अष्टाङ्गसंग्रहः उत्तरस्थानम् 1

श्लोक 1

अथातो बालोपचरणीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

अथ खलु जातमात्रमेव बालमुल्बात् सैन्धवसर्पिषा मार्जयेत्॥

श्लोक 3

ततोऽस्यातिप्रबलमोहज्वरपरीतसर्वगात्रस्य क्रोशितुमपि रुजानुरूपमसमर्थस्यानवस्थिताशेषदेहधातोरसम्भाव्ययौवनाद्यवस्थस्य क्रकचस्पर्शमिव करवसनशयनसंसर्गं मन्यमानस्याविकल्पितमङ्गानि विक्षिपतः पुनरिव मरणमनुभवतो लीयमानसंज्ञस्यातिसम्बाधयोनिपुटावपीडितप्राणप्रत्यानयनाय बलातैलेन परिषेकं कुर्यात्।
कर्णमूले चाश्मनोः सङ्घट्टनम्॥

श्लोक 4

यदि वाचेष्ट एव स्यात्ततः कृष्णकपालिकया शूर्पेण चैनमभिनिष्पुनीयात्।
दक्षिणकर्णमूले च मन्त्रस्योच्चारयेत्॥

श्लोक 5

अङ्गादङ्गात् सम्भवसि हृदयादभिजायसे।
आत्मा वै पुत्रनामासि स जीव शरदां शतम्॥

श्लोक 6

शतायुः शतवर्षोऽसि दीर्घमायुरवाप्नुहि।
नक्षत्राणि दिशो रात्रिरहश्च त्वाभिरक्षतु॥

श्लोक 7

प्रत्यागतप्राणस्य च प्रकृतिभूतस्य नाभिनालं नालाभिबन्धनाच्चतुरङ्गुलस्योर्ध्वं क्षौमसूत्रेण बध्वा तीक्ष्णेन शस्त्रेण वर्धयेत्।
ग्रीवायां चैनमासज्जेत्।
नाभिं च कुष्ठतैलेन सेचयेत्॥

श्लोक 8

ततः क्षीरवृक्षकषायेण सर्वगन्धोदकेन वा तप्ततपनीयरजतनिर्वापणकवोष्णेन कपित्थपत्रकषायेण वा तद्विधेन स्नापयेत्॥

श्लोक 9

ततोऽस्य सुपरिलिखितनखया सुप्रक्षालितोपवानया कार्पासपिच्ववगुण्ठितया दक्षिणप्रदेशिन्या जिह्वौष्ठकण्ठमनुसुखं प्रमृज्यात्।
तालु चोन्नाम्य स्नेहपिचुनोपरिष्टादवगुण्ठयेत्॥

श्लोक 10

ततश्चैन्द्रीब्राह्मीशङ्खपुष्पीवचाकल्कं मधुघृतोपेतं हरेणुमात्रं कुशाग्राभिमन्त्रितं सौवर्णेनाश्वत्थपत्रेण मेधायुर्बलजननं प्राशयेत्।
तद्वत् ब्राह्मीबलानन्ताशतावर्यन्यतमचूर्णं वा॥

श्लोक 11

ततः सैन्धवोपहितेन सर्पिषा गभादकानि वामयेत्।
तथास्योरःकण्ठविशुध्या लाघवमभिलाषश्च जायते॥

श्लोक 12

अथास्य जातकर्म प्राजापत्येन विधिना कुर्यात्।

श्लोक 13

सिराणां हृदयस्थानां विवृतत्वात् प्रसूतितः।
तृतीयेऽह्नि चतुर्थे वा स्त्रीणां स्तन्यं प्रवर्तते॥

श्लोक 14

तस्मात् प्रथमेऽहन्यनन्तामिश्रिते मधुसर्पिषी मन्त्रपूते त्रिकालं प्राशयेत्।
द्वितीये लक्ष्मणासिद्धं सर्पिस्तृतीये च॥

श्लोक 15

ततः प्राङ्निवारितस्तन्यस्य स्वपाणितलसम्मितं सर्पिर्द्विकालं दापयेदनन्तरं च स्तन्यमिष्टतः॥

श्लोक 16

अहरहश्चास्य श्रोत्रशृङ्गाटकं स्नेहाप्लुतेन प्लोतेन प्रच्छादयेत्॥

श्लोक 17

प्राक्शिरसं चैनं क्षौमनिचये संवेशयेदुच्छीर्षके चास्याभिमन्त्रितमुदकुम्भं स्थापयेत् द्वारपक्षयोश्च॥

श्लोक 18

आदारीविदारीबदरीखदिरनिम्बपीलुपरूषकशाखाभिरेनं वीजयेत्।
ताभिश्च समन्ततः सूत्तिकागारं परिवारयेत्।
सर्षपातसीकणकणिकाश्चान्तर्बहिः प्रकिरेत्।
सायं प्रातश्च बलिम्॥

श्लोक 19

व्रणोक्तैश्च गुग्गुल्वादिभिर्धूपं कुर्वीत।
तथा ब्राह्मणोथर्ववेदविद्दशाहं शान्तिकर्म कुर्यात्।
मायूरीं महामायूरीमार्यारत्नकेतुधारिणीं चोभयकालं वाचयेत्॥

श्लोक 20

हिङ्गुवचातुरुष्करक्षोघ्नैः पोटलिकामुत्तरदेहल्यामासज्जेत्।
कुमारस्य च सह मात्रा कण्ठे उच्छीर्षके च।
तद्वदार्यापर्णशबरीमार्यापराजितां च गोरोचनाभिलिखिताम्॥

श्लोक 21

द्वारे च देहलीमनुतिर्यङ्मुसलं निधापयेत्।
कणकण्डकतिन्दुकेन्धनाग्निं नक्तं दिवं च जागृयात्।
तथानुरक्ताः स्त्रियः सुहृदश्च।
प्रहृष्टजनसम्पूर्णं च तद्वेश्म कार्यम्॥

श्लोक 22

अथास्य समानवर्णा मध्यमवयाः शुचिरलोलुपा निभृतानातुरा जीवद्वत्सा वत्सला दक्षिणा ब्रह्मचारिण्यव्यङ्गा बहुक्षीरा शुक्लाम्बराचरा दीर्घद्रस्वादिदेहदोषाष्टकरहिता अलम्बोर्ध्वचुचूकातिपीनहनिस्तनदोषमुक्ता युक्तचूचुका धात्री स्यात्तस्या एव स्तन्यं पिबेत्॥

श्लोक 23

तच्चोदकपात्रे दुह्यमानमेकतां यदुदकेन सह गच्छति वक्ष्यमाणदोषरहितं च तच्छुद्धमारोग्यबलजननम्॥

श्लोक 24

अथ धात्री स्नातानुलिप्ता नित्यमहतवासाः सुमनाः प्रजास्थापनौषधीः शिरसा बिभ्राणा प्राङ्मुखी स्तनं प्राग्दक्षिणं धौतमीषत्परिस्रुतं पाययेत्॥

श्लोक 25

नानास्तन्यस्य ह्यसात्म्यत्वान्नानाविधा व्यापदो भवन्ति।
अपरिस्रुते चातिस्तन्यपूर्णस्तनपानेनोत्स्नेहनात् कासश्वासज्वरच्छर्दिषां सम्भवः॥

श्लोक 26

रुक्षान्नपानकर्शनक्रोधशोककामादिभिः स्तन्यनाशः।
स्तन्यजननानि तु मद्यानि शीधुवर्ज्यान्यानूपमांसानि द्रवाः स्वाद्वम्ललवणप्रायाश्चाहाराः क्षीरिण्यश्चौषधयः क्षीरपानमनायासः सौमनस्यं च॥

श्लोक 27

न तु क्षुधितशोकार्तश्रान्तक्रुद्धप्रदुष्टधातुंगर्भिणीविरुद्धाहारभुक्तानां स्तन्यं पाययेन्नाजीर्णौषधं च बालमिति।
भवति चात्र॥

श्लोक 28

षष्टीं निशां विशेषेण कृतरक्षाबलिक्रियाः।
जागृयुर्बान्धवास्तस्य दधतः परमां मुदम्॥

श्लोक 29

दशमे द्वादशे वाह्नि गोत्राचारैः शुभैः शुभे।
सूता स्नानोत्सवं कुर्यात् पितापत्यस्य नाम च॥

श्लोक 30

दिने शततमे वाख्यां पूर्णे संवत्सरेऽथवा।
बिभ्रतोऽङ्गैर्मनोह्वालरोचनागरुचन्दनम्॥

श्लोक 31

पूज्यं त्रिपुरुषानूकमादौ घोषवदक्षरम्।
अवृद्धं कृतमूष्मान्तमनरातिप्रतिष्ठितम्॥

श्लोक 32

नक्षत्रदेवतायुक्तं तदेव तु न केवलम्।
मङ्गल्यमन्तरन्तस्थं न दुष्टं न च तद्धितम्॥

श्लोक 33

पुंसो विसर्जनीयान्तं समवर्णं स्त्रियाः पुनः।
विषमाक्षरमक्रूरं विस्पष्टार्थं मनोरमम्।
सुखोद्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत्॥

श्लोक 34

ततः प्रकृतिभेदोक्तरूपैरायुःपरीक्षणम्।
प्रागुदक्शिरसःकुर्यात् बालस्यज्ञानवान्भिषक्॥

श्लोक 35

प्रशस्तवास्तुशरणं सज्जोपकरणं शुचि।
निर्वातं च प्रवातं च वृद्धस्त्रीवैद्यसेवितम्॥

श्लोक 36

निर्मत्कुणाखुमशकमतमस्कं च शस्यते।
शुचिधौतोपवानानि निर्वलीनि मृदूनि च॥

श्लोक 37

शय्यास्तरणवासांसि रक्षोघ्नैर्धूपितानि च।
काकोऽविशस्तः शस्तश्च धूपने त्रिवृतान्वितः।
वचाज्यकुष्ठश्रीवेष्टसर्षपैर्धूपयेत् सदा॥

श्लोक 38

बोधयेत् सहसा सुप्तं नो न चैनं समुत्क्षिपेत्।
तथाह्यस्य समुत्रासो वेगरोधश्च जायते॥

श्लोक 39

बोधयेत् सहसा सुप्तं नो न चैनं समुत्क्षिपेत्।
तथाह्यस्य समुत्रासो वेगरोधश्च जायते॥

श्लोक 40

जीवत्खड्गादिशृङ्गेषु समासक्ताञ्छुभान् मणीन्।
धारयेद्दश चैन्द्र्यादीञ्जीवकर्षभकावपि॥

श्लोक 41

हस्ताभ्यां ग्रीवया मूर्ध्ना विशेषात् सततं वचाम्।
आयुर्मेधास्मृतिस्वास्थ्यकरीं रक्षोभिरक्षणीम्॥

श्लोक 42

स्तन्यदोषात् गदास्तस्य यथोक्तं तत् पिबेद्यतः।
पीनोऽतिकन्धरास्तम्भं कुर्यादूर्ध्वाक्षमूर्ध्वगः॥

श्लोक 43

उच्छ्वासरोधात् लंबोऽतिस्तनो जीवितसंशयम्।
न गर्भिण्याः पिबेत् स्तन्यं पारिगर्भिककृद्धि तत्॥

श्लोक 44

स्तन्याभावे पयश्छागं गव्यं वा तद्गुणं पिबेत्।
मूलैःसिद्धं बृहत्याद्यैः स्थिराभ्यां वा सितायुतम्॥

श्लोक 45

चतुर्थे सूतिकागारादग्निस्कन्दपुरोगमान्।
मासे निष्क्रामयेद्देवान् नमस्कर्तुं स्वलङ्कृतम्॥

श्लोक 46

पञ्चमे मासि पुण्येऽह्नि धरण्यामुपवेशयेत्।
द्विकिष्कुमात्रं लिप्तायां बलिं दत्वा चतुर्दिशम्॥

श्लोक 47

धरण्यशेषभूतानां माता त्वमसि कामधुक्।
अजरा चाप्रमेया च सर्वभूतनमस्कृता॥

श्लोक 48

चराचराणां लोकानां प्रतिष्ठास्यव्ययासि च।
कुमारं पाहि मातेव ब्रह्मा तदनुमन्यताम्॥

श्लोक 49

स्वाहेति मन्त्रेणानेन प्रत्यहं च ततः परम्।
साश्रयं सावलम्बं च कट्यादीन् मर्दयेदनु॥

श्लोक 50

षष्ठेऽन्नप्राशनं मासि क्रमात्तच्च प्रयोजयेत्।
चिरान्निषेवमाणोऽन्नं बालो नातुर्यमश्नुते॥

श्लोक 51

भजेद्यथा यथाचान्नं स्तन्यं त्याज्यं तथा तथा।
षट्सप्ताष्टममासेषु नीरुजस्य शुभेऽहनि।
कर्णौ हिमागमे विघ्येद्धात्र्यङ्कस्थस्य सान्त्वयन्॥

श्लोक 52

प्राग्दक्षिणं कुमारस्य भिषग्वामं तु योषितः।
दक्षिणेन दधत् सूचीं पालीमन्येन पाणिना॥