अष्टाङ्गसंग्रहः चिकित्सितस्थानम्  1 contd.

श्लोक 57

कनीयः पञ्चमूलं च पित्ते क्षौद्रसमन्विताः।
कलिङ्गमुस्तकटुका मुस्तापर्पटकं तथा॥

श्लोक 58

सधन्वयासभूनिम्बं वत्सकाद्यो गणः कफे।
अथवा वृषगाङ्गेयी शृङ्गेवरदुरालभाः॥

श्लोक 59

रुग्विबन्धानिलश्लेष्मयुक्ते दीपनपाचनम्।
अभयापिप्पलीमूलशम्याककटुकाघनम्॥

श्लोक 60

कलिङ्गकाः पटोलस्य पत्रं कटुकरोहिणी।
पटोलं सारिवा मुस्ता पाठा कटुकरोहिणी॥

श्लोक 61

पटोलनिम्बत्रिफलामृद्वीकामुस्तवत्सकाः।
किराततिक्तममृता चन्दनां विश्वभेषजम्॥

श्लोक 62

धात्री मुस्तामृताक्षौद्रमर्धश्लोकसमापनाः।
पञ्चैते सन्ततादीनां पञ्चानां शमना मताः॥

श्लोक 63

पटोलेन्द्रयवारिष्टभद्रमुस्तामृताद्वयम्।
सारिवाद्वितयं पाठा त्रायन्ती कटुरोहिणी॥

श्लोक 64

पटोलारिष्टमृद्वीकाशम्याकत्रिफलावृषम्।
चन्दनोशीरधान्याब्दगुडूचीविश्वभेषजम्॥

श्लोक 65

देवदारुस्थिराशुण्ठीवासाधात्रीहरीतकीः।
पञ्च पञ्च ज्वरान् घ्नन्ति योगा मधुसितोत्कटाः॥

श्लोक 66

सगुडाः सारिवाद्राक्षाशताह्वाकणरेणुकाः।
काश्मर्यसारिवाद्राक्षात्रायमाणामृतागुडाः॥

श्लोक 67

शतपुष्पावचाकुष्ठदेवदारुहरेणुकाः।
शर्करामधुसंयुक्ताः समांसीमुस्तधान्यकाः॥

श्लोक 68

कृष्णापुनर्नवाद्राक्षाशताह्वागुडसारिवाः।
शालिपर्णीबलाद्राक्षासारिवाच्छिन्नसम्भवाः॥

श्लोक 69

आरग्वधो बला रास्ना काश्मर्यं मधुकं गुडः।
शतावरीच्छिन्नरुहास्वरसो वा गुडान्वितः॥

श्लोक 70

सकृष्णाजीरकसितानागरश्चामृतारसः।
वातज्वरं जयन्यूशु केवलो वामृतारसः॥

श्लोक 71

भार्ङ्गीसरलगाङ्गेयीदारुकुष्ठैलवालुकम्।
कोष्णं घृतगुडोपेतं पिबेद्वा वातजे ज्वरे॥

श्लोक 72

पटोलादिगुडूच्यादी सूत्रोक्तौ पित्तजे ज्वरे।
अञ्जनादिः सकाश्मर्यः सारिवादिः सशर्करः॥

श्लोक 73

सितामधुककाश्मर्यशीतोशारिपरूषकम्।
गुडूचीसारिवालोद्ध्रकमलोत्पलशर्कराः॥

श्लोक 74

द्राक्षाभयातिक्तघनशम्याकफलपर्पटम्।
श्यामापर्पटदुःस्पर्शातिक्तातिक्तसितावृषाः॥

श्लोक 75

शर्करातिक्तकटुकात्रायमाणाबिभीतकम्।
गुडूच्यामलकैर्युक्तः केवलो वापि पर्पटः॥

श्लोक 76

कषायो वा हिमस्तिक्ताद्राक्षामधुकनिम्बजः।
पित्तज्वरघ्नी कटुका श्लक्ष्णापिष्टा सशर्करा॥

श्लोक 77

कफजेऽतिविषोशीरपटोलमरिचक्षपाः।
समूर्वेन्द्रयवद्वीपिकुष्ठनिम्बवचागुडाः॥

श्लोक 78

सप्तच्छदामृतानिम्बस्फूर्जातं माक्षिकान्वितम्।
निशात्रिकटुकं तिक्तानागपुष्पकलिङ्गकाः॥

श्लोक 79

सारिवातिविषाकुष्ठदुःस्पर्शामुस्तगुग्गुलुः।
परूषं त्रिफला तिक्ता बीजं वृषकजं घनम्॥

श्लोक 80

नागरत्रिफलामुस्तामूर्वापाठाः समाक्षिकाः।
संसर्गसन्निपातेषु मिश्रानेतान् विकल्पयेत्॥

श्लोक 81

गोकण्टकबलादर्भाः ससिता वातपित्तजे।
द्राक्षामलकभूनिम्बाः सगुडूचीशठीगुडाः॥

श्लोक 82

त्रायन्ती सारिवाद्राक्षा काश्मर्यच्छिन्नजागुडाः।
द्राक्षामसूरत्रायन्तीगुडूचीसारिवाबलाः॥

श्लोक 83

द्राक्षामधूकमधुकलोद्ध्रकाश्मर्यसारिवाः।
मुस्तामलकद्द्रीबेरपद्मकेसरपद्मकम्॥

श्लोक 84

मृणालचन्दनोशीरनीलोत्पलपरूषकम्।
फाण्टो हिमो वा द्राक्षादिर्जातीकुसुमवासितः॥

श्लोक 85

युक्तो मधुसितालाजैर्जयत्यनिलपित्तजम्।
ज्वरं मदात्ययं छर्दि मूर्छां दाहं श्रमं भ्रमम्।
ऊर्ध्वगं रक्तपित्तं च पिपासां कामलामपि॥

श्लोक 86

कफवाते वचातिक्तापाठारग्वधवत्सकाः॥

श्लोक 87

पिप्पलीचूर्णयुक्तो वा क्वाथश्छिन्नोद्भवोद्भवः।
व्याघ्रीशुण्ठ्यमृताक्वाथः पिप्पलीचूर्णसंयुतः॥

श्लोक 88

वातश्लेष्मज्वरश्वासकासपीनसशूलजित्।
पथ्या कुस्तुम्बरीमुस्ताशुण्ठीकत्तृणपर्पटम्॥

श्लोक 89

सकट्फलवचाभार्ङ्गीदेवाह्वं मधुहिङ्गुमत्।
कफवातज्वरष्ठीवकुक्षिहृत्पार्श्ववेदनाः॥

श्लोक 90

कण्ठामयास्यश्वयथुकासश्वासान्नियच्छति॥

श्लोक 91

आरग्वधादिः सक्षौद्रः कफपित्तज्वरं जयेत्।
तथा तिक्तावृषोशीरत्रायन्तीत्रिफलामृताः।
पटोलातिविषानिम्बमूर्वाधन्वयवासाकाः॥

श्लोक 92

वृषपुष्पच्छदरसः शर्करामाक्षिकान्वितः।
पित्तश्लेष्मज्वरं हन्ति सासृक्पित्तं सकामलम्॥

श्लोक 93

अनन्ताविश्वभैषज्यकटुकातोयतोयदाः।
ज्वरतृड्भ्रमसम्मोहधूमकाम्लकनाशनाः॥

श्लोक 94

सन्निपातज्वरे व्याघ्नीदेवदारुनिशाद्वयम्।
पटोलपत्रनिम्बत्वक् त्रिफलाकटुकायुतम्॥

श्लोक 95

मुस्तापर्पटकं पथ्या मृद्वीका कटुरोहिणी।
त्रायन्तीकणतन्मूलद्राक्षापथ्यामधूलिकाः॥

श्लोक 96

त्रिफलोशीरषड्ग्रन्थायष्टीमधुबलाघनाः।
नागरं पौष्करं मूलं गुडूची कण्टकारिका॥

श्लोक 97

सकासश्वासपार्श्वार्तौ वातश्लेष्मोत्तरे ज्वरे।
मधूकपुष्पमृद्वीका त्रायमाणा परूषकम्॥

श्लोक 98

सोशीरतिक्तात्रिफलाकाश्मर्यं कल्पयेद्धिमम्।
कषायं तं पिबन् काले ज्वरान् सर्वानपोहति॥

श्लोक 99

जात्यामलकमुस्तानि तद्वद्धन्वयवासकम्।
बद्धविट् कटुकाद्राक्षात्रायन्तीत्रिफलागुडान्॥

श्लोक 100

जीर्णौषधोऽन्नं पेयाद्यमाचरेच्छ्लेष्मवान्न तु।
पेया कफं वर्धयति पङ्कं पांसुषु वृष्टिवत्॥

श्लोक 101

श्लेष्माभिष्यण्णदेहानामतः प्रागपि योजयेत्।
यूषान् कुलत्थचणककलायादिकृतान् लघून्।
रूक्षांस्तिक्तरसोपेतान् हृद्यान् रुचिकरान् पटून्॥

श्लोक 102

रक्ताद्याः शालयो जीर्णाः षष्टिकाश्च ज्वरे हिताः।
श्लेष्मोत्तरे वीततुषास्तथा वाट्यकृता यवाः॥

श्लोक 103

ओदनस्तैः स्रुतो द्विस्त्रिः प्रयोक्तव्यो यथायथम्।
दोषदूष्यादिबलतो ज्वरघ्नक्वाथसाधितः॥

श्लोक 104

मुद्गाद्यैर्लघुभिर्यूषाः कुलत्थैश्च ज्वरापहाः।
कारवेल्लककर्कोटबालमूलकपर्पटैः।
वार्ताकनिम्बकुसुमपटोलफलपल्लवैः॥

श्लोक 105

अत्यन्तलघुभिर्मांसैर्जाङ्गलैश्च हिता रसाः।
व्याघ्रीपरूषतर्कारीद्राक्षामलकदाडिमैः॥

श्लोक 106

संस्कृताः पिप्पलीशुण्ठीधान्यजीरकसैन्धवैः।
सितामधुभ्यां प्रायेण संयुता वा कृताकृताः॥

श्लोक 107

अनम्लतक्रसिद्धानि रुच्यानि व्यञ्जनानि च।
अच्छान्यनलसम्पन्नान्यनुपानेऽपि योजयेत्।
तानि क्वथितशीतं च वारि मद्यं च सात्म्यतः॥

श्लोक 108

कषायपानपथ्यान्नैर्दशाह इति लङ्घते।
सर्पिर्दद्यात् कफे मन्दे वातपित्तोत्तरे ज्वरे।
पक्वेषु दोषेष्वमृतं तद्विषोपममन्यथा॥

श्लोक 109

दशाहे स्यादतीतेऽपि ज्वरोपद्रववृद्धिकृत्।
लङ्घनादिक्रमं तत्र कुर्यादा कफसङ्क्षयात्॥

श्लोक 110

सज्वरं ज्वरमुक्तं वा दिनान्ते भोजयेल्लघु।
श्लेष्मक्षयविवृद्धोष्मा बलवाननलस्तदा॥

श्लोक 111

यथोचितेऽथवा काले दोषसात्म्यानुरोधतः।
प्रागल्पवह्निर्भुञ्जानो न ह्यजीर्णेन पीड्यते॥
इति प्रथमोऽध्यायः॥