श्लोक 1
अथातः सर्वरोगनिदानं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
इह कृतयुगे विगतरागद्वेषादिद्वन्द्वा जितलोभक्रोधश्रमक्लमालस्यभया निष्परिग्रहाः पुरुषा बभूवुः।
तेषां पुण्यबलेन पृथिव्यादीनां सर्वगुणसमुदायादचिन्त्यरस वीर्यादिसमुदितानि सस्यान्योषधयश्चासन्।
ते तानि जितेन्द्रियत्वात् काले मात्रया चोपयुञ्जानाः सत्यार्जवानृशंस्यादिगुणयोगाच्च सुरसदृशतेजसो रूपाकृतिप्रमाणप्रसादोपचयसंहननसत्त्वसारसम्पन्ना दीर्घायुषो नीरुजश्च बभूवुः॥
श्लोक 3
भ्रश्यन्ति तु कृतयुगे युगस्वभावात् क्रमेण परिहीयमाणसर्वगुणेषु पृथिव्यादिषु शरीरेषु च धर्मातिक्रमात् पुरुषेष्ववश्यम्भाविनो निरपेक्षरूक्षाभिरुपेक्षिता देवताभिर्ज्वरादयः प्रादुरभूवन्निति सर्वरोगाणां सामान्यतः सम्भवः॥
श्लोक 4
ज्वरस्तु स्थाणुशापात् प्राचेतसत्वमुपागतस्य प्रजापतेः क्रतौ भागमपरिकल्पयतस्तद्विनाशार्थं पूर्वजन्मावमानितया रुद्राण्या प्रेरितस्य पशुपतेर्दिव्यमब्दसहस्रं परिरक्षितवतः क्रोधमतिचिरकालसम्भृतो व्रतान्ते रोषाग्निः किङ्कररूपेण किल पिण्डितमूर्तिर्वीरभद्रनामा भस्मप्रहरणस्त्रिशिरोक्षिबाहुपादः पिङ्गललोचनो दर्ष्ट्री शङ्कुकर्णः कृष्णतनुरुत्तमाङ्गान्निश्चचार।
स देवीविनिर्मितया सह भद्रकाल्या प्रतिरोमकूपमभिनिःसृतैर्विविधविकृताकृतिभिरनन्तैर्भयानकवाक्यक्रियावपुर्भिरनुचरैः परिवृतश्चतुर्युगान्तकरकालाम्भोदसहस्रनिनदोऽनुनादयन् रोदसी ज्वालागर्भेण परीतः कलकलारावेण महाभूतसम्प्लवकारिणा विधाय दानववधमश्वमेधाध्वरविध्वंसनं च प्राञ्जलिर्विज्ञापयामास शिवम्।
शिवीभूतोऽसि देवदेव, देवैः पितामहप्रभृतिभिर्जगतः पित्रा च धात्राभिष्टूयमानः।
सम्प्रत्यहं किं करवाणीति।
तं शूली क्रोधमादिदेश।
यस्मात् त्रिदशैरप्यजय्य मत्क्रोध व्रतविघ्नं चिकीर्षुदत्यसैन्यं दक्षो दक्षहव्यं च त्वया जीर्णमतो जगतोऽस्य सस्थावरस्य ज्वरयिता ज्वरो भवान् भवतु।
त्वं हि सर्घरोगाणां प्रथमः प्रवरो जन्ममरणेषु तमोमयतया महामोहः प्राग्जन्मनो विस्मारयितापचारान्तरेषु चोष्मायमाणत्वात् सन्तापात्मा द्वयेष्वपि ध्रुवो ज्वरो भवेति।
सोऽयमेवमुमापतिनानुगृहीतो नानानामभिः सर्वतोऽनुभुवि विचरति।
तद्यथा।
पाकलो गजेष्वभितापो वाजिष्वलर्कः कक्कुरेष्विन्द्रमदो जलजेषु ज्योतिरोषधीषु चूर्णको धान्येष्वप्सु नीलिका भूमावूषरो मनुष्येषु ज्वर इति॥
श्लोक 5
तत्सहजाश्चारोचकाङ्गमर्दशिरोव्यथाभ्रमक्लमग्लानितृष्णासन्तापादयः।
तत्सन्तापाच्च रक्तपित्तम्।
तत्रैव च यज्ञे क्रोधभयाभिभूतानां परितो विद्रवतां लङ्घनप्लवनाद्यैर्देहविक्षोभणैर्गुल्मविद्रधिवृद्धिजठरादयो, हविःप्राशान्मेहकुष्ठार्शःशोफातीसारादयो, भयोत्त्रासशोकाशुचिसंस्पर्शैरुन्मादापस्मारग्रहादयो, रोहिण्यतिप्रसङ्गाच्छेषदुहित्रसम्भोगकृताच्च प्रजापतिक्रोधान्नक्षत्रराजस्य राजयक्ष्मा तत्सहोद्भवाश्च कासश्वासादयः।
सोऽपि हि न विना ज्वरेणानुबध्नातीति सकलोऽपि रोगग्रामो ज्वरपूर्वको ज्वरशब्दवाच्यो वा॥
श्लोक 6
ज्वरस्तमो विकार आतङ्कः पाप्मा गदो व्याधिराबाधो दुःखमामयो यक्ष्मा रोग इत्यनर्थान्तरम्।
तत्र रुजतीति रोगः।
तस्योपलब्धिर्निदानपूर्वरूपरूपोपशयसम्प्राप्तिभिः॥
श्लोक 7
तत्र निदानं वाय्वादिप्रकोपः।
तस्य पुनरहिताहारविहारसेवा।
निदानपर्यायास्तु हेतुर्निमित्तमायतनं कारकः कर्ता कारणं प्रत्ययः समुत्थानं मूलं योनिरिति॥
श्लोक 8
पूर्वरूपं नाम येन भाविव्याधिविशेषो विज्ञायते न तु दोषविशेषः।
तद्ध्युत्पत्स्यमानस्य व्याधेरल्पत्वादव्यक्तं रूपम्॥
श्लोक 9
स्पष्टं पुना रूपम्।
तस्य शब्दान्तराणि लिङ्गमाकृतिर्लक्षणं चिह्नं संस्थानं व्यञ्जनमिति॥
श्लोक 10
उपशयो हेतुव्याधिविपरीतैर्विपरीतार्थकारिभिश्चचौषधाहारविहारैः सुखानुबन्धः।
स हि व्याधिसात्म्यसंज्ञः।
तद्विपरीतोऽनुपशयः।
एतेन देशकालौ व्याख्यातौ॥
श्लोक 11
सम्प्राप्तिः पुनरेवंदुष्टो दोषस्तेन चैवमारब्धो व्याधिस्तत्पर्याया जातिरागतिर्निर्वृत्तिर्निष्पत्तिरिति॥
श्लोक 12
सा सङ्ख्याविकल्पप्राधान्यबलकालविशेषैर्भिद्यते।
तत्र सङ्ख्या तावदष्टौ ज्वरास्त्रिविधं रक्तपित्तं पञ्च कासा इति।
विकल्पः समवेतानां दोषाणामंशांशकल्पना।
प्राधान्यं व्याधिनामनुबन्ध्यानुबन्धकभेदात्तरतमयोगाद्वा दोषाणाम्।
बलाबलविशेषो हेत्वादिकार्त्स्न्यावयवविभावनया।
कालविशेषः पुनर्दोषाणामृत्वहोरात्र्याहारसमयनियतः प्रकोप इति।
एतावतैव समासतः कथितो निदानार्थः।
विस्तरेण तु यथास्वं प्रतिरोगमुपदेक्ष्यते॥
श्लोक 13
अथ तिक्तकटुकषायरूक्षलघुशीतविष्टम्भिविरूढकतृणधान्यकलायचणककरीरतुम्बकालिङ्गचिर्भिटबिसशालूकजाम्बवतिन्दुकहीनशुष्कप्रमिततृषिताशनक्षुधिताम्बुपानासृक्क्षयविरेचनादिकर्मातियोगवेगविधारणोदीरणरात्रिजागरणप्रवातव्यवायज्यायामबलवद्युद्धनिग्रहातिखरचापकर्षणात्युच्चविषमलङ्घनाध्वाध्ययनधावनसलिलतरणाभिघातदम्यगोवाजिगजनिग्रहाश्मशिलालोहकाष्ठोत्क्षेपविक्षेपभ्रमणचालनगाढोच्छादनपराघातनादिसाहसभयशोकोत्कण्ठादिभिरतिसेवितैर्ग्रीष्मवर्षापराह्णापररात्राहारपरिणामान्तेषु च वायुः प्रकोपमापद्यते॥
श्लोक 14
कट्वम्ललवणक्षारोष्णतीक्ष्णविदाहिशुक्तशाण्डाकीमद्यमूत्रमस्तुदधिधान्याम्लतैलकुलत्थमाषनिष्पावतिलान्नकट्वरकुठेरकादिवर्गामाम्रातकाम्लीकापीलुभल्लातकास्थिलाङ्गलिकामरिचातपाग्निरजोधूमक्रोधेर्ष्याजीर्णमैथुनोपगमनादिभिर्वर्षाशरन्मध्यन्दिनार्धरात्राहारविदाहकालेषु च पित्तम्॥
श्लोक 15
मधुराम्ललवणस्निग्धगुरुशीतपिच्छिलाभिष्यन्दि नवान्नपिष्टपृथुकस्थूलभक्ष्यशष्कुल्यामक्षीरकीलाटमोरटकूचीकातक्रपिण्डकपीयुषेक्षुरसफाणितगुडानूपपिशितमोचखर्जूरभव्यनारिकेलनिशाम्बुपानात्यम्बुपानातिसन्तर्पणभुक्तमात्रदिवास्वप्नकालातिस्वप्नकायवाङ्मनो व्यापारानारम्भानुपधानशयनावश्यायहर्षच्छीर्दविघातविरेचनाद्ययोगादिभिः शिशिरवसन्तपूर्वाह्णप्रदोषभुक्तमात्रेषु च श्लेष्मा॥
श्लोक 16
द्वयसंसर्गात् संसर्गः।
सर्वेषां तु मिश्रीभावात्तथाध्यशनसमशनविषमाशनविरुद्धाशनसङ्कीर्णाशनव्यापन्नाम्बुमद्यमन्दकदधियावकयवसुरापिण्याकाममूलकसर्षपशुष्कशाकवल्लूरकृशपिशितलकुचामफलमृत्तिकाभ्यवहारान्नपरिवर्तर्तुव्यापदसात्म्यौषधिगन्धाघ्राणविषपिट्Aकाविषगराभ्यवहारानार्तवदुर्दिनग्रहपीडाग्रहावेशपुरोवातपर्वतोपश्लेषरसायनस्नेहस्वेदविरेचनादिमिथ्यायोगेभ्यः पापानां च कर्मणामभ्यासात् पूर्वकृतानां च परिणामात् स्त्रीणां विषमप्रसवात् प्रसूतानां च मिथ्योपचारात् सन्निपातः॥
श्लोक 17
इति सामान्यतः सर्वेषु रोगेषु दोषप्रकोपहेतुरुक्त इति।
भवन्ति चात्र॥
श्लोक 18
प्रतिरोगमिति क्रुद्धा रोगाधिष्ठानगामिनीः।
रसायनीः प्रपद्याशु दोषा देहे विकुर्वते॥
श्लोक 19
आधानजन्मनिधनप्रत्यराख्यविपत्करे।
नक्षत्रे व्याधिरुत्पन्नः क्लेशाय मरणाय वा॥
श्लोक 20
ज्वरस्तु जातः षड्रात्रादश्विनीषु निवर्तते।
भरणीषु तु पञ्चाहात् सप्ताहात् कृत्तिकासु तु॥
श्लोक 21
त्रिः सप्तरात्रादथवा रोहिण्यामष्टरात्रतः।
एकादशाद्वा दिवसान्मृगे षण्णवरात्रयोः॥
श्लोक 22
पञ्चाहान्मृत्युरार्द्रायां त्रिपक्षे संशयोऽथवा।
पुनर्वसौ प्रवृत्तस्तु ज्वरोऽपैति त्रयोदशात्॥
श्लोक 23
दिवसात् सप्तविंशाद्वा द्व्यहात् सप्ताहतोऽथवा।
पुष्ये श्लेषासु मरणं चिरेणापि मघासु तु॥
श्लोक 24
अवश्यं स्वास्थ्यमाप्नोति द्वादशाहान्मृतो न चेत्।
फाल्गुन्योः पूर्वयोर्मृत्युरन्यथोश्च दिनेऽष्टमे॥
श्लोक 25
नव्मेऽग्न्येकविंशे वा ज्वरः सौम्यत्वमृच्छति।
हस्तेन सप्तमे शान्तिश्चित्रायामष्टमेऽथवा॥
श्लोक 26
पुनश्चित्रागमे स्वातौ दशाहादथ वा त्रिभिः।
पक्षैर्मृत्युं विशाखासु द्वाविंशेऽहनि निर्दिशेत्॥
श्लोक 27
नवमेऽह्नि न चेच्छान्तिर्मैत्रे मृत्युस्ततः परम्।
ज्येष्ठायां पञ्चमे मृत्युरूर्ध्वं वा द्वादशात् सुखम्॥
श्लोक 28
स्वास्थ्यं दशाहान्मूले तु त्रिसप्ताहेऽथ वा गते।
पूर्वाषाढासु नवमे ततोऽन्यासु तु मासतः॥
श्लोक 29
अष्टाभिरथवा मासैर्नव्भिर्वा भवेच्छिवम्।
आज्येष्ठाहाद्धनिष्ठासु द्वादशाद्वारुणेषु तु॥
श्लोक 30
षडहे द्वादशाहे वा मृत्युर्भाद्रपदासु तु।
उत्तरासु त्रिसप्ताहात् प्रशमो रेवतीषु च॥
श्लोक 31
चतूरात्रेऽष्टरात्रे वा क्षेममित्याह गौतमः॥
इति प्रथमोऽध्यायः॥