श्लोक 1
भृशोष्ण-तीक्ष्ण-कट्व्-अम्ल-लवणादि-विदाहिभिः ।
कोद्रवोद्दालकैश् चान्नैस् तद्-युक्तैर् अति-सेवितैः ॥ १ ॥
श्लोक 2
कुपितं पित्तलैः पित्तं द्रवं रक्तं च मूर्छिते ।
ते मिथस् तुल्य-रूप-त्वम् आगम्य व्याप्नुतस् तनुम् ॥ २ ॥
श्लोक 3
पित्तं रक्तस्य विकृतेः संसर्गाद् दूषणाद् अपि ।
गन्ध-वर्णानुवृत्तेश् च रक्तेन व्यपदिश्यते ॥ ३ ॥
श्लोक 4
पित्तं रक्तस्य विकृतिः प्रभवत्य् असृजः स्थानात् प्लीहतो यकृतश् च तत् ।
शिरो-गुरु-त्वम् अ-रुचिः शीतेच्छा धूमको ऽम्लकः ॥ ४ ॥
श्लोक 5
छर्दिश् छर्दित-बैभत्स्यं कासः श्वासो भ्रमः क्लमः ।
लोह-लोहित-मत्स्याम-गन्धास्य-त्वं स्वर-क्षयः ॥ ५ ॥
श्लोक 6
रक्त-हारिद्र-हरित-वर्ण-ता नयनादिषु ।
नील-लोहित-पीतानां वर्णानाम् अ-विवेचनम् ॥ ६ ॥
श्लोक 7
स्वप्ने तद्-वर्ण-दर्शि-त्वं भवत्य् अस्मिन् भविष्यति ।
ऊर्ध्वं नासाक्षि-कर्णास्यैर् मेढ्र-योनि-गुदैर् अधः ॥ ७ ॥
श्लोक 8
कुपितं रोम-कूपैश् च समस्तैस् तत् प्रवर्तते ।
ऊर्ध्वं साध्यं कफाद् यस्मात् तद् विरेचन-साधनम् ॥ ८ ॥
श्लोक 9
बह्व्-औषधं च पित्तस्य विरेको हि वरौषधम् ।
अनुबन्धी कफो यश् च तत्र तस्यापि शुद्धि-कृत् ॥ ९ ॥
श्लोक 10
कषायाः स्वादवो ऽप्य् अस्य विशुद्ध-श्लेष्मणो हिताः ।
किम् उ तिक्ताः कषाया वा ये निसर्गात् कफापहाः ॥ १० ॥
श्लोक 11
अधो याप्यं चलाद् यस्मात् तत् प्रच्छर्दन-साधनम् ।
अल्पौषधं च पित्तस्य वमनं न वरौषधम् ॥ ११ ॥
श्लोक 12
अनुबन्धी चलो यश् च शान्तये ऽपि न तस्य तत् ।
कषायाश् च हितास् तस्य मधुरा एव केवलम् ॥ १२ ॥
श्लोक 13
कफ-मारुत-संसृष्टम् अ-साध्यम् उभयायनम् ।
अ-शक्य-प्रातिलोम्य-त्वाद् अ-भावाद् औषधस्य च ॥ १३ ॥
श्लोक 14
न हि संशोधनं किञ्-चिद् अस्त्य् अस्य प्रतिलोम-गम् ।
शोधनं प्रतिलोमं च रक्त-पित्ते भिषग्-जितम् ॥ १४ ॥
श्लोक 15
अस्त्य् अस्य प्रतिलोमनम् अस्त्य् अस्य प्रतिलोमकम् एवम् एवोपशमनं सर्व-शो नास्य विद्यते ।
संसृष्टेषु हि दोषेषु सर्व-जिच् छमनं हितम् ॥ १५ ॥
श्लोक 16
तत्र दोषानुगमनं सिरास्र इव लक्षयेत् ।
उपद्रवांश् च विकृति-ज्ञानतस् तेषु चाधिकम् ॥ १६ ॥
श्लोक 17
आशु-कारी यतः कासस् तम् एवातः प्रवक्ष्यति ।
पञ्च कासाः स्मृता वात-पित्त-श्लेष्म-क्षत-क्षयैः ॥ १७ ॥
श्लोक 18
तम् एवातः प्रचक्ष्यते तम् एवातः प्रचक्षते क्षयायोपेक्षिताः सर्वे बलिनश् चोत्तरोत्तरम् ।
तेषां भविष्यतां रूपं कण्ठे कण्डूर् अ-रोचकः ॥ १८ ॥
श्लोक 19
बलिनश् च यथोत्तरम् शूक-पूर्णाभ-कण्ठ-त्वं तत्राधो विहतो ऽनिलः ।
ऊर्ध्वं प्रवृत्तः प्राप्योरस् तस्मिन् कण्ठे च संसजन् ॥ १९ ॥
श्लोक 20
शिरः-स्रोतांसि संपूर्य ततो ऽङ्गान्य् उत्क्षिपन्न् इव ।
क्षिपन्न् इवाक्षिणी पृष्ठम् उरः पार्श्वे च पीडयन् ॥ २० ॥
श्लोक 21
प्रवर्तते स वक्त्रेण भिन्न-कांस्योपम-ध्वनिः ।
हेतु-भेदात् प्रतीघात-भेदो वायोः स-रंहसः ॥ २१ ॥
श्लोक 22
यद् रुजा-शब्द-वैषम्यं कासानां जायते ततः ।
कुपितो वातलैर् वातः शुष्कोरः-कण्ठ-वक्त्र-ताम् ॥ २२ ॥
श्लोक 23
कुपितो वातलैर् वायुः हृत्-पार्श्वोरः-शिरः-शूलं मोह-क्षोभ-स्वर-क्षयान् ।
करोति शुष्कं कासं च महा-वेग-रुजा-स्वनम् ॥ २३ ॥
श्लोक 24
करोति शुष्क-कासं च सो ऽङ्ग-हर्षी कफं शुष्कं कृच्छ्रान् मुक्त्वाल्प-तां व्रजेत् ।
पित्तात् पीताक्षि-कफ-ता तिक्तास्य-त्वं ज्वरो भ्रमः ॥ २४ ॥
श्लोक 25
पित्तासृग्-वमनं तृष्णा वैस्वर्यं धूमको ऽम्लकः ।
प्रततं कास-वेगेन ज्योतिषाम् इव दर्शनम् ॥ २५ ॥
श्लोक 26
वैस्वर्यं धूमको मदः कफाद् उरो ऽल्प-रुङ् मूर्ध-हृदयं स्तिमितं गुरु ।
कण्ठोपलेपः सदनं पीनस-च्छर्द्य्-अ-रोचकाः ॥ २६ ॥
श्लोक 27
कण्ठास्य-लेपः सदनं रोम-हर्षो घन-स्निग्ध-श्वेत-श्लेष्म-प्रवर्तनम् ।
युद्धाद्यैः साहसैस् तैस् तैः सेवितैर् अ-यथा-बलम् ॥ २७ ॥
श्लोक 28
उरस्य् अन्तः-क्षते वायुः पित्तेनानुगतो बली ।
कुपितः कुरुते कासं कफं तेन स-शोणितम् ॥ २८ ॥
श्लोक 29
पीतं श्यावं च शुष्कं च ग्रथितं कुथितं बहु ।
ष्ठीवेत् कण्ठेन रुजता विभिन्नेनेव चोरसा ॥ २९ ॥
श्लोक 30
पीतं श्यामं च शुष्कं च सूचीभिर् इव तीक्ष्णाभिस् तुद्यमानेन शूलिना ।
पर्व-भेद-ज्वर-श्वास-तृष्णा-वैस्वर्य-कम्प-वान् ॥ ३० ॥
श्लोक 31
पारावत इवाकूजन् पार्श्व-शूली ततो ऽस्य च ।
क्रमाद् वीर्यं रुचिः पक्ता बलं वर्णश् च हीयते ॥ ३१ ॥
श्लोक 32
क्षीणस्य सासृङ्-मूत्र-त्वं स्याच् च पृष्ठ-कटी-ग्रहः ।
वायु-प्रधानाः कुपिता धातवो राज-यक्ष्मिणः ॥ ३२ ॥
श्लोक 33
कुर्वन्ति यक्ष्मायतनैः कासं ष्ठीवेत् कफं ततः ।
पूति-पूयोपमं पीतं विस्रं हरित-लोहितम् ॥ ३३ ॥
श्लोक 34
लुच्येते इव पार्श्वे च हृदयं पततीव च ।
अ-कस्माद् उष्ण-शीतेच्छा बह्व्-आशि-त्वं बल-क्षयः ॥ ३४ ॥
श्लोक 35
लुप्येते इव पार्श्वे च स्निग्ध-प्रसन्न-वक्त्र-त्वं श्री-मद्-दर्शन-नेत्र-ता ।
ततो ऽस्य क्षय-रूपाणि सर्वाण्य् आविर्-भवन्ति च ॥ ३५ ॥
श्लोक 36
श्री-मद्-दशन-नेत्र-ता इत्य् एष क्षय-जः कासः क्षीणानां देह-नाशनः ।
याप्यो वा बलिनां तद्-वत् क्षत-जो ऽभिनवौ तु तौ ॥ ३६ ॥
श्लोक 37
सिध्येताम् अपि सानाथ्यात् साध्या दोषैः पृथक् त्रयः ।
मिश्रा याप्या द्वयात् सर्वे जरसा स्थविरस्य च ॥ ३७ ॥
श्लोक 38
सिध्येताम् अपि सामर्थ्यात् कासाच् छ्वास-क्षय-च्छर्दि-स्वर-सादादयो गदाः ।
भवन्त्य् उपेक्षया यस्मात् तस्मात् तं त्वरया जयेत् ॥ ३८ ॥