् आश्रित्य कुरुते प्रमेहान् दूषितः कफः ।
दूषयित्वा वपुः-क्लेद-स्वेद-मेदो-रसामिषम् ॥ ४ ॥
श्लोक 5
स्वेद-मेदो-वसामिषम् पित्तं रक्तम् अपि क्षीणे कफादौ मूत्र-संश्रयम् ।
धातून् वस्तिम् उपानीय तत्-क्षये ऽपि च मारुतः ॥ ५ ॥
श्लोक 6
साध्य-याप्य-परित्याज्या मेहास् तेनैव तद्-भवाः ।
समासम् अ-क्रिय-तया महात्यय-तयापि च ॥ ६ ॥
श्लोक 7
सामान्यं लक्षणं तेषां प्रभूताविल-मूत्र-ता ।
दोष-दूष्या-विशेषे ऽपि तत्-संयोग-विशेषतः ॥ ७ ॥
श्लोक 8
प्रभूताकुल-मूत्र-ता मूत्र-वर्णादि-भेदेन भेदो मेहेषु कल्प्यते ।
अच्छं बहु सितं शीतं निर्-गन्धम् उदकोपमम् ॥ ८ ॥
श्लोक 9
मेहत्य् उदक-मेहेन किञ्-चिच् चाविल-पिच्छिलम् ।
इक्षो रसम् इवात्य्-अर्थं मधुरं चेक्षु-मेहतः ॥ ९ ॥
श्लोक 10
सान्द्री-भवेत् पर्युषितं सान्द्र-मेहेन मेहति ।
सुरा-मेही सुरा-तुल्यम् उपर्य् अच्छम् अधो घनम् ॥ १० ॥
श्लोक 11
संहृष्ट-रोमा पिष्टेन पिष्ट-वद् बहलं सितम् ।
शुक्राभं शुक्र-मिश्रं वा शुक्र-मेही प्रमेहति ॥ ११ ॥
श्लोक 12
पिष्ट-वद् बहुलं सितम् मूर्ताणून् सिकता-मेही सिकता-रूपिणो मलान् ।
शीत-मेही सु-बहु-शो मधुरं भृश-शीतलम् ॥ १२ ॥
श्लोक 13
मूत्राणून् सिकता-मेही मूत्रे ऽणून् सिकता-मेही शनैः शनैः शनैर्-मेही मन्दं मन्दं प्रमेहति ।
लाला-तन्तु-युतं मूत्रं लाला-मेहेन पिच्छिलम् ॥ १३ ॥
श्लोक 14
गन्ध-वर्ण-रस-स्पर्शैः क्षारेण क्षार-तोय-वत् ।
नील-मेहेन नीलाभं काल-मेही मषी-निभम् ॥ १४ ॥
श्लोक 15
हारिद्र-मेही कटुकं हरिद्रा-संनिभं दहत् ।
विस्रं माञ्जिष्ठ-मेहेन मञ्जिष्ठा-सलिलोपमम् ॥ १५ ॥
श्लोक 16
विस्रम् उष्णं स-लवणं रक्ताभं रक्त-मेहतः ।
वसा-मेही वसा-मिश्रं वसां वा मूत्रयेन् मुहुः ॥ १६ ॥
श्लोक 17
मज्जानं मज्ज-मिश्रं वा मज्ज-मेही मुहुर् मुहुः ।
हस्ती मत्त इवाजस्रं मूत्रं वेग-विवर्जितम् ॥ १७ ॥
श्लोक 18
मज्जाभं मज्ज-मिश्रं वा स-लसीकं विबद्धं च हस्ति-मेही प्रमेहति ।
मधु-मेही मधु-समं जायते स किल द्वि-धा ॥ १८ ॥
श्लोक 19
मधु-मेहे मधु-समं क्रुद्धे धातु-क्षयाद् वायौ दोषावृत-पथे ऽथ-वा ।
आवृतो दोष-लिङ्गानि सो ऽ-निमित्तं प्रदर्शयेत् ॥ १९ ॥
श्लोक 20
दोषावृत-पथे ऽपि वा क्षीणः क्षणात् क्षणात् पूर्णो भजते कृच्छ्र-साध्य-ताम् ।
कालेनोपेक्षिताः सर्वे यद् यान्ति मधु-मेह-ताम् ॥ २० ॥
श्लोक 21
मधुरं यच् च सर्वेषु प्रायो मध्व् इव मेहति ।
सर्वे ऽपि मधु-मेहाख्या माधुर्याच् च तनोर् अतः ॥ २१ ॥
श्लोक 22
अ-विपाको ऽ-रुचिश् छर्दिर् निद्रा कासः स-पीनसः ।
उपद्रवाः प्रजायन्ते मेहानां कफ-जन्मनाम् ॥ २२ ॥
श्लोक 23
वस्ति-मेहनयोस् तोदो मुष्कावदरणं ज्वरः ।
दाहस् तृष्णाम्लको मूर्छा विड्-भेदः पित्त-जन्मनाम् ॥ २३ ॥
श्लोक 24
वातिकानाम् उदावर्त-कम्प-हृद्-ग्रह-लोल-ताः ।
शूलम् उन्निद्र-ता शोषः कासः श्वासश् च जायते ॥ २४ ॥
श्लोक 25
कण्ठ-हृद्-ग्रह-लोल-ताः शराविका कच्छपिका जालिनी विनतालजी ।
मसूरिका सर्षपिका पुत्रिणी स-विदारिका ॥ २५ ॥
श्लोक 26
पुत्रिणी च विदारिका विद्रधिश् चेति पिटिकाः प्रमेहोपेक्षया दश ।
संधि-मर्मसु जायन्ते मांसलेषु च धामसु ॥ २६ ॥
श्लोक 27
अन्तोन्नता मध्य-निम्ना श्यावा क्लेद-रुजान्विता ।
शराव-मान-संस्थाना पिटिका स्याच् छराविका ॥ २७ ॥
श्लोक 28
अवगाढार्ति-निस्तोदा महा-वस्तु-परिग्रहा ।
श्लक्ष्णा कच्छप-पृष्ठाभा पिटिका कच्छपी मता ॥ २८ ॥
श्लोक 29
स्तब्धा सिरा-जाल-वती स्निग्ध-स्रावा महाशया ।
रुजा-निस्तोद-बहुला सूक्ष्म-च्छिद्रा च जालिनी ॥ २९ ॥
श्लोक 30
स्निग्ध-स्रावा महाश्रया अवगाढ-रुजा-क्लेदा पृष्ठे वा जठरे ऽपि वा ।
महती पिटिका नीला विनता विनता स्मृता ॥ ३० ॥
श्लोक 31
दहति त्वचम् उत्थाने भृशं कष्टा विसर्पिणी ।
रक्त-कृष्णाति-तृट्-स्फोट-दाह-मोह-ज्वरालजी ॥ ३१ ॥
श्लोक 32
मान-संस्थानयोस् तुल्या मसूरेण मसूरिका ।
सर्षपा-मान-संस्थाना क्षिप्र-पाका महा-रुजा ॥ ३२ ॥
श्लोक 33
सर्षपी सर्षपा-तुल्य-पिटिका-परिवारिता ।
पुत्रिणी महती भूरि-सु-सूक्ष्म-पिटिकाचिता ॥ ३३ ॥
श्लोक 34
सर्षपा सर्षपा-तुल्य- सु-सूक्ष्म-पिटिकावृता -सु-सूक्ष्म-पिटिकान्विता विदारी-कन्द-वद् वृत्ता कठिना च विदारिका ।
विद्रधिर् वक्ष्यते ऽन्य-त्र तत्राद्यं पिटिका-त्रयम् ॥ ३४ ॥
श्लोक 35
पुत्रिणी च विदारी च दुः-सहा बहु-मेदसः ।
सह्याः पित्तोल्बणास् त्व् अन्याः संभवन्त्य् अल्प-मेदसः ॥ ३५ ॥
श्लोक 36
तासु मेह-वशाच् च स्याद् दोषोद्रेको यथा-यथम् ॥ ३६अब् ॥
प्रमेहेण विनाप्य् एता जायन्ते दुष्ट-मेदसः ॥ ३६च्द् ॥
तावच् च नोपलक्ष्यन्ते यावद् वस्तु-परिग्रहः ॥ ३६एf ॥
श्लोक 37
हारिद्र-वर्णं रक्तं वा मेह-प्राग्-रूप-वर्जितम् ।
यो मूत्रयेन् न तं मेहं रक्त-पित्तं तु तद् विदुः ॥ ३७ ॥
श्लोक 38
रक्त-पित्तं तु तं विदुः रक्त-पित्तं च तद् विदुः स्वेदो ऽङ्ग-गन्धः शिथिल-त्वम् अङ्गे शय्यासन-स्वप्न-सुखाभिषङ्गः ।
हृन्-नेत्र-जिह्वा-श्रवणोपदेहो घनाङ्ग-ता केश-नखाति-वृद्धिः ॥ ३८ ॥
श्लोक 39
शय्यासन-स्थान-सुखाभिलाषः शीत-प्रिय-त्वं गल-तालु-शोषो माधुर्यम् आस्ये कर-पाद-दाहः ।
भविष्यतो मेह-गणस्य रूपं मूत्रे ऽभिधावन्ति पिपीलिकाश् च ॥ ३९ ॥
श्लोक 40
दृष्ट्वा प्रमेहं मधुरं स-पिच्छं मधूपमं स्याद् विविधो विचारः ।
संपूरणाद् वा कफ-संभवः स्यात् क्षीणेषु दोषेष्व् अनिलात्मको वा ॥ ४० ॥
श्लोक 41
संतर्पणाद् वा कफ-संभवः स्यात् स-पूर्व-रूपाः कफ-पित्त-मेहाः क्रमेण ये वात-कृताश् च मेहाः ।
साध्या न ते पित्त-कृतास् तु याप्याः साध्यास् तु मेदो यदि नाति-दुष्टम् ॥ ४१ ॥
साध्याश् च मेदो यदि नाति-दुष्टम्