श्लोक 1
गजमुखममरप्रवरं सिद्धिकरं विघ्नहर्तारम् गुरुमवगमनयनप्रदमिष्टकरीमिष्टदेवतां वन्दे
श्लोक 2
आयुर्वेदागमनं क्रमेण येनाभवद्भूमौ प्रथमं लिखामि तमहं नानातन्त्राणि संदृश्य
श्लोक 3
आयुर्हिताहितं व्याधेर्निदानं शमनं तथा
विद्यते यत्र विद्वद्भिः स आयुर्वेद उच्यते
श्लोक 4
अनेन पुरुषो यस्मादायुर्विन्दति वेत्ति च तस्मान्मुनिवरैरेष आयुर्वेद इति स्मृतः
श्लोक 5
विधाताऽथर्वसर्वस्वमायुर्वेदं प्रकाशयन् स्वनाम्ना संहितां चक्रे लक्षश्लोकमयीमृजुम्
श्लोक 6
ततः प्रजापतिं दक्षं दक्षं सकलकर्मसु विधिर्धीनीरधिः साङ्गमायुर्वेदमुपादिशत्
श्लोक 7
अथ दक्षः क्रियादक्षः स्वर्वैद्यौ वेदमायुषः वेदयामास विद्वांसौ सूर्यांशौ सुरसत्तमौ
श्लोक 8
दक्षादधीत्य दस्रौ वितनुतः संहितां स्वीयाम् सकलचिकित्सकलोकप्रतिपत्तिविवृद्धये धन्याम्
श्लोक 9
स्वयम्भुवः शिरश्छिन्नं भैरवेण रुषाऽथ तत् अश्विभ्यां संहितं तस्मात्तौ जातौ यज्ञभागिनौ
श्लोक 10
देवासुररणे देवा दैत्यैर्ये सक्षताः कृताः अक्षतास्ते कृताः सद्यो दस्राभ्यामद्भुतं महत्
श्लोक 11
वज्रिणोऽभूद् भुजस्तम्भः स दस्राभ्यां चिकित्सितः सोमान्निपतितश्चन्द्र स्ताभ्यामेव सुखी कृतः
श्लोक 12
विशीर्णा दशनाः पूष्णो नेत्रे नष्टे भगस्य च शशिनो राजयक्ष्माऽभूदश्विभ्यां ते चिकित्सिताः
श्लोक 13
भार्गवश्च्यवनः कामी वृद्धः सन् विकृतिं गतः वीर्यवर्णस्वरोपेतः कृतोऽश्विभ्यां पुनर्युवा
श्लोक 14
एतैश्चान्यैश्च बहुभिः कर्मभिर्भिषजां वरौ बभूवतुर्भृशं पूज्याविन्द्रा दीनां दिवौकसाम्
श्लोक 15
संदृश्य दस्रयोरिन्द्र ! कर्माण्येतानि यत्नवान् आयुर्वेदं निरुद्वेगं तौ ययाचे शचीपतिः
श्लोक 16
नासत्यौ सत्यसन्धेन शक्रेण किल याचितौ आयुर्वेदं यथाऽधीतं ददतुः शतमन्यवे
श्लोक 17
नासत्याभ्यामधीत्यैव आयुर्वेदं शतक्रतुः अध्यापयामास बहूनात्रेयप्रमुखान्मुनीन्
श्लोक 18
एकदा जगदालोक्य गदाकुलमितस्ततः चिन्तयामास भगवानात्रेयो मुनिपुङ्गवः
श्लोक 19
किं करोमि क्व गच्छामि कथं लोका निरामयाः भवन्ति सामयानेतान्न शक्नोमि निरीक्षितुम्
श्लोक 20
दयालुरहमत्यर्थं स्वभावो दुरतिक्रमः एतेषां दुःखतो दुःखं ममापि हृदयेऽधिकम्
श्लोक 21
आयुर्वेदं पठिष्यामि नैरुज्याय शरीरिणाम् इति निश्चित्य गतवानात्रेयस्त्रिदशालयम्
श्लोक 22
तत्र मन्दिरमिन्द्र स्य गत्वा शक्रं ददर्श सः सिंहासनसमासीनं स्तूयमानं सुरर्षिभिः
श्लोक 23
भासयन्तं दिशो भासा भास्करप्रतिमं त्विषा आयुर्वेदमहाचार्यं शिरोधार्यं दिवौकसाम्
श्लोक 24
शक्रस्तु तं निरीक्ष्यैवं त्यक्तसिंहासनः स्थितः तमग्रे पूजयामास भृशं भूरितपःकृशम्
श्लोक 25
कुशलं परिपप्रच्छ तथागमनकारणम् स मुनिर्वक्तुमारेभे निजागमनकारणम्
श्लोक 26
देवराज न जानासि दिव एव यतो भवान् विधात्रा विहितो यत्नात्त्रिलोकीलोकपालकः
श्लोक 27
व्याधिभिर्व्यथिता लोकाः शोकाकुलितचेतसः भूतले सन्ति सन्तापं तेषां हन्तुं कृपां कुरु
श्लोक 28
आयुर्वेदोपदेशं मे कुरु कारुण्यतो नृणाम् तथेत्युक्त्वा सहस्राक्षोऽध्यापयामास तं मुनिम्
श्लोक 29
मुनीन्द्र इन्द्र तः साङ्गमायुर्वेदमधीत्य सः अभिनन्द्य तमाशीर्भिराजगाम पुनर्महीम्
श्लोक 30
अथात्रेयो मुनिश्रेष्ठो भगवान्करुणाकरः स्वनाम्ना संहितां चक्रे नरवर्गानुकम्पया
श्लोक 31
ततोऽग्निवेशं भेडञ्च जातूकर्णं पराशरम् क्षीरपाणिञ्च हारीतमायुर्वेदमपाठयत्
श्लोक 32
तन्त्रस्य कर्त्ता प्रथममग्निवेशोऽभवत्पुरा ततो भेडादयश्चक्रुः स्वं स्वं तन्त्रं कृतानि च
श्लोक 33
श्रावयामासुरात्रेयं मुनिवृन्देन वन्दितम् श्रुत्वा च तानि तन्त्राणि हृष्टोऽभूदत्रिनन्दनः
श्लोक 34
यथावत्सूत्रितं दृष्ट्वा प्रहृष्टा मुनयोऽभवन् दिवि देवर्षयो देवाः श्रुत्वा साध्विति चाब्रुवन्
श्लोक 35
एकदा हिमवत्पार्श्वे दैवादागत्य सङ्गताः मुनयो बहवस्तेषां नामभिः कथयाम्यहम्
श्लोक 36
भरद्वाजो मुनिवरः प्रथमं समुपागतः ततोऽङ्गिरास्ततो गर्गो मरीचिर्भृगुभार्गवौ
श्लोक 37
पुलस्त्योऽगस्तिरसितो वसिष्ठः सपराशरः हारीतो गौतमः सांख्यो मैत्रेयश्च्यवनोऽपि च
श्लोक 38
जमदग्निश्च गार्ग्यश्च कश्यपः काश्यपोऽपि च नारदो वामदेवश्च मार्कण्डेयः कपिञ्जलः
श्लोक 39
शाण्डिल्यः सहकौण्डिन्यः शाकुनेयश्चशौनकः आश्वलायनसांकृत्यौ विश्वामित्रः परीक्षकः
श्लोक 40
देवलो गालवो धौम्यः काप्यकात्यायनावुभौ काङ्कायनो वैजपेयः कुशिको बादरायणः
श्लोक 41
हिरण्याक्षश्च लौगाक्षिः शरलोमा च गोभिलः वैखानसा वालखिल्यास्तथैवान्ये महर्षयः
श्लोक 42
ब्रह्मज्ञानस्य निधयो यमस्य नियमस्य च तपसस्तेजसा दीप्ता हूयमाना इवाग्नयः
श्लोक 43
सुखोपविष्टास्ते तत्र सर्वे चक्रुः कथामिमाम् धर्मार्थकाममोक्षाणां मूलमुक्तं कलेवरम् तच्च सर्वार्थसंसिद्ध्यै भवेद्यदि निरामयम्
श्लोक 44
तपः स्वाध्यायधर्माणां ब्रह्मचर्यव्रतायुषाम् हर्त्तारः प्रसृता रोगा यत्र तत्र च सर्वशः
श्लोक 45
रोगाः कार्श्यकरा बलक्षयकरा देहस्य चेष्टाहरा दृष्टा इन्द्रि यशक्तिसङ्क्षयकराः सर्वाङ्गपीडाकराः धर्मार्थाखिलकाममुक्तिषु महाविघ्नस्वरूपा बलात् प्राणानाशु हरन्ति सन्ति यदि ते क्षेमं कुतः प्राणिनाम्
श्लोक 46
तत्तेषां प्रशमाय कश्चन विधिश्चिन्त्यो भवद्भिर्बुधै-र्योग्यैरित्यभिधाय संसदि भरद्वाजं मुनिं तेऽब्रुवन् त्वं योग्यो भगवन् सहस्रनयनं याचस्व लब्धं क्रमा-दायुर्वेदमधीत्य यं गदभयान्मुक्ता भवामो वयम्
श्लोक 47
इत्थं स मुनिभिर्योग्यैः प्रार्थितो विनयान्वितैः भरद्वाजो मुनिश्रेष्ठो जगाम त्रिदशालयम्
श्लोक 48
तत्रेन्द्र भवनं गत्वा सुरर्षिगणमध्यगम् दृष्टवान् वृत्रहन्तारं दीप्यमानमिवानलम्
श्लोक 49
दृष्ट्वैव स मुनिं प्राह भगवान् मघवा मुदा धर्मज्ञ स्वागतं तेऽथ मुनिं तं समपूजयत्
श्लोक 50
सोऽभिगम्य जयाशीर्भिरभिनन्द्य सुरेश्वरम् ऋषीणां वचनं सम्यक् श्रावयामास तत्त्वतः
श्लोक 51
व्याधयो हि समुत्पन्नाः सर्वप्राणिभयङ्कराः तेषां प्रशमनोपायं यथावद्वक्तुमर्हसि
श्लोक 52
अपाठयन्मुनिं साङ्गमायुर्वेदं शतक्रतुः जीवेद्वर्षसहस्राणि देही नीरुङ् निशम्य यम्
श्लोक 53
सोऽनन्तपारं त्रिस्कन्धमायुर्वेदं महामुनिः यथावदचिरात्सर्वं बुबुधे तन्मना मुनिः
श्लोक 54
तेनायुः सुचिरं लेभे भरद्वाजो निरामयम् अन्यानपि मुनींश्चक्रे नीरुजः सुचिरायुषः
श्लोक 55
तत्तन्त्रजनितज्ञानचक्षुषा ऋषयोऽखिलाः गुणान्द्र व्याणि कर्माणि दृष्ट्वा तद्विधिमाश्रिताः
श्लोक 56
आरोग्यं लेभिरे दीर्घमायुश्च सुखसंयुतम् आयुर्वेदोक्तविधिनाऽन्येऽपि स्युर्मुनयो यथा
श्लोक 57
यदा मत्स्यावतारेण हरिणा वेद उद्धृतः तदा शेषश्च तत्रैव वेदं साङ्गमवाप्तवान्
श्लोक 58
अथर्वान्तर्गतं सम्यगायुर्वेदं च लब्धवान् एकदा स महीवृत्तं द्र ष्टुं चर इवागतः
श्लोक 59
तत्रलोकान् गदैर्ग्रस्तान् व्यथया परिपीडितान् स्थलेषु बहुषु व्यग्रान् म्रियमाणांश्च दृष्टवान्
श्लोक 60
तान्दृष्ट्वातिदयायुक्तस्तेषां दुःखेन दुःखितः अनन्तश्चिन्तयामास रोगोपशमकारणम्
श्लोक 61
सञ्चिन्त्य स स्वयं तत्र मुनेः पुत्रो बभूव ह प्रसिद्धस्य विशुद्धस्य वेदवेदाङ्गवेदिनः
श्लोक 62
यतश्चर इवायातो न ज्ञातः केनचिद्यतः तस्माच्चरकनाम्नासौ ख्यातश्च क्षितिमण्डले
श्लोक 63
स भाति चरकाचार्यो देवाचार्यो यथा दिवि सहस्रवदनस्यांशो येन ध्वंसो रुजां कृतः
श्लोक 64
आत्रेयस्य मुनेः शिष्या अग्निवेशादयोऽभवन् मुनयो बहवस्तैश्च कृतं तन्त्रं स्वकं स्वकम्
श्लोक 65
तेषां तन्त्राणि संस्कृत्य समाहृत्य विपश्चिता चरकेणात्मनो नाम्ना ग्रन्थोऽय चरकः कृतः
श्लोक 66
एकदा देवराजस्य दृष्टिर्निपतिता भुवि तत्र तेन नरा दृष्टा व्याधिभिर्भृशपीडिताः
श्लोक 67
तान्दृष्ट्वा हृदयं तस्य दयया परिपीडितम् दयार्द्र हृदयः शक्रो धन्वन्तरिमुवाच ह
श्लोक 68
धन्वन्तरे सुरश्रेष्ठ भगवन् किञ्चिदुच्यते योग्यो भवसि भूतानामुपकारपरो भव
श्लोक 69
उपकाराय लोकानां केन किं न कृतं पुरा त्रैलोक्याधिपतिर्विष्णुरभून्मत्स्यादिरूपवान्
श्लोक 70
तस्मात्त्वं पृथिवीं याहि काशीमध्ये नृपो भव प्रतीकाराय रोगाणामायुर्वेदं प्रकाशय
श्लोक 71
इत्युक्त्वा सुरशार्दूलः सर्वभूतहितेप्सया समस्तमायुषो वेदं धन्वन्तरिमुपादिशत्
श्लोक 72
अधीत्य चायुषो वेदमिन्द्रा द्धन्वन्तरिः पुरा आगत्य पृथिवीं काश्यां जातो बाहुजवेश्मनि
श्लोक 73
नाम्ना तु सोऽभवत्ख्यातो दिवोदास इति क्षितौ बाल एव विरक्तोऽभूच्चचार सुमहत्तपः
श्लोक 74
यत्नेन महता ब्रह्मा तं काश्यामकरोन्नृपम् ततो धन्वन्तरिर्लोकैः काशीराजोऽभिधीयते
श्लोक 75
हिताय देहिनां स्वीया संहिता विहिताऽमुना अथ विद्यार्थिनो लोकान्संहितां तामपाठयत्
श्लोक 76
अथ ज्ञानदृशा विश्वामित्रप्रभृतयोऽविदन् अयं धन्वन्तरिः काश्यां काशिराजोऽयमुच्यते
श्लोक 77
विश्वामित्रो मुनिस्तेषु पुत्रं सुश्रुतमुक्तवान् वत्स वाराणसीं गच्छ त्वं विश्वेश्वरवल्लभाम्
श्लोक 78
तत्र नाम्ना दिवोदासः काशिराजोऽस्ति बाहुजः स हि धन्वन्तरिः साक्षादायुर्वेदविदां वरः
श्लोक 79
आयुर्वेदं पठस्व त्वं लोकोपकृतिहेतवे सर्वप्राणिदया तीर्थमुपकारो महामखः
श्लोक 80
पितुर्वचनमाकर्ण्य सुश्रुतः काशिकां गतः तेन सार्द्धं समध्येतुं मुनिसूनुशतं ययौ
श्लोक 81
अथ धन्वन्तरिं सर्वे वानप्रस्थाश्रमे स्थितम् भगवन्तं सुरश्रेष्ठं मुनिभिर्बहुभिः स्तुतम्
श्लोक 82
काशिराजं दिवोदासं तेऽपश्यन्विनयान्विताः स्वागतं च तदा चाह दिवोदासो यशोधनः
श्लोक 83
कुशलं परिपप्रच्छ तथागमनकारणम् ततस्ते सुश्रुतद्वारा कथयामासुरुत्तरम्
श्लोक 84
भगवन्मानवान्दृष्ट्वा व्याधिभिः परिपीडितान् क्रन्दतो म्रियमाणांश्च जातास्माकं हृदि व्यथा
श्लोक 85
आमयानां शमोपायं विज्ञातुं वयमागताः आयुर्वेदं भवानस्मानध्यापयतु यत्नतः
श्लोक 86
अङ्गीकृत्य वचस्तेषां नृपतिस्तानुपादिशत् व्याख्यातं तेन ते यत्नाज्जगृहुर्मुनयो मुदा
श्लोक 87
काशिराजं जयाशीर्भिरभिनन्द्य मुदान्विताः सुश्रुताद्याः सुसिद्धार्था जग्मुर्गेहं स्वकं स्वकम्
श्लोक 88
प्रथमं सुश्रुतस्तेषु स्वतन्त्रं कृतवान्स्फुटम् सुश्रुतस्य सखायोऽपि पृथक्तन्त्राणि तेनिरे
श्लोक 89
सुश्रुतेन कृतं तन्त्रं सुश्रुतं बहुभिर्यतः तस्मात्तत्सुश्रुतं नाम्ना विख्यातं क्षितिमण्डले