अष्टाङ्गहृदयम्/चिकित्सास्थानम् Adhyaay 1

श्लोक 1

आमाशय-स्थो हत्वाग्निं सामो मार्गान् पिधाय यत् ।
विदधाति ज्वरं दोषस् तस्मात् कुर्वीत लङ्घनम् ॥ १ ॥

श्लोक 2

प्राग्-रूपेषु ज्वरादौ वा बलं यत्नेन पालयन् ।
बलाधिष्ठानम् आरोग्यम् आरोग्यार्थः क्रिया-क्रमः ॥ २ ॥

श्लोक 3

आरोग्यार्थं क्रिया-क्रमः लङ्घनैः क्षपिते दोषे दीप्ते ऽग्नौ लाघवे सति ।
स्वास्थ्यं क्षुत् तृड् रुचिः पक्तिर् बलम् ओजश् च जायते ॥ ३ ॥

श्लोक 4

तत्रोत्कृष्टे समुत्क्लिष्टे कफ-प्राये चले मले ।
स-हृल्-लास-प्रसेकान्न-द्वेष-कास-विषूचिके ॥ ४ ॥

श्लोक 5

सद्यो-भुक्तस्य संजाते ज्वरे सामे विशेषतः ।
वमनं वमनार्हस्य शस्तं कुर्यात् तद् अन्य-था ॥ ५ ॥

श्लोक 6

श्वासातीसार-संमोह-हृद्-रोग-विषम-ज्वरान् ।
पिप्पलीभिर् युतान् गालान् कलिङ्गैर् मधुकेन वा ॥ ६ ॥

श्लोक 7

उष्णाम्भसा स-मधुना पिबेत् स-लवणेन वा ।
पटोल-निम्ब-कर्कोट-वेत्र-पत्त्रोदकेन वा ॥ ७ ॥

श्लोक 8

तर्पणेन रसेनेक्षोर् मद्यैः कल्पोदितानि वा ।
वमनानि प्रयुञ्जीत बल-काल-विभाग-वित् ॥ ८ ॥

श्लोक 9

कृते ऽ-कृते वा वमने ज्वरी कुर्याद् विशोषणम् ।
दोषाणां समुदीर्णानां पाचनाय शमाय च ॥ ९ ॥

श्लोक 10

दोषेण भस्मनेवाग्नौ छन्ने ऽन्नं न विपच्यते ।
तस्माद् आ-दोष-पचनाज् ज्वरितान् उपवासयेत् ॥ १० ॥

श्लोक 11

आमेन भस्मनेवाग्नौ तृष्णग् अल्पाल्पम् उष्णाम्बु पिबेद् वात-कफ-ज्वरे ।
तत् कफं विलयं नीत्वा तृष्णाम् आशु निवर्तयेत् ॥ ११ ॥

श्लोक 12

तृष्यन्न् अल्पाल्पम् उष्णाम्बु उदीर्य चाग्निं स्रोतांसि मृदू-कृत्य विशोधयेत् ।
लीन-पित्तानिल-स्वेद-शकृन्-मूत्रानुलोमनम् ॥ १२ ॥

श्लोक 13

निद्रा-जाड्या-रुचि-हरं प्राणानाम् अवलम्बनम् ।
विपरीतम् अतः शीतं दोष-संघात-वर्धनम् ॥ १३ ॥

श्लोक 14

उष्णम् एवङ्-गुण-त्वे ऽपि युञ्ज्यान् नैकान्त-पित्तले ।
उद्रिक्त-पित्ते दवथु-दाह-मोहातिसारिणि ॥ १४ ॥

श्लोक 15

विष-मद्योत्थिते ग्रीष्मे क्षत-क्षीणे ऽस्र-पित्तिनि ।
घन-चन्दन-शुण्ठ्य्-अम्बु-पर्पटोशीर-साधितम् ॥ १५ ॥

श्लोक 16

शीतं तेभ्यो हितं तोयं पाचनं तृड्-ज्वरापहम् ।
ऊष्मा पित्ताद् ऋते नास्ति ज्वरो नास्त्य् ऊष्मणा विना ॥ १६ ॥

श्लोक 17

तस्मात् पित्त-विरुद्धानि त्यजेत् पित्ताधिके ऽधिकम् ।
स्नानाभ्यङ्ग-प्रदेहांश् च परिशेषं च लङ्घनम् ॥ १७ ॥

श्लोक 18

अ-जीर्ण इव शूल-घ्नं सामे तीव्र-रुजि ज्वरे ।
न पिबेद् औषधं तद् धि भूय एवामम् आवहेत् ॥ १८ ॥

श्लोक 19

आमाभिभूत-कोष्ठस्य क्षीरं विषम् अहेर् इव ।
सोदर्द-पीनस-श्वासे जङ्घा-पर्वास्थि-शूलिनि ॥ १९ ॥

श्लोक 20

जङ्घा-पार्श्वास्थि-शूलिनि वात-श्लेष्मात्मके स्वेदः प्रशस्तः स प्रवर्तयेत् ।
स्वेद-मूत्र-शकृद्-वातान् कुर्याद् अग्नेश् च पाटवम् ॥ २० ॥

श्लोक 21

स्नेहोक्तम् आचार-विधिं सर्व-शश् चानुपालयेत् ।
लङ्घनं स्वेदनं कालो यवाग्वस् तिक्तको रसः ॥ २१ ॥

श्लोक 22

यवागूस् तिक्तको रसः मलानां पाचनानि स्युर् यथावस्थं क्रमेण वा ।
शुद्ध-वात-क्षयागन्तु-जीर्ण-ज्वरिषु लङ्घनम् ॥ २२ ॥

श्लोक 23

नेष्यते तेषु हि हितं शमनं यन् न कर्शनम् ।
तत्र साम-ज्वराकृत्या जानीयाद् अ-विशोषितम् ॥ २३ ॥

श्लोक 24

शमनं यन् न कर्षणम् द्वि-विधोपक्रम-ज्ञानम् अवेक्षेत च लङ्घने ।
युक्तं लङ्घित-लिङ्गैस् तु तं पेयाभिर् उपाचरेत् ॥ २४ ॥

श्लोक 25

यथा-स्वौषध-सिद्धाभिर् मण्ड-पूर्वाभिर् आदितः ।
षड्-अहं वा मृदु-त्वं वा ज्वरो यावद् अवाप्नुयात् ॥ २५ ॥

श्लोक 26

तस्याग्निर् दीप्यते ताभिः समिद्भिर् इव पावकः ।
प्राग् लाज-पेयां सु-जरां स-शुण्ठी-धान्य-पिप्पलीम् ॥ २६ ॥

श्लोक 27

स-सैन्धवां तथाम्लार्थी तां पिबेत् सह-दाडिमाम् ।
सृष्ट-विड् बहु-पित्तो वा स-शुण्ठी-माक्षिकां हिमाम् ॥ २७ ॥

श्लोक 28

वस्ति-पार्श्व-शिरः-शूली व्याघ्री-गोक्षुर-साधिताम् ।
पृश्निपर्णी-बला-बिल्व-नागरोत्पल-धान्यकैः ॥ २८ ॥

श्लोक 29

सिद्धां ज्वरातिसार्य् अम्लां पेयां दीपन-पाचनीम् ।
ह्रस्वेन पञ्च-मूलेन हिक्का-रुक्-श्वास-कास-वान् ॥ २९ ॥

श्लोक 30

पञ्च-मूलेन महता कफार्तो यव-साधिताम् ।
विबद्ध-वर्चाः स-यवां पिप्पल्य्-आमलकैः कृतां ॥ ३० ॥

श्लोक 31

पिप्पल्य्-आमलकैः शृतां यवागूं सर्पिषा भृष्टां मल-दोषानुलोमनीम् ।
चविका-पिप्पली-मूल-द्राक्षामलक-नागरैः ॥ ३१ ॥

श्लोक 32

कोष्ठे विबद्धे स-रुजि पिबेत् तु परिकर्तिनि ।
कोल-वृक्षाम्ल-कलशी-धावनी-श्रीफलैः कृताम् ॥ ३२ ॥

श्लोक 33

धावनी-श्री-बला-कृताम् अ-स्वेद-निद्रस् तृष्णार्तः सितामलक-नागरैः ।
सिता-बदर-मृद्वीका-शारिवा-मुस्त-चन्दनैः ॥ ३३ ॥

श्लोक 34

अ-स्वेद-निद्रा-तृष्णार्तः तृष्णा-छर्दि-परीदाह-ज्वर-घ्नीं क्षौद्र-संयुताम् ।
कुर्यात् पेयौषधैर् एव रस-यूषादिकान् अपि ॥ ३४ ॥

श्लोक 35

तृष्णा-छर्दि-परीवार- तृष्णा-छर्दि-परो दाह- मद्योद्भवे मद्य-नित्ये पित्त-स्थान-गते कफे ।
ग्रीष्मे तयोर् वाधिकयोस् तृट्-छर्दिर्-दाह-पीडिते ॥ ३५ ॥

श्लोक 36

तृट्-छर्दि-दाह-पीडिते ऊर्ध्वं प्रवृत्ते रक्ते च पेयां नेच्छन्ति तेषु तु ।
ज्वरापहैः फल-रसैर् अद्भिर् वा लाज-तर्पणात् ॥ ३६ ॥

श्लोक 37

अद्भिर् वा लाज-तर्पणम् पिबेत् स-शर्करा-क्षौद्रान् ततो जीर्णे तु तर्पणे ।
यवाग्वां वौदनं क्षुद्-वान् अश्नीयाद् भृष्ट-तण्डुलम् ॥ ३७ ॥

श्लोक 38

पिबेत् स-शर्करा-क्षौद्रं ततो जीर्णे च तर्पणे यवाग्वाम् ओदनं क्षुद्-वान् यवाग्वां चौदनं क्षुद्-वान् दक-लावणिकैर् यूषै रसैर् वा मुद्ग-लाव-जैः ।
इत्य् अयं षड्-अहो नेयो बलं दोषं च रक्षता ॥ ३८ ॥

श्लोक 39

ततः पक्वेषु दोषेषु लङ्घनाद्यैः प्रशस्यते ।
कषायो दोष-शेषस्य पाचनः शमनो ऽथ-वा ॥ ३९ ॥

श्लोक 40

तिक्तः पित्ते विशेषेण प्रयोज्यः कटुकः कफे ।
पित्त-श्लेष्म-हर-त्वे ऽपि कषायः स न शस्यते ॥ ४० ॥

श्लोक 41

कषायस् तु न शस्यते नव-ज्वरे मल-स्तम्भात् कषायो विषम-ज्वरम् ।
कुरुते ऽ-रुचि-हृल्-लास-हिध्माध्मानादिकान् अपि ॥ ४१ ॥

श्लोक 42

सप्ताहाद् औषधं के-चिद् आहुर् अन्ये दशाहतः ।
के-चिल् लघ्व्-अन्न-भुक्तस्य योज्यम् आमोल्बणे न तु ॥ ४२ ॥

श्लोक 43

आहुश् चान्ये दशाहतः तीव्र-ज्वर-परीतस्य दोष-वेगोदये यतः ।
दोषे ऽथ-वाति-निचिते तन्द्रा-स्तैमित्य-कारिणि ॥ ४३ ॥

श्लोक 44

अ-पच्यमानं भैषज्यं भूयो ज्वलयति ज्वरम् ।
मृदुर् ज्वरो लघुर् देहश् चलिताश् च मला यदा ॥ ४४ ॥

श्लोक 45

अ-चिर-ज्वरितस्यापि भेषजं योजयेत् तदा ।
मुस्तया पर्पटं युक्तं शुण्ठ्या दुःस्पर्शयापि वा ॥ ४५ ॥

श्लोक 46

पाक्यं शीत-कषायं वा पाठोशीरं स-वालकम् ।
पिबेत् तद्-वच् च भूनिम्ब-गुडूची-मुस्त-नागरम् ॥ ४६ ॥

श्लोक 47

यथा-योगम् इमे योज्याः कषाया दोष-पाचनाः ।
ज्वरा-रोचक-तृष्णास्य-वैरस्या-पक्ति-नाशनाः ॥ ४७ ॥

श्लोक 48

कलिङ्गकाः पटोलस्य पत्त्रं कटुक-रोहिणी ॥ ४८अब् ॥

श्लोक 49

पटोलं शारिवा मुस्ता पाठा कटुक-रोहिणी ।
पटोल-निम्ब-त्रि-फला-मृद्वीका-मुस्त-वत्सकाः ॥ ४९ ॥

श्लोक 50

किराततिक्तम् अमृता चन्दनं विश्व-भेषजम् ।
धात्री-मुस्तामृता-क्षौद्रम् अर्ध-श्लोक-समापनाः ॥ ५० ॥

श्लोक 51

पञ्चैते संततादीनां पञ्चानां शमना मताः ।
दुरालभामृता-मुस्ता-नागरं वात-जे ज्वरे ॥ ५१ ॥

श्लोक 52

अथ-वा पिप्पली-मूल-गुडूची-विश्व-भेषजम् ।
कनीयः पञ्च-मूलं च पित्ते शक्रयवा घनम् ॥ ५२ ॥

श्लोक 53

पित्ते क्षौद्र-समन्विताः कटुका चेति स-क्षौद्रं मुस्ता-पर्पटकं तथा ।
स-धन्वयास-भूनिम्बं वत्सकाद्यो गणः कफे ॥ ५३ ॥

श्लोक 54

कलिङ्ग-मुस्त-कटुका अथ-वा वृष-गाङ्गेयी-शृङ्गवेर-दुरालभाः ।
रुग्-विबन्धानिल-श्लेष्म-युक्ते दीपन-पाचनम् ॥ ५४ ॥

श्लोक 55

अभया-पिप्पली-मूल-शम्याक-कटुका-घनम् ।
द्राक्षा-मधूक-मधुक-लोध्र-काश्मर्य-शारिवाः ॥ ५५ ॥

श्लोक 56

मुस्तामलक-ह्रीवेर-पद्म-केसर-पद्मकम् ।
मृणाल-चन्दनोशीर-नीलोत्पल-परूषकम् ॥ ५६ ॥

श्लोक 57

फाण्टो हिमो वा द्राक्षादिर् जाती-कुसुम-वासितः ।
युक्तो मधु-सिता-लाजैर् जयत्य् अनिल-पित्त-जम् ॥ ५७ ॥

श्लोक 58

ज्वरं मदात्ययं छर्दिं मूर्छां दाहं श्रमं भ्रमम् ।
ऊर्ध्व-गं रक्त-पित्तं च पिपासां कामलाम् अपि ॥ ५८ ॥

श्लोक 59

ज्वरं मदात्ययं छर्दिर् पाचयेत् कटुकां पिष्ट्वा कर्परे ऽभिनवे शुचौ ।
निष्पीडितो घृत-युतस् तद्-रसो ज्वर-दाह-जित् ॥ ५९ ॥

श्लोक 60

कफ-वाते वचा-तिक्ता-पाठारग्वध-वत्सकाः ।
पिप्पली-चूर्ण-युक्तो वा क्वाथश् छिन्नोद्भवोद्भवः ॥ ६० ॥

श्लोक 61

व्याघ्री-शुण्ठ्य्-अमृता-क्वाथः पिप्पली-चूर्ण-संयुतः ।
वात-श्लेष्म-ज्वर-श्वास-कास-पीनस-शूल-जित् ॥ ६१ ॥

श्लोक 62

पथ्या-कुस्तुम्बुरी-मुस्ता-शुण्ठी-कट्तृण-पर्पटम् ।
स-कट्फल-वचा-भार्गी-देवाह्वं मधु-हिङ्गु-मत् ॥ ६२ ॥

श्लोक 63

कफ-वात-ज्वर-ष्ठीव-कुक्षि-हृत्-पार्श्व-वेदनाः ।
कण्ठामयास्य-श्वयथु-कास-श्वासान् नियच्छति ॥ ६३ ॥

श्लोक 64

कफ-वात-ज्वरे ष्ठेव- आरग्वधादिः स-क्षौद्रः कफ-पित्त-ज्वरं जयेत् ।
तथा तिक्ता-वृषोशीर-त्रायन्ती-त्रि-फलामृताः ॥ ६४ ॥

श्लोक 65

पटोलातिविषा-निम्ब-मूर्वा-धन्वयवासकाः ।
संनिपात-ज्वरे व्याघ्री-देवदारु-निशा-घनम् ॥ ६५ ॥

श्लोक 66

पटोल-पत्त्र-निम्ब-त्वक्-त्रि-फला-कटुका-युतम् ।
नागरं पौष्करं मूलं गुडूची कण्टकारिका ॥ ६६ ॥

श्लोक 67

स-कास-श्वास-पार्श्वार्तौ वात-श्लेष्मोत्तरे ज्वरे ।
मधूक-पुष्प-मृद्वीका-त्रायमाणा-परूषकम् ॥ ६७ ॥

श्लोक 68

सोशीर-तिक्ता-त्रि-फला-काश्मर्यं कल्पयेद् धिमम् ।
कषायं तं पिबन् काले ज्वरान् सर्वान् अपोहति ॥ ६८ ॥

श्लोक 69

ज्वरान् सर्वान् व्यपोहति जात्य्-आमलक-मुस्तानि तद्-वद् धन्वयवासकम् ।
बद्ध-विट् कटुका-द्राक्षा-त्रायन्ती-त्रि-फला-गुडम् ॥ ६९ ॥

श्लोक 70

त्रायन्ती-त्रि-फला-गुडान् -त्रायन्ती-त्रि-फला-गुडाः जीर्णौषधो ऽन्नं पेयाद्यम् आचरेच् छ्लेष्म-वान् न तु ।
पेया कफं वर्धयति पङ्कं पांसुषु वृष्टि-वत् ॥ ७० ॥

श्लोक 71

श्लेष्माभिष्यण्ण-देहानाम् अतः प्राग् अपि योजयेत् ।
यूषान् कुलत्थ-चणक-कलायादि-कृतान् लघून् ॥ ७१ ॥

श्लोक 72

श्लेष्माभिषव-देहानाम् श्लेष्माभिस्पन्द-देहानाम् रूक्षांस् तिक्त-रसोपेतान् हृद्यान् रुचि-करान् पटून् ।
रक्ताद्याः शालयो जीर्णाः षष्टिकाश् च ज्वरे हिताः ॥ ७२ ॥

श्लोक 73

श्लेष्मोत्तरे वीत-तुषास् तथा वाटी-कृता यवाः ।
ओदनस् तैः स्रुतो द्विस् त्रिः प्रयोक्तव्यो यथा-यथम् ॥ ७३ ॥

श्लोक 74

दोष-दूष्यादि-बलतो ज्वर-घ्न-क्वाथ-साधितः ।
मुद्गाद्यैर् लघुभिर् यूषाः कुलत्थैश् च ज्वरापहाः ॥ ७४ ॥

श्लोक 75

कारवेल्लक-कर्कोट-बाल-मूलक-पर्पटैः ।
वार्ताक-निम्ब-कुसुम-पटोल-फल-पल्लवैः ॥ ७५ ॥

श्लोक 76

अत्य्-अन्त-लघुभिर् मांसैर् जाङ्गलैश् च हिता रसाः ।
व्याघ्री-परूष-तर्कारी-द्राक्षामलक-दाडिमैः ॥ ७६ ॥

श्लोक 77

संस्कृताः पिप्पली-शुण्ठी-धान्य-जीरक-सैन्धवैः ।
सिता-मधुभ्यां प्रायेण संयुता वा कृता-कृताः ॥ ७७ ॥

श्लोक 78

अन्-अम्ल-तक्र-सिद्धानि रुच्यानि व्यञ्जनानि च ।
अच्छान्य् अनल-संपन्नान्य् अनु-पाने ऽपि योजयेत् ॥ ७८ ॥

श्लोक 79

तानि क्वथित-शीतं च वारि मद्यं च सात्म्यतः ।
स-ज्वरं ज्वर-मुक्तं वा दिनान्ते भोजयेल् लघु ॥ ७९ ॥

श्लोक 80

श्लेष्म-क्षय-विवृद्धोष्मा बल-वान् अनलस् तदा ।
यथोचिते ऽथ-वा काले देश-सात्म्यानुरोधतः ॥ ८० ॥

श्लोक 81

प्राग् अल्प-वह्निर् भुञ्जानो न ह्य् अ-जीर्णेन पीड्यते ।
कषाय-पान-पथ्यान्नैर् दशाह इति लङ्घिते ॥ ८१ ॥

श्लोक 82

सर्पिर् दद्यात् कफे मन्दे वात-पित्तोत्तरे ज्वरे ।
पक्वेषु दोषेष्व् अमृतं तद् विषोपमम् अन्य-था ॥ ८२ ॥

श्लोक 83

दशाहे स्याद् अतीते ऽपि ज्वरोपद्रव-वृद्धि-कृत् ।
लङ्घनादि-क्रमं तत्र कुर्याद् आ-कफ-संक्षयात् ॥ ८३ ॥

श्लोक 84

देह-धात्व्-अ-बल-त्वाच् च ज्वरो जीर्णो ऽनुवर्तते ।
रूक्षं हि तेजो ज्वर-कृत् तेजसा रूक्षितस्य च ॥ ८४ ॥

श्लोक 85

वमन-स्वेद-कालाम्बु-कषाय-लघु-भोजनैः ।
यः स्याद् अति-बलो धातुः सह-चारी सदा-गतिः ॥ ८५ ॥

श्लोक 86

तस्य संशमनं सर्पिर् दीप्तस्येवाम्बु वेश्मनः ।
वात-पित्त-जिताम् अग्र्यं संस्कारं चानुरुध्यते ॥ ८६ ॥

श्लोक 87

संस्कारम् अनुरुध्यते सु-तरां तद् ध्य् अतो दद्याद् यथा-स्वौषध-साधितम् ।
विपरीतं ज्वरोष्माणं जयेत् पित्तं च शैत्यतः ॥ ८७ ॥

श्लोक 88

स्नेहाद् वातं घृतं तुल्यं योग-संस्कारतः कफम् ।
पूर्वे कषायाः स-घृताः सर्वे योज्या यथा-मलम् ॥ ८८ ॥

श्लोक 89

त्रि-फला-पिचुमन्द-त्वङ्-मधुकं बृहती-द्वयम् ।
स-मसूर-दलं क्वाथः स-घृतो ज्वर-कास-हा ॥ ८९ ॥

श्लोक 90

पिप्पलीन्द्रयव-धावनि-तिक्ता-शारिवामलक-तामलकीभिः ।
बिल्व-मुस्त-हिम-पालनि-सेव्यैर् द्राक्षयातिविषया स्थिरया च ॥ ९० ॥

श्लोक 91

घृतम् आशु निहन्ति साधितं ज्वरम् अग्निं विषमं हलीमकम् ।
अ-रुचिं भृश-तापम् अंसयोर् वमथुं पार्श्व-शिरो-रुजं क्षयम् ॥ ९१ ॥

श्लोक 92

ज्वरम् उग्रं विषमं हलीमकम् तैल्वकं पवन-जन्मनि ज्वरे योजयेत् त्रिवृतया वियोजितम् ।
तिक्तकं वृष-घृतं च पैत्तिके यच् च पालनिकया शृतं हविः ॥ ९२ ॥

श्लोक 93

विडङ्ग-सौवर्चल-चव्य-पाठा-व्योषाग्नि-सिन्धूद्भव-याव-शूकैः ।
पलांशकैः क्षीर-समं घृतस्य प्रस्थं पचेज् जीर्ण-कफ-ज्वर-घ्नम् ॥ ९३ ॥

श्लोक 94

पलांशिकैः क्षीर-समं घृतस्य गुडूच्या रस-कल्काभ्यां त्रि-फलाया वृषस्य वा ।
मृद्वीकाया बलायाश् च स्नेहाः सिद्धा ज्वर-च्छिदः ॥ ९४ ॥

श्लोक 95

जीर्णे घृते च भुञ्जीत मृदु-मांस-रसौदनम् ।
बलं ह्य् अलं दोष-हरं परं तच् च बल-प्रदम् ॥ ९५ ॥

श्लोक 96

मृदु-मांस-रसाशनम् कफ-पित्त-हरा मुद्ग-कारवेल्लादि-जा रसाः ।
प्रायेण तस्मान् न हिता जीर्णे वातोत्तरे ज्वरे ॥ ९६ ॥

श्लोक 97

शूलोदावर्त-विष्टम्भ-जनना ज्वर-वर्धनाः ।
न शाम्यत्य् एवम् अपि चेज् ज्वरः कुर्वीत शोधनम् ॥ ९७ ॥

श्लोक 98

शोधनार्हस्य वमनं प्राग् उक्तं तस्य योजयेत् ।
आमाशय-गते दोषे बलिनः पालयन् बलम् ॥ ९८ ॥

श्लोक 99

पक्वे तु शिथिले दोषे ज्वरे वा विष-मद्य-जे ।
मोदकं त्रि-फला-श्यामा-त्रिवृत्-पिप्पलि-केसरैः ॥ ९९ ॥

श्लोक 100

स-सिता-मधुभिर् दद्याद् व्योषाद्यं वा विरेचनम् ।
द्राक्षा-धात्री-रसं तद्-वत् स-द्राक्षां वा हरीतकीम् ॥ १०० ॥

श्लोक 

लिह्याद् वा त्रैवृतं चूर्णं संयुक्तं मधु-सर्पिषा ॥ १००.१+१अब् ॥

श्लोक 101

आरग्वधं वा पयसा मृद्वीकानां रसेन वा ।
त्रि-फलां त्रायमाणां वा पयसा ज्वरितः पिबेत् ॥ १०१ ॥

श्लोक 102

विरिक्तानां च संसर्गी मण्ड-पूर्वा यथा-क्रमम् ।
च्यवमानं ज्वरोत्क्लिष्टम् उपेक्षेत मलं सदा ॥ १०२ ॥

श्लोक 103

पक्वो ऽपि हि विकुर्वीत दोषः कोष्ठे कृतास्पदः ।
अतिप्रवर्तमानं वा पाचयन् संग्रहं नयेत् ॥ १०३ ॥

श्लोक 104

आम-संग्रहणे दोषा दोषोपक्रम ईरिताः ।
पाययेद् दोष-हरणं मोहाद् आम-ज्वरे तु यः ॥ १०४ ॥

श्लोक 105

आम-संग्रहणाद् दोषो दोषोपक्रम ईरितः प्रसुप्तं कृष्ण-सर्पं स कराग्रेण परामृशेत् ।
ज्वर-क्षीणस्य न हितं वमनं न विरेचनम् ॥ १०५ ॥

श्लोक 106

कामं तु पयसा तस्य निरूहैर् वा हरेन् मलान् ।
क्षीरोचितस्य प्रक्षीण-श्लेष्मणो दाह-तृड्-वतः ॥ १०६ ॥

श्लोक 107

क्षीरं पित्तानिलार्तस्य पथ्यम् अप्य् अतिसारिणः ।
तद् वपुर् लङ्घनोत्तप्तं प्लुष्टं वनम् इवाग्निना ॥ १०७ ॥

श्लोक 108

दिव्याम्बु जीवयेत् तस्य ज्वरं चाशु नियच्छति ।
संस्कृतं शीतम् उष्णं वा तस्माद् धारोष्णम् एव वा ॥ १०८ ॥

श्लोक 109

तद्-वद् धारोष्णम् एव वा विभज्य काले युञ्जीत ज्वरिणं हन्त्य् अतो ऽन्य-था ।
पयः स-शुण्ठी-खर्जूर-मृद्वीका-शर्करा-घृतम् ॥ १०९ ॥

श्लोक 110

शृत-शीतं मधु-युतं तृड्-दाह-ज्वर-नाशनम् ।
तद्-वद् द्राक्षा-बला-यष्टी-शारिवा-कण-चन्दनैः ॥ ११० ॥

श्लोक 111

चतुर्-गुणेनाम्भसा वा पिप्पल्या वा शृतं पिबेत् ।
कासाच् छ्वासाच् छिरः-शूलात् पार्श्व-शूलाच् चिर-ज्वरात् ॥ १११ ॥

श्लोक 112

मुच्यते ज्वरितः पीत्वा पञ्च-मूली-शृतं पयः ।
शृतम् एरण्ड-मूलेन बाल-बिल्वेन वा ज्वरात् ॥ ११२ ॥

श्लोक 113

धारोष्णं वा पयः पीत्वा विबद्धानिल-वर्चसः ।
स-रक्त-पिच्छातिसृतेः स-तृट्-शूल-प्रवाहिकात् ॥ ११३ ॥

श्लोक 114

सिद्धं शुण्ठी-बला-व्याघ्री-गोकण्टक-गुडैः पयः ।
शोफ-मूत्र-शकृद्-वात-विबन्ध-ज्वर-कास-जित् ॥ ११४ ॥

श्लोक 115

वृश्चीव-बिल्व-वर्षाभू-साधितं ज्वर-शोफ-नुत् ।
शिंशिपा-सार-सिद्धं च क्षीरम् आशु ज्वरापहम् ॥ ११५ ॥

श्लोक 116

शिंशिपा-सार-सिद्धं वा निरूहस् तु बलं वह्निं वि-ज्वर-त्वं मुदं रुचिम् ।
दोषे युक्तः करोत्य् आशु पक्वे पक्वाशयं गते ॥ ११६ ॥

श्लोक 117

पित्तं वा कफ-पित्तं वा पक्वाशय-गतं हरेत् ।
स्रंसनं त्रीन् अपि मलान् वस्तिः पक्वाशयाश्रयान् ॥ ११७ ॥

श्लोक 118

वस्तिः पक्वाशयाश्रितान् प्रक्षीण-कफ-पित्तस्य त्रिक-पृष्ठ-कटी-ग्रहे ।
दीप्ताग्नेर् बद्ध-शकृतः प्रयुञ्जीतानुवासनम् ॥ ११८ ॥

श्लोक 119

पटोल-निम्ब-च्छदन-कटुका-चतुरङ्गुलैः ।
स्थिरा-बला-गोक्षुरक-मदनोशीर-वालकैः ॥ ११९ ॥

श्लोक 120

पयस्य् अर्धोदके क्वाथं क्षीर-शेषं विमिश्रितम् ।
कल्कितैर् मुस्त-मदन-कृष्णा-मधुक-वत्सकैः ॥ १२० ॥

श्लोक 121

वस्तिं मधु-घृताभ्यां च पीडयेज् ज्वर-नाशनम् ।
चतस्रः पर्णिनीर् यष्टी-फलोशीर-नृपद्रुमान् ॥ १२१ ॥

श्लोक 122

क्वाथयेत् कल्कयेद् यष्टी-शताह्वा-फलिनी-फलम् ।
मुस्तं च वस्तिः स-गुड-क्षौद्र-सर्पिर् ज्वरापहः ॥ १२२ ॥

श्लोक 123

जीवन्तीं मदनं मेदां पिप्पलीं मधुकं वचाम् ।
ऋद्धिं रास्नां बलां बिल्वं शतपुष्पां शतावरीम् ॥ १२३ ॥

श्लोक 124

पिष्ट्वा क्षीरं जलं सर्पिस् तैलं चैक-त्र साधितम् ।
ज्वरे ऽनुवासनं दद्याद् यथा-स्नेहं यथा-मलम् ॥ १२४ ॥

श्लोक 125

ज्वरे ऽनुवासनं दद्यात् तथा स्नेहं यथा मलम् यथा-दोषं यथा-बलम् ये च सिद्धिषु वक्ष्यन्ते वस्तयो ज्वर-नाशनाः ।
शिरो-रुग्-गौरव-श्लेष्म-हरम् इन्द्रिय-बोधनम् ॥ १२५ ॥

श्लोक 126

जीर्ण-ज्वरे रुचि-करं दद्यान् नस्यं विरेचनम् ।
स्नैहिकं शून्य-शिरसो दाहार्ते पित्त-नाशनम् ॥ १२६ ॥

श्लोक 127

धूम-गण्डूष-कवडान् यथा-दोषं च कल्पयेत् ।
प्रतिश्यायास्य-वैरस्य-शिरः-कण्ठामयापहान् ॥ १२७ ॥

श्लोक 128

अ-रुचौ मातुलुङ्गस्य केसरं साज्य-सैन्धवम् ।
धात्री-द्राक्षा-सितानां वा कल्कम् आस्येन धारयेत् ॥ १२८ ॥

श्लोक 129

यथोपशय-संस्पर्शान् शीतोष्ण-द्रव्य-कल्पितान् ।
अभ्यङ्गालेप-सेकादीञ् ज्वरे जीर्णे त्वग्-आश्रिते ॥ १२९ ॥

श्लोक 130

कुर्याद् अञ्जन-धूमांश् च तथैवागन्तु-जे ऽपि तान् ।
दाहे सहस्र-धौतेन सर्पिषाभ्यङ्गम् आचरेत् ॥ १३० ॥

श्लोक 131

सूत्रोक्तैश् च गणैस् तैस् तैर् मधुराम्ल-कषायकैः ।
दूर्वादिभिर् वा पित्त-घ्नैः शोधनादि-गणोदितैः ॥ १३१ ॥

श्लोक 132

शीत-वीर्यैर् हिम-स्पर्शैः क्वाथ-कल्की-कृतैः पचेत् ।
तैलं स-क्षीरम् अभ्यङ्गात् सद्यो दाह-ज्वरोपहम् ॥ १३२ ॥

श्लोक 133

शिरो गात्रं च तैर् एव नाति-पिष्टैः प्रलेपयेत् ।
तत्-क्वाथेन परीषेकम् अवगाहं च योजयेत् ॥ १३३ ॥

श्लोक 134

तथारनाल-सलिल-क्षीर-शुक्त-घृतादिभिः ।
कपित्थ-मातुलुङ्गाम्ल-विदारी-लोध्र-दाडिमैः ॥ १३४ ॥

श्लोक 135

बदरी-पल्लवोत्थेन फेनेनारिष्टकस्य वा ।
लिप्ते ऽङ्गे दाह-रुङ्-मोहाश् छर्दिस् तृष्णा च शाम्यति ॥ १३५ ॥

श्लोक 136

फेनेनारिष्टकस्य च फेनेनारिष्ट-जेन वा यो वर्णितः पित्त-हरो दोषोपक्रमणे क्रमः ।
तं च शीलयतः शीघ्रं स-दाहो नश्यति ज्वरः ॥ १३६ ॥

श्लोक 137

वीर्योष्णैर् उष्ण-संस्पर्शैस् तगरागुरु-कुङ्कुमैः ।
कुष्ठ-स्थौणेय-शैलेय-सरलामरदारुभिः ॥ १३७ ॥

श्लोक 138

नख-रास्ना-पुर-वचा-चण्डैला-द्वय-चोरकैः ।
पृथ्वीका-शिग्रु-सुरसा-हिंस्रा-ध्यामक-सर्षपैः ॥ १३८ ॥

श्लोक 139

नख-रास्ना-मुख-वचा- दश-मूलामृतैरण्ड-द्वय-पत्तूर-रोहिषैः ।
तमाल-पत्त्र-भूतीक-शल्लकी-धान्य-दीप्यकैः ॥ १३९ ॥

श्लोक 140

तमाल-पत्त्र-पूतीक- मिशि-माष-कुलत्थाग्नि-प्रकीर्या-नाकुली-द्वयैः ।
अन्यैश् च तद्-विधैर् द्रव्यैः शीते तैलं ज्वरे पचेत् ॥ १४० ॥

श्लोक 141

क्वथितैः कल्कितैर् युक्तैः सुरा-सौवीरकादिभिः ।
तेनाभ्यञ्ज्यात् सुखोष्णेन तैः सु-पिष्टैश् च लेपयेत् ॥ १४१ ॥

श्लोक 142

तेनाभ्यज्य सुखोष्णेन कवोष्णैस् तैः परीषेकम् अवगाहं च कल्पयेत् ।
केवलैर् अपि तद्-वच् च शुक्त-गो-मूत्र-मस्तुभिः ॥ १४२ ॥

श्लोक 143

आरग्वधादि-वर्गं च पानाभ्यञ्जन-लेपने ।
धूपान् अगुरु-जान् यांश् च वक्ष्यन्ते विषम-ज्वरे ॥ १४३ ॥

श्लोक 144

धूपान् अगुरु-जान् ये च अग्न्य्-अन्-अग्नि-कृतान् स्वेदान् स्वेदि भेषज-भोजनन् ।
गर्भ-भू-वेश्म-शयनं कुथ-कम्बल-रल्लकान् ॥ १४४ ॥

श्लोक 145

निर्-धूम-दीप्तैर् अङ्गारैर् हसन्तीश् च हसन्तिकाः ।
मद्यं स-त्र्य्-ऊषणं तक्रं कुलत्थ-व्रीहि-कोद्रवान् ॥ १४५ ॥

श्लोक 146

संशीलयेद् वेपथु-मान् यच् चान्यद् अपि पित्तलम् ।
दयिताः स्तन-शालिन्यः पीना विभ्रम-भूषणाः ॥ १४६ ॥

श्लोक 147

भजेच् छीतार्दितो युक्त्या यौवनासव-मत्ताश् च तम् आलिङ्गेयुर् अङ्गनाः ।
वीत-शीतं च विज्ञाय तास् ततो ऽपनयेत् पुनः ॥ १४७ ॥

श्लोक 148

वीत-शीतं तु वियतास् वर्धनेनैक-दोषस्य क्षपणेनोच्छ्रितस्य वा ।
कफ-स्थानानुपूर्व्या वा तुल्य-कक्षाञ् जयेन् मलान् ॥ १४८ ॥

श्लोक 

क्षपणेनोच्छ्रितस्य च शमयेत् पित्तम् एवादौ ज्वरेषु समवायिषु ।
दुर्-निवार-तरं तद् धि ज्वरार्तानां विशेषतः ॥ १४८+१ ॥

श्लोक 

छर्दि-मूर्छा-पिपासादीन् अ-विरोधाञ् ज्वरस्य तु ॥ १४८+२अब् ॥

श्लोक 149

संनिपात-ज्वरस्यान्ते कर्ण-मूले सु-दारुणः ।
शोफः संजायते येन कश्-चिद् एव विमुच्यते ॥ १४९ ॥

श्लोक 150

शोफः संजायते तेन कश्-चिद् एव प्रमुच्यते रक्तावसेचनैः शीघ्रं सर्पिः-पानैश् च तं जयेत् ।
प्रदेहैः कफ-पित्त-घ्नैर् नावनैः कवड-ग्रहैः ॥ १५० ॥

श्लोक 151

प्रदेहैः कफ-वात-घ्नैर् शीतोष्ण-स्निग्ध-रूक्षाद्यैर् ज्वरो यस्य न शाम्यति ।
शाखानुसारी तस्याशु मुञ्चेद् बाह्वोः क्रमात् सिराम् ॥ १५१ ॥

श्लोक 152

अयम् एव विधिः कार्यो विषमे ऽपि यथा-यथम् ।
ज्वरे विभज्य वातादीन् यश् चान्-अन्तरम् उच्यते ॥ १५२ ॥

श्लोक 153

विषमे च यथा-यथम् पटोल-कटुका-मुस्ता-प्राणदा-मधुकैः कृताः ।
त्रि-चतुः-पञ्च-शः क्वाथा विषम-ज्वर-नाशनाः ॥ १५३ ॥

श्लोक 154

योजयेत् त्रि-फलां पथ्यां गुडूचीं पिप्पलीं पृथक् ।
तैस् तैर् विधानैः स-गुडं भल्लातकम् अथापि वा ॥ १५४ ॥

श्लोक 155

लङ्घनं बृंहणं वादौ ज्वरागमन-वासरे ।
प्रातः स-तैलं लशुनं प्राग्-भक्तं वा तथा घृतम् ॥ १५५ ॥

श्लोक 156

लङ्घनं बृंहणं वापि जीर्णं तद्-वद् दधि पयस् तक्रं सर्पिश् च षट्-पलम् ।
कल्याणकं पञ्च-गव्यं तिक्ताख्यं वृष-साधितम् ॥ १५६ ॥

श्लोक 157

त्रि-फला-कोल-तर्कारी-क्वाथे दध्ना शृतं घृतम् ।
तिल्वक-त्वक्-कृतावापं विषम-ज्वर-जित् परम् ॥ १५७ ॥

श्लोक 158

सुरां तीक्ष्णं च यन् मद्यं शिखि-तित्तिरि-दक्ष-जम् ।
मांसं मेद्योष्ण-वीर्यं च सहान्नेन प्र-कामतः ॥ १५८ ॥

श्लोक 159

शिखि-तित्तिरि-कुक्कुटात् मांसं मध्योष्ण-वीर्यं च मांसं मेध्योष्ण-वीर्यं च सेवित्वा तद्-अहः स्वप्याद् अथ-वा पुनर् उल्लिखेत् ।
सर्पिषो महतीं मात्रां पीत्वा वा छर्दयेत् पुनः ॥ १५९ ॥

श्लोक 160

नीलिनीम् अजगन्धां च त्रिवृतां कटु-रोहिणीम् ।
पिबेज् ज्वरस्यागमने स्नेह-स्वेदोपपादितः ॥ १६० ॥

श्लोक 161

मनोह्वा सैन्धवं कृष्णा तैलेन नयनाञ्जनम् ।
योज्यं हिङ्गु-समा व्याघ्री-वसा नस्यं स-सैन्धवम् ॥ १६१ ॥

श्लोक 162

पुराण-सर्पिः सिंहस्य वसा तद्-वत् स-सैन्धवा ।
पलङ्कषा निम्ब-पत्त्रं वचा कुष्ठं हरीतकी ॥ १६२ ॥

श्लोक 163

सर्षपाः स-यवाः सर्पिर् धूपो विड् वा बिडाल-जा ।
पुर-ध्याम-वचा-सर्ज-निम्बार्कागुरु-दारुभिः ॥ १६३ ॥

श्लोक 164

धूपो ज्वरेषु सर्वेषु कार्यो ऽयम् अ-पराजितः ।
धूप-नस्याञ्जनोत्त्रासा ये चोक्ताश् चित्त-वैकृते ॥ १६४ ॥

श्लोक 165

प्रयोक्तव्यो ऽ- धूप-नस्याञ्जन-त्रासा दैवाश्रयं च भैषज्यं ज्वरान् सर्वान् व्यपोहति ।
विशेषाद् विषमान् प्रायस् ते ह्य् आगन्त्व्-अनुबन्ध-जाः ॥ १६५ ॥

श्लोक 166

यथा-स्वं च सिरां विध्येद् अ-शान्तौ विषम-ज्वरे ।
केवलानिल-वीसर्प-विस्फोटाभिहत-ज्वरे ॥ १६६ ॥

श्लोक 167

अ-शान्ते विषम-ज्वरे -विस्फोटाभिहते ज्वरे सर्पिः-पान-हिमालेप-सेक-मांस-रसाशनम् ।
कुर्याद् यथा-स्वम् उक्तं च रक्त-मोक्षादि साधनम् ॥ १६७ ॥

श्लोक 168

सर्पिः-पानं हिमालेप-सेकान् मांस-रसाशनम् ग्रहोत्थे भूत-विद्योक्तं बलि-मन्त्रादि साधनम् ।
ओषधि-गन्ध-जे पित्त-शमनं विष-जिद् विषे ॥ १६८ ॥

श्लोक 169

औषधि-गन्ध-जे पित्त- इष्टैर् अर्थैर् मनो-ज्ञैश् च यथा-दोष-शमेन च ।
हिता-हित-विवेकैश् च ज्वरं क्रोधादि-जं जयेत् ॥ १६९ ॥

श्लोक 170

क्रोध-जो याति कामेन शान्तिं क्रोधेन काम-जः ।
भय-शोकोद्भवौ ताभ्यां भी-शोकाभ्यां तथेतरौ ॥ १७० ॥

श्लोक 171

शापाथर्वण-मन्त्रोत्थे विधिर् दैव-व्यपाश्रयः ।
ते ज्वराः केवलाः पूर्वं व्याप्यन्ते ऽन्-अन्तरम् मलैः ॥ १७१ ॥

श्लोक 172

तस्माद् दोषानुसारेण तेष्व् आहारादि कल्पयेत् ।
न हि ज्वरो ऽनुबध्नाति मारुताद्यैर् विना कृतः ॥ १७२ ॥

श्लोक 173

ज्वर-काल-स्मृतिं चास्य हारिभिर् विषयैर् हरेत् ।
करुणार्द्रं मनः शुद्धं सर्व-ज्वर-विनाशनम् ॥ १७३ ॥

श्लोक 174

सर्व-ज्वर-विमोक्षणम् त्यजेद् आ-बल-लाभाच् च व्यायाम-स्नान-मैथुनम् ।
गुर्व्-अ-सात्म्य-विदाह्य् अन्नं यच् चान्यज् ज्वर-कारणम् ॥ १७४ ॥

श्लोक 175

न वि-ज्वरो ऽपि सहसा सर्वान्नीनो भवेत् तथा ।
निवृत्तो ऽपि ज्वरः शीघ्रं व्यापादयति दुर्-बलम् ॥ १७५ ॥

श्लोक 176

सर्वान्नीनो भवेत् तदा निवृत्तो हि ज्वरः शीघ्रं सद्यः प्राण-हरो यस्मात् तस्मात् तस्य विशेषतः ।
तस्यां तस्याम् अवस्थायां तत् तत् कुर्याद् भिषग्-जितम् ॥ १७६ ॥

श्लोक 177

तत् तत् कुर्याच् चिकित्सितम् ओषधयो मणयश् च सु-मन्त्राः साधु-गुरु-द्वि-ज-दैवत-पूजाः ।
प्रीति-करा मनसो विषयाश् च घ्नन्त्य् अपि विष्णु-कृतं ज्वरम् उग्रम् ॥ १७७ ॥
औषधयो मणयश् च सु-मन्त्राः