श्लोक 1
अथातः पुत्रकामीयमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
अथ खलु पुमानेकविंशतिवर्षः कन्यामतुल्यगोत्रां तुल्याभिजनामसञ्चारिरोगकुलप्रसूतं रूपशीललक्षणसम्पन्नामनूनाविनष्टदन्तौष्ठकर्णनासानखकेशस्तनीं मृदुमरोगप्रकृतिमकपिलमपिङ्गलामहीनाधिकाङ्गीं द्वादशवर्षदेशीयाममरभुजगसरिदचलवृक्षपक्षिनक्षत्रान्त्यप्रेष्यभीषणकनामान्यनुद्वहन्तीमनघामनिन्द्यामनिन्द्येन विधिनोद्वहेत्॥
श्लोक 3
तस्यां षोडशवर्षायां पञ्चविंशतिवर्षः पुरुषः पुत्रार्थं प्रयतेत।
तदा हि तौ प्राप्तवीर्यौ वीर्यान्वितमपत्यं जनयतः।
ऊनपञ्चविंशतिवर्षेणोनषोडशवर्षायामाहितो गर्भः कुक्षिस्थ एव विनाशमाप्नुयादल्पायुर्बलारोग्यविभवो वा स्याद्विकलेन्द्रियो वा।
ऋतावाद्ये च रात्रित्रये तथा दुष्टे शुक्रार्तव इति॥
श्लोक 4
तत्राहारस्य सम्यक्परिणतस्य क्रमान्मज्जानमनुप्राप्तस्य सारः शुक्रसंज्ञां लभते।
तत्तु क्षीर इव सर्पिरिक्षुरस इव गुडः शरीरे शुक्रधरां कलामाश्रित्यास्रुतं सर्वाङ्गव्यापितया स्थितम्।
विशेषतश्च मज्जमुष्कस्तनेषु।
हर्षोदीरितं तु संघट्टनेन हृदयावेशात् पिण्डीभूतमङ्गादङ्गात् प्रवर्तते।
तत् सौम्यं स्निग्धं गुरु शुक्लं मधुगन्धि मधुरं पिच्छिलं बहु बहलं घृततैलक्षौद्रान्यतमवर्णं च शुक्रं गर्भाधानयोग्यं भवति॥
श्लोक 5
तथा रक्तमेव च स्त्रीणां मासे मासे गर्भकोष्ठमनुप्राप्य त्र्यहं प्रवर्तमानमार्तवमित्याहुः।
अतिप्रसङ्गेनानृतावृतौ वा तदेवासृग्दरं प्रदरं व्यापदं च रक्तयोनिसंज्ञां लभते।
तत्साधने रक्तपित्तचिकित्सितं गुह्यरोगप्रतिषेधं चेक्षेत॥
श्लोक 6
वातकफावृतमार्गाणां चाप्रवर्तमानं पित्तलैरुपाचरेत्।
तद्धि वर्द्धमानमन्तर्वर्तमानं सशुक्रमशुक्रं वा जीवरहितं वातलान्यासेवमानाया योषितो गर्भलिङ्गानि दर्शयद् गुल्मीभवति।
तत्र गुल्मचिकित्सितमीक्षेत॥
श्लोक 7
कदाचिद्वा गर्भ इव वातोदरं भवति तद्वातोपशमनैरुपशाम्यति॥
श्लोक 8
तदेव कदाचिदार्तवं सौम्यैर्बृंहणात्मभिराहारविहारैः स्तम्भितमनुपद्रवमेवोदरं गर्भाधिष्ठितमिव वर्धयति।
येन तामगर्भां गर्भिणीमाहुर्मूढाः।
ततो विपरीतैर्यदृच्छया वा प्रवृत्ते रक्ते गर्भशरीरमपश्यन्तो भूतहृतमित्यज्ञा व्रुवते।
यस्मात्सम्भवत्योजसोऽपहरणं रक्षोभिर्न तु शरीरापहरणमनिष्टत्वादशक्तेर्वा।
इच्छाशक्त्योर्हि प्रवृत्तेरुपलब्धिः।
न च दृश्यते कस्यचिदमानुषैर्देहापहारः॥
श्लोक 9
यदि च दृष्टमपि समुल्लङ्घ्य केचिदतिशक्तियुक्ता गर्भस्य शरीराक्षेपे प्रवर्तन्ते तदा कथमिव प्राप्तावसरास्तज्जननीमुपेक्षेरन्॥
श्लोक 10
आर्तवं पुनश्शशरुधिरलाक्षारसोपमं धौतं च विरज्यमानं शुद्धमाहुः॥
श्लोक 11
यथा च बालस्य जीर्णस्य वा तरोः पुष्पफलं पुष्पफलस्य वा तद्विधस्य गन्धो नोपलभ्यते तथैव नोनषोडशातीतसप्तीतवर्षस्य पुंसः शुक्ररोमादयो योषितश्चोनद्वादशातीतपञ्चाशद्वर्षाया रजस्तन्यादय इति॥
श्लोक 12
अथ शुद्धशुक्रार्तवमरोगं मिथोऽनुरक्तं मिथुनमुपस्नेह्य विधिवत् संशोध्यास्थापनानुवासनाभ्यामुपाचरेत्।
विशेषतस्तु घृतक्षीरवद्भिर्मधुरौषधसंस्कारैः पुरुषम्।
तैलेन नारीं पित्तलैश्च मांसैः।
एवं हि समानगुणतया शुक्रार्तवमाप्यायते॥
श्लोक 13
वातपित्तश्लेष्मकुणपगन्धिग्रन्थिपूयक्षीणमूत्रपुरीषरेतांसि त्वबीजानि भवन्ति।
तत्र तनु रूक्षं फेनिलमरुणमल्पं विच्छिन्नं सरुजं चिराच्च निषिच्येत वातेन। किञ्चित्पीतमपिच्छिलमानीलं वा दहदिव प्रवर्तते पित्तेन।
मज्जोपसंसृष्टं प्रभूतं विबद्धं चाम्भसि च किञ्चिन्मज्जति श्लेष्मणा।
कुणपगन्ध्यनल्पं रक्तेन।
ग्रन्थिभूतं वातश्लेष्मभ्याम्।
पूतिपूयनिभं पित्तश्लेष्मभ्याम्।
क्षीणं वातपित्ताभ्याम्।
तदुक्तं ससाधनं प्राक्।
मूत्रपुरीषगन्धि सन्निपातेन॥
श्लोक 14
आर्तवमपि शुक्रवद्दोषैरुपसृष्टमबीजमेव।
तस्य लिङ्गं नाम च पूर्ववत्।
तेषु कुणपग्रन्थिपूयक्षीणरेतांसि कृच्छ्रसाध्यानि।
मूत्रपुरीषशुक्रातवं त्वसाध्यं कुणपग्रन्थिपूयार्तवं च।
तत्राद्यांस्त्रीन् शुक्रार्तवदोषान्यथास्वं दोषसाधनेन साधयेत्।
गुह्ययोनिरोगप्रतिषेधेन चोभयान्॥
श्लोक 15
अपि च। वातिके शुक्रदोषे वसुकसैन्धवफलाम्लसिद्धं यवक्षारप्रतीवापं सर्पिष्पानम्।
बिल्वविदारीसिद्धं क्षीरयुक्तमास्थापनम्।
मधुकभद्रदारुसिद्धं तैलमनुवासनम्।
क्षीरकुलीररससिद्धं तैलमुत्तरबस्तिः।
पैत्तिके काण्डेक्षुश्वदंष्ट्रागुडूचीसिद्धं मूर्वामधूकप्रतीवापं सर्पिष्पानम्।
त्रिवृच्चूर्णः सघृतो विरेकः।
पयस्याश्रीपर्णीसिद्धं क्षीरयुक्तमास्थापनम्।
मधुकमुद्गपर्णीसिद्धं तैलमनुवासनमुत्तरबस्तिश्च।
श्लैष्मिके पाषाणभेदाश्मन्तकामलकक्वाथसिद्धं पिप्पलीमधुकचूर्णप्रतीवापं सर्पिष्पानम्।
मदनफलकषायो वमनम्।
दन्तीविडङ्गचूर्णस्तैललीढो विरेकः।
राजवृक्षमदनफलकषायप्रगाढमास्थापनम्।
मधुकपिप्पलीसिद्धं तैलमनुवासनमुत्तरबस्तिश्च॥
श्लोक 16
वातजे पुष्पदोषे भार्ङ्गीमधुकभद्रदारुसिद्धं सर्पिष्पानम्।
काश्मर्यक्षुद्रसहासिद्धं वा क्षीरम्।
मधुकसृगालविन्नाकल्कं पयस्सर्पिस्सहितं प्रियङ्गुतिलकल्कं वा योनौ धारयेत्।
सरलमुद्गपर्णीकषायः प्रक्षालनम्।
पित्तजे काकोलीद्वयविदारीमूलक्वाथमुत्पलपद्मकक्वाथं मधूकपुष्पकाश्मर्यफलक्वाथं वा सशर्करं पिबेत्।
श्वेतचन्दक्वाथं वा सक्षौद्रम्।
धवधातकीकल्कं वा घृतेन वा मधुकमधुरसामृद्वीकाकल्कम्।
शम्याकगवाक्षीक्षीरं विरेकः।
चन्दनपयस्याकल्कं योनौ धारयेत्।
गौरिकारिष्टकषायः प्रक्षालनम्।
श्लैष्मिके कुटजकटुकाश्वगन्धाक्वाथं पिबेत्।
समाक्षिकं वा क्षीरिवृक्षप्रवालक्वाथमेतेषामेव वा चूर्णं मधुघृताभ्यां लिह्यात्।
मदनफलकषायेण वमनम्।
तत्कल्कमेव च योनौ धारयेत्।
लोध्रतिन्दुककषायः प्रक्षालनं बस्तमेषमूत्रं वा॥
श्लोक 17
कुणपरेतसि धातकीपुष्पखदिरार्जुनदाडिमैः सिद्धमसनादिभिर्वा सर्पिः पाययेत्।
ग्रन्थिरेतसि पाषाणाभिदा पलाशभस्मना वा।
पूयरेतसि परूषकादिन्यग्रोधादिभ्याम्।
मूत्रपुरीषरेतसि वायुनातिविकृते हिङ्गूशीरचित्रकैरथवा चित्रकवितुन्नकप्रियङ्गुहिङ्गुसमङ्गामृणालसिद्धमेलामोचचूर्णप्रतीवापम्। तथा ग्रन्थ्यार्तवे पाठात्रिकण्टकवृक्षकक्वाथम्।
कुणपपूयार्तवे चन्दनक्वाथं पिबेत्।
त्रिफलाकल्कक्वाथौ चात्र धारणाचमने॥
श्लोक 18
सर्वेषु च शुक्रार्तवदोषेषु स्त्रीपुंसौ स्नेहादिकर्मभिर्विशेषेण चोत्तरबस्तिभिः पुनः पुनरुपाचरेत्।
यथास्वं च योनौ कल्कैः पिचुभिश्च।
इत्येवं विशुद्धशुक्रार्तवौ पूर्वोक्तं विधिमासेवेवाम्॥
श्लोक 19
ऋतुस्तु दृष्टार्तवो द्वादशरात्रं भवति।
षोडशरात्रमित्यन्ये।
शुद्धयोनिगर्भाशयार्तवाया मासमपि केचित्।
तद्वददृष्टार्तवोऽप्यस्तीत्यपरे॥
श्लोक 20
क्षामप्रसन्नवदनां स्फुरच्छ्रोणिपयोधराम्।
स्रास्ताक्षिकुक्षिं पुंस्कामां विद्यादृतुमतीं स्त्रियम्॥
श्लोक 21
पद्मं संकोचमायाति दिनेऽतीते यथा तथा।
ऋतावतीते योनिःस्याच्छुक्रंनातः प्रतीच्छति॥
श्लोक 22
मसेनोपचितं रक्तं धमनीभ्यामृतौ पुनः।
ईषत्कृष्णं विगन्धं च वायुर्योनिमुखान्नुदेत्॥
श्लोक 23
ततः पुष्पदर्शने प्रथमदिवसात् प्रभृति ब्रह्मचारिणी स्नानाद्यलङ्काररहिता दर्भसंस्तरशायिनी त्रिरात्रमासीत।
पर्णशरावकरतलान्यतमेन यावकं पयसा सिद्धमल्पं कर्शनार्थमश्नीयात्।
तीक्ष्णोष्णाम्ललवणानि च वर्जयेत्॥
श्लोक 24
चतुर्थेऽहन्युद्वर्तिता शीतसलिलस्नातानुलिप्तालङ्कृताशुक्लमाल्याम्बरा कृतमङ्गलस्वस्त्ययनैवंविधमेव भर्तारं पश्येदनन्यमनाः।
तदा हि यादृशमेव पश्यति चिन्तयति वा तादृशं प्रसूत इति॥
श्लोक 25
ततः स्नानात् पुनरपि गुणवत्पुत्रार्थी त्रिरात्रमुपेक्षेत।
पुष्पदर्शनात् सप्तरात्रम्।
अथाष्टम्यां दशम्यां द्वादश्यां वा रात्रौ पुत्रकामः संवसेत्।
पच्चम्यां सप्तम्यां नवम्यां वा दुहितृकामः।
तासूत्तरोत्तरमायुरारोग्यैश्वर्यसौभाग्यबलवर्णेन्द्रियसम्पदपत्यस्य भवति।
अतः परं तूत्तरोत्तरमेवायुरादीनां ह्रासः॥
श्लोक 26
तत्र युग्मासु रात्रिष्वल्पीभवत्यार्तवमयुग्मास्वाप्याय्यते।
तस्मात्तासु क्रमात् पुत्रस्य दुहितुश्च जन्म।
अत एव चानुपरतार्तवदर्शनां पुत्रार्थी विप्रकृष्टेष्वप्यहस्सु नोपेयात्।
यदि त्वाहारानुरोधादयुग्मासु शुक्रस्याधिकता युग्मासु च न्यूनता स्यात्ततः पुमान् स्त्र्याकृतिर्दुर्बलो हीनाङ्गो वा जायते।
स्त्री च पुरुषाकृतिर्दुर्बला हीनाङ्गा वा।
एकादशीत्रयोदश्योस्तु नपुंसकं स्यात्॥
श्लोक 27
अथोपाध्यायः पुत्रीयं विधानमाचरेत्।
शूद्रायास्तु मन्त्रवर्जितम्।
यादृशं च पुत्रमाशासीत तद्रूपवर्णचरितान् जनपदाननुचिन्तयेति स्त्री वाच्या।
तज्जनपदाहारविहारोपचारपरिच्छदांश्चानुविदघीत॥
श्लोक 28
कर्मान्ते च पुमान् मासं ब्रह्मचारी सर्पिः क्षीराभ्या शाल्योदनमभिप्राश्य नात्याशितः सुखी स्रग्वी सुमनाः प्रीणिताङ्गः शुक्लनिवसनो मौहूर्तिकानुमते रात्रिभागे कल्याणानि चिन्तयानस्तदभिकामः स्वास्तीर्णं शयनं दक्षिणेन पादेन प्रागारोहेत्।
ताद्विधैव च प्रमदा कर्णिताङ्गी तैलमाषोत्तराहारा पूर्वं वामपादेन पुरुषस्य दक्षिणतः शय्यामधिरोहेत्।
तत्र मन्त्रं प्रयुञ्जीत।
आयुरसि सर्वतः प्रतिष्ठासि धाता त्वा दधातु विधाता त्वा दधातु ब्रह्मवर्चसा भवेति।
ब्रह्माबृहस्पतिर्विष्णुस्सोमस्सूर्यस्तथाश्विनौ।
भगोऽथ मित्रावरुणौ वीरं दधतु मे सुतमिति॥
श्लोक 29
ततः परस्परं सामभिरभिसान्त्व्य सहर्षमनुकूलं संविशेताम्।
पर्याप्ते चैनां शीतोदकेन सहसा परिषिञ्चेत्॥
श्लोक 30
तत्रात्याशिता क्षुधिता पिपासिता भीता विमनाः शोकार्ता क्रुद्धातिमेदुरान्यकामाऽव्यवायकामा वा न गर्भं धत्ते विगुणं वा।
तथा पुरुषोऽपि।
न चासौअधस्तिष्ठेत्।
तथा हि स्त्रीचेष्टः पुमान् जायते पुंश्चेष्टा वा स्त्री।
न च न्युब्जां पार्श्वगतां वा सेवेत।
न्युब्जाया वातो बलवान् स योनिं पीडयति।
दक्षिणपार्श्वगतायाः श्लेष्मा पीडितश्च्युतः पिदधाति गर्भाशयम्।
वामपार्श्वगतायास्तद्वत् पित्तं विदहति रक्तशुक्रे।
तस्मादुत्ताना बीजं गृह्णीयात्।
तथा हि यथास्थानमेव तिष्ठन्ति दोषाः॥
श्लोक 31
लब्धगर्भां चैनां विदित्वा प्राग्व्यक्तीभावाद्गर्भस्य पुष्ये पुंसवनानि प्रयुञ्जीत।
द्वादशरात्रमित्यन्ये।
तत्रापि युग्मदिनेष्विति केचित्।
प्रत्यहमित्यपरे॥
श्लोक 32
तद्यथा।
लक्ष्मणावटशृङ्गसहदेवाविश्वदेवानामन्यतमं क्षीरेऽभिषुत्य त्रींश्चतुरो वा बिन्दून् दक्षिणे नासापुटे स्वयमासिञ्चेत् पिचुना।
वामे तु दुहितृकामा।
न चैतान् निष्ठीवेत्।
तथा पुष्योद्घृतायाः श्वेतबृहत्या।
मूलकल्काद्रसं नावयेत्।
तद्वच्चोत्पलपत्रं कुमुदपत्र लक्ष्मणामूलं वटशृङ्गानि चाष्टौ च नावयेत्॥
श्लोक 33
शुक्लमाल्याम्बरधरा च नारी पुष्योद्धृताया लक्ष्मणाया मूलकल्कमुदुम्बरमात्रं पयसा पिबेत् पुत्रस्योत्पादनाय स्थितये च।
तद्वद्गौरदण्डमपामार्गं जीवकर्षभकौ शङ्खषुष्पीमध्यदण्डां सहचरं नग्नजितमग्निजिव्यामष्टौ वा वटशृङ्गानि। शालिपिष्टस्य च पच्यमानस्योष्माणमाघ्राय तद्रसं देहल्यां स्थिता पूर्ववन्नावयेत्॥
श्लोक 34
यच्चान्यदपि ब्राह्मणा वृद्धस्त्रियो वा ब्रूयुस्तच्च कुर्यात्।
ततः प्रजास्थापनाख्या दशौषधीः शिरसा दक्षिणेन च पाणिना धारयेत्।
एताभिश्च सिद्धं पयो घृतं वा पिबेत्।
एताभिरेव पुष्ये पुष्ये स्नायात् सदा च समालभेत।
तथा सर्वासां जीवनीयानामौषधीनां सदोपयोगस्तैस्तैर्विधानैरिति गर्भस्थापनानि॥
श्लोक 35
सौम्याकृतिवचनोपचारचेष्टाश्च प्रियहितानुवर्तिनः परिचारकास्तथा भर्तेति।
पुनश्चैनां मासादुपेयात्॥
श्लोक 36
तत्र शुक्रे शुक्ले घृतमण्डाभे वा गर्भस्य गौरत्वं तैलाभे कृष्णत्वं मध्वाभे श्यामत्वम्।
तथा क्षीरादिमधुराणामुपयोगान्मातुरुदकविहाराच्च गौरता तिलान्नविदाहिना कृष्णता।
व्यामिश्राणां श्यामता।
देशकुलानुवृत्तितश्च वर्णभेदः॥
श्लोक 37
तथा तेजोधातोरुदकाकाशधातुसम्पर्काद्गौरता।
भूवायुसम्पर्कात् कृष्णता।
सर्वधातुसाम्ये श्यामता॥
श्लोक 38
सत्वविशेषकराणि पुनर्मातापितृसत्वादयोऽन्तर्वत्न्याः श्रुतयश्चाभीक्ष्णं स्वोपचितं च कर्म भवति।
पूर्वाभ्यासश्चेति॥
श्लोक 39
भवन्ति चात्र।
घृतक्षीरादिनित्यासु मुदितासु कफात्मसु।
आर्तवं तिष्ठत्ति चिरं विपरीतास्वतोऽन्यथा॥
श्लोक 40
निपातादेव गृह्णाति रागं वासो यथाऽमलम्।
ध्रुवं गर्भं तथा बीजं क्षेत्रं बीजमुपस्कृतम्॥
श्लोक 41
अविरुद्धे ध्रुवं दैवे काले युक्तस्य कर्मणः।
सिद्धिः पुंसवनाद्यस्मात् पूर्वं व्यक्तेः प्रयोजयेत्॥
श्लोक 42
जाताश्चैवं रूपवन्तो मासत्त्वाश्चिरायुषः।
ऋणान्मोचयितारः स्युः सुपुत्राः पुत्रिणां मताः॥
श्लोक 43
देवताचारशौचादिरता सूते महागुणम्।
धावत्येवं चाचरितं प्राग्जन्माभ्यासयोगतः॥
श्लोक 44
योषितोऽपि स्रवत्येव शुक्रं पुंसः समागमे।
गर्भस्य तन्न किञ्चित्तु करोतीति न चिन्त्यते॥