श्लोक 1
अथातः प्रमेहनिदानं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
विंशतिः प्रमेहा भवन्ति।
तद्यथा।
कफादुदकेक्षुसान्द्रसुरापिष्टशुक्रसिकताशीतशनैर्लालाप्रमेहाः दश।
पित्तात् क्षारकालनीलहारिद्रमाञ्जिष्ठशोणितमेहाः षट्।
वाताद्वसामज्जहस्तिमधुमेहाश्चत्वार इति॥
श्लोक 3
तेषां यत्किञ्चिदाहारविहारजातं श्लेष्ममेदोमूत्रजननं स हेतुः।
तत्र वातपित्तमेदःक्लेदमांसशुक्ररसैरन्वितो बस्तिगतः श्लेष्मा प्रमेहान् जनयति।
तैः कफशोणिताभ्यां च युक्तं पित्तम्।
तैर्वसालसीकामज्जौजोभिश्च वायुः॥
श्लोक 4
त्रयाणामपि दोषाणां श्लेष्मा प्रमेहेषु प्राक् प्रकोपमापद्यते श्लेष्माधिष्ठानत्वान्मूत्रस्य।
तद्वृद्धेर्मेद एव च तेन प्रथमं दूष्यतेऽत्यन्तसभागत्वात्।
तदनन्तरं देहक्लेदादयः।
ततः श्लेष्मादिक्षये पित्तं प्रबलीभवच्छोणितमपि दूषयति।
तत्क्षयेऽपि वायुर्वसादीन् धातून् शरीरस्य परमसारभूतान् बस्तिमाकृष्य मूत्रेण सह विसृजति॥
श्लोक 5
तस्मात् कफपित्तवातजाः क्रमेण साध्ययाप्यासाध्याः।
तथा पित्तजाः संसृष्टदोषमेदःस्थानत्वाद्विरुद्धोपक्रमत्वाच्च।
वातजः पुनः क्षीणेषु धातुषु महात्ययतया विरुद्धोपक्रमत्वाच्च।
मेदसि तु नातिदुष्टे पित्तजा अपि साध्यतां गच्छेयुः॥
श्लोक 6
धातुसम्पर्कात् पुनः सर्वमेहेषु मूत्रमाविलं भूरि च भवति।
दोषाणां दूष्याणां चोत्कृष्टापकृष्टसंयोगेन मूत्रवर्णरसस्पर्शगन्धविशेषाद्वर्णानामिव शुक्लकृष्णादीनां शबलकल्माषादयः प्रमेहाणां प्रभेदा भवन्ति॥
श्लोक 7
तेषां पूर्वरूपाण्यतिवृद्धिर्नखादीनां जटिलीभावश्च केशानां माधुर्यमास्यस्य तालुकण्ठशोषः।
पिपासा मलाधिक्यं बहिःकाये कायछिद्रेषु च शीतेच्छा स्नेहः स्वेदः सुप्तता चाङ्गेषु पाणिपाददाहोतिमाधुर्यात् पिपीलिकोपसर्पणं विस्रगन्धता च मूत्रशरीरयोः शुक्लता च मूत्रे श्वासनिद्रातन्द्रालस्यप्रकर्षश्च॥
श्लोक 8
तत्र शीतं श्वेतमगन्धमच्छमुदकमिवोदकमेही मेहति।
इक्षुरसमिवातिमधुरं शीतमीषत्पिच्छिलाविलामिक्षुमेही।
पर्युषितं सान्द्रीभवत् सान्द्रमेही।
सुरातुल्यमुपरि प्रसन्नमधःसान्द्रं सुरामेही।
हृष्टरोमा पिष्टमिव सान्द्रं सितं च पिष्टमेही।
शुक्राभं शुक्रमिश्रं वा शुक्रमेही।
सरुजं ससिकतं सिकतामेही।
प्रायो मधुरमतिशीतं शीतमेही।
मन्दंमन्दं शनैःशनैः शनैर्मेही।
पिच्छिलं तन्तुबद्धमिव लालामेही।
वर्णगन्धरसस्पर्शैः स्रुतक्षारोपमं क्षारमेही।
उष्णं मषीकालं कालमेही।
सफेनमच्छमम्लं चाषपत्रनीलं नीलमेही।
कटुकं सदाहं हरिद्रायुक्तमिव हारिद्रमेही।
विस्रं मञ्जिष्ठोदकवर्णमिव मञ्जिष्ठामेही।
विस्रमुष्णं सलवणं शोणितसङ्काशं शोणितमेही।
वसामिश्रं वसां वा वसामेही।
मज्जमिश्रं मज्जानं वा मज्जमेही।
सलसीकं मधुरमवेगं लसीकयैव च विबद्धमनुबद्धमजस्रं मत्त इव हस्ती स्रवति हस्तिमेही॥
श्लोक 9
औजः स्निग्धमधुरं तद्रौक्ष्याद्वायुः कषायत्वेनोपसृजति तेन कषायमधुरानुयातं मध्विव मेहति मधुमेही।
स तु द्विधा कैश्चिदिष्यते।
धातुक्षयेणानिलकोपाद्दोषावरणेन वा।
तदावृतो हि वायुराहारप्रसादमादाय मुहुर्मुहुरनिमित्तं दोषलिङ्गानि वृद्धिक्षयौ चाविर्भावयन् कृच्छ्रसाध्यं मधुमेहं प्रवर्तयति।
सर्व एव चोपेक्ष्यमाणा मधुमेहत्वमायान्ति।
तस्मात्सर्वेऽपि मधुमेहशब्देनोच्यन्ते।
यतः सर्वेष्वपि प्राङ्मधिविव मधुरं मेहति मधुररसश्चास्य देहो भवतीति॥
श्लोक 10
तत्र प्रतिश्यायः शरीरशैथिल्यमरोचकाविपाकौ प्रसेकच्छर्दिर्निद्रा कासश्च श्लेष्मजानामुपद्रवा भवन्ति।
वृषणावदरणं बस्तिर्मेढ्रतोदोऽम्लकः पिपासा ज्वरो दाहो मूर्च्छातीसारः पाण्डुरोगश्च पित्तजानाम्।
हृद्ग्रहो लौल्यमनिद्रता कम्पः शूलं बद्धपुरीषत्वं शोषः कासः श्वासश्च वातजानाम्॥
श्लोक 11
अथैवमस्य मेदःक्लेदादिभिरभिष्यण्णदहेस्य दोषैरनुगतधातोः प्रमेहाभिवृद्धौ मांसलेष्ववकाशेषु सन्धिमर्मसु च प्रदेशविशेषाश्रयत्वात् प्राणापहारिण्यो भूयः कष्टतमोपद्रवा दश पिटका जायन्ते।
सुतरां चाधःकाये।
तदभिमुखा हि प्रमेहिणां दोषाः।
तद्यथा।
शराविका कच्छपिका जालिनी पुत्रिणी विदारिका सर्षपिका मसूरिकालजी विनता विद्रधिश्च॥
श्लोक 12
तत्र श्यावा क्लेदवेदनायुक्ता निम्नमध्योन्नतौष्ठा शरावसंस्थानप्रमाणा शराविका।
महामूलावगाढार्तितोदा श्लक्ष्णा कच्छपपृष्ठनिभा कच्छपिका।
महाशयार्तितोदा स्तब्धा स्निग्धस्राविणी सूक्ष्मच्छिद्रा मांससिराजालावृता जालिनी।
महती पिटकाभिरल्पाभिराचिता पुत्रिणी।
कंठिना विदारीकन्दवद्वृत्ता विदारिका।
शीघ्रपाका महावेदना सर्षपाकृतिप्रमाणा तद्विधाभिश्च पिटकाभिश्चिता सर्षपिका।
मसूराकार प्रमाणा मसूरिका।
त्वचमुत्थान एव दहन्ती स्फोटैरावृता विसर्पन्ती रक्ता कृष्णातितृण्मोहज्वरकरी दाहभूयिष्ठातिकष्टा चालजी।
महती नीलावगाढरुजाक्लेदा पृष्ठोदरान्यतराधिष्ठाना विनता विनता।
विद्रधिस्तु वक्ष्यते पृथगेव॥
श्लोक 13
तासामाद्याः पञ्चातिबलश्लेष्ममेदःसम्भवेन मूलव्याध्येकरूपत्वात्तद्वृद्धिकारितया दुःसहाः।
न त्वितराः पित्तोल्बणतयाल्पकफमेदोभावात्।
प्रमेहवशाच्च पिटकासु यथास्वं दोषोद्रेको भवतीति।
भवति चात्र श्लोकः॥
श्लोक 14
प्रमेहेण विनाप्येता जायन्ते दुष्टमेदसः।
तावच्च नोपलक्ष्यन्ते यावद्वस्तुपरिग्रहः॥
श्लोक 15
हारिद्रवर्णं रक्तं वा मेहप्राग्रूपवर्जितम्।
यो मूत्रयेन्न तं मेहं रक्तपित्तं तु तं विदुः॥
श्लोक 16
दृष्ट्वा प्रमेहं मधुरं सपिच्छं मधूपमं स्यात् द्विविधो विचारः।
सम्पूरणाच्छ्रलेष्मसमुद्भवः स्यात् क्षीणेषु दोषोष्वनिलात्मको वा॥
श्लोक 17
सपूर्वरूपाः कफपित्तमेहाः क्रमेण ये वातकृताश्च मेहाः।
साध्या न ते पित्तकृतास्तु याप्याः साध्यास्तु मेदो यदि नातिदुष्टम्॥