अष्टाङ्गसंग्रहः चिकित्सितस्थानम् 10

श्लोक 1

अथातोऽर्शस चिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

अथ खलु बलवन्तमर्शोभिरुपद्रुतं यथार्हस्नेहोपस्निग्धस्विन्नमनिलवेदनावृद्धिशमनार्थं स्निग्धमुष्णमल्पमन्नं द्रवप्रायं भुक्तवन्तं शुचिं कृतस्वस्त्ययनं भुक्तविण्मूत्रमव्यथं समे शुचौ विविक्ते देशे साधारणे व्यभ्रे काले शय्यायां समे फलके वा प्रत्यादित्यगुदमन्यस्योत्सङ्गे निषण्णपूर्वकायं उत्तानमुन्नतकटीदेशं यन्त्रणशाटकेन परिक्षिप्तग्रीवासक्थिसन्धिमलज्जार्हैराप्तपरिचारकैः सुपरिगृहीतं कृत्वा ततोऽस्म घृताभ्यक्तगुदाय घृताभ्यक्तं यन्त्रमृज्वनुसुखं शनैः पायौ प्रणिदध्यात्।
प्रवाहणप्रविष्टं चार्शोऽभिवीक्ष्यपिचुप्लोतकयोरन्यतरेणावगुण्ठितया शलाकयोत्पीड्य यथोक्तविधिनाग्निक्षाराभ्यामुपाचरेत् सम्यङ्निर्वापयेच्च॥

श्लोक 3

महान्ति प्राणवतश्छित्वा दहेत्।
छत्राकाराण्यूर्ध्वविसृतानि क्षारसूत्रेण बध्वा॥

श्लोक 4

ततो यन्त्रमपनीयोत्थाप्यातुरं स्वभ्यक्तगुदजघनवङ्क्षणं यथाकालमुष्णोदककोष्ठेऽवगाहयेत्।
ततो निवातमगारं प्रवेश्याचारिकमुपदिशेत्॥

श्लोक 5

सावशेषं पुनर्दाहयेत्।
एवं सप्तरात्रात्सप्तरात्रादेकैकमुपक्रमेत्।
बहुषु तु प्राग्दक्षिणं ततो वामं वामात् पृष्ठाग्रजम्।
एकाहात्तु सर्वाणि दहतोऽतियोगोक्तो देषः।
तत्र शुष्काण्यग्निना क्षारेण वा साधयेत्।
क्षारेणैव मृदुनार्द्राणि।
एष सर्वप्रदेशेष्वर्शसां दहनविकल्पः।
तृतीये तु गुदवलौ प्रत्याख्यायोपचरेन्न वेत्येके॥

श्लोक 6

अथ सम्यग्दग्धे वातानुलोम्यमन्नाभिरुचिरग्नेर्दीप्तिर्लाघवमिन्द्रियप्रसादो यथोक्तोपद्रवनिवृत्तिर्बलवर्णोपपत्तिश्च।
असम्यग्दाहे तु क्षाराग्निकर्मणोर्विधिमीक्षेत्॥

श्लोक 7

बस्तिवेदनायां कुष्ठशतपुष्पादेवदारुसुरभिपुनर्नवागरुकल्केन नाभेरधः सर्वमालिम्पेत्।
मूत्रपुरीषप्रतीघाते वरणालम्बुसैरण्डपुनर्नवाश्वदंष्ट्रासुरभीसुषवीकषायं सुखोष्णं स्वभ्यक्तपृष्ठकटीवङ्क्षणगुदस्य परिषेकेऽवाअहे वा योजयेत्।
क्षीरं सस्नेहं तैलमेव वा।
दग्धेषु चार्शःसु शकृच्छैथिल्यार्थं त्रिवृद्वास्तुकोपोदकाचुञ्ज्चुपर्णीशाकयुक्तमन्नमश्नीयात्॥

श्लोक 8

अनिलानलरक्षणोत्तेजनार्थं देहपुष्टये च स्नेहादीन् सम्यगासेवेत्।
संशोधनाः प्रलेपाद्याः कषायास्तैलयुक्तयः।
व्रणाधिकारमालोच्य योक्तव्या हत्नामसु॥

श्लोक 9

अथानवचारणीयशस्त्रक्षाराग्नेर्वातकफोल्बणानि दोषसम्पूर्णत्वान्निर्गतानि सस्तम्भकण्डूशोफशूलानि क्षारचित्रककुष्ठबिल्वमूलकसिद्धेन तैलेन वा कृष्णाहिबिडालौष्ट्रजलौकःसूकरवसाभिर्वाभ्यज्य।
पिण्डेन स्वेदयेद्द्रवस्वेदेन वा।
धूपयेच्च सघृतशमीपत्रार्कमूलमानुषकेशाहिनिर्मोकबिडालचर्मभिः।
कुञ्जरवराहवृषशकृत्सक्तुसर्जरसैर्वा।
सुरसाबृहतीपिप्पल्यश्वगन्धाभिर्वा सघृताभिः।
अरिष्टशिग्रुपत्रकुलत्थवचाभिर्वा।
प्रदिह्याच्च स्नुहीक्षीरयुक्तेन हरिद्राचूर्णेन।
गोमूत्रपिष्टैर्वा कुक्कुटशकृन्निशापिप्पलीगुञ्जामूलैः।
गोपित्तपिष्टाभिर्वा दन्तीचित्रकसुवर्चिकाभिः।
सुधाक्षीरपिष्टैर्वा गुडकृष्णासैन्धवकुष्ठशिरीषबीजैः।
तद्वच्च गजास्थितुत्थभल्लातकलाङ्गलीकुलीरशृङ्गीवचाभयाहिंगुकुष्ठबिल्वशिग्रुमूलकबीजनिम्बाश्वमारपत्रपीलुमूलैः बस्तमूत्रपिष्टैर्वा सुधाकाण्डार्कक्षीरतुम्बप्रसवकरञ्जैः।
पिप्पल्यादिभिर्वानुवासनद्रव्यैः।
एभिर्हि प्रदिग्धान्य शारंसि दुष्टमसृक्सञ्चितं पिच्छां च विमुच्य प्रशाम्यन्ति।
एभिश्च तैलान्यभ्यङ्गार्थमुपकल्पयेत्॥

श्लोक 10

तथा कासीससैन्धवालपिप्पलीकुष्ठशुण्ठीविडङ्गविदारीलाङ्गलीकरवीरार्द्रकस्वर्णक्षीरीदन्तीचित्रकालर्कसूधापयोभिस्तैलं चतुर्गुणमूत्रविपक्वमप्रदूषयत् गुदमभ्यङ्गात् क्षारवदर्शांसि शातयति।
तैलाभ्यक्तं वा पायुप्रदेशं पक्वेष्टकाशकलैस्तीक्ष्णकोटिभिरग्निवर्णैर्महिषीमूत्रनिर्वापितैर्निष्पीडयन् द्विकालं सप्तदिनानि स्वेदयेत्।
अनन्तां च यथोक्तेनावगाहरेन।
ततो गते सप्तरात्रे पूतीकरञ्जपल्लवकल्केन ससैन्धवेन स्नुही पयसा वर्तिं कृत्वा नातिशुष्कां गुदे विदध्यात्।
कृतविण्मूत्रं चावगाहे स्थापयेत्।
प्रातः सायं चैष विधिः प्रत्यहमेकान्तरं वा यावत्त्रिरात्रम्।
ततो देवदालीक्षारहरीतकीः शीलयेत्।
एवमर्शांसि शीर्यन्ते॥

श्लोक 11

अथ हरीतकीपाकविधिः।
सजालमूलं जीमूतकमन्तर्धूमं दहेत् तस्यभस्मनोर्द्धाढकं गोमूत्रपात्रद्वयेनैकविंशतिकृत्वो गालयेत्।
ततस्तेन क्षारमूत्रेण कुटजचित्रकव्याधिघातचूर्णप्रसृतत्रयान्वितेन पथ्याशतद्वयमाघनीभावात् पचेत्।
अवतीर्णं च तमवलेहं व्योषरजःप्रसृतयुक्तं घृतभाविते भाजने निदध्यात्।
स लेहः सावलेहविजयाद्वयोपयोगमभ्यस्यमानो गुदजजठरजघनवङ्क्षणशूलगरानाहगुल्मपाण्डुरोगाश्मरीशर्कराश्वासकासान् नियच्छति।
सदा च पत्रभङ्गोदकेन कोष्णेनाम्बुना वा शौचमाचरेत्।
अप्रवर्तमानं च रुधिरमुच्छूनकठिनेष्वर्शःसु जलौकाभिः सूचीकूर्चेन वा प्रवर्तयेत्॥

श्लोक 12

अग्निसादे गुदशोफशूलार्तौ च हिङ्ग्वर्धकर्षं सौवर्चलयवक्षारेन्द्रयवपिप्पलीनां पृथक् कर्षं मूर्वार्धपलं पाठापलं शुण्ठीद्विपलं चैकत्र चूर्णितमुष्णाम्बुसर्पिर्मद्याद्यैरुपयोज्यम्।
त्रिलवणादिचूर्णं वा।
हिङ्ग्वतिविषाकुष्ठस्वर्जिकाक्षारबिडलवणानि वा द्विगुणोत्तराणि प्रथोजयेत्।
प्राणदां वा तक्रानुपानं सगुडाम्।
प्रातः प्राग्भक्तं वा निरन्नो वा तक्रमहरहस्तस्मिन् जीर्णे तक्रे सायं तक्रपेयां ससैन्धवां पिबेत्।
तक्रेणैव वा लाजसक्तूनवलिह्यात्।
पीलूनि वा तक्रानुपानानि प्रातः पक्षं पक्षार्धं वा प्रयोजयेत्।
कटुकिकामूलकल्कं वा प्रातस्तक्रेण॥

श्लोक 13

शुण्ठीचित्रकपुनर्नवाक्वाथसिद्धं वा क्षीरम्।
गोमूत्रपरिस्रुते वा बहुकृत्वो जीमूतकक्षार उषिता हरीतकीः।
गोमूत्रार्धद्रोणसिद्धं वा क्षौद्रवदभयाशतम्।
वासिष्ठहरीतजीर्वा।
भल्लातकानि वा रसायनोपदेशेन पुनर्नवामलंबुसां वा शोफोक्तविधिना गुडार्द्रकं वा॥

श्लोक 14

सकुतुमन्थं वा भल्लातकचूर्णयुक्तं नातिलवणं तक्रेण।
तक्रेण वाषाढकार्तिकमार्गशीर्षाणां मासानामन्यतमस्मिन् पुष्ययोगे समुद्धृतं चित्रकमथवा मस्तुयूषक्षीरघृततैलाद्यन्यतमेन॥

श्लोक 15

चित्रकमूलक्वाथं वा लेहतां गतं समधुगुडं तक्राशी शीलयेत्।
कलशे वान्तश्चित्रकमूलत्वक्कल्कलिप्तशुष्के जातं दधि कालशेयं वा पानभोजनेषु।
एवं भार्ङ्ग्यास्फोतगुडूचीपञ्चकोलेषु तक्रकल्पः॥

श्लोक 16

घृतघटे वा हपुषोपकुञ्चिकाधानकाजमोदाजाजीशठीकारवीयवानीचित्रकपिप्पलीद्वयपिप्पलीमूलचूर्णासुतं जातं तक्रम्।
तक्रमेव वातिमन्दवह्निः सप्ताहसस्नेहमम्लमनम्लं वा सान्नमनन्नं वा शीलयेत्॥

श्लोक 17

ततस्तक्रसिद्धानि क्रमशोऽर्शोघ्नलघुदीपनीयद्रव्यधान्यपिशितशाकोपकल्पितानि पेयाअयूषरसव्यञ्जनानि।
तक्रं हि परमौषधमनिलकफार्तीनां विशेषाज्जठराश्रितानाम्।
तत्रापि विशेषेण दुर्नाम्राम्।
न हि तद्विहतान्यर्शांसि पुनः प्ररोहन्ति।
भूमावपि तन्निषिच्यमानमहरहः समूलमुच्छिनत्ति तृणजालमप्स्वपि च शैवालम्।
तद्विशोधितेषु पुनर्देहस्रोतःसूपचीयमानोऽन्नरसः पुष्टिबलवर्णौजसामाशु वृद्धये सम्पद्यते॥

श्लोक 18

मद्यपश्च सेवेत चव्यचित्रकाजाजीचूर्णानुविद्धं शीधुं गौडं वा।
सौवर्चलहपुषान्वितां वा सुराम्॥

श्लोक 19

अभयापलाष्टकं द्विगुणामलकमिन्द्रवारुणीपलपञ्चकं च द्विगुणकपित्थमध्यं लोद्ध्रविडङ्गैलवालुकपिप्पलीमरिचानि द्विपलांशानि जर्जरितान्युदकभारे विपाच्य पादशेषं रसं पूतशीतं गुडतुलाद्वयेन धातकीपलाष्टकेन संयोज्य घृतभाजनेऽर्धमासस्थं प्रातरन्नकाले वोपयुञ्जीत।
अयमभयारिष्टोऽर्शोग्रहणीपाण्डुहृद्रोगकामलायक्ष्मविषमज्वरप्लीहगुल्मोदरश्वयथुकुष्ठकृमिग्रन्थ्यर्बुदघ्नोऽग्निरुचिवर्णकरश्च॥

श्लोक 20

दन्तीचित्रकत्रिफलादशमूलानि पालिकान्युदकद्रोणे साधयित्वा पादशेषे पूतशीते तस्मिन् गुडतुलार्धं धातकीकुडवं च प्रक्षिप्य घृतभाजने मासमुषितो दन्त्यरिष्टः समानः पूर्वेण।
दुरालभायाः प्रस्थमभयामलकवृषपाठाचित्रकदन्तीमहौषधीनां प्रत्येकं द्विपलमम्भसां द्रोणे पूर्ववत् सिद्धं पूतशीतं शर्करातुलयोन्मिश्रं मधुघृतप्रियङ्गुपिप्पलीचविकाकल्कलिप्तेघृतकुम्भे पक्षं निधापयेत्।
अयं दुरालभारिष्टः समानः पूर्वेण॥

श्लोक 21

नवामलकपलशतं पिप्पलीनागपुष्पकुडवद्वयं पालिकानि चव्यचित्रकक्रमुकलोध्रपाठामरिचविडङ्गमञ्जिष्ठैलवालुकपिप्पलीमूलान्यर्धपलांशिकानि दार्वीशताह्वेन्द्राह्वासारिवाद्वयमुस्तकुष्ठान्यैकध्यं च जलद्रोणद्वयेऽर्धावशेषं साधयेत्।
स रसः पूतशीतः समद्राक्षास्वरसः सितापलशतद्वयेन क्षौद्रार्धप्रस्थेन पृथक् कार्षिकेण च त्वगेलालोध्रकुटन्नटाम्बुसेव्यक्रमुककेसरचूर्णेन युक्तो गुडशर्कराधूपिते घृतभाण्डे प्रक्षिप्य पक्षमुपेक्षितोऽयमामलकारिष्टः समानः पूर्वेण।
अकालवलीपलितखलतिशमनश्च॥

श्लोक 22

गुग्गुलुपलचतुष्टयमामलकप्रस्थं धातकीप्रस्थमभयाशतमक्षशतञ्च गुडपलशतद्वयं पालिकानि पञ्चकोलाजमोजचतुर्जातककट्फलमुस्तमरिचानि दशपलिकानि च खण्डद्राक्षादाडिमानि सर्वमैकध्यमम्भसाप्लाव्यालोड्य च पुराणे जतुसृते द्रोणक्षमे भाजने निक्षिप्य स्थापयेत्।
गन्धवर्णरसोपपन्नं चासवमभिसमीक्ष्य तं कुम्भमिक्षुरसस्य पूरयेत्।
एष षण्मासस्थितो गुग्गुल्वासवः समानः पूर्वेण॥

श्लोक 23

अमद्यपो वा पिबेच्च शृतशीतमल्पमुदकं शृतं धान्यनागराभ्याम्।
लघुना पञ्चमूलेन वा।
पञ्चकोलकाजाजीकारवीगजशौण्डीबिल्वशलाटुपाठातुम्बुरुधान्यकैर्वा॥

श्लोक 24

एभिश्च फलाम्लान् यमकस्निग्धान् पेयायूषरसादीन् कुर्यात्।
एभिरेव घृतं साधयेत्।
पिबेद्वा मस्तु धान्याम्लं मधुशुक्तोदकं वा॥

श्लोक 25

पूतीकरञ्जत्वक्पलशतद्वयं शुष्कमुदकद्रोणे क्वाथयेत्।
पादशेषे च तस्मिन् पूतशीते गुडपलान्यशीतिं व्योषार्धपस्थचूर्णं च दत्वा यवपल्ले घृतकुम्भस्थं मासं निधापयेत्।
एतत् करञ्जशुक्रमभ्यस्यमानमलमनलजननमर्शोगुल्मानाहप्लीहगरोदरघ्नं च।
पीलुतुलां तुल्यगुडां मस्तुनस्तक्रस्य वा द्रोणेऽभिषुणुयात्।
तत्र पालिकानामभयातिविषापाठामुस्तकटुकादेवदारुहिंस्राजीरकारुष्करचव्याजमोदैलाचित्रकगजपिप्पलीव्योषविडङ्गशताह्वाहरेणुचिरबिल्वत्वक्कुष्ठकुटजबीजत्रिवृत्पिप्पलीमूलोपकुञ्चिकानां चूर्णं क्षिप्त्वा पूर्ववन्निधापयेत् तदधिकगुणं पूर्वस्मात्॥

श्लोक 26

सुतक्षितानामिक्षुगण्डिकानां द्रोणमुदकद्रोणेन घृतभाविते भाजनेऽभिषुणुयात्।
आवपेच्चात्र जर्जरीकृता यवानीयवानककुस्तुम्बरीपृथवीकाः पृथक् कुडवांशास्तथा द्विपलोन्मितास्तेजोवतीपञ्चकोलकाजाजीजीरकद्वयकारवीः क्षौद्रकुडवं च प्रक्षिप्य ततो दशरात्रेण सञ्जातात् तस्मान्मात्रां सौवर्चलार्द्रकभूस्तृणैः सुरभीकृतां भुञ्जानः पिबेत्।
पुनः पुनश्चात्र पानीयं प्रक्षिपेदिक्षुगण्डिकादिकञ्च सम्भारम्।
तत् गण्डीराख्यं काञ्जिकं परं रुचिकरमग्निदीपनमर्शोग्रहणीविकारोदरगरकृमिगुल्ममदात्ययपाण्डुरोगघ्नम्॥

श्लोक 27

रूक्षकोष्ठश्चार्शसो नागरक्षारकृष्णाजाजीधान्यकारवीगर्भं फलाम्लं सफाणितं सर्पिः पिबेत्।
गुल्मोक्तानि वा घृतानि।
किंशुकक्षारोदकेन वा विपक्वं व्योषगर्भम्।
पाठामरिचपञ्चकोलकक्षारयवानीकुस्तुम्बरुहरीतकीबिल्वविडङ्गसैन्धवगर्भं चतुर्गुणेन दध्ना विपक्वं सर्पिः प्रवाहिकागुदभ्रंशपिच्छास्रावानाहगुल्मपायुपार्श्ववङ्क्षणवेदनाग्रहणीदोषहृद्रोगमूत्रकृच्छ्रघ्नम्॥

श्लोक 28

पिप्पलीपाठानागरगोक्षुरकाणां त्रिपलिकानां निर्यूहे गण्डीरमरिचपञ्चकोलकान्यर्धपलिकानि कल्कीकृत्य षड्गुणेन दध्ना चत्वारिंशत् घृतपलानि तुल्यचाङ्गेरीरसानि पाचयेत्।तत् सर्पिः समानं पूर्वेण।
शोफोदरवासकासहिध्माघ्नं च॥

श्लोक 29

बद्धवर्चांसि चार्शांस्युदावर्तवदुपाचरेत्।
भिन्नवर्चांसि चार्शांस्यतीसारवत्।
अतिप्रवृत्तरक्तानि रक्तपित्तातिसारवत्॥

श्लोक 30

अशुद्धं च कालबलापेक्षी स्रवद्रुधिरमुपेक्षेत।
उभौ च तत्रानुबध्येते श्लेष्मानिलो वा।
तत्र पित्तश्लेष्मोल्बणं पाचनदीपनद्रव्यैरुपेक्षया च संशोध्य शमयेत्।
पित्तानिलोल्बणमन्तर्बहिरूर्ध्वमधश्च यथाग्निस्नेहैः।
केवलपित्तोल्बणमुष्णकाले विशेषतश्च दुर्बलस्य स्तम्भनैः॥

श्लोक 31

अथ श्लेष्मोल्बणे कुटजत्वग्विश्वभेषजक्वाथं पिबेत्। तण्डुलोदकेन वा कुटजत्वक्फलातिविषारसाञ्जनानि सक्षौद्राणि।
कुटजत्वक्पलशतमार्द्रं दिव्याम्बुना क्वाथयेत्।
मुक्तरसे च पूते तस्मिन् पालिकान् सुश्लक्ष्णपिष्टान् प्रियङ्गुसमङ्गामोचरसान् कुटजबीजत्रिपलं च प्रक्षिप्य मृद्वग्निना पुनः साधयेदादर्वीलेपात्।
अयमवलेहश्छागलीक्षीरेण पेयामण्डेन वा सहाजक्षीरभुजः प्रयुक्तो रक्तजान्यर्शांस्यतीसारं कफपित्तञ्चोर्ध्वमधो वा प्रवृत्तमपहरति।
कुटजत्वक्पलशतमुदकद्रोणेऽष्टभागशेषं साधयेत्।
परिस्राव्य तदुदकं कल्कीकृतैर्व्योषरसाञ्जनमोचरसमुस्ताधातकीफलबिल्वशलाटुदाडिमशलाटुत्वक्समङ्गालोध्रद्वयैः पलांशैः पलैश्च कुटजत्वचो दशभिस्तथा विंशत्या घृतस्य गुडस्य च त्रिंशता संसृष्टमधिश्रयेत्।
अथावलेहतां गतमवतारितं सप्ताहमर्धमासं मासं वा धान्यमध्ये सुगुप्तं निहितमुपयुक्तमाशु सर्वार्शोग्रहणीदोषश्वासकासानपोहति॥

श्लोक 32

मोचरससमङ्गातिललोध्रचन्दननीलोत्पलानि वा छागपयसा पिबेत्।
शूले तु बिल्वयवानीनागररसाञ्जनदुरालभावत्सकबीजानामन्यतमेनापि युक्तं पाठाचूर्णं शृतेन कोष्णेनांभसा तक्रेण वा।
शूले रक्तातिप्रवृत्तौ च लोध्रधातकीकुटजत्वगिन्द्रयव केसरनीलोत्पलकल्कसिद्धं सर्पिर्दुग्धिकानिदिग्धिकाकल्कसिद्धं वा॥

श्लोक 33

वातोल्बणे तु रक्ते बलातिबलाबिल्वत्रिफलाहस्तिपिप्पलीन्यग्रोधकरञ्जपत्रमधुकतिन्दुकोत्पलैः कार्षिकैर्घृतप्रस्थमजाक्षीरे दशगुणे पचेत्।
तत् परं रक्तार्शोघ्नम्।
पाठालोध्रह्रीबेरोत्पलचव्यचन्दनसमङ्गातिविषाबिल्वधातकीमधुकदेवदारुदार्वीत्वङ्मुस्तामांसीनागरयवक्षारचित्रककल्केन चाङ्गेरीस्वरसेन च साधितं सर्पिर्द्रोषत्रयघ्नमर्शोऽतिसारप्रवाहिकाबस्त्यानाहगुदभ्रंशपिच्छास्रुतिग्रहणीपाण्ड्वामयज्वरमूत्रकृच्छ्रारोचकदुर्नामशूलेषु योज्यम्।
बलादार्व्यवाक्पुष्पीगोक्षुरकपृश्निपर्शीनामश्वत्थोदुम्बरन्यग्रोधप्लक्षबदरीवेतसप्रवालानां च द्विपलोन्मितानां कषायेण जीवन्तीकटुकापञ्चकोलेन्द्रयवदेवदारुशाल्मलीपुष्पवीराचन्दनाञ्जनकट्फलमुस्तश्यामास्थिरातिविषासमङ्गाव्याघ्नीमोचरसबिल्वकमलोत्पलकिञ्जल्कानां चार्धकर्षोन्मितानां कल्केन चाङ्गेरीसुनिषण्णकस्वरसप्रस्थाभ्यां च घृतप्रस्थं पाचयेत्।
तत् समानं पूर्वेण॥

श्लोक 34

रक्तस्तम्भनाय च शीताभ्यङ्गप्रदेहसेकावगाहादीन् प्रयुञ्जीत।
तदशान्तौ यथोदितानि घृतानि कवोष्णान्यवपीडकयोजनया पाययेत्।
कवोष्णानेव च घृतैतलक्षीररसकानथवा स्निग्धोष्णैर्मांसरसैर्भोजयित्वा घृतमण्डेन कोष्णेनानुवासयेत्।
शीतवीर्यद्रव्यसिद्धेन वा यथास्वं स्नेहेन।
शाल्मलीपुष्पयवासकुशकाशमूलन्यग्रोधोदुम्बराश्वत्थशृङ्गान् द्विपलाशान् क्षीरप्रस्थेन त्रिगुणोदकेन साधयित्वा क्षीरावशेषमवतारयेत्।
स निर्यूहः शाल्मलीनिर्याससमङ्गाचन्दनोत्पलेन्द्रयवप्रियङ्गुपद्मकेसरकल्कगर्भो घृतक्षौद्रशर्करोपेतः पिच्छाबस्तिर्गुदभ्रंशप्रवाहिकारक्तस्रुतिज्वरघ्नः॥

श्लोक 35

अपिच लाजैः पेया पीता चुक्रीकाकेसरोत्पलैः सिद्धा।
हन्त्याशु रक्तरोगं तथा बलापृश्निपर्णीभ्याम्॥

श्लोक 36

ह्रीबेरबिल्वनागरनिर्यूहे साधितां सनवनीताम्।
वृक्षाम्लदाडिमाम्लामम्लीकाम्लां सकोलाम्लाम्॥

श्लोक 37

गृञ्जनकसुरससिद्धां दद्याद्यमकेन भर्जितां पेयाम्।
रक्तातिसारग्रहणीप्रवाहिकाशोफनिग्रहणीम्॥

श्लोक 38

काश्मर्यामलकानां सकच्छुराणां खलान् फलाम्लांश्च।
गृञ्जनकशाल्मलीनां दुग्धीकाचुक्रिकाणां च॥

श्लोक 39

न्यग्रोधशृङ्गिकानां खलांस्तथा कोचिदारपुष्पाणाम्।
दध्नः सरेण सिद्धान् दद्याद्रक्ते प्रवृत्तेऽति॥

श्लोक 40

सिद्धं पलाण्डुशाकं तक्रेणोपोदकां सबदरां च।
रुधिरस्रुतौ प्रदद्यान्मसूरसूपं सतक्राम्लम्॥

श्लोक 41

पयसा शृतेन यूषैः सतीनमुद्गाढकीमसूराणाम्।
भोजनमद्यादम्लैः शालिश्यामाककोद्रवजम्॥

श्लोक 42

शशहरिणलावमांसैः सकपिञ्जलैणेयकैः सुसिद्धैश्च।
शालीनद्यान्मधुरैरम्लैरीषत्समरिचैर्वा॥

श्लोक 43

दक्षशिखितित्तिरिरसौर्द्विककुल्लोपाकजैश्च मधुराम्लैः।
अद्याद्रसैरतिवहेष्वर्शःस्वनिलोल्बणशरीरः॥

श्लोक 44

छगलीपयः प्रयुक्तं निहन्तिरक्तं सवास्तुकरसश्च।
धन्वविहगमृगाणां रसो निरम्लः कदम्लो वा॥

श्लोक 45

रसखलशाकयवागूघृतयुक्तः केवलोऽथवा जयति।
रक्तमतिवर्तमानं वातं च पलाण्डुरुपयुक्तः।
छागान्तराधितरुणं सरुधिरमुपसाधितं बहुपलाण्डु॥

श्लोक 46

व्यत्यासान्मधुरामं विट्शोणितसङ्क्षये योज्यम्।
नवनीततिलाभ्यासात् केसरनवनीतशर्कराभ्यासात्।
दधिसरमथिताभ्यासात् गुदजाः शाम्यन्ति रक्तवहाः॥

श्लोक 47

नवनीतघृतं छागं सपयोमांसं सषष्टिकः शालिः।
तरुणश्च सुरामण्डस्तरुणीव सुरा जयत्यस्रम्॥

श्लोक 48

प्रायेण वातबहुलान्यर्शांसि भवन्त्यतिस्रुते रक्ते।
दृष्टेऽपि हि कफपित्ते तस्मादनिलोऽधिकं जेयः॥

श्लोक 49

दृष्ट्वा शोणितपित्तं प्रबलं कफवातरूपमल्पं च।
शीताः क्रियाः प्रयोज्या यथेरिताः पित्तरोगेषु॥

श्लोक 50

उदावर्ते तु दोषविलयनाय शीतज्वरघ्नतैलाभ्यक्तस्विन्नस्य श्यामात्रिवृत्पिप्पलीनिकुम्भनीलिनीचूर्णं गोमूत्रपरिपीतं द्विगुणलवणगुडेन कराङ्गुष्ठाकारां वर्तिं कृत्वा घृताभ्यक्तगुदस्य गुदे वातविण्मूत्रानुलोमनार्थं निदध्यात्।
पिप्पलीमदनफलसर्षपागारधूमैर्वा समूत्रगुडैः।
तुम्बीकरघाटकणासिद्धार्थकसैन्धवजीमूतकैर्वा।
एतेषामेव वा चूर्णं नाड्या प्रधमेत्।
तद्विघाते त्वानुलोमिकौषधतैलमूत्राम्ललवणक्षारयुक्तं सुतीक्ष्णमास्थापनं दद्यात्॥

श्लोक 51

त्रिफलात्रिकटुत्रिलवणदन्तीचित्रकभल्लातकानि जर्जरितानि सस्नेहमूत्राणि शरावद्वयकोष्ठे मृत्प्रलिप्ते गोमयाग्निना विपचेत्।
स कल्याणकाख्यः क्षारः क्षीरमांसरसाशिना घृतेन पीतोऽन्नपाने वा प्रणीतोऽर्शोगुल्मपाण्डुहृद्रोगोदावर्तग्रहणीमूत्रविबन्धाश्मरीकृमिश्वयथुहिध्माश्वासकासशूलानाहप्लीहमेहापहः।
वैरेचनिकमूलफलानि सहिंस्रार्कमूलदशमूलगुडाद्वीपिद्विपुनर्नवानि सर्वैश्च तुल्यानि पञ्चलवणानि क्षारः पूर्ववत् कृतः काङ्कायनोक्तोऽधिकगुणः पूर्वस्मात्।
हिङ्गुपाठात्र्यूषणत्रिफलाकटभीबिल्वमध्यायोरजः कटुकापञ्चकोलकमुस्तकुष्ठक्षारद्वयमुष्ककमधुकोग्रगन्धाविडङ्गमूर्वाजमोदेन्द्रयवगुडूचीदेवदारूणि कार्षिकाणिपृथक् पलांशानि पञ्चलवणान्यैकध्यमापोथ्य घृततैलकुडवेन दधिकुडवेन च संयोज्य कल्याणकविधिना दग्धो महाक्षारस्तत्तुल्यः।
सर्वगरविषनिबर्हणश्च।
प्राग्भक्तं वा वितरेत् घृतगुडयवक्षारान्॥

श्लोक 52

दाडिमरसं वा सयवानीपाठामहौषधलवणगुडतक्रम्।
यमकस्नेहभृष्टान् वा सक्तुयुक्तान् करञ्जप्रसवान्।
दधिदाडिमाम्लबदरतिन्तिणीकमातुलुङ्गलवणसुरां यमकसंस्कृताम्।
त्रिवृद्दन्तीगुडचित्रकचाङ्गेरीबालमूलकलोणीकासुवर्चलोपोदकाचुञ्चुपर्णीवीरावास्तुकपल्लवांस्तथा दक्षशिखिश्वाविङ्गोधामार्जारोष्ट्रलोपाककूर्मशल्यकमांसान् मांसरसान् यवप्रायं चान्नं भोजनार्थे।
पानार्थे तु सपिप्पलीचूर्णं गौडमच्छसुरां सलवणानासवांश्च दीपनीयवातहरानारनालमस्तु वा संस्कृतम्॥

श्लोक 53

अनुबन्धे तु भूयो मदिरामस्तुमूत्रयुक्तं विरेकम्।
सपिप्पलीं वा घृतभृष्टां सगुडां हरीतकीं सकुम्भनिकुम्भां वा।
द्विविधोपक्रमणीयोदितान् वा तर्पणप्रयोगान्।
त्रिवृच्चूर्णं वा त्रिफलारसानुविद्धम्।
अभयामलकविडङ्गान् वा समत्रिवृतान् सगुडान् माणिभद्रकाख्यान्।
मिश्रकस्नेहं सुकुमारकं नीलिनीघृतं वा कल्पोदितानि वा विरेचनान्यवचारयेत्।
गुदाश्रये हि दोषेऽपहृते व्याधयोऽपि तज्जाः प्रशाम्यन्ति॥

श्लोक 54

रूक्षतया च विड्वातविब्न्धेन शूलोदावर्तसम्भवः तस्मात्तत्राशुतरं स्नेहनमनुवासनं विदध्यात्।
पिप्पलीमदनबिल्ववचामधुकशतपुष्पाशठीकुष्ठपुष्करमूलद्वीपिदेवदारुभिः श्लक्ष्णपिष्टैर्द्विगुणपयस्तैलं सिद्धमर्शोगुदभ्रंशयोनिशूलवङ्क्षणानाहगुदशोफोत्थानप्रवाहिकपिच्छास्रावोरुकटीपृष्ठदौर्बल्यवैवर्ण्यमूत्रकृच्छ्रनिषूदनं वातमूत्रशकृत्पित्तश्लेष्मानुलोमकरं च।
वातानुलोम्ये हि सति ध्रुवमनलो याति दीप्तिमर्शांसि चातः सङ्कोचमिति।
भवन्ति चात्र॥

श्लोक 55

अर्शांसि शस्त्रक्षाराग्निलेपाभ्यङ्गैरुपाचरेत्।
दृश्यान्यदृश्यानि पुनः सदान्तःपरिमार्जनैः॥

श्लोक 56

अल्पकालोत्थितेष्वल्पलिङ्गदोषेषु चौषधम्।
नात्युच्छ्रितेषु मृदुषु क्षारोऽस्रस्रुतिमत्सु च॥

श्लोक 57

उच्छ्रितेष्वल्पमूलेषु शस्तं शस्त्रं कुनामसु।
युक्तेषु स्थैर्यकाठिन्यकार्कश्यैः शस्त्रपावकौ॥

श्लोक 58

योज्यौ महत्सु वा क्षारः पाटयित्वा विकुट्य वा।
सूचीकूर्चेन तद्वच्च बडिशं तेषु शस्त्रकम्॥

श्लोक 59

अतिस्थूलातिदीर्घे तु यन्त्रके मर्मघट्टनम्।
अणुच्छिद्रे महद्रूपमेकदेशेऽवशिष्यते॥

श्लोक 60

अतिच्छिद्रेऽधिकं रूपादवतीर्णं प्रवाहणात्।
स्थूलान्त्रमति हिंस्याच्च यथोक्तं योजयेदतः॥

श्लोक 61

शुष्केषु भल्लातकमग्र्यमुक्तं भैषज्यमार्द्रेषु तु वत्सकत्वक्।
सर्वेषु सर्वर्तुषु कालशेय मर्शःसु बल्यं च मलापहं च॥

श्लोक 62

भित्त्वा विबन्धाननुलोमनाय यन्मारुतस्याग्निबलाय यच्च।
तदन्नपानौषधमर्शसेन सेव्यं विवर्ज्यं विपरीतमस्मात्॥

श्लोक 63

अर्शोऽतिसारग्रहणीविकाराः प्रायेण चान्योन्यनिदानभूताः।
सन्नेऽनले सन्ति न सन्ति दीप्ते रक्षेदतस्तेषु विशेषतोऽग्निम्॥