अष्टाङ्गसंग्रहः शरीरस्थानम् दशमोऽध्यायः

श्लोक 1

अथातो विकृतेहाविज्ञानीयमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

घनीभूतमिवाकाशमाकाशमिव यो घनम्।
अमूर्तामिव मूर्तं च मूर्तं वामूर्तवत् स्थितम्॥

श्लोक 3

तेजस्व्यतेजस्तद्वच्च शुक्लं कृष्णमसच्च सत्।
अनेत्ररोगश्चन्द्रं च बहुरूपमलाञ्छनम्॥

श्लोक 4

जाग्रद्रक्षांसि गन्धर्ववन् प्रेतानन्यांश्च तद्विधान्।
रूपं व्याकृति तद्वच्च यः पश्यति स नश्यति॥

श्लोक 5

सप्तर्षीणां समीपस्थां यो न पश्यत्यरुन्धतीम्।
ध्रुवमाकाशगङ्गां वा न स पश्यति तां समाम्॥

श्लोक 6

मेघतोयौघनिर्घोषवीणापणववेणुजान्।
शृणोत्यन्यांश्च यः शब्दानसतो न सतोऽपि वा॥

श्लोक 7

निष्पीड्य कर्णौ शृणुयान्न यो धुकधुकास्वनम्।
तद्वद्गन्धरसस्पर्शान्मन्यते यो विपर्ययात्॥

श्लोक 8

सर्वशो वा न यो यश्च दीपगन्धं न जिघ्रति।
विधिना यस्य दोषाय स्वास्थ्यायाविधिना रसाः॥

श्लोक 9

यः पांसुनेव कीर्णाङ्गो योऽङ्गे घातं न वेत्ति वा॥

श्लोक 10

अन्तरेण तपस्तीव्रं योगं वा विधिपूर्वकम्।
जानात्यतीन्द्रियं यश्च तेषां मरणमादिशेत्॥

श्लोक 11

जिह्वा श्यावा मुखं पूति सव्यमक्षि निमज्जति।
स्वगा वा मूर्ध्नि लीयन्ते यस्य तं परिवर्जयेत्॥

श्लोक 12

निकषन्निव यः पादौच्युतांसः परिसर्पति।
हीयते बलतः शश्वद्योऽन्नमश्नन् हितं बहु॥

श्लोक 13

योल्पाशी बहुविण्मूत्रो बह्वाशी चाल्पमूत्रविट्।
यो वाल्पाशी कफेनार्तो दीर्घं श्वसिति चेष्टते॥

श्लोक 14

दीर्घमुच्छ्वस्य यो ह्रस्वं निश्वस्य परिताम्यति।
ह्रस्वं च यः प्रश्वसिति व्याविद्धं स्पन्दते भृशम्॥

श्लोक 15

शिरो विक्षिपते कृच्छ्राद्योञ्चयित्वा प्रपाणिकौ।
यो ललाटात्स्स्रुतस्वेदः श्लथसन्धानबन्धनः॥

श्लोक 16

उत्थाप्यमानः सम्मुह्येद्यो बली दुर्बलोऽपि वा।
उत्थान एव स्वपिति यः पादौ विकरोति च॥

श्लोक 17

शयनासनकुड्यादेः योऽसदेव जिघृक्षति।
अहास्यहासी सम्मुद्यन् यो लेढि दशनच्छदौ॥

श्लोक 18

उत्तरोष्ठं परिलिहन् फूत्कारांश्च करोति यः।
यमभिद्रवति छाया कृष्णा पीतारुणापि वा॥

श्लोक 19

भिषग्भेषजपानान्नगुरुमित्राद्विषश्च ये।
वशगाः सर्व एवैते विज्ञेयाः समवर्तिनः॥

श्लोक 20

ग्रीवाललाटहृदयं यस्य स्विद्यति शीतलम्।
उष्णोऽपरः प्रदेशश्च शरणं तस्य देवताः॥

श्लोक 21

योऽणुज्योतिरनेकाग्रो दुश्छायो दुर्मनाः सदा।
बलिं बलिभुजो यस्य प्रणीतं नोपभुञ्जते॥

श्लोक 22

निर्निमित्तं च यो मेधां शोभामुपचयं श्रियम्।
प्राप्नोत्यतो वा विभ्रंशं स प्राप्नोति यमक्षयम्॥

श्लोक 23

गुणदोषमयी यस्य स्वस्थस्य व्याधितस्य वा।
यात्यन्यथात्वं प्रकृतिः षण्मासान्न् स जीवति॥

श्लोक 24

भक्तिः शीलं स्मृतिस्त्यागो बुद्धिर्बलमहेतुकम्।
षडेतानि निवर्तन्ते षड्भिर्मासैर्मरिष्यतः॥

श्लोक 25

मत्तवद्गतिवाक्कम्पमोहा मासान्मरिष्यतः।
नश्यत्यजानन् षडहात् केशलुञ्चनवेदनाम्॥

श्लोक 26

न याति यस्य चाहारः कण्ठं कण्ठामयादृते।
प्रेष्याः प्रतीपतां यान्ति प्रेताकृतिरुदीर्यते॥

श्लोक 27

यस्य निद्रा भवेन्नित्या नैव वा न स जीवति।
वक्त्रमापूर्यतेऽश्रूणां स्विद्यतश्चरणौ भृशम्॥

श्लोक 28

चक्षुश्चाकुलतां याति यमराज्यं गमिष्यतः।
यैः पुरा रमते भावैररतिस्तैर्न जीवति॥

श्लोक 29

कथयेन्न च पृष्टोऽपि दुःश्रवं मरणं भिषक्।
गतासोर्बन्धुमित्राणां न चेच्छेत्तं चिकित्सितुम्॥

श्लोक 30

यमदूतपिशाचाद्यैर्यत् परासुरुपास्यते।
घ्नद्भिरौषधवीर्याणि तस्मात्तं परिवर्जयेत्॥

श्लोक 31

अरिष्टं नास्ति मरणं दृष्टरिष्टं च जीवितम्।
अरिष्टे रिष्टविज्ञानं न च रिष्टेऽप्यनैपुणात्॥

श्लोक 32

चरकस्येति वचनं सुश्रुतेन तु पठ्यते।
ध्रुवं हि रिष्टे मरणं ब्राह्मणैस्तत् किलामलैः॥

श्लोक 33

रसायनतपोदानतत्परैश्च निवार्यते।
कृष्णात्रेयो द्विधा रिष्टं स्थिरास्थिरविभेदतः॥

श्लोक 34

दोषाणामपि बाहुल्याद्रिष्टाभासः समुद्भवेत्।
तद्दोषाणां शमे शाम्येत्स्थाय्यवश्यं तु मृत्यवे॥

श्लोक 35

आयुर्वेदफलं कृत्स्नं यदायुर्ज्ञे प्रतिष्टितम्।
रिष्टज्ञानादृतस्तस्मात्सर्वदैव भवेद्भिषक्॥