श्लोक 1
रोगः पाप्मा ज्वरो व्याधिर् विकारो दुःखम् आमयः ।
यक्ष्मातङ्क-गदाबाधाः शब्दाः पर्याय-वाचिनः ॥ १ ॥
श्लोक 2
निदानं पूर्व-रूपाणि रूपाण्य् उपशयस् तथा ।
संप्राप्तिश् चेति विज्ञानं रोगाणां पञ्च-धा स्मृतम् ॥ २ ॥
श्लोक 3
निमित्त-हेत्व्-आयतन-प्रत्ययोत्थान-कारणैः ।
निदानम् आहुः पर्यायैः प्राग्-रूपं येन लक्ष्यते ॥ ३ ॥
श्लोक 4
उत्पित्सुर् आमयो दोष-विशेषेणान्-अधिष्ठितः ।
लिङ्गम् अ-व्यक्तम् अल्प-त्वाद् व्याधीनां तद् यथा-यथम् ॥ ४ ॥
श्लोक 5
तद् एव व्यक्त-तां यातं रूपम् इत्य् अभिधीयते ।
संस्थानं व्यञ्जनं लिङ्गं लक्षणं चिह्नम् आकृतिः ॥ ५ ॥
श्लोक 6
हेतु-व्याधि-विपर्यस्त-विपर्यस्तार्थ-कारिणाम् ।
औषधान्न-विहाराणाम् उपयोगं सुखावहम् ॥ ६ ॥
श्लोक 7
विद्याद् उपशयं व्याधेः स हि सात्म्यम् इति स्मृतः ।
विपरीतो ऽन्-उपशयो व्याध्य्-अ-सात्म्याभिसंज्ञितः ॥ ७ ॥
श्लोक 8
यथा-दुष्टेन दोषेण यथा चानुविसर्पता ।
निर्वृत्तिर् आमयस्यासौ संप्राप्तिर् जातिर् आगतिः ॥ ८ ॥
श्लोक 9
संख्या-विकल्प-प्राधान्य-बल-काल-विशेषतः ।
सा भिद्यते यथात्रैव वक्ष्यन्ते ऽष्टौ ज्वरा इति ॥ ९ ॥
श्लोक 10
दोषाणां समवेतानां विकल्पो ऽंशांश-कल्पना ।
स्वातन्त्र्य-पारतन्त्र्याभ्यां व्याधेः प्राधान्यम् आदिशेत् ॥ १० ॥
श्लोक 11
हेत्व्-आदि-कार्त्स्न्यावयवैर् बला-बल-विशेषणम् ।
नक्तन्-दिनर्तु-भुक्तांशैर् व्याधि-कालो यथा-मलम् ॥ ११ ॥
श्लोक 12
इति प्रोक्तो निदानार्थस् तं व्यासेनोपदेक्ष्यति ।
सर्वेषाम् एव रोगाणां निदानं कुपिता मलाः ॥ १२ ॥
श्लोक 13
इति प्रोक्तो निदानार्थः तं व्यासेनोपदेक्ष्यते तं व्यासेनोपदिश्यते स व्यासेनोपदेक्ष्यति स व्यासेनोपदेक्ष्यते स व्यासेनोपदिश्यते तत्-प्रकोपस्य तु प्रोक्तं विविधा-हित-सेवनम् ।
अ-हितं त्रि-विधो योगस् त्रयाणां प्राग् उदाहृतः ॥ १३ ॥
श्लोक 14
अ-हितस् त्रि-विधो योगस् तिक्तोषण-कषायाल्प-रूक्ष-प्रमित-भोजनैः ।
धारणोदीरण-निशा-जागरात्य्-उच्च-भाषणैः ॥ १४ ॥
श्लोक 15
क्रियाति-योग-भी-शोक-चिन्ता-व्यायाम-मैथुनैः ।
ग्रीष्माहो-रात्रि-भुक्तान्ते प्रकुप्यति समीरणः ॥ १५ ॥
श्लोक 16
पित्तं कट्व्-अम्ल-तीक्ष्णोष्ण-पटु-क्रोध-विदाहिभिः ।
शरन्-मध्याह्न-रात्र्य्-अर्ध-विदाह-समयेषु च ॥ १६ ॥
श्लोक 17
निदाघ-समयेषु च स्वाद्व्-अम्ल-लवण-स्निग्ध-गुर्व्-अभिष्यन्दि-शीतलैः ।
आस्या-स्वप्न-सुखा-जीर्ण-दिवा-स्वप्नाति-बृंहणैः ॥ १७ ॥
श्लोक 18
अति-स्वप्न-सुखा-जीर्ण- प्रच्छर्दनाद्य-योगेन भुक्त-मात्र-वसन्तयोः ।
पूर्वाह्णे पूर्व-रात्रे च श्लेष्मा द्वन्द्वं तु संकरात् ॥ १८ ॥
श्लोक 19
मिश्री-भावात् समस्तानां संनिपातस् तथा पुनः ।
संकीर्णा-जीर्ण-विषम-विरुद्धाध्यशनादिभिः ॥ १९ ॥
श्लोक 20
व्यापन्न-मद्य-पानीय-शुष्क-शाकाम-मूलकैः ।
पिण्याक-मृद्-यव-सुरा-पूति-शुष्क-कृशामिषैः ॥ २० ॥
श्लोक 21
दोष-त्रय-करैस् तैस् तैस् तथान्न-परिवर्तनात् ।
ऋतोर् दुष्टात् पुरो-वाताद् ग्रहावेशाद् विषाद् गरात् ॥ २१ ॥
श्लोक 22
तथान्न-परिवर्ततः तथान्न-परिवृत्तितः दुष्टान्नात् पर्वताश्लेषाद् ग्रहैर् जन्मर्क्ष-पीडनात् ।
मिथ्या-योगाच् च विविधात् पापानां च निषेवणात् ॥ २२ ॥
श्लोक 23
दुष्टामात् पर्वताश्लेषाद् स्त्रीणां प्रसव-वैषम्यात् तथा मिथ्योपचारतः ।
प्रति-रोगम् इति क्रुद्धा रोगाधिष्ठान-गामिनीः ॥ २३ ॥
श्लोक
रसायनीः प्रपद्याशु दोषा देहे विकुर्वते ॥ २३ऊअब् ॥