हरीतक्यादिवर्गः

श्लोक 1

दक्षं प्रजापतिं स्वस्थमश्विनौ वाक्यमूचतुः कुतो हरीतकी जाता तस्यास्तु कति जातयः

श्लोक 2

रसाः कति समाख्याताः कति चोपरसाः स्मृताः नामानि कति चोक्तानि किं वा तासां च लक्षणम्

श्लोक 3

के च वर्णा गुणाः के च का च कुत्र प्रयुज्यते केन द्रव्येण संयुक्ता कांश्च रोगान्व्यपोहति

श्लोक 4

प्रश्नमेतद्यथा पृष्टं भगवन्वक्तुमर्हसि अश्विनोर्वचनं श्रुत्वा दक्षो वचनमब्रवीत्

श्लोक 5

पपात बिन्दुर्मेदिन्यां शक्रस्य पिबतोऽमृतम् ततो दिव्यात्समुत्पन्ना सप्तजातिर्हरीतकी

श्लोक 6

हरीतक्यभया पथ्या कायस्था पूतनाऽमृता हैमवत्यव्यथा चापि चेतकी श्रेयसी शिवा

श्लोक 7

वयस्था विजया चापि जीवन्ती रोहिणीति च

श्लोक 8

विजया रोहिणी चैव पूतना चामृताऽभया जीवन्ती चेतकी चेति पथ्यायाः सप्तजातयः

श्लोक 9

अलाबुवृत्ता विजया वृत्ता सा रोहिणी स्मृता पूतनाऽस्थिमती सूक्ष्मा कथिता मांसलाऽमृताः

श्लोक 10

पञ्चरेखाऽभया प्रोक्ता जीवन्ती स्वर्णवर्णिनी त्रिरेखा चेतकी ज्ञेया सप्तानामियमाकृतिः

श्लोक 11

विजया सर्वरोगेषु रोहिणी व्रणरोहिणी प्रलेपे पूतना योज्या शोधनार्थेऽमृता हिता

श्लोक 12

अक्षिरोगेऽभयाशस्ता जीवन्ती सर्वरोगृहृत् चूर्णार्थे चेतकी शस्ता यथायुक्तं प्रयोजयेत्

श्लोक 13

चेतकी द्विविधा प्रोक्ता श्वेता कृष्णा च वर्णतः षडङ्गुलायता शुक्ला कृष्णा त्वेकाङ्गुला स्मृता

श्लोक 14

काचिदास्वादमात्रेण काचिद्गन्धेन भेदयेत् काचित्स्पर्शेन दृष्ट्याऽन्या चतुर्द्धा भेदयेच्छिवा

श्लोक 15

चेतकीपादपच्छायामुपसर्पन्ति ये नराः भिद्यन्ते तत्क्षणादेव पशुपक्षिमृगादयः

श्लोक 16

चेतकी तु घृता हस्ते यावत्तिष्ठति देहिनः तावद्भिद्येत वेगैस्तु प्रभावान्नात्र संशयः

श्लोक 17

नृपाणां सुकुमाराणां कृशानां भेषजद्विषाम् चेतकी परमा शस्ता हिता सुखविरेचनी

श्लोक 18

सप्तानामपि जातीनां प्रधाना विजया स्मृता सुखप्रयोगा सुलभा सर्वरोगेषु शस्यते

श्लोक 19

हरीतकी पञ्चरसाऽलवणातुवरा परम् रूक्षोष्णा दीपनी मेध्या स्वादुपाका रसायनी

श्लोक 20

चक्षुष्या लघुरायुष्या बृंहणी चानुलोमिनी श्वासकासप्रमेहार्शः कुष्ठशोथोदरकृमीन्

श्लोक 21

वैस्वर्यग्रहणीरोगविबन्धविषमज्वरान् गुल्माध्मानतृषाछर्दिहिक्काकण्डूहृदामयान्

श्लोक 22

कामलां शूलमानाहं प्लीहानञ्च यकृत्तथा अश्मरीं मूत्रकृच्छ्रञ्च मूत्राघातञ्च नाशयेत्

श्लोक 23

स्वादुतिक्तकषायत्वात्पित्तहृत्कफहृत्तु सा कटुतिक्तकषायत्वादम्लत्वाद्वातहृच्छिवा

श्लोक 24

पित्तकृत्कटुकाम्लत्वाद्वातकृन्न कथं शिवा

श्लोक 25

प्रभावाद्दोषहन्तृत्वं सिद्धं यत्तत्प्रकाश्यते हेतुभिः शिष्यबोधार्थं नापूर्वं क्रियतेऽधुना

श्लोक 26

कर्मान्यत्वं गुणैः साम्यं दृष्टमाश्रयभेदतः यतस्ततो नेति चिन्त्यं धात्रीलकुचयोर्यथा

श्लोक 27

पथ्याया मज्जनि स्वादुः स्नाय्वामम्लो व्यवस्थितः वृन्ते तिक्तस्त्वचि कटुरस्थिस्थस्तुवरो रसः

श्लोक 28

नवा स्निग्धा घना वृत्ता गुर्वी क्षिप्ता च याऽम्भसि निमज्जेत्सा प्रशस्ता च कथिताऽतिगुणप्रदा

श्लोक 29

नवादिगुणयुक्तत्वं तथैवात्र द्विकर्षता हरीतक्याः फले यत्र द्वयं तच्छ्रेष्ठमुच्यते

श्लोक 30

चर्विता वर्द्धयत्यग्निं पेषिता मलशोधिनी स्विन्ना संग्राहिणी पथ्या भृष्टा प्रोक्ता त्रिदोषनुत्

श्लोक 31

उन्मीलिनी बुद्धिबलेन्द्रि याणां निर्मूलिनी पित्तकफानिलानाम् विस्रंसिनी मूत्रशकृन्मलानां हरीतकी स्यात् सह भोजनेन

श्लोक 32

अन्नपानकृतान्दोषान्वातपित्तकफोद्भवान् हरीतकी हरत्याशु भुक्तस्योपरि योजिता

श्लोक 33

लवणेन कफं हन्ति पित्तं हन्ति सशर्करा घृतेन वातजान् रोगान्सर्वरोगान्गुडान्विता

श्लोक 34

सिंधूत्थशर्कराशुण्ठीकणामधुगुडैः क्रमात् वर्षादिष्वभया प्राश्या रसायनगुणैषिणा

श्लोक 35

अध्वातिखिन्नो बलवर्जितश्च रूक्षः कृशो लङ्घनकर्शितश्च पित्ताधिको गर्भवती च नारी विमुक्तरक्तस्त्वभयां न खादेत्

श्लोक 36

विभीतकस्त्रिलिङ्गं स्यादक्षः कर्षफलस्तु सः कलिद्रुमो भूतवासस्तथा कलियुगालयः विभीतकं स्वादुपाकं कषायं कफपित्तनुत् उष्णवीर्यं हिमस्पर्शं भेदनं कासनाशनम्

श्लोक 37

रूक्षं नेत्रहितं केश्यं कृमिवैस्वर्यनाशनम् विभीतमज्जातृट्छर्दिकफवातहरी लघुः कषायो मदकृच्चाथ धात्रीमज्जाऽपि तद्गुणः

श्लोक 38

वयस्यामलकी वृष्या जातीफलरसं शिवम् धात्रीफलं श्रीफलं च तथामृतफलं स्मृतम् त्रिष्वामलकमाख्यातं धात्री तिष्यफलाऽमृता

श्लोक 39

हरीतकीसमं धात्रीफलं किन्तु विशेषतः रक्तपित्तप्रमेहघ्नं परं वृष्यं रसायनम्

श्लोक 40

हन्ति वातं तदम्लत्वात्पित्तं माधुर्यशैत्यतः कफं रूक्षकषायत्वात्फलं धात्र्! यास्त्रिदोषजित्

श्लोक 41

यस्य यस्य फलस्येह वीर्यं भवति यादृशम् तस्य तस्यैव वीर्य्येण मज्जानमपि निर्दिशेत्

श्लोक 42

पथ्याविभीतधात्रीणां फलैः स्यात्त्रिफला समैः फलत्रिकञ्च त्रिफला सा वरा च प्रकीर्तिता

श्लोक 43

त्रिफला कफपित्तघ्नी मेहकुष्ठहरा सरा चक्षुष्या दीपनी रुच्या विषमज्वरनाशिनी

श्लोक 44

शुण्ठी विश्वा च विश्वञ्च नागरं विश्वभेषजम् ऊषणं कटुभद्र ञ्च शृङ्गवेरं मह्षधम्

श्लोक 45

शुण्ठी रुच्यामवातघ्नी पाचनी कटुका लघुः स्निग्धोष्णा मधुरा पाके कफवातविबन्धनुत्

श्लोक 46

वृष्या स्वर्य्यावमिश्वासशूलकासहृदामयान् हन्ति श्लीपदशोथार्श आनाहोदरमारुतान्

श्लोक 47

आग्नेयगुणभूयिष्ठात् तोयांशपरिशोषि यत् संगृह्णाति मलं तत्तु ग्राहि शुण्ठ्यादयो यथा

श्लोक 48

विबन्धभेदिनी या तु सा कथं ग्राहिणी भवेत् शक्तिर्विबन्धभेदे स्याद्यतो न मलपातनो

श्लोक 49

आर्द्र कं शृङ्गवेरं स्यात्कटुभद्रं तथाऽद्रि का आर्द्रि का भेदिनी गुर्वीतीक्ष्णोष्णा दीपनी मता

श्लोक 50

कटुका मधुरा पाके रूक्षा वातकफापहा ये गुणाः कथिता शुण्ठ्यास्तेऽपि सन्त्यार्द्र केऽखिलाः

श्लोक 51

भोजनाग्रे सदा पथ्यं लवणार्द्र कभक्षणम् अग्निसन्दीपनं रुच्यं जिह्वाकण्ठविशोधनम्

श्लोक 52

कुष्ठपाण्ड्वामये कृच्छ्रे रक्तपित्ते व्रणे ज्वरे दाहे निदाघशरदोर्नैव पूजितमार्द्र कम्

श्लोक 53

पिप्पली मागधी कृष्णा वैदेही चपला कणा उपकुल्योषणा शौण्डी कोला स्यात्तीक्ष्णतण्डुला

श्लोक 54

पिप्पली दीपना वृष्या स्वादुपाका रसायनी अनुष्णा कटुका स्निग्धा वातश्लेष्महरी लघुः

श्लोक 55

पिप्पली रेचनी हन्ति श्वासकासोदरज्वरान् कुष्ठप्रमेहगुल्मार्शः प्लीहशूलाममारुतान्

श्लोक 56

आद्रा र्! कफप्रदा स्निग्धा शीतला मधुरा गुरुः पित्तप्रशमनी सा तु शुष्का पित्तप्रकोपिणी

श्लोक 57

पिप्पली मधुसंयुक्ता मेदः कफविनाशिनी श्वासकासज्वरहरी वृष्या मेध्याऽग्निवर्द्धिनी

श्लोक 58

जीर्णज्वरेऽग्निमान्द्ये च शस्यते गुडपिप्पली कासाजीर्णारुचिश्वासहृत्पाण्डुकृमिरोगनुत् द्विगुणः पिप्पलीचूर्णाद् गुडोऽत्र भिषजां मतः

श्लोक 59

मरिचं वेल्लजं कृष्णमूषणं धर्मपत्तनम्

श्लोक 60

मरिचं कटुकं तीक्ष्णं दीपनं कफवातजित् उष्णं पित्तकरं रूक्षं श्वासशूलकृमीन्हरेत्

श्लोक 61

तदाद्र रं! मधुरं पाके नात्युष्णं कटुकं गुरु किञ्चित्तीक्ष्णगुणं श्लेष्मप्रसेकि स्यादपित्तलम्

श्लोक 62

विश्वोपकुल्या मरिचं त्रयं त्रिकटु कथ्यते कटुत्रिकं तु त्रिकटु त्र्! यूषणं व्योष उच्यते

श्लोक 63

त्र्! यूषणं दीपनं हन्ति श्वासकासत्वगामयान् गुल्ममेहकफस्थौल्यमेदःश्लीपदपीनसान्

श्लोक 64

ग्रन्थिकं पिप्पलीमूलमूषणं चटकाशिरः दीपनं पिप्पलीमूलं कटूष्णं पाचनं लघु

श्लोक 65

रूक्षं पित्तकरं भेदि कफवातोदरापहम् आनाहप्लीहगुल्मघ्नं कृमिश्वासक्षयापहम्

श्लोक 66

त्र्! यूषणं सकणामूलं कथितं चतुरूषणम् व्योषस्येव गुणाः प्रोक्ता अधिकाश्चतुरूषणे

श्लोक 67

भवेच्चव्यं तु चविका कथिता सा तथोषणा कणामूलगुणं चव्यं विशेषाद्गुदजापहम्

श्लोक 68

चविकायाः फलं प्राज्ञैः कथिता गजपिप्पली
कपिवल्ली कोलवल्ली श्रेयसीवशिरश्च सा

श्लोक 69

गजकृष्णा कटुर्वातश्लेप्महृद्वह्निवर्धिनी उष्णा निहन्त्यतीसारं श्वासकण्ठामयकृमीन्

श्लोक 70

चित्रकोऽनलनामाच पाठी व्यालस्तथोषणः चित्रकः कटुकः पाके वह्निकृत्पाचनो लघुः

श्लोक 71

रूक्षोष्णो ग्रहणीकुष्ठशोथार्शः कृमिकासनुत् वातश्लेष्महरो ग्राही वातघ्नः श्लेष्मपित्तहृत्

श्लोक 72

पिप्पली पिप्पलीमूलं चव्यचित्रकनागरैः पञ्चभिः कोलमात्रं यत्पञ्चकोलं तदुच्यते

श्लोक 73

पञ्चकोलं रसे पाके कटुकं रुचिकृन्मतम् तीक्ष्णोष्णं पाचनं श्रेष्ठं दीपनं कफवातनुत् गुल्मप्लीहोदरानाहशूलघ्नं पित्तकोपनम्

श्लोक 74

पञ्चकोलं समरिचं षडूषणमुदाहृतम् पञ्चकोलगुणं तत्तु रूक्षमुष्णं विषापहम्

श्लोक 75

यवानिकोग्रगन्धा च ब्रह्मदर्भाऽजमोदिका

श्लोक 76

सैवोक्ता दीप्यका दीप्या तथा स्याद्यवसाह्वया यवानी पाचनी रुच्या तीक्ष्णोष्णा कटुका लघुः

श्लोक 77

दीपनी च तथा तिक्ता पित्तला शुक्रशूलहृत् वातश्लेष्मोदरानाहगुल्मप्लीहकृमिप्रणुत्

श्लोक 78

अजमोदा खराश्वा च मायूरो दीप्यकस्तथा तथा ब्रह्मकुशा प्रोक्ता कारवी लोचमस्तका

श्लोक 79

अजमोदा कटुस्तीक्ष्णा दीपनी कफवातनुत् उष्णा विदाहिनी हृद्या वृष्या बलकरी लघुः नेत्रामय कृमिच्छर्दिहिक्कावस्तिरुजो हरेत्

श्लोक 80

पारसीकयवानी तु यवानीसदृशी गुणैः विशेषात्पाचनी रुच्या ग्राहिणी मादिनी गुरुः

श्लोक 81

जीरको जरणोऽजाजी कणा स्याद्दीर्घजीरकः

श्लोक 82

कृष्णजीरः सुगन्धश्च तथैवोद्गारशोधनः कालाजाजी तु सुषवी कालिका चोपकालिका

श्लोक 83

पृथ्वीका कारवी पृथ्वी पृथुकृष्णोपकुञ्चिका उपकुञ्ची च कुञ्ची च बृहज्जीरक इत्यपि

श्लोक 84

जीरकत्रितयं रूक्षं कटूष्णं दीपनं लघु संग्राही पित्तलं मेध्यं गर्भाशयविशुद्धिकृत्

श्लोक 85

ज्वरघ्नं पाचनं वृष्यं बल्यं रुच्यं कफापहम् चक्षुष्यं पवनाघ्मानगुल्मच्छर्द्यतिसार हृत्

श्लोक 86

धान्यकं धानकं धान्यं धाना धानेयकं तथा कुनटी धेनुका छत्रा कुस्तुम्बुरु वितुन्नकम्

श्लोक 87

धान्यकं तुवरं स्निग्धमवृष्यं मूत्रलं लघु तिक्तं कटूष्णवीर्यञ्च दीपनं पाचनं स्मृतम्